SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥७३॥ Jain Education In न वक्तृत्वं स्यात्तत्तस्मात्कारणात्परे देवाः कथं शास्तारः शास्त्रकर्त्तार उपदेशदातारो वा, विना ते तृतीया व (२-२-११५) द्वितीयातृतीयापञ्चम्यः ॥ १ ॥ अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किंचित्वातन्त्र्यान्न पराज्ञया ॥ २ ॥ शास्त्राद्युपदेशं निषिध्य जगत्कर्तृत्वं निरस्यन्ति - अदे० हेवीतराग ! अदेहस्याशरीरस्य जगत्सर्गे जगतः सृष्टौप्रवृत्तिः प्रवर्त्तनमपि नोचिता स्वदेहानिष्पत्तेर्नच किंचित्प्रयोजनं कार्यमस्ति तेषां परवादिभिः कृतकृत्यत्वेन मन्यमानत्वात्, शिवास्तिकाः प्रोचुः स भगवान्न पराज्ञया प्रवर्त्तते, किन्तु स्वातन्त्र्यात्स्वेच्छयैव ॥ २ ॥ क्रीडया चेत्प्रवर्त्तेत रागवान्स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥ ३ ॥ इच्छाप्रवृत्तिरपि क्रीडया कृपया वा स्यादिति मनसि विकल्प्योत्तरयन्ति — क्रीडा० स शम्भुश्चेद्यदि क्रीडया प्रवर्त्तेत तदा रागवान् स्यात्कुमारवत् बालकवत्, यथा शिशवो जलक्लिन्नवालुकया देवकुलादि निर्माय क्षणं क्रीडित्वा स्वयमेव सर्व संहृत्य यथागतं यान्ति, तथा कृपया दयया जगत्सृजेत्तर्हि सकलं सुख्येव सुखासक्तमेव सृजेन्नचैवं दृश्यते ॥ ३ ॥ दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ॥ ४ ॥ दुःख० एवं सति दुःखानीष्टवियोगादीनि दौर्गत्यं दारिद्र्यं दुर्योनयः श्वानचाण्डालनरकादयः, जन्म जन्नावस्था| जायमानाऽत्यन्तकष्टमादिशब्दाज्जरामरणरोगादयः इतरेतरद्वन्द्वस्तैः कृत्वा यः क्लेशस्तेन विह्वलं विधुरं जनं जात्यैकवचनं तु पुनः सृजतः कुर्वतस्तस्येश्वरादेः कृपालोः कृपावतः का कृपालुता दयामयता ? न कापीत्यर्थः ॥ ४ ॥ For Private & Personal Use Only अवचू. ॥७३॥ ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy