SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Education In निरीक्षितुं रूपलक्ष्मीं सहस्राक्षोऽपि न क्षमः । खामिन्! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥ निरी० हे स्वामिन्! ते तव रूपलक्ष्मीं निरीक्षितुं सहस्राक्षोऽपि सहस्रनयनोऽपि न क्षमः न शक्तः, ते गुणान्वक्तुं सहस्र| जिह्वोपि न समर्थः ॥ २ ॥ संशयान् नाथ ! हरसेऽनुत्तरस्खर्गिणामपि । अतः परोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः ॥ ३ ॥ संश० हे नाथ! त्वमहस्थ एवानुत्तरस्वर्गिणां द्वादशयोजनैः सिद्धेरर्वाक्स्थितानामपि संशयान् सन्देहान् हरसेऽतः संशयापनोदात् परोऽन्यपि कोपि गुणो वस्तुतः परमार्थतः स्तुत्यः स्तवनयोग्यः, किमस्ति ! नास्तीत्यर्थः ॥ ३ ॥ इदं विरुद्धं श्रतां कथमश्रद्दधानकः । आनन्दसुखसक्तिश्च विरक्तिश्च समं त्वयि ॥ ४ ॥ अद्भुतचरितं प्रकटयन्ति । इदं० हे वीतरागाऽश्रद्दधानकस्तव लोकोत्तरचरितानभिज्ञ इदं विरुद्धं परस्परामिलन्द्वयं कथं श्रद्धत्तां मन्यतामिदं किम् ! त्वयि समं युगपदानन्दसुखसक्तिरनन्तानन्दरूपे सुखे संलीनता विरक्तिः सर्वसङ्गविरतिश्च स्तः चकारो तुल्यकक्षतार्थम् ॥ ४ ॥ Marrier दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५ ॥ to हे नाथेयं द्वय घट्यमानापि त्वयि प्रत्यक्षेण दर्शनान्मन्यमानापि दुर्घटाऽन्यत्र क्वाप्यदर्शनात्कथं घटतां कथमस्त्वियमिति किम् । सर्वसत्त्वेषु सकलजीवेषूपेक्षा माध्यस्थ्यं रागद्वेषाभावेन परमा प्रकृष्टा च पुनरुपकारिता ज्ञानादिदर्शनेन वत्सलतास्ति ॥ ५ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy