SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥६९॥ Jain Education तदा एवंविधायै कुण्ठायै अध्येतस्यै मम वाण्यै स्वस्ति कल्याणमस्तु, अन्यया एतद्व्यतिरिक्तया त्वद्गुणग्रहणपराङ्मुखयाऽकुण्ठयापि कुतप्रवर्त्तनेन स्वपरयोरनर्थफलया भारत्या किं? न किंचित्, उक्तस्वरूपया स्ववाचैव मे चरितार्थत्वात्। एवमुत्तरभक्तिरागभाषितः स्तुतिकृद्भगवति परमात्मनि सर्वात्मनैवात्मानमुपनिनीषुः स्तुतिशेषमाह तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व नाथ ! नातः परं ब्रुवे ॥८॥ | हे सर्वाद्भुतसनाथ नाथ! अस्मि अहं तत्र संबन्धी प्रेष्यो, दासः, सेवकः, किङ्करश्चास्मि । तत्र प्रेष्यते प्रभुणा स्वार्थसिद्धये यत्र तत्रेति प्रेष्यः । दासश्च क्रयक्रीतोऽङ्कितकादिः। सम्यक् स्वामिचित्तानुरूपसेवानिपुणः सेवकः । प्रतिक्षणं किं करोमीतिमुखरमुखः किङ्करः सोऽहमेवंविधस्तावत्तवास्म्येव । सेवकाश्च सेवानुरूपं फलमिच्छन्ति तथापि त्वत्तस्त्रिभुवनलक्ष्मीविश्राणनस्थूललक्षादपि न किंचिदहमधिकं प्रार्थयिष्ये केवलमोमित्यक्षरमात्रमुच्चार्य मदीयस्त्वमिति मां प्रतिपद्यस्त्र, अतः परमेतदधिकं न किश्चित् ब्रुवे विज्ञापयिष्यामि त्वदङ्गीकारमात्रेणैव कृतकृत्यत्वात् । अयमाशयः 'किल न खलु त्वमात्मस्वीकारेणायोग्यमनुगृह्णासि त्वदङ्गीकाराच्चावगतस्वयोग्यत्वस्य मम संमुखान्येव समग्राण्यपि श्रेयांसि ततः किमधिकं प्रार्थ्यतामिति । अनी च वीतरागाः किल कलिकाल सर्वज्ञप्रायैर्हेमचन्द्रसूरिभिर्भगवति वीतरागे समुत्तरङ्गभक्तिराग सागरैः श्रीकुमारपालभूपालानुग्रहाय ग्रथिता इत्येतदेव व्यनक्ति श्री हेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥ ९ ॥ For Private & Personal Use Only ২ सविवर. ॥६९॥ jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy