________________
Jain Education
दिबन्धहेतुसान्निध्यात्कृतं बद्धनिधत्तादिरूपेणोपनिबद्धं यद्दुष्कृतं प्राणातिपाताद्यष्टादशपापस्थानरूपं तद् गर्हन् हा दुष्टमि - दं कर्म मया कृतमिति सानुतापं निरन्तरमनुस्मरन् । तथा स्वकृतं सुकृतमेवाश्रवद्वारसंवरलक्षणमनुमोदयन् सानन्दमन्तर्विभावयन्, त्वच्चरणौ त्वक्रमौ शरणं यामि प्रपद्ये । किंविशिष्टः ! शरणोज्झितः भावशत्रुसंत्रासादशरणः॥दुष्कृत गर्हामेवाहमनोवाक्कायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥ २ ॥
हे भगवन् ? मनोवाक्कायजे मनोवचनतनुसमुद्भवे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे पापे कल्मषे कृतानुमतिकारितैः करणकारणानुमतिभिर्यन्मे पुरा कृतं दुष्कृतं दुष्कर्म तत्तवाचिन्त्यमहिम्नो माहात्म्यान्मिथ्या मुधास्तु कृतमप्यकृतमिव जायताम्, कथं ! अपुनः क्रिययान्वितं अपुनःकरणेन युक्तम् । किमुक्तं भवति ! किल यस्य हि पापस्य मिथ्यादुष्कृतरूपं प्रायश्चितमुपात्तं तद्यदि भूयोऽपि विधीयते तदा तन्मिथ्या कुम्भकृन्मिथ्यादुष्कृतमिव वृथैव स्यादित्यपुनः क्रिययेत्युक्तम् । सुकृतानुमोदनमाह
यत्कृतं सुकृतं किञ्चिद्रनत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं मार्गमात्रानुसार्यपि ॥ ३॥
हे स्वामिन्! यन्मया तथाविधशुभ सामग्रीयोगेन किञ्चिदल्पमपि सुकृतं रलत्रितयगोचरं ज्ञानदर्शन चारित्रानुगतं कृतमुपार्जितं तत्सर्वमहमनुमन्ये सप्रमोदमनुमोदयामि, किंविशिष्टोऽहं ? मार्गमात्रानुसार्यपि ज्ञानादियुक्तमार्गमात्रप्रविष्टोऽपि, अयमाशयः 'किल ज्ञानादयो हि यदैव सम्यगासेविताः स्युस्तदैवानुमोदनेन पुण्योपचयं कुर्युः, अहं तु रत्नत्रयमार्गानु
2tional
For Private & Personal Use Only
%
www.jainelibrary.org