________________
न पक्षीत्यादितस्तदेवमितिपञ्चमश्लोके संबन्धः । हे भगवंस्त्वं परीक्षकैः कथं देवत्वेन प्रतिष्ठाप्यः, यतः सर्वदेवेभ्यो विलक्षणः कथमेवमुच्यमानप्रकारेण तदेव दर्शयति
न पक्षिपशु सिंहादिवाहनासीनविग्रहः । न नेत्रवक्रगात्रादिविकारविकृताकृतिः ॥ २ ॥
ये किलास्माभिरस्मिन् लोके देवा ददृशिरे ते पक्षिप्रमुखवाहनासीनविग्रहाः विहङ्गप्रभृतियानविन्यस्तवपुषः तथाहि ब्रह्मविष्णुस्कन्दा यथाक्रमं हंसगरुडमयूरगामित्वेन पक्षिवाहनाः, तथेश्वरवैश्वानरमरुतो यथाक्रमं वृषमेषमृगगामित्वेन पशुवाहनाः, भवानी च सिंहवाहना, आदिशब्दान्नरवाहनादित्रिदशपरिग्रहः । त्वं तु पक्षिप्रभृतिके नैकस्मिन्नपि वाहने विन्यस्तदेहस्तत एवेतरदेवेभ्यो विलक्षणः तथाहि देवा हि नेत्रवक्रगात्रादिविकृतिभृत एवास्माभिरुपलभ्यन्ते यथा - त्रिनयनः शम्भुः, चतुर्वक्रः स्वयम्भूः, षण्मुखो महासेनः, चतुर्भुजो विष्णुर्गजास्यो लंबोदरश्च गणेश इत्यादि । त्वं तु नेत्रवक्रगात्रादिविकारैर्न विकृताकृतिः किंतु निर्विकारः सर्वावयवसुन्दरस्तदेवमप्यन्यदेवेभ्यस्त्वं विसदृशः ॥
न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥ ३ ॥
देवा हि शूलचापचक्रादिभिः शस्त्रैरङ्कितकरपल्लवाः स्युर्यथा शूलभृत्पिनाकपाणिश्च हरः, शार्ङ्गभृञ्चक्रधरश्च हरिः, शक्तिधरः कुमारः, परश्वधायुधः सिंधुरास्य इति । तव तु पाणिपल्लवौ यदि रूपरेखारूपैरेव चापचक्रादिभिर्लाञ्छितौन | पुनरितरैः । ते हि अङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणाः कमनीयकामिनी मनोहरशरीरपरीरम्भसुभगम्भविष्णवस्तथाहि
Jain Educationonal
For Private & Personal Use Only
w.jainelibrary.org