SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगःसुखदुःखयोः॥२॥ एवं सामान्येन नित्यानित्यत्वमभिधायात्मनोपि तद्दर्शयतिआत्म० हेवीतराग! आत्मनि जीवे एकान्तनित्येऽङ्गीक्रियमाणे सुखदुःखयो गो न स्यात्कुतः? यदि सुखं भोक्तुमारब्धं तर्हि सर्वदापि सुखमेव यदि दुःखं तदा (तदेव) भवेदन्यथा सुखमुपभुज्य दुःखस्य, दुःखं चोपभुज्य सुखस्योपभोग्यात्मा सुखिहतया विनश्य दुःखितयोत्पन्नस्तया वा विनश्य सुखितयोत्पेद इत्येकान्तानित्यरूप्येष्यात्मनि सुखदुःखयो गोन स्यादुत्पत्त्यन न्तरं क्षणविनष्टत्वात्सुखदुःखे तु चन्दनाङ्गनारोगकण्टकादिसाधनयोगोपभोगाभ्यां बहुक्षणनिर्वृत्ताभ्यां साध्य इति ॥२॥ पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ॥३॥ ___ दोषान्तरमाहुः-हेवीतराग! नित्यैकान्तदर्शनयात्म(नि) नित्यत्वाङ्गीकारमते पुण्यपापे बन्धमोक्षौ कर्मबन्धतत्क्षयौ च | न स्युः तथाहि-आत्मनो यदि पुण्यं तर्हि पुण्यमेव, यदि पापं तर्हि पापमेव, नित्यत्वात् यथा शशिन औज्वल्यं तर्हि न कदापि तदेवं यदि बन्धस्तर्हि बन्ध एव यथा मेरोः पृथ्वीपीठे वसतः यदि मोक्षस्तहि स एव नतु बन्धः यथा मनस उक्तं च एवम्। “ मन एकडबक्कडओ जइ कामइ थिर थाइ । चंदिलिहा बउलीहडी तिदणि ऊभि वाहु ॥१॥" तथाऽनित्यैकान्त-15 दर्शने क्षणक्षयिजीवमतेपि पुण्यपापे बन्धमोक्षौ नच सम्भवतः क्रमेण तेषां स्वीकारे चतुःक्षणस्थायित्वं स्यात् युगपद्यदि तदा छायातपवजलाग्निवच्च विरुद्धानां तेषां कथमेकत्रात्मन्यवस्थानं स्यादिति ॥३॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥४॥ PASHAARASSANALISA For Private Personal Use Only w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy