SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥८५॥ SACARRASSAMAY यत्कृतं सुकृतं किंचिद्रनत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं मार्गमात्रानुसार्यपि ॥ ३॥ यत्कृतं हे वीतराग! यद् ज्ञानादिविषयं किञ्चित्सुकृतं पुण्यं सदाचारो विहितस्तन्निखिलमहमनुमोदयामि मार्ग० त्वन्मतमात्रानुसार्येव नत्वन्यत् ॥३॥ सर्वेषामहदादीनां यो योऽहत्त्वादिको गुणः । अनुमोदयामि तं तं सर्व तेषां महात्मनाम् ॥४॥ सर्वे. हे वीतराग ! सर्वेषामहत्सिद्धाचार्योपाध्यायसाधुश्राद्धानां यो योऽहत्त्वसिद्धत्वाध्यापनादिको गुणोऽस्ति |तन्तमहमनुमन्ये सकलं तेषां महामहिम्नाम् ॥ ४॥ त्वां त्वत्फलभूतान सिद्धांस्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः॥५॥ त्वां त्व. हे वीतराग! त्वां त्वत्फलभूतांस्त्वदनुष्ठानफलरूपान्मोक्षप्राप्तान सिद्धांस्त्वदाचारचतुरानृषीन त्वत्प्रवचनं चाहं भावतो हृदयशुद्धेः शरणं प्रतिपन्नोऽस्मि श्रितोऽस्मि ॥५॥ क्षमयामि सर्वान्सत्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु त्वदेकशरणस्य मे ॥६॥ क्षम० हे वीतराग! सर्वान् चतुरशीतिलक्षजीवयोनिगतान्जीवानहं क्षमयामि क्रोधोपशमेन निर्वापयामि, सर्वे ते मयि मद्विषये क्षाम्यन्तु क्रोधं त्यजन्तु तेषु निखिलेषु त्वदेकशरणस्य मम मैत्री हितबुद्धिरस्तु ॥६॥ एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । त्वदशिरणस्थस्य मम दैन्यं न किश्चन ॥७॥ SHISISHASUSISAASAASAASAEX ॥८५॥ Jan Educatan For Private Personal Use Only Jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy