SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥८३॥ Jain Education यस्त्वय्य. हे वीतराग ! यो निर्भाग्यस्त्वयि निष्कारणनिखिलवत्सलेपि दृशं ज्वलदनलसदृशामीयरुणवक्रां दत्तवान् तं वह्निः साक्षात्प्रत्यक्षीभूय भस्मीकरोत्वितिवदन्पापभीरु स्तुतिकृदिदमालप्यालमालापेनाऽलं पर्याप्तमित्याह ॥ ४ ॥ त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं तेषां हन्त हृतात्मनाम् ॥ ५ ॥ त्वच्छा० हे वीतराग ! तव शासनस्य ये दर्शनान्तरैः साम्यं मन्वते तेषामज्ञानोपहतानां हन्तेति खेदे पीयूषं हालाहलेन समानमेव ॥ ५ ॥ अनेडमूका यासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥ ६ ॥ अ० हे वीतराग! ते नरा अनेडमूका वाक्कर्णरहिता भवन्तु येषां त्वयि मत्सर ईष्या, यतः पापेषु परनिन्दादिषु | कर्मसु व्यापारेषु वैकल्यं वाक्कर्णरहितत्वं शुभोद०शुभः शोभनो य उदर्क आगामिकाले फलपाकस्तस्मै स्यात्कोऽर्थः वैकल्यात्वन्निन्दादि कर्तुमशक्तास्तथाविधदुर्गतिं नाप्नुवन्तीति ॥ ६ ॥ तेभ्यो नमोऽञ्जलिरयं तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्यैरात्मा सिच्यतान्वहम् ॥ ७ ॥ तेभ्यो हे वीतराग ! तेभ्यः पुण्यवद्भ्यो नमोऽस्तु तेषामयं प्रत्यक्षलक्ष्योऽञ्जलिः करयोजनं, तान्वयं सेवामहे, यैस्तव शासनामृतैरात्मा निरन्तरमासिच्यत सुस्थीकृतः ॥ ७ ॥ भुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् ॥ ८ ॥ For Private & Personal Use Only अवचू. ॥८३॥ Jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy