SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ वीतराग. सविवर, CAMERESCAR PASARA ॥१॥ तत्र स्तोत्रेण कुर्यां च पवित्रां खां सरस्वतीम् । इदं हि भवकान्तारे जन्मिनां जन्मनः फलम् ॥६॥ अत्राद्यसार्द्धश्लोकत्रयस्य पदानां प्रथमादिसप्तम्यंतविभक्तिप्रथमवचनांतानामुत्तरश्लोकद्वयस्य तदंतैरेव पदैर्यथाक्रम कर्तृकर्मविवक्षया योजनं कार्य । तथाहि ॥परात्मेतिविशेष्यम् पदमतो यः किल परमात्मा परंज्योतिः स श्रद्धेयः। यश्च परमेष्ठिनां परमः स ध्येयः, यं चादित्यवर्ण तमसः परस्तादामनंति तं शरणं प्रपद्ये । येन च समूलाः क्लेशपादपाः समुदमूल्यंत तेन नाथवान् स्यां। यस्मै च सुरासुरनरेश्वराः सरभसं नमस्यंति तस्मै समाहितः स्पृहयेयं । यतश्च पुरुषार्थप्रसाधिका | विद्याः प्रावर्त्तत ततः कृतार्थों भूयासं। यस्य च भवद्भाविभूतभावावभासकृत् ज्ञानं तस्य किंकरो भवेयं । यस्मिंश्च विज्ञानमानंदं ब्रह्म चैकात्मतामुपगतं तस्मिन् स्तोत्रेण स्वां सरस्वतीं पवित्रां कुर्यामिति पदानां परस्परसंबंधः॥ सांप्रतमेतदेव प्रतिपदं व्याख्यायते तत्र परश्चासावात्मा च परात्मा परत्वं चास्य देहात्मांतरात्मापेक्षं, यतः कैश्चिदुपयोगलक्षणमनादिनिधनपौद्गलिकत्वेन रूपातीतं तथाविधसामग्रीसाकल्यात् शुभाशुभरूपस्य कर्मणः कारभुदयप्राप्तस्य तस्यैव च भोक्तारमत एवैतल्लक्षणविलक्षणादेहादर्थांतरभूतमविसंवादिप्रमाणप्रतिष्ठितमप्यात्मतत्त्वं महामोहोपहतमतित्वेनामन्यमानैः पिष्टादिद्रव्ययोगान्मदशक्तिमिवाचेतनमहद्भूतसंपर्काच्चेतनत्वमुद्भाव्य देहस्यैवात्मत्वमुपकल्प्यते अतः स देहात्मा । यथा च देहातिरिक्तस्यात्मनः सत्प्रमाणप्रतिष्ठितत्वं तथा पुरस्तादष्टमप्रकाशे प्रकाशयिष्यते । अंतरात्मा च ज्ञानावरणादिकर्मनिर्मथितमाहात्म्यः शरीरी संसारिजीवः । एतयोश्च वक्ष्यमाणविशेषणगणासहत्वेन प्रकृतानुपयोगित्वमतः परशब्दोपादानं । परात्मा च विगलितसकलकर्मपटलः सम्यसिद्धज्ञानदर्शनानंदवीर्यलक्षणानंतचतुष्टयः शिवमचलमपुनर्भवं परम R Cरल. ॥ १ ॥ En For Private 3 Personal Use Only jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy