SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ वीतराग. अवचू. ॥६॥ AARSELOOSOLYOSASTO म् ॥४॥' एवंविधोपेक्षा माध्यस्थ्यमित्यर्थः ताभ्यां कृत्वा प्रतीक्षाय पूज्याय योगात्मने योगस्वरूपाय तुभ्यं नमोऽस्त्विति॥१५॥ इति श्रीवीतरागस्तोत्रे तृतीयकर्मक्षयस्तवस्यावचूर्णिः ॥ ३ ॥ मिथ्यादृशां युगान्तार्कः सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः पुरश्चकं तवैधते ॥१॥ सुरकृतातिशयान्प्रकटयन्ति-मिथ्या० हे वीतराग! तव पुरः पदतले धर्मचक्रमेधते दीप्यते किंविशिष्टं? मिथ्यादृशां 5 | मिथ्यात्विनां युगान्तः प्रलयकालस्तत्सूर्यः सन्तापकत्वात्, सुदृशाममृताञ्जनमिव, तीर्थकरपदव्या भाले तिलकमिव ॥१॥ एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छूिता । उच्चैरिन्द्रध्वजव्याजातर्जनी जंभविद्विषा ॥२॥ एकोय. जगति त्रैलोक्य एकोऽयं वीतराग एव स्वामी धनिकस्त्रातेत्याख्यातुं ज्ञापयितुंजभविद्विषा इन्द्रेणोच्चैरिन्द्रध्वजव्याजासहस्रयोजनमानोच्चमहेन्द्रध्वजच्छलात् तर्जन्याद्याङ्गल्युछित ऊवीकृतास्तीति गम्यते॥२॥ यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥३॥ यत्र. हे वीतराग? यत्र तव पादौ पदं न्यासं धत्तः कुरुतस्तत्र सुरासुराः पङ्कजव्याजान्नवकनककमलच्छलतः पङ्कजवासिनीं श्रियं लक्ष्मी किरन्ति मुञ्चन्ति ॥३॥ दानशीलतपोभावभेदाडम्म चतुर्विधम् । मन्ये युगपदाख्यातुं चतुर्वक्रोऽभवद्भवान् ॥ ४॥ __ दान हे वीतराग! दानशीलतपोभावभेदाच्चतुर्विधं चतुष्प्रकारं धर्म युगपत्समकालमाख्यातुं भवाश्चतुर्वक्रश्चतूरूपो बभूवेत्यहं मन्ये ॥४॥ ॥६॥ Jain Educat For Private & Personel Use Only Villw.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy