SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥६०॥ Jain Educatio G हे विश्वैकदृश्य ! मदृशौ मत्संबन्धिनी लोचने, त्वन्मुखासते त्वदाननन लिन निलीने, हर्षवाष्पजलोर्मिभिरानन्दाश्रुवारिवीचिभिरप्रेक्ष्याणां रागद्वेषमोहादिहेतुत्वेन विलोकयितुमनुचितानां यदकस्मादाकुट्या वा प्रेक्षणमवलोकनं तस्मादुद्भूतमुत्पन्नं यन्मलं कल्मषं तत्क्षणादपि क्षालयतां । समुचितं च जलोर्मिभिर्मलप्रक्षालनं भगवद्वदनावलोकनाच्च चिरसंचितपापपटलविगलनमिति ॥ किंच त्वत्पुरो लुठनैर्भूयान्मन्द्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥ ३ ॥ हे परमेष्ठिपुरस्सर ! त्वत्पुरस्तव पुरो भागे, लुठनैर्भक्तयतिशयादसकृदवनीतलतालनैर्मद्वालस्य मत्संबन्धिनो ललाटपट्टस्य तपस्विनः पूर्वं त्वत्प्रणामवञ्चितत्वेन कृपास्पदस्य, किणावलिः क्षितिपीठवेष्टघट्टनोद्भूता क्षतततिः प्रायश्चित्तमघमर्षणं भूया - त् । ननु कस्य पापस्य प्रायश्चित्तमिदमित्याह- किंविशिष्टस्य ! कृतासेव्यप्रणामस्य, कृतो निर्वर्त्तितोऽसेव्यानां भवाभिनन्दित्वेनोपासनानर्हाणां प्रणामः प्रणतिर्येन स तथा तस्य, यश्चापराध्यति स द्रुतमनुभवत्येवापराधफलमिति ॥ अन्यच्च मम त्वद्दर्शनोद्भूताश्विरं रोमाञ्चकण्टकाः । तुदन्तां चिरकालोत्थाम सद्दर्शनवासनाम् ॥ ४ ॥ शिरोमणे संबन्धि यद्दर्शनममन्दानन्दनिष्पन्दाक्षिनिरीक्षणं तस्मादुद्भूताः संघटिता ये रोमाञ्च कण्टकाः पुलकको कोदास्ते चिर कालोत्थामनादिभव भ्रमणोपचितामसद्दर्शनानामसर्वज्ञोपज्ञकुशासनानां दुर्वासनां चिरमत्यन्तं तुदन्तां व्यथोत्पादनेन निर्वासयतां (न्तां) । समुचितं च कण्टकैर्व्यथनं व्यथित (ते) वहिर्निर्याणमिति । tional For Private & Personal Use Only %%% सविवर. "ના ww.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy