________________
भवाभिनंदिनां सुरनरादीनामसद्भूतगुणोद्भावनेनात्मानं मलिनयति, तदा परमात्मप्रभृतिस्तुत्यवर्गस्तुतिप्रयोगमंतरेण किमन्यदघमर्षणमस्यास्ततः स्तोत्रेणेत्युक्तं । किं चास्मिन् भवकांतारे संसारारण्ये जन्मिनां सत्क्षेत्राोकादशागीसंगतस्य जन्मनोऽवतारस्यापीदं सद्भूतं वस्तुतत्त्वोद्भावनमेव फलं ॥ सांप्रतं स्तुतिकृद्वीतरागस्तवविधानेऽसमर्थताप्रथनेनात्मनो निरहंकारता-* मुद्भावयन्नाह ॥
वाहं पशोरपि पशुर्वीतरागस्तवः क्व च ॥ उत्तितीर्घररण्यानी पद्भ्यां पंगुरिवारम्यतः ॥ ७॥ क्वशब्दो महदंतरे क्वतावदहं । किंविशिष्टः पशोरपि पशुः। किल यथावस्थितवीतरागत्वस्वरूपोद्भावनपरस्तुतिसंदर्भ छद्मस्थाः सकलवाङ्मयपारावारपारदृश्वानोऽपि पशव इव पशवः । अहं त्वैदंयुगीनकतिपयग्रंथार्थमात्रव्यापृतमतिस्तेभ्योऽप्यतिहीनत्वेन पशोरपि पशुः।कच कायवाङ्मनसामगोचरचरित्रस्यात एव वास्तोष्पतिस्तोमैरपि यथावत् स्तोतुमशक्यस्य भगवतः श्रीवीतरागस्य स्तवः । अतो यत्पशोरपि पशुरहं वीतरागस्तोत्रं चिकीर्षुस्तत्पंगुरिव महदरण्यं पद्भ्यामुत्तरीतुमिच्छुरस्मि ।
किमुक्तं भवति-यथा पंगोः पद्भ्यामरण्यानीपरपारगमनमसुकरमेवं ममापि परमात्मस्तुतिग्रथनमिति ॥ यद्येवं किमात्मशत्तयहननुरूपेणानेनैवोपक्रमेणेत्याह ।
तथापि श्रद्धामुग्धोहं नोपालभ्यः स्खलन्नपि ॥ विशृंखलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥ ८॥ तथाप्येवं सत्यहमस्मिन् वीतरागस्तवाध्वन्यध्वनीनतामाकलयन्नविकलसामर्थ्यशून्यः स्थाने २ स्खलन्नपि विमलमतिभिनोंपालभ्यः। यतः परमात्मप्रतिबद्धस्तुतिश्रद्धया मुग्धः शक्याशक्यार्थविचारचातुर्यवर्जितः, एवंविधस्य च श्रद्दधानस्य
Jain Education !
Kamldana
For Private & Personel Use Only
jainelibrary.org