SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥७६॥ विमति० हे वीतराग! चार्वाकस्य नास्तिकस्य, विमतिविरुद्धप्रतिपत्तिः, सम्मतिः सम्यक्प्रतिपत्तिा, न मृग्यते न वि-5 अवचू. चार्यते, कुतः? यस्य चार्वाकस्य, शेमुषी बुद्धिः, परलोकात्ममोक्षेषु परलोके जीवे मोक्षे च, मुह्यति मूढा स्यात् , ये बालगोपालप्रसिद्धं जीवाद्यपि न जानन्ति तस्य वा विमतिः सम्मतिर्वेत्यर्थः ॥११॥ तेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तुतस्तु सत् ॥१२॥ । अथोपसंहारं कुर्वन्त आहुः । तेनो० हे वीतराग! तेन कारणेन ये केचित्कृतधियो ज्ञातारस्त्वदुपज्ञं त्वयैव प्रथममुपदिष्टं वस्तुतस्तु सत् परमार्थरूपं, प्रपन्नाः स्वीकृतवन्तः, वस्तु किंविशिष्टमुत्पा० उत्पत्तिक्षयस्थिरतामिश्रं किंवत् ? गोरसा-12 दिवत् यथा गोरसं दुग्धतया विनश्यद्दधितयोत्पद्यमानं गोरसतया तिष्ठत्येव ॥ १२ ॥ इत्यष्टमप्रकाशावचूरिः ॥ ८ ॥ यत्राल्पेनापि कालेन त्वद्भक्तैः फलमाप्यते । कलिकालः स एकोऽस्तु कृतं कृतयुगादिभिः ॥१॥ इत्थं प्रतिपक्षक्षेपमाख्याय वीतरागस्य धर्मचक्रवर्तिनः कालसौष्ठवज्ञापनपूर्वमेकच्छत्रतां प्रकटयन्ति । यत्र हे वीतराग! | यत्राल्पेनापि कालेन त्वद्भक्तैः फलमाप्यते आसाद्यते।यत उक्तं "कृते वर्षसहस्रेण, त्रेतायां हायनेन च। द्वापरे यच्च मासेन, अहोरात्रेण तत्कलौ ॥१॥” इत्यतः स एकः कलिकालोऽस्तु, कृतयुगादिभिः कृतं सृतम् ॥१॥ | ॥७६॥ सुषमातो दुःषमायां कृपा फलवती तव । मेरुतो मरुभूमौ हि श्लाघ्या कल्पतरोः स्थितिः॥२॥ SISUSTUSOSSESSIES C+ Jain Educatio n al For Private Personal Use Only ( H w .jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy