SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥५५॥ Jain Education हे विश्ववत्सल ? यावदहं त्वदनुभावजां सर्वाद्भुतत्वत्प्रभावप्रभवां, परां परानन्दस्वरूपां, पदवीं मुक्तिलक्षणां, नाप्नोमि न लभे, तावन्मयि शरणं श्रिते चरणतलनिलीने, शरण्यत्वं शरणोचितं पालकत्वं मा मुचः मा त्याक्षीः, प्राप्तश्च परमपदवीं स्वलीलयैव विलसन्न करिष्ये कस्यापि शरणादिप्रार्थनादैन्यमिति ॥ इति वीतरागस्तोत्रे सप्तदशस्य शरणस्तवस्य पदयोजना || एवं स्तुतिकृत्रिजगद्गुरुशरणानुसरणसावष्टम्भस्तदितरदेवान्निभृतमुपहसितुकामः परिणामसुकुमारयापि मुखपरुषया गि| रा भगवन्तं तुष्टुषुः कठोरोक्तिस्तवमाह - तस्य चायं प्रस्तावना श्लोकः नपरं नाम मृद्वेव कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं स्वामिने खान्तशुद्धये ॥ १ ॥ हे भगवन् ! एवंविधाय स्वामिने परं केवलं मृदु सुललितमेव न विज्ञप्यम् किं त्वन्तरान्तरा किञ्चन स्वल्पमात्रं कठोरं | परुषप्रायमपि । किंविशिष्टाय स्वामिने ! विशेषज्ञाय वक्तुरभिप्रायविशेषविदुषे । अयमभिसन्धिः १ यः किलोत्तान मतित्वेन यथाश्रुतयथादृष्टार्थमात्रग्राही प्रभुस्तं प्रति पादन्म ( यावन्म) नोरतये सुकुमारमेव वाच्यं यस्तु देशकालप्रस्तावौचित्यपुरुषस्तदाशयविशेषविद्वांस्तं प्रति यथार्थभाषिभिर्भृत्यैरनुकूलमितर च्चादुष्टभावैर्विज्ञप्यम्, तद्भावज्ञेन स्वामिनापि तद्वधार्यमेव, यतः " स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः " किमर्थमित्याह - स्वान्तशुद्धये स्वमनःकुविकल्पकल्पनापोहाय ॥ कठोरोक्तिमेव व्यनक्ति tional XI For Private & Personal Use Only सविवर. ॥५५॥ w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy