SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Jain Education एको० हे वीतरागाहमेकाकी पितृभ्रातृपुत्रशिष्यादिषु निर्ममत्वान्मम नास्ति कश्चिदहमपि कस्यचित्कस्यापि सम्बन्धी नास्मि । एवं सति स्वसेवकस्य दैन्यं नावधार्यमित्याहुः त्वदं० तव चरणशरणस्थितस्य मम दैन्यं किश्चन नास्ति ॥ ७ ॥ यावन्नामोम पदवीं परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं मा मुञ्चः शरणंश्रिते ॥ ८ ॥ याव० हे वीतरागाऽहं त्वदनुभावजां त्वत्प्रसादसम्भवां परां प्रकृष्टां पदवीं मुक्तिलक्षणां यावन्नासादयामि तावत् शरणङ्गते मयि शरण्यत्वं शरणागतवत्सलतां मा मुचः मा त्यजः ॥ ८ ॥ इति सप्तदशप्रकाशस्यावचूरिः ॥ १७ ॥ न परं नाम मृदेव कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं खामिने स्वान्तशुद्धये ॥ १ ॥ प्रभुं शरणतया प्रपद्योपेक्षाविगतभयाः किंचित्कठोरं विज्ञपयन्ति । न प० हे वीतराग ! विशेषज्ञायैकान्तर्हितैषिणे स्वामिने नामेति कोमलामन्त्रणे परं केवलं मृद्वेव वादेन न विज्ञप्यं किन्तु किञ्चन कियत्कठोरं कठिनमपि स्वचित्तेऽज्ञानेन प्रतिभासमानं स्वान्तशुद्धये संशयापनोदाय ज्ञाप्यते तत्क्षणम् ॥ १ ॥ न पक्षिपशु सिंहादिवाहनासीनविग्रहः । न नेत्रगात्रवक्रादिविकारविकृताकृतिः ॥ २ ॥ अथ पञ्चभिः श्लोकैः सम्बन्धः । हे वीतराग ! पक्षिणो हंसगरुडादयः पशवोऽजवृषादयः सिंहा मृगेन्द्रास्तदादीनि यानि वाहनानि तेष्वासीनोऽधिरूपविग्रहः कायो यस्य स एवंविधस्त्वं नासि नयनवदनशरीराणां ये विकारा रागद्वेषनिष्पाद्यास्तैः विकृता विरुद्धावस्थां प्रापिता आकृतिः संस्थानं यस्य स एवंविधोऽपि त्वं नासि हरिहरादिवत् ॥ २ ॥ tional For Private & Personal Use Only IIIIIIII w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy