SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ वी.स्तोत्र उपक्रमः ॥ ५ | क्रियान्वितं रत्नत्रितयगोचरमनुमन्येऽहं सुकृतमर्हदादीनामहत्त्वादिकमनुमोदयामि, त्वां त्वत्फलभूतान्सिद्धाँस्त्वच्छासनरतान्मुनींस्त्वच्छासनं च शरणं प्रपद्ये, सर्वान्सत्त्वान्क्षमयामि क्षाम्यन्तु च तेऽस्तु च मैत्री तेषु आपरमपदावाप्तेर्भव शरणं ममेति तेनुः शरणक्रियामतथामवितथवादाः॥१७॥ ____ अष्टादशे कठोरस्तवे शेषापरदेवलक्षण्यं क्रोधलोभभयाक्रान्तजगद्वैलक्षण्यमेव प्रभोर्लक्षणं कृतलक्षणा निरचैषुः कृतलक्षणतया परं नैतत्संसा| रकाचकामलिपरिगतानामसुमतामायाति यथार्ह श्रद्धानगोचरे विना सम्यक्त्वाञ्जनम् ॥ १८ ॥ ___ एकोनविंशे आज्ञास्तवे पालनमेवाज्ञाया भगवड्यानं निःश्रेयसकर निग्रहानुग्रहकर्तृणां परेषां वर्धिन्येव संसारारण्यस्याज्ञा, विगतरागाणामारा धनम् अचिन्त्यमण्यादितो भवत्येवाभीष्टदं, सपर्याया अपि पराज्ञाराधना, तदाराधनविराधननिबन्धनत्वान्निर्वाणानिर्वाणयोः, सा चाश्रवसंवरयोहे| योपादेयतारूपैव, तदाराधकाश्च निर्वाणपथनिभृता अभूवन्भवन्ति भविष्यन्ति ॥ १९॥ विंशे आशीःस्तवे च त्वत्पादरजःकणा निवसन्तां मूर्ध्नि, मम दृशौ क्षालयेतां मलमनहेक्षणभवं, लुठनैरस्तु किणावलिः प्रायश्चित्तमसेव्यप्रणामस्य, रोमाञ्चकण्टका असद्दर्शनवासनां तुदन्तु, त्वदास्यपीयूषपानादस्तु मदीयलोचनाम्भोजानां निर्निमेषता, नेत्रे त्वदीयवदनलासिनी, करौ त्वदुपा| स्तितत्परौ, श्रोत्रे त्वद्गुणग्रहणपरे भवतः सदा, खस्त्यस्त्वेतस्यै वाण्यै या तत्रभवद्गुणावगाहप्रत्यग्रोमिति खीक्रियख यद्दासः प्रेष्यः सेवकः किङ्करोऽहन्ते इति, इत्येवमनूनप्रतिभाप्राग्भारवर्णनातिगं जगद्गुरुं वर्णयामासुस्तत्रभवन्तोऽत्रेति विज्ञायते ॥ २० ॥ एतत्पर्यवसाने यदुत न लब्धचरा आदर्शा अस्यानेके न च शुद्धाः परमावश्यकं श्रद्धापीयूषपीनानां श्राद्धानामेतस्य पठनमिति मुद्रणोपक्रमोद्भव आगसि मिथ्यादुष्कृतं प्रार्थयते सकलश्रमणसङ्घसेवकः आनन्दाब्धिरस्तु च लेखकपाठकमुद्रापकाध्येतृणां श्रेयो निःश्रेयसपर्यवसानं |बोधिबीजावाप्तिद्वारेति । सिन्ध्वृत्वकेन्दुमानेऽब्दे, (१९६७) पौषे मास्यसिते दले । पञ्चम्यां सुरतद्रङ्गे, श्रेयसेऽस्तु लिपीकृतः । Jain Education S eal For Private & Personel Use Only ainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy