SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सुष० हे वीतराग! सुषमातः कृतयुगादितो, दुःषमायां कलौ, तव कृपा प्रसत्तिःफलवती फलदायिनी। दृष्टान्तमाहुः-हि यस्मात्कारणान्मेरुतो मरुभूमौ वृक्षमात्ररहिते देशे, कल्पतरोः स्थितिरवस्थानं, श्लाघ्या शोभनतरा ॥२॥ श्राडः श्रोता सुधीवक्ता युज्येयातां यदीश तत् । त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ॥३॥ श्राद्धः हे ईश! श्रोता त्वद्वचनाकर्णयिता, श्राद्धः परमश्रद्धावान्, वक्ता प्ररूपकः, सुधीरत्वदागमरहस्यज्ञः, यद्यभावे वितै (यदि संभावने) युज्येयातां मिलतस्तत्तर्हि त्वच्छासनस्य कलावष्यतिशयरहितेऽपि काले साम्राज्यमेकच्छत्रमेकातपत्रं सार्वत्रिकमित्यर्थः श्रोत्रा कुमारपालेनात्मना च प्ररूपकत्वेनाऽनुभवसिद्ध कवेर्वचनमिदम् ॥३॥ युगान्तरेऽपि चेन्नाथ! भवन्त्युच्छृङ्खलाः खलाः । वृथैव तर्हि कुप्यामः कलये वामकेलये ॥४॥ एवमेकच्छत्रराज्यमधितिष्ठन्प्रभुः पिशुनापराधदर्शनान्मा कुष्यत्वित्याहुः। युगा० हे नाथ! युगान्तरेऽपि कृतयुगादावपि खला दुर्जना, उच्छृङ्खला उद्धताश्चेद्यदि भवन्ति, तर्हि वामकेलये सजनानुचितचरिताय, कलये कलियुगाय, वयं वृथैव | निरर्थक, कुप्यामः यतो न कदाचिदनीदृशं जगदिति ॥४॥ कल्याणसिद्धय साधीयान्कलिरेव कषोपलः । विनाग्निं गन्धमाहिमा काकतुण्डस्य नैधते ॥५॥ अथ श्लोकचतुष्टयेन कलिदोषमपनयन्ति । कल्या० हे वीतराग! कल्याणसिद्ध्यै शुभसम्प्राप्त्य, कलिरेव साधीयान् साधुतरः, कषोपलः कषपट्टः, कल्याणं श्रेयः, कनकमपि भव्यानामितिगम्यं यथा काकतुण्डस्यागरोरग्निं विना गन्धमहिमा नैधते न वर्द्धते ॥५॥ SASUSAK ********** 416405**XHAFA YANSHAAL JainEducation For Private Personal Use Only p a inelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy