SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ वीतराग. ॥८२॥ Jain Educatio तथा परे न रज्यन्त उपकारपरे परे । यथाऽपकारिणि भवानहो सर्वमलौकिकम् ॥ ५ ॥ तथा० हे वीतराग ! परे परतीर्थिकोपकारकर्त्तरि सेवके न रज्यन्ते स्निह्यन्ति यथा कमठगोशालकादावपकारिण्युपसर्गकर्त्तरि भवान्रक्तः सन्मार्गप्रापणेनाहो इत्याश्चर्ये तव सर्व लोकाप्रसिद्धम् ॥ ५ ॥ हिंसका अपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् ॥ ६ ॥ हिंस० हे वीतराग ! हिंसकाः चण्डकौशिकादय उपकृता सुगतिप्रापणेन त्वया आश्रिताः सर्वानुभूतिसुनक्षत्रादयोप्युपेक्षितास्त्वयैहिकापद्भ्यो न रक्षिता इदं चित्रमाश्चर्यकारि तव चरित्र के पर्यनुयुञ्जतां किमर्थमिदं स्वामी करोतीति प्रष्टुमप्युत्सहतां न केऽपीत्यर्थः ॥ ६ ॥ तथा समाधौ परमे त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति यथा न प्रतिपन्नवान् ॥ ७ ॥ तथा० हे वीतराग ! त्वया परमे समाधौ ध्याने, तथाऽऽत्मा विनिवेशितः स्थिरीकृतः, यथा न प्रतिपन्नवानितीति किमहं | सुख्यस्म्यथवा दुःखीति ॥ ७ ॥ ध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः ॥ ८ ॥ ध्याता० ध्याता क्षपकश्रेण्यारूढो, ध्येयं परमात्मस्वरूपं, ध्यानं ध्येयविषयोपगप्रत्ययसन्ततिः । हे वीतराग ! एतत्रयं तवैक्यं | प्राप्तं ध्याता त्वं केवलित्वेन शुक्लध्यानत्वात्, सिद्धा एव हि ध्येया अतो ध्येयोऽपि त्वं सिद्धरूपत्वात्, ध्यानं ज्ञानविशेष - For Private & Personal Use Only अवचू. ॥८२॥ w.jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy