SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ -SCANTOSCROSTELECOCKR तथापि श्रहामुग्धोऽहं नोपालभ्य स्खलन्नपि । विशृङ्खलापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥८॥ पुनः कारणान्तरं विमृश्य स्तवोद्योगं दर्शयन्ति-तथा० तथापि निर्विचारत्वे सत्यपि श्रद्धामुग्धो वासनाप्रेरितस्वान्तोऽहं स्तवने स्खलन्नपि स्वल्पमपि मया गुणानन्त्यं प्रकटयितुमशक्नुवन्नपि नोपालभ्यः मूर्ख मा वदेति न निराकार्यः यतः कारमाणात् श्रद्दधानस्य श्रद्धावतो विशृङ्खलाऽसम्बद्धापि वाग्वृत्तिर्वचनरचना शोभते ॥८॥ श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥९॥ - आयुक्तसम्बन्धं सूचयन्तः प्रोचुः-श्रीहेम० इतः प्रस्तुतात् श्रीहेमचन्द्रविरचिताद्वीतरागस्तवात्कुमारपालभूपाल ईप्सितं दर्शनविशुद्धिलक्षणं फलं कर्मक्षयमित्यर्थः । प्राप्नोतु समासादयतु ॥९॥ इति प्रथमप्रकाशावचूर्णिः ॥ १ ॥ प्रियङ्गस्फटिकस्वर्णपद्मरागाञ्जनप्रभः। प्रभो तवाधौतशुचिः कायः कमिव नाक्षिपेत् ॥१॥ सहजातिशयचतुष्टयं व्यावर्णयन्ति-प्रियं० हेप्रभो! तव कायो देहोऽधौतशुचिरक्षालितपवित्रः, के सुरनरादिकं नाक्षि|पेत् नोत्कंचितं कुर्यादपितु सर्वमपि, इवोऽवधारणे, किम्भूतः कायः? प्रियङ्ग नीलवर्णो वृक्षः स्फटिकस्वर्णे प्रतीते पद्मरागो | रक्तमणिरञ्जनं कज्जलं तद्वत्प्रभा कान्तिर्यस्य स तथा यतः “पउमाभवासुपुजा. १ वरकणय. २” इत्यादि पञ्चपरमे|ष्ठिरूपतया वा वीतरागदेहस्य पञ्चवर्णत्वम् ॥१॥ SSCARECRUASEASRUSSOCIA Jain Educatio n TWI al For Private Personal Use Only OR-jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy