________________
वीतराग.
॥ २ ॥
Jain Education
।
ष्टमादित्यवर्ण आदित्यस्य प्रभापतेरिव वर्णः शोभा यस्य स तथा तं । अत्राह परः । ननु परिमितक्षेत्र प्रकाशनमहसा मिहिरेण लोकालोकप्रकाशनप्रवणपरमज्योतीरूपस्य परमात्मनः साम्यमनुपपन्नं । तथाचागमः । चंदाइच्चगहाणं पहा पयासेइ परिमियं खेत्तं । केवलियनाणलंभो लोयालोयं पयासेइ इति । आचार्यः । साधु भो सहृदय हृदयंगममभिदधासि | केवलं सकलेऽपि कलावत्प्रमुखे तेजस्विवर्गे विगणयद्भिरस्माभिर्भानोरेव किमपि तदुपमानलवलाभ संभावनास्पदत्वमुप| लब्धं इत्यादित्यवर्णमित्यभिहितं तत्त्वतस्तु सुमेरुपरमाण्वोरिव महदंतरं परमात्मद्वादशात्ममहसोरिति । आदित्योऽपि निरस्ततमस्त्वेन तमसः परस्ताद्भवति । तृतीयांतं पदमाह ॥
येन च भगवता परमात्मना क्लेशपादपाः सर्वेप्युदमूल्यंत । “अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः” । तत्र “ अनित्याशुचिदुःखानात्मसु मिथ्याज्ञानमविद्या” “दुर्धराहंकारवशात्सर्वत्रास्मीति भावोऽस्मिता” “मनोज्ञेषु शब्दादिष्वात्मनो गाढाभिष्वंगो रागः " । " तेष्वेवामनोज्ञेषु भृशमप्रीतिविशेषो द्वेषः” । “अतस्त्वेऽपीदमित्थमेवेत्येकांताग्रहग्रहिलताभिनिवेशः " । उपलक्षणं चैतदन्यासामपि घातिकर्मोत्तरप्रकृतीनां । एते च संसृत्यामात्मनोऽनादिसंबंधवशाद्बद्धमूलाः प्रदर्शिततत्तद्विकारप्ररोहसंहतयः, स्फुरदाध्यात्मिकाधिभौतिकाधिदैविकवेदनोदयप्रसूनसंततयः, प्रकाशितामुष्मिक दुर्गदुर्गतिदुःखफलपटलाः,
१ पातञ्जले त्वेवं सूत्राणि ( अविद्यास्मितारागद्वेषाभिनिवेशा: पंच क्लेशाः । २-३ । अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर| विद्या । २-५ दृग्दर्शनशक्तयोरेकात्मतेवास्मिता । २-६ । सुखानुशयी रागः । २-७ । दुःखानुशयी द्वेषः । २-८ । खरसवाही विदुषोऽपि तथाऽऽरूढोऽभिनिवेशः । २-९ । २ अध्यात्ममधिभूतमधिदैवञ्च । ७ । ( त्रिविधं दुःखम् ) ।
For Private & Personal Use Only
सविवर.
॥ २ ॥
jainelibrary.org