________________
SOCIENCCCCCCCCESCRRC
त्वद्वकान्तिज्योत्स्नासु निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोजैः प्राप्यतां निर्निमेषता॥५॥ हे जगल्लोचनलोभनवदन! त्वत्संबन्धि यद्वक्रं मुखपीयूषद्युतिस्तस्य कान्तिर्लवणिमजलोत्पीलच्छविः सैव ज्योत्स्नाश्चन्द्रिकास्तासु नितरां पीतासु तृप्तिपर्यन्तमास्वादितासु, कास्विव ! सुधास्विव पीयूषपूरेष्विव मदीयैर्मत्संबन्धिभिर्लोचनाम्भोजैनयननलिनैर्निनिमेषता निष्पन्दता प्राप्यतामनुभूयताम् । योग्या च ज्योत्स्नापानादम्भोजानां निष्पन्दता, पीयूषपायिनां च निनिमेषता । अनिमिषत्वममरत्वमितियावत् ॥ तथा ___ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥६॥
हे विश्वैकमित्र! मम संबन्धिनी नेत्रे त्वदास्यलासिनी त्वन्मुखसुखवासदुर्ललिते भूयास्तां । तथा मम करौ पाणी अपि त्वदुपास्तिकरौ त्वच्चरणसरोजसपर्यापर्यवसितौ स्याताम् । तथा मम श्रोत्रे अपि त्वद्गुणश्रोतृणी त्वदीयाभिरामगुणग्रामश्रवणसावधाने भूयास्ताम् । कथं! सर्वदा सर्वकालं, यतस्त्वन्मुखमेव समस्तवीक्षणीयोपनिषद्भूतं, त्वमेव सर्वोपास्यरहस्यसीमा, त्वद्गुणा एव सर्वश्रोतव्यसर्वस्वं नान्यदितिभावः॥ किं च
कुण्ठापि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि स्वस्त्येतस्यै किमन्यया ॥७॥ हे भुवनमहनीय! मम संबन्धिनीयमेषा स्तुतौ व्याप्रियमाणा भारती वाणी चतुर्दशपूर्वधरदशपूर्वधरादिपूर्वपुरुषसिंहभारत्यपेक्षया सूक्ष्मार्थसार्थभेदनाक्षमत्वेन च कुण्ठाप्यतीक्ष्णापि यदि त्वद्गुणग्रहणं प्रति तवोत्कीर्तनमनु सोत्कण्ठा सस्पृहा तर्हि |
Jain Education
a
l
For Private & Personal Use Only
[w.jainelibrary.org