SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Jain Education In पादपा इव पादपाः । ते च संगत्यागादा केवलोत्पत्ति त्रिजगदप्रतिमलहस्तिमल्लेन येन भगवता दुस्तपतपोंदोलनेन चलाचलतामापाद्य शुक्लध्यानसमुदंड शुंडाम्रेडनेन समूला: सहेलमुन्मूलितास्तेन त्रिजगन्नाथेनाहमपि नाथवान् स्यां भवेयमित्युत्तरेण योगः । येनासौ ममालब्धानां ज्ञानादिगुणानां लंभनेन तेषामेव लब्धानां परिपालनात्ताननुगृह्णाति ॥ चतुर्थ्यतं पदमाह ॥ मूर्ध्ना यस्मै नमस्यंति सुरासुरनरेश्वराः । यस्मै समूलोन्मूलितक्लेशपादपाय भगवते सुरासुरनरेश्वरा देवदानवमानवपतयः सकलक्लेशजालोच्छित्तिनिमित्तं मूर्ध्ना उत्तमांगेन सरभसं नमस्यति । तस्मै त्रिभुवनसनातनगुरवे समाहितस्तदेकतानमानसोऽहमपि स्पृहयेयं स्पृहामावहामीत्युत्तरेण संबंधः । इदमुक्तं भवति । किल यद्यपि सुरासुरेश्वरादिवत् प्रत्यक्षार्हत्प्रणामादिसामग्री दुःषमासमयसमुद्भूतस्य ममासंभाविनी तथापि " मनोरथानामगतिर्न विद्यते " इति न्यायात् स्पृहामात्रमपि तावद्धारयामि येन सदभ्यस्ततया भवांतरेऽपि संस्कारोऽयमनुवर्त्तत इति । पंचम्यतं पदमाह ॥ प्रावर्तत यतो विद्याः पुरुषार्थप्रसाधिकाः ॥ यतो यस्मात्सर्वविदः परमपुरुषात्पुरुषार्थानां धर्मार्थकाममोक्षलक्षणानां प्रसाधिकास्तदुपायोपदर्शिन्यो विद्याः शब्दविद्यादिकाः प्रावर्त्तत प्रादुरासन् । यतो द्वादशांगीमूलनीवीमुत्पादादित्रिपदीं तदुचितेषु भगवान् स्वयमुदीरयति । नच द्वादशांगीव्यतिरिक्तमन्यदपि विद्यांगमस्तीत्यतः समस्तविद्यानां भगवानेव प्रभवः । अत एव ततस्तस्मात्परमपुरुषानुध्यानादहमपि पुमर्थोपलब्ध्या कृतार्थः कृतकृत्यो भूयासमित्युत्तरेण योगः । पुरुषार्थोपायोपलब्ध्या च कृतकृत्यता समीचीनैवेति । षष्ठयंतं पदमाह ॥ यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥ For Private & Personal Use Only ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy