SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीहेमचन्द्राचार्यप्रभवात्संदर्भितादितः पूर्वोदितस्वरूपाद्वीतरागस्तवात् कुमारपालभूपालः श्रीकुमारपालदेवाभिधानश्ची-1 लुक्यचक्रवर्ती ईप्सितं मनोऽभिलषितमैहिकामुष्मिकं च फलं प्राप्नोतु लभतां एवंविधाच्च सद्भूतस्तुतिस्तोमजन्यागण्यप्रभावादभिलषितसिद्धिः स्तोतुः श्रोतुश्च सुलभैवेति समञ्जसम् ॥ इति श्रीवीतरागस्तोत्रे विंशतितमस्याशी:स्तवस्य पदयोजना ॥२०॥ चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्वभूवाभयदेवसूरिः। नवाङ्गवृत्तिच्छलतो यदीयमद्यापि जागर्ति यशःशरीरम् ॥ १॥ तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौधैः । विपश्चितां संयमिनां च दुर्गे धुरीणता तस्य यथाधुनापि ॥ २॥ तेषामन्वयमण्डनं समभवत्संजीवनं दुष्षमामूर्छालस्य मुनिव्रतस्य भव(भृन् निःसीमपुण्यश्रियः श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैर्द्रष्टुं तादृशमाश्रयान्तरमहो दिक्चक्रमाक्रम्यते ॥ ३॥ RRRRRRRRR Jain Educa t ional For Private & Personel Use Only www.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy