SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education पदमध्यासीनो ज्ञानदर्शनोपयुक्तः केवलात्मैव । सांप्रतं स एवं विशिष्यते किंविशिष्टः परात्मेत्याह । परंज्योतिः । अप्रति| पातित्वेन लोकालोकप्रकाशकत्वेन (च) परं सर्वोत्कृष्टं चित्स्वरूपं ज्योतिर्यस्येति ज्योतिज्र्ज्योतिष्मतोरभेदात्स एव परंज्योतिः, परत्वं चास्य मतिश्रुतावधिमनःपर्यायलक्षणचिदंशचतुष्टयापेक्षं प्रतिपातित्वेनाल्पविषयत्वेन मत्यादीनामनीदृशत्वात् । यदि वा रवींदुविद्युन्मणिप्रमुखे निखिलेऽपि ज्योतिर्वर्गे यः परमुत्कृष्टं ज्योतिरिति । यश्चैवंविधः परात्मा स श्रद्धेयः श्रद्धाविषयमवतारणीय इत्युत्तरपदेन योगः । किमुक्तंभवति । किल यद्यप्यघातितघातिकर्मणां भवस्थितानां परज्योतीरूपस्यात्मनः साक्षात्करणमनुपपन्नं तथापि प्रक्षीणघातिकर्मणामर्हदादीनामध्यक्षे तस्मिंस्तत्प्रत्ययेनैव श्रद्धा विधेयैव । नचानुपकृतपरानुग्रहकृतां क्षीणरागद्वेपमोहानामर्हदादीनां वितथवादित्वमतः किमश्रद्धेयं परमात्मनः । पुनः परमरहस्यभूतं परमात्मानमेव विशिनष्टि । परमः परमेष्ठिनां । परमे चिदानंदरूपे ब्रह्मणि तिष्ठतीति परमेष्ठिनस्ते चार्हदाचार्योपाध्यायसाधव एव तेषां मध्ये परमः प्रकृष्टः सिद्धरूपो यः परमेष्ठी अर्हदादिपरमेष्ठिचतुष्टयस्य चामुक्ततावस्थामधिकृत्य सिद्धस्य पंचपरमेष्ठिनः परमत्वं । मुक्तास्तु सर्वेऽप्येकरूपा एव । सचैवंविधः परमात्मा भगवांस्तदेकतानमनोभिर्थ्येयस्तत्स्वरूपाप्तये । सततमनुस्मरणीय इति उत्तरपदेन संबंधः । प्रथमांतं पदमभिधाय द्वितीयांतमाह ॥ यं च परमात्मानमणिमाद्यष्टमहासिद्धिप्रसिद्धमहसो मुनयोऽध्यामनंति तत्स्वरूपोपलब्धये संततमभ्यस्यंति । किंभूतं तमसः परस्ताद्वर्त्तमानं तमांसि निकाचितानि कर्माणि विमलकेवलालोकेन च तेषां पारे प्रतिष्ठितं सत्वरजस्तमोगुणत्रया| तीतमित्यर्थः । तमहमेवंरूपं परमात्मानं दुर्वारांतरारिपरित्याजितात्मशक्तिः शरणं प्रपद्ये इत्युत्तरेण योगः । पुनः किंविशि 1 tional For Private & Personal Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy