SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ M E CORRECTORRCHCRACCIENCEOCHAUCRk मेरुस्तृणीकृतो मोहात् पयोधिोष्पदीकृतः। गरिष्ठेभ्यो गरिष्ठो यैः पाप्मभिस्त्वमपोहितः ॥२॥ हे स्वामिन् ? यैस्त्वमपोहितस्तैरिदमकारि। किं तदित्याह-मेरुयोजनशतसहस्रोच्छ्रायः सकलकल्याणमयमूतिर्मणिसानुः सुरभूधरस्तृणीकृतस्तृणगणनया मोहादृष्टः । तथा पयोधिोजनशतसहस्रविस्तारो रत्नाकरः समुच्छलदतुच्छकल्लोलकूटकलकलवाचालितरोदोऽन्तरालः सलिलनिधिरपि गोष्पदतुलया कलितः। यैः पाप्मभिः पापपटलविलीनचेतोभिः गरिष्ठेभ्योऽपि सुरासुरनायकेभ्योऽपि गुणाधिकतया गरिष्ठो गरीयांस्त्वमप्यपोहितः पृथगजनवदवज्ञया दृष्टः। किमुक्तं भवति ? |किल न खलु तैर्नृपशुभिः कृता मेरोस्तृणता पयोधेर्गोष्पदता; नैव च जगद्गुरोलघुता भवति । न केवलमनात्मज्ञेस्तैगुणम त्सरिभिरेवमेवात्मा विलव्यते इति ॥ यथा च तवावज्ञा न दुरन्तदुरिताय तथा त्वच्छासनस्यापीति दर्शयन्नाह| च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा। यैस्त्वच्छासनसर्वस्वमज्ञानै त्मसात्कृतम् ॥ ३॥ हे भगवन्? यैस्त्वच्छासनमात्मसान्न कृतं तेषामिदमिदमभूत्, किं तदित्याह-तेषामभाविभद्राणां पाणेः कराच्चिन्तामणिर्म४/नश्चिन्तितार्थसार्थघटनपटुर्मणिश्युतो विघटितः, तथा अजरामरहेतुः सुधा कुतोऽपि देवालब्धाप्यनुपयोगेन मुधा वृथैव |गता, यैस्तव संबन्धि शासनं प्रवचनमेव सर्वस्वं सारद्रव्यमुपनतमप्यात्मसादात्मायत्तं न कृतम् । अयमाशयः 'किल चिन्तामणिपीयूषत्वच्छासनान्यगण्यपुण्यप्रचयमन्तरेण न तावत्सम्पद्यन्ते, दैवादुपनतानि तान्यपि ये सादरं न स्वीकुर्वन्ति; तेभ्योऽप्यन्यो जगति न जघन्य इति ॥ पुनर्भगवति भक्त्यतिशयं स्तुतिकृयनक्ति ROCESCRECCANCIENCEOCHURCESS Edu a re For Private Personal Use Only IAN
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy