SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर. SUSHOROSCORRECASION यस्य भगवतः परमात्मनो घातिकर्मणामात्यंतिकक्षयादुत्पन्नं ज्ञानं देशकालस्वभावविप्रक(रनंतमत एव भवद्भाविभूतभावावभासकृत् वर्तमानानागतातीतपदार्थसार्थप्रकटनपटिष्ठं । तस्यैवंभूतस्याहं किंकरो भवेयमित्युत्तरेण योगः। अत्रायमाशयः। किलास्मिन् जगति यस्य विसंवादित्वेनानैकांतिकोऽष्टांगनिमित्तमात्रावभासनपरो ज्ञानांशः स्यात् सोऽपि तदर्थ-13. भिः प्रेष्यैरिव प्रतिक्षणमुपास्यते । यस्य च भगवतः प्रागुपवर्णितस्वरूपं ज्ञानं तस्य किंकरत्वमनुत्तरसुरा अपि कुर्युः किमंग मादृशोऽगभागिति । सप्तम्यंतं पदमाह ॥ यस्मिन् विज्ञानमानन्दं ब्रह्म चैकांगतां गतं ॥ यस्मिंश्च भगवति परमपरमेष्ठिनि । विज्ञानमानंदं ब्रह्म चैकात्मतां गतं ॥ तत्र मत्यादिज्ञानेभ्यः क्षायिकत्वेनाप्रतिपातित्वेनानंतद्रव्यपर्यायगोचरत्वेन च विशिष्टं केवलालोकलक्षणं ज्ञानम्, आनंदं चात्मनः कदाप्यलब्धपूर्वस्वरूपलाभसमुद्भवमित|रकारणकलापनिरपेक्षमनुपाधिमधुरमक्षयमात्यंतिकं सुखमेव, ब्रह्म च परमं पदं, यदा च भवोपग्राहिकर्मपारवश्यादद्यापि है भवस्थः केवली भवति तदास्मिन् भगवति केवलिनि विज्ञानमानंदं च वर्त्तते । अयं च परमपदं गमिष्यतीत्यात्मविज्ञानानंदब्रह्मणां मिथः पृथग्भावःस्यादेव । शैलेश्यनंतरं च सकलकर्माशप्रक्षयादक्षयं पदमुपेयुष्यस्मिन् विज्ञानमानंदं ब्रह्म चैकात्मतां याति स एव परमात्मा स एव विज्ञानं स एवानंदः स एव परमब्रह्मत्यभिन्नभावतां भजते । अतस्तत्र तस्मिन् पूर्वोपवर्णितस्वरूपे परमात्मनि स्तोत्रेण यथार्थवादेनाहं स्वामात्मीयां सरस्वती वाणी पवित्रां पावनी कुर्या विदध्यामित्युत्तरेण |संबंधः । ननु किमस्याः प्रथमं किमप्यपूतत्वमस्तीत्युच्यते । स्वकर्मपरिणामेनाभ्यावृत्त्या भवे बंभ्रम्यमाणानां प्रबलज्ञानावरणोदयाद्विशिष्टचित्तचैतन्यशून्यानामसुलभैव कवित्ववक्तृत्वसरसा सरस्वती, यदा च तथाभव्यत्ववैचित्र्यात्संघटितापि ॥३॥ Jain Education le For Private Personal Use Only Kirainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy