Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
Catalog link: https://jainqq.org/explore/600165/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्रविशारदजैनाचार्यश्रीविजयधर्ममूरिगुरुभ्यो नमः। số 1 đã bị đó là do a 3 0 0 2 20 21 22 23 24 25 24 23 22 2 3 GAUTORRESTIMOTIO YaaarakshassssssssssssssasarasdoossossabseaseNEY श्रीयशोविजयजैनग्रन्थमाला [३१] विशेषावश्यकभाष्यम् । जलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम्। (चतुर्थो विभागः) जधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् । Printed and Published by Shah Harakhchand Bhurabhai at The Dharmabhyudaya Press, Benares City. वीरसंवत् २४३८ । SECRENDERBELOPOEMEDIES Omee me 1009 " " " " For Peso Private Use Only Page #2 -------------------------------------------------------------------------- ________________ Jan Education International For Personal and Private Use Only www.jametrary.org Page #3 -------------------------------------------------------------------------- ________________ ॥६०१॥ तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिममापि वृद्धिं यास्यति, श्रुतस्य चाव्यवच्छित्तिर्भविष्यतीति । एवं पञ्चभिरभिप्रायैः श्रुतं सूत्रार्थतोवाचयेदिति । एषामेव संग्रहादिभावानां मध्याद् द्वि-व्यादिभिर्भावैः सर्वैर्वाऽनुयोगं कुर्वतो भावैरनुयोगः। क्षायोपशमिके भावे स्थितस्य व्याख्या कुर्वतो भावेऽनुयोगः। भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकत्वेन तस्यैकत्वात् । अथवा, एकोऽपि क्षायोपशमिको भावप्रचारा| दिशास्खलक्षणविषयभेदाद् भिद्यते । ततश्चाचारादिशास्त्रविषयभेदभिन्नेषु क्षायोपशमिकभावेष्वप्येष भवत्यनुयोगः, न कश्चिद् विरोधः । 'वा' इति अथवा, स्वामित्वमासाद्यानुयोगकर्लस्वामिनो बहून् प्रतीत्य क्षायोपशमिकपरिणामेषु बहुष्वनुयोगप्रवृत्ती| वेष्वनुयोगो न विहन्यते । इत्युक्तः पडिधो भावानुयोग इति ।। १४०६ ॥ १४०७॥ एषां चानुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समादेशः, भजना वा, तदेवाहदेब्वे नियमा भावो न विणा ते यावि खेत्त-कालेहिं । खेत्ते तिण्ह वि भयणा कालो भयणाए तीसु पि ॥१४०८॥ द्रव्ये तावद् नियमाद् भावः पर्यायोऽस्ति, पर्यायविरहितस्य द्रव्यस्य कापि कदाचिदप्यभावात् । तावपि द्रव्य-भावौ क्षेत्रकालाभ्यां विना न संभवतः । द्रव्य-भावयोर्हि नियमवान् सहभावो दर्शित एव । द्रव्यं चावश्यकं कचित् क्षेत्रेऽवगाढमन्यतरस्थितिमदेव च भवति । अतः सिद्धमिदम्- द्रव्य-भावावपि क्षेत्र-कालाभ्यां विना कापि न भवतः । क्षेत्रे तु त्रयाणामपि द्रव्य-काल-भा. वानां भजना विकल्पना- कापि तत्र ते प्राप्यन्ते, कापि नेत्यर्थः, लोकक्षेत्रे त्रयाणामपि भावात् , अलोकक्षेत्रेऽभावादिति ।। आह- अलोकक्षेत्रेऽप्याकाशलक्षणं द्रव्यमस्ति, वर्तनादिरूपस्तु कालः, अगुरुलघवश्वानन्ताः पर्यायाः सन्त्येव; तत् कथं तत्र द्रव्य-काल-भावानामभावः ? । सत्यम् , किन्त्वाकाशलक्षणं द्रव्यं यत् तत्रोच्यते, तदयुक्तम् , तस्य क्षेत्रग्रहणेनैव गृहीतत्वात् । कालस्यापीह समयादिरूपस्य चिन्तयितुं प्रस्तुतत्वात् , तस्य च समयक्षेत्रादन्यत्राभावात् , वर्तनादिरूपस्य त्वत्राविवक्षितत्वात क्षेत्रग्रहणेनैव तत्र तस्य गृहीतत्वाच्च । पर्यायाश्चेह धर्मा-ऽधर्म-पुद्गल-जीवास्तिकायद्रव्यसंबन्धिनो विवक्षिताः, ते चालोके न सन्त्येव । आकाशसंबन्धिनस्त्वगुरुलघुपर्यायाः क्षेत्रग्रहणेनैव गृहीतत्वाद् नेह विवक्षिताः । इत्यतोऽलोके त्रयाणामपि द्रव्य-काल-भावानामभावः । 'कालो भयणाए तीसु पि त्ति' द्रव्य-क्षेत्र-भावेषु त्रिष्वपि कालो भजनया विकल्पनया भवति, समयक्षेत्रान्तर्वर्तिषु तेषु तस्य भावात् , तद्वहिस्त्वभावादिति । एवं च स्थितानाममीषां द्रव्यादीनां यथासंभवमनुयोगः प्रवर्तत इति ॥ १४०८ ॥ १ घ. छ. 'पामिति सं' । २ द्रव्ये नियमाद् भावो न विना तो चापि क्षेत्र-कालाभ्याम् । क्षेत्रे त्रयाणामपि भजना कालो भजनया त्रिवपि ॥ १४०८ ॥ ६.१॥ Jan Education intomation Foresonal and Pri n y Page #4 -------------------------------------------------------------------------- ________________ विशेषा ० ॥ ६०२॥ Jain Education Internationa अपरमपि द्रव्यादिगतं किञ्चित् स्वरूपं प्रसङ्गतः प्राह ओहारो आहेयं च होइ दव्वं तहेव भावो य । खेत्तं पुण आहारो कालो नियमाउ आहेओ || १४०९ ॥ द्रव्यमाधारो भवति पर्यायाणाम्, आधेयं च भवति क्षेत्रे । तथा, भावश्चाधारो भवति कालस्य, काल-वर्णादीनां समयादिस्थितित्वादिति; आधेयश्च भवति द्रव्ये । क्षेत्रमाकाशं पुनः सर्वेषामपि धर्मा धर्म- पुद्गल - जीव-कालद्रव्याणाम्, अगुरुलघुपर्यायाणां वाधार एव, न त्वाधेयम्, सर्वस्यापि वस्तुनस्तत्रैवावगाढत्वात् तस्य च स्वप्रतिष्ठितत्वेनान्यत्राधेयत्वायोगादिति । 'कालो नियमाउ आहे त्ति' कालो नियमादाधेय एव भवति, न त्वाधारः, तस्य द्रव्य-पर्यायेष्वेव स्थितत्वात्, तत्र चाऽन्यस्यास्थितत्वादिति । त व्याख्यातो नामादिभेदतः सप्तविधोऽप्यनुयोगः ।। १४०९ ।। एतद्विपक्षश्चाननुयोगो भवति, अतस्तं विभणिपुरुक्तोपसंहारं प्रस्तावनां चाह - सो जोगो ओऽणुओगो इओ विवज्जत्थं । जो सो अणणुओगो तत्थेमे होंति दिहंता ॥ १४१०॥ तदेवं गतो भणित एषोऽनुरूपयोगोऽनुयोगः सप्तविधोऽपि । अथ विपर्यस्तमेतद्विपर्ययेण योऽयमननुयोगः स उच्यते । तत्र चैते वक्ष्यमाणा दृष्टान्ता भवन्ति ।। इति त्रयोविंशतिगाथार्थः ।। १४१० ।। के पुनस्ते ननु योगदृष्टान्ताः १, इत्याह वच्छगगोणी खुज्जा सज्झाए चैव बहिरउल्लावे । गामेलए य वयणे सत्तेव य होतं भावस्मि ॥ १४११ ॥ सावगभज्जा सत्तवईए य कोंकणगदारए नउले | कमलामेला संबस्स साहसं सेणिए कोवो || १४९२ ॥ यथाऽनुयोगो नामादिभेदात् सप्तविधो वर्णितस्तथाऽननुयोगोऽपि यथासंभवं वक्तव्यः । तत्र नाम-स्थापने सुगमे । द्रव्याननुयोगे, तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगौरुदाहरणम् । क्षेत्रे त्वननुयोगा-अनुयोगयोः कुब्जोदाहरणम् । काले स्वाध्यायः । वचने पुनरुदाहरण १ आधार आधेयं च भवति द्रव्यं तथैव भावश्व क्षेत्रं पुनराधारः कालो नियमादाधेयः ॥ १४०९ ॥ २ एषोऽनुरूपयोगी गतोऽनुयोग इतो विपर्यस्तम् । यः सोऽननुयोगस्त मे भवन्ति दृष्टान्ताः ॥ १४१० ॥ ३ वत्सकः कुब्जा स्वाध्यायश्चैव बधिरोहापः । ग्रामेयकश्च वचने सप्तैव च भवन्ति भावे ।। १४११ ॥ श्रावकभार्या सातपदिकश्च कोङ्कणकदारको नकुलः | कमलामेला शम्बस्य साहसं श्रेणिके कोपः ॥ १४१२ ॥ For Personal and Private Use Only बृहद्वांसः। ||६०२॥ Page #5 -------------------------------------------------------------------------- ________________ विशेषा० ||६०३॥ Jain Educations Internati द्वयम्, तद्यथा - बधिरोल्लापः, ग्रामेयकथ । भावे तु सप्तोदाहरणानि भवन्ति तद्यथा श्रावकभार्या, साप्तपदिकः पुरुषः, कोङ्कणकदारकः, नकुलः, कमलामेला, शम्बस्य साहसम्, श्रेणिककोपश्च ।। इति निर्मुक्तिगाथासंक्षेपार्थः ।। १४११ ।। १४१२ ।। अथ विस्तरतो 'वच्छगगोणी-' उदाहरणं भाष्यकारः प्राह खीरं न देइ सम्मं परवत्थनिओगओ जहा गावी । छड्डेज च परदुद्धं करिज्ज देहोवरोहं वा ॥ १४१३॥ यथा काचिच्छवलादिका गौरन्यस्या बहुलादिकायाः संबन्धिनि गोदोहकेन वत्से निर्युक्ते सत्यननुयोगोऽयमिति कृत्वा तन्नि योगतः क्षीरं दुग्धं सम्यग् न ददाति । अथवा, न तावता तिष्ठेत् किन्तु परदुग्धमन्यस्या अपि गोः सत्कं दुग्धमग्रेऽपि गोदोहनकाया व्यवस्थितमुल्ललन्ती छईयेत् त्याजयेत् । यदिवा, देहोपरोधं लतामहारादिभिर्जानुभङ्गादिना देहवाधामपि कुर्यादित्यर्थः ॥ १४१३॥ तथा किम् ?, इत्याशङ्कय प्रस्तुतं योजयन्नाह - तेह न चरणं पसूते परपज्जायविणिओगओ दव्वं । पुव्वचरणोवघायं करेइ देहोवरोहं वा ॥ १४१४ ॥ जिणवयणासायणओ उम्माया -ऽऽतंक मरणवसणाई । पावेज सव्वलोयं स बोहिलाहोवघायं च ॥१४१५॥ दव्यविवज्जासाउ साहणभेओ तओ चरणभेओ । तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा || १४१६ || तथाsत्रापि व्याख्याता यदा जीवादिद्रव्यमजीवादिधर्मैः प्ररूपयति, अजीवादिद्रव्यं वा जीवादिधर्मैः प्ररूपयति । तदित्थं प्ररूप्यमाणं तद् द्रव्यमनुगोगतो दुग्धस्थानीयं चरणं चारित्रं न प्रभूते- परपर्याय विनियोगतो विपर्यासात् तद्धेतुस्तद् न भवतीत्यर्थः । न चैतावता तिष्ठति, किन्त्वित्थमननुयोगं कुर्वतः पूर्वप्राप्तचरणोपघातं च करोति । तथा, इत्थमविधिप्ररूपणप्रवृत्तस्य रोगानुत्पत्तेर्देहस्याप्युपरोधं वाघां विदधाति । किञ्च इत्थं जिनवचनाशात नोत्पत्तेरुन्मादाऽऽतङ्क - मरणव्यसनान्यपि प्राप्नुयात् । तथा, सर्वव्रत लोपम्, बोधिलाभोपघातं च प्राप्नुयादिति । ननु कथं विपर्ययप्ररूपणामात्रादेवैतावन्तो दोषाः स्युः ?, इत्याह- 'दव्वविवज्जासेत्यादि' विपरीतप्ररूपणे हि द्रव्यस्य विपर्यासो भवति, तथा च सति साधनस्य सम्यग्ज्ञानादेर्भेदोऽन्यथाभावो जायते । ततः साधनभेदाच्चरणभेदः, १ क्षीरं न ददाति सम्यक् परवत्सनियोगतो यथा गौः । छदयेच परदुग्धं कुर्याद् देहोपरोधं वा ॥ १४१३ ॥ २ तथा न चरणं प्रसूते परपर्यायविनियोगतो द्रव्यम् । पूर्वचरणोपघातं करोति देहोपरोधं वा ॥ १४१४ ॥ जिनवचनाशातनत उन्मादाऽऽतक-मरणव्यसनानि । प्राप्नुयात् सर्वलोपं स बोधिलाभोपघातं च ॥ १४१५ ॥ विपर्यात्साधनभेदस्ततञ्चरणभेदः । ततो मोक्षाभावो मोक्षाभावेऽफला दीक्षा ॥ १४१६ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥। ६०३ ॥ www.janbrary.org Page #6 -------------------------------------------------------------------------- ________________ विशेषा० १६०४ ॥ Jain Educationa Internation तद्भेदात् तत्साध्यस्य मोक्षस्याभावप्रसङ्गः, उपायाभावे उपेयासिद्धेः । ततो मोक्षाभावे निष्फलैव दीक्षा, मोक्षार्थमेव तत्प्रतिपत्तेः, ततस्तदभावे निरर्थकैव सेति । तदेवं द्रव्याननुयोगे निर्दिष्टा दोषाः । १४१४ ।। १४१५ ।। १४१६ ॥ अथ द्रव्यस्य सम्यगनुयोगे गुणानाह सेमं पयं पयच्छइ सवत्थविणिओगओ जहा घेणू । तह सयपज्जवजोए दव्वं चरणं ततो मोक्खो ॥१४१७॥ यथा परवत्सपरिहारेण स्ववत्सविनियोगाद् गौः सम्यक् पयः प्रयच्छति, तथा द्रव्यमपि वपर्यायविनियोगे सम्यक्चरणं प्रसूते । अनर्थावाप्तिश्च काचिद् न भवति । यतश्चरणात् किम् ?, इत्याह- यतोऽचिराद् मोक्षः प्राप्यत इति । तदेवं द्रव्याननुयोगे तदनुयोगे च दोष-गुणयोर्वत्सगोदृष्टान्त उक्तः ॥ १४१७ ॥ अथ क्षेत्राद्यननुयोगे दोषान्, तदनुयोगे तु गुणान् सोदाहरणानतिदिशन्नाह - ऐवं वत्ताईसु वि सधम्मविणिओगओऽणुओग त्ति । विवरीए विवरीओ सोदाहरणोऽणुगंतव्व ॥ १४१८॥ मुक्तानुसारेण क्षेत्र काल-वचन- भावेष्वपि स्वधर्मविनियोगत आत्मोचितधर्म योजनादनुयोगः विपरीते तु विपरीतधर्म योजने तु विपरीतोऽननुयोगः सोदाहरणः स्वबुद्ध्या ग्रन्थान्तराच्चानुगन्तव्यो ज्ञातव्यः । तत्रेत्थमतिदिष्टेऽपि मुग्धविनेयानुग्रहार्थ किञ्चिदुच्यते । तत्र क्षेत्रतोऽननुयोगे कुब्जोदाहरणमभिधीयते प्रतिष्ठाननगरे सौलवाहनां नाम राजा । स च प्रतिवर्ष समागत्य भृगुकच्छे नभोवाहननृपं रुणद्धि । ऋतुबद्धे च काले तत्र स्थित्वा वर्षासु स्वनगरं गच्छति । अन्यदा च रोहके समागते तेन राज्ञा स्वनगरं जिगमिषुणाऽऽस्थान सभामण्डपिकायां तद्ग्रहकमन्तरेणापि भूमौ निष्टतम् । तस्य च राज्ञः पतद्गृहकधारिणी कुब्जा समस्ति । तया चातीच भावज्ञतया लक्षितम्- नूनं परिजिहीर्षुरिदं स्थानं नरपतिर्यास्यति प्रभाते स्वनगरम् तेनेत्थमिदं निष्ठीवति । इति संचिन्त्य निगदितं कथमप्यात्मपरिचितस्य यानशालिकस्य । ततस्तेन प्रगुणीकृत्य यानान्यगच्छत एवं राज्ञः पुरतोऽपि मवर्तितानि । तत्पृष्ठतश्च सर्वोऽपि स्कन्धावारः प्रवृत्तो गन्तुम् । व्याप्तं च नभोमण्डलं कटक धूलीनिकरेण । ततचिन्तितं विस्मितमनसा नराधिपेन- ननु मया कस्यापि प्रयाणकं न कथितम्, धूलीभयात् किलाह १ सम्यक् पयः प्रयच्छति स्ववत्सविनियोगतो यथा धेनुः । तथा स्वपर्यांययोगे द्रव्यं चरणं ततो मोक्षः ॥ १४१७ ॥ २ एवं क्षेत्रादिष्वपि स्वधर्मविनियोगतोऽनुयोग इति । विपरीते विपरीतः सोदाहरणोऽनुगन्तवत्रः ॥ १४३८ ॥ ३ क.ग. 'शाल' । For Personal and Private Use Only बृहद्वृत्तिः । ॥६०४॥ www.jainntbrary.org Page #7 -------------------------------------------------------------------------- ________________ विशेषा० ||६०५॥ Jain Educations Internationa I स्वल्पपरिच्छदो भूत्वा सैन्यस्य पुरत एव यास्यामि एतच्च विपरीतमापन्नम्, तत्कथमिदं कटकलोकेन विज्ञातम् ?; इति परम्परया शोधयता विज्ञाता कुब्जा । पृष्टया च तया कथितं सर्वमपि यथावृत्तम् । तदत्र सभामण्डपकादिक्षेत्रेण निष्ठीवनस्याननुयोगः, निष्ठीवनादिरक्षण-प्रमार्जनो-पलेपनादिकस्त्वनुयोगः । एवमेकान्तनित्यम् एकम् अप्रदेशं चाकाशं प्ररूपयतोऽननुयोगः स्याद्वादलाञ्छितं तु तदेव प्ररूपयतोऽनुयोग इति । " कालाननुयोगा-नुयोगयोः स्वाध्यायदृष्टान्तः, तद्यथा - एकः साधुः प्रदोषिककालग्रहणानन्तरं कालिकश्रुतमतीतामपि तद्गुणनवेलामजानानः परावर्तयते । ततः सम्यग्दृष्टिदेवतया चिन्तितम्- बोधयाम्यमुम् मा भूद् मिथ्यादृष्टिदेवता छलमस्य । ततो मथितकारिकरूपेण मथितभृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वती 'मथितं लभ्यते इति महता शब्देन पुनः पुनर्घोषयन्ती परिभ्रमति । ततोऽत्युद्वेजितेन साधुना प्रोक्तम्- अहो ! भवत्यास्तत्रविक्रयवेला । ततो मथितकारिकयाऽप्यवाचिअहो ! तवापि स्वाध्यायवेला । ततो विस्मितः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति । ततः 'अकालस्वाध्यायविधानेन मिथ्यादृष्टिदेव| ताविहितच्छलानि भवन्ति, अतः पुनरप्येवं मा कार्षीस्त्वम्' इत्यादि साधुर्देवतयाऽनुशासित इति । एष स्वाध्यायस्य कालाननुयोगः, काले तु पठतस्तदनुयोगः । प्रस्तुतेऽपि कालधर्माणां वैपरीत्या वैपरीत्यप्ररूपणेऽननुयोगाऽनुयोगौ वाच्याविति । अथ वचनविषयमननुयोगा-ऽनुयोगयोरुदाहरणद्वयमुच्यते । तत्र प्रथमं वधिरोल्लापः । तत्र चैकस्मिन् ग्रामे वधिरं कुटुम्बं परिवसति - स्थविर, स्थविरा, पुत्रः, वधूव । अन्यदा च पुत्रः क्षेत्रे हलं वाहयन् पथिकैर्मार्ग पृष्टो बधिरतया ब्रवीति गृहजातौ मम लीवर्दाविमौ न पुनरन्यस्य सत्कौ । ततो 'बधिरोऽयम्' इति विज्ञाय गताः पथिकाः । ततो भक्तं गृहीत्वा वधूः समायाता । शृङ्गितौ पथिकैर्बलीवर्दावित्यादि निवेदितं ततस्तस्याः । तया च प्रोक्तम्- 'क्षारमलवणं वेति न जानाम्यहम् एतत् त्वदीयजनम्यैव हि संस्कृतम् । ततो गृहं गतया तयापि क्षारादिभणनव्यतिकरो निवेदितः । स्थविरया च कर्तयन्त्या प्रोक्तम्- स्थूल सूक्ष्मं वा भवतु, इदं स्थविरस्य परिधानं भविष्यति । निवेदितं चैतत् सानुशयचित्तया स्थविरया गृहमागतस्य स्थविरस्य । तेनापि वियता प्रोक्तम्- तव जीवितं पिवामि यद्येकमपि तिलमहं भक्षयामीति । एवमेकवचनादिकमप्युक्तं द्विवचनादितया यः शृणोति तथैव चान्यस्य प्ररूपयति, तस्याननुयोगः, यथावच्छ्रवणप्ररूपणे त्वनुयोग इति । वचनानुयोगस्यैवेह प्राधान्यख्यापनार्थं वचनविषयमेव द्वितीयं ग्रामेयकोदाहरणमुच्यते तत्र चैकस्मिन् नगरे कस्याश्चिद् महि१.ग. छ. 'प्रदेोषिका' । For Personal and Private Use Only बृहद्वृत्तिः । ||६०५॥ Page #8 -------------------------------------------------------------------------- ________________ विशेषा० ॥६०६॥ Jain Educationa Internation लाया भर्ता मृतः । ततस्तत्रेन्धन जलादिकष्टेन बाधिताऽनिर्वहन्ती लघुना निजतनयेन सह ग्रामं गताऽसौ । ततो दृद्धिं गतेन पुत्रेण सा पृष्टा - मदीयपितुः का जीविकाssसीत् ? । तया प्रोक्तम्- राजसेवा । तेनोक्तम् अहमपि तां करोमि । तया प्रोक्तम्- पुत्र ! दुष्कराsसौ महता विनयेन क्रियते । कीदृशः पुनरसौ विनयः ? । तया प्रोक्तम्- सर्वस्यापि दृष्टस्य प्रणामः कार्यः, नीचैर्वृत्या सर्वस्यापि प्रवर्तितव्यम्, परच्छन्दानुवृत्तिपरैश्च सर्वत्र भवितव्यम् । ' एवं करिष्यामि' इत्यभ्युपगम्य चलितोऽयं राजधानीसंमुखः । मार्गे च हरिणेष्वा गच्छत्सु वृक्षमूलेष्वाकृष्टधनुर्यष्टयो निलीना व्याधा दृष्टाः । तेषां च तेन महता शब्देन योत्कारः कृतः । ततस्त्रस्ताः प्रपलाय्य गता हरिणाः । ततो व्याधैः कुट्टयित्वा बद्धोऽसौ । ततस्तेनोक्तम्- जनन्याहं शिक्षितः- 'दृष्टस्य सर्वस्यापि योत्कारः कर्तव्यः' इत्यादि । ततश्र 'ऋजुरयम्' इति ज्ञात्वा मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशेटे निलीनैरवनतैः शब्दमकुर्वद्भिः शनैर्वा जल्पद्भिर्निभृतमागम्यते' । तदद्भ्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ । दृष्टाश्च वस्त्राणि क्षालयन्तो रजकाः । तेषां च वस्त्राणि तस्करैर्नित्यमपहियन्ते । ततस्तत्र दिने लगुडादिव्यपाण रजकाः मच्छन्नोपविष्टा हेरयन्तस्तिष्ठन्ति । आगतश्चाजल्पन्नवनतगात्रो निलीयमानः शनैः स तत्र ग्रामेयकः । स एष चौरः' इति अन्या कुयित्वा बद्धोऽसौ रजकैः । सद्भावे च कथिते मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशे कस्मिंश्चिद् दृष्ट एवमुच्यते, यथा-रोत्र पततु, शुद्धं च भवतु' इति । इदं चाभ्युपगम्य प्रवृत्तः पुरतो गन्तुम् । ततो दृष्टं कचिद् ग्रामे बहुभिर्मङ्गलैः प्रथमं हलवाहन करणं क्रियमाणम् । तत उक्तम्- ऊपमित्यादि । ततस्तैरपि कृषीवलैः पिट्टितः बद्धव | सद्भावे ज्ञाते मुक्तः । शिक्षितश्च यथा- 'ईदृशे कापि दृष्टे प्रोच्यते, यथा- गन्त्र्योत्र भ्रियन्ताम्, बहुत्र भवतु, सदैव चेदमस्तु' इति। अभ्युपगतं च तेनेदम् । अन्यत्र च मृतके वहिनयमाने प्रोक्तमिदम् । तत्रापि कुट्टितः बद्धव । सद्भावकथने च मुक्तः । शिक्षितश्च यथा- 'ईदृशं मा भूद् भवतां कदाचिदपि, वियोग शेनास्तु' इति । एतच्चान्यत्र विवाहे मोक्तम् । तत्रापि तथैव वद्धः । सद्भावे परिज्ञाते मुक्तः । शिक्षितच यथा'ईदृशे प्रोच्यते - सदैव पश्यन्त्वीदृशानि भवन्तः, शाश्वतश्च भवत्वेतत्संबन्धः, मा भूदिह वियोगः' इति । इदं चान्यत्र कचिद् निगडबद्धं राजानमवलोक्य ब्रुवाणस्तथैव कदर्थयित्वा मुक्तः । शिक्षितश्च यथा- 'ईदृशे वियोगः शीघ्रं भवत्वनेन, एवंविधं च मा भूत् कदाचिदपि' इत्यभिधीयते । एतच्चान्यत्र क्वचिद् राज्ञां संधौ जल्प्यमाने प्रोक्तम् । ततस्तत्रापि तथैव कदर्थितः । एवं स्थाने स्थाने कदर्थ्यमानोऽन्यदा कस्यापि विभवविमुक्तक्कुरस्य सेवां विधातुमारब्धः । तत्र चान्यदा गृहे आम्लखलिकायां सिद्धायां ग्रामसभाजनसमूहमध्ये उपविर tet टक्कुरस्य 'शीतलीभूतैषा भोक्तुमयोग्या भविष्यति' इति भार्यया तदाकारणाय प्रेषितो ग्रामेयकः । तेनापि जनसमूहस्य शृण्वतो | महता शब्देनोक्तम् आगच्छ ठक्कुर ! शीघ्रमेव गृहम् भुव आम्लखलिकाम्, शीतली भवति लग्नाऽसौ । ततो लज्जितष्ठक्कुरो गृहं गतः । For Personal and Private Use Only soooooooooo बृहदत्तिः ॥ ६०६॥ Page #9 -------------------------------------------------------------------------- ________________ विशेषा० ENESSONSENDARSH ॥६०७॥ शस्तस्कमकाकर कामाला ततो गाढं ताडयित्वा शिक्षितः, यथा-'नत्थं पूत्कुर्वाणैहप्रयोजनानि भण्यन्ते, किन्तु वस्त्रेण मुखं स्थगयित्वा कर्णाभ्य% च स्थित्वा शनैः कथ्यन्ते । ततोऽन्यदा वहिदीप्ते गृहे गतोऽसौ राजसभायां शनैरग्रतः स्थित्वा वस्त्रं च मुखद्वारे दवा कथितं च तस्य कर्ण । ततः संभ्रमाद् धावितो गृहाभिमुखं ठक्कुरः । दग्धं च ससर्वस्वं सर्वमपि गृहम् । ततः कुपितेन वाढं ताडितोऽसौ ठक्कुरेण । भणितश्च- निलक्षण ! प्रथममेव धूमे निर्गते जलाचाम्ल-धूलि-भस्मादिकं किमिति त्वया न निक्षिप्तम् ?, महता च शब्देन किमिति स्वया न पूत्कृतम् ।। तेनोक्तम्- अन्यदेत्थं करिष्यामीति । ततः कदाचिद् विहितस्नानो धूपनायोपविष्टष्ठक्कुरः। निर्गता च प्रच्छादनपट्टस्योपर्यगुरुधुमशिखा । दृष्टा च. ग्रामेयकेण । क्षिप्ता चोत्पाट्य तदुपर्याचाम्लभृतमहास्थाली, जल-धूली-भस्मादिकं च, तथा च पूत्कृतं महद्भिः शब्दैरिति । ततः 'अयोग्योऽयम्' इति निष्काशितो गृहात । एवं शिष्योऽपि यावन्मानं वचनं गुरुः कथयति, तावन्मा. त्रमेव स्वयं द्रव्य-क्षेत्र-काल-पराभिप्रायोचित्यपरिज्ञानशून्यो यो वक्ति तस्य वचनाननुयोगः, यस्तु द्रव्य-क्षेत्राद्यौचित्येन वक्ति तस्य तदनुयोग इति । भावाननुयोगा नुयोगयोः सप्तोदाहरणानि- तत्र श्रावकभार्योदाहरणमुच्यते- एकेन गृहीताणुव्रतेन तरुणश्रावकणातीव रूपवती, कृतारूपशृङ्गारा निजपत्न्या एव सखी कदाचिद् दृष्टा, गाढमध्युपपन्नश्च तस्याम् , परं ल जादिना किमपि वक्तुपशक्नुवंस्तत्प्राप्तिचिनाया च प्रतिदिनमतीव दुर्वलीभवति । निर्बन्धेन पृष्टं कारणं स्वभार्यया । कथितं च कथं कथमपि तेन । तया चातीव दक्षतया प्रोक्तम्- एतावन्मात्रेऽप्यर्थे कि खिद्यते ?, प्रथममेव ममैतत् किं न कथितम् ?, स्वाधीना हि मम सा, आनयामि सत्वरमेवेति । ततोऽन्यदिने भणितो भर्ता- अभ्युपगतं सहर्षया तया युष्मत्समीहितम् , प्रदोषे चागमिष्यति, परं लज्जालुतया वासभवनप्रविष्टमात्रापि प्रदीपं विध्यापयिष्यति । तेनोक्तम्- एवं भवतु । किमित्थं विनश्यति ?। ततो वयस्यायाः सकाशात् किश्चिद् निमित्तमुद्भाव्य याचितानि तया तदीयानि स्वभदृष्टपूर्वाणि प्रधानवस्त्राणि, आभरणानि च । ततो गुटिकादिप्रयोगतो विहितसखीसदृशखरादिस्वरूपा, तथैव कृतशृङ्गारा तत्सदृशललितेन, विलासैश्वान्विता तस्यैव श्राद्धस्य भार्या संनिहितवरकुसुम-ताम्बूल-श्रीखण्डा-गुरु-कर्पूर-कस्तूरिकादिसमस्त| भोगाङ्गा विहितामलप्रदीपालोके रमणीये वासभवने सविलासमन्वविशत् । ततो दृष्टा सोत्कण्ठविस्फारितदशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपल्यकोपविष्टेन झगित्येव नयन-मनसोरमृतवृष्टिमिवादधाना तेनैषा । तथा च दृष्टमात्रया विध्यापितः प्रदीपः । क्रीडितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्भरं तेन । गतायां च तस्यां प्रत्युषसि चिन्तितमनेन " सयलसुरा-ऽसुरपणमियचलणेहिं जिणेहिं जं हियं भणियं । तं परभवसंबलयं अहह ! मए हारिअं सीलं ॥१॥" । १ सकलसुरा-मुरप्रणतचरणैजिनयंद्रितं भणितम् । तत् परभवशम्बलकमहह ! मया हारितं शीलम् ॥1॥ कमानस्थल A||६०७॥ For Personal and Private Use Only Page #10 -------------------------------------------------------------------------- ________________ विशेषा० ०८॥ Jain Educationa Internati इत्यादिसंवेगवशोत्पन्नपश्चात्तापमहान ललुप्यमानान्तःकरणः प्रतिदिनमधिकतरं दुर्बलीभवत्यसौ । ततो निवेन्धेन स्वभायेया ये निःश्वस्य सखेदं ब्रवीति प्रिये ! यतश्चिरकालानुपालित स्वर्गापवर्ग निबन्धनवतखण्डनेनामुना कृतं मया तदकर्तव्यं यद् बालिशानामप्यविधेयम् । ततः कृशीभवाम्यहमनया चिन्तया । ततो भार्यया संवेग व्यावृत्तं च तच्चेतो विज्ञाय कथितः सर्वोऽपि यथावृत्तः सद्भावः । साभिज्ञानकथनादिभिश्व समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थभूतोऽयमिति । तदेवं स्वकलत्रमपि परकलत्राभिप्रायेण भुञ्जानस्य तस्य भावाननुयोग:, यथावस्थितावगमे तु भावानुयोगः । एवमौदयिकादिभावान् स्वरूपवैपरीत्येन प्ररूपयतो भावाननुयोगः, यथावस्थिततत्मरूपणे तु भावानुयोग इति । सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः, तदुदाहरणमुच्यते — एकस्मिन् प्रत्यन्तग्रामे कोऽपि सेवकपुरुषो वसति स्म । सच साध्वादिदर्श निनां संबन्धिनं धर्मे न कदाचिदपि शृणोति, न च तदन्तिके कदाचिदपि व्रजति, न च कस्याप्युपाश्रयं ददाति यतो दयालुतां, परधन - परकलत्रनिवृत्यादिगुणप्रतिपत्तिं चैतेऽमी करिष्यन्ति न च तां पालयितुमहं शक्नोमीति । अन्यदा च वर्षासन्नमायातास्तत्र कथमपि साधवः । तेषां च तत्र वसतिमन्वेषयतां कौतुकं दिदृक्षुभिः सेवकनरमित्रैर्ग्रामीणैरुक्तम्- अत्रेत्थंभूतो भवतामतीव भक्तो गृहे श्राकस्तिष्ठति । वसत्यादिना न किञ्चित् क्षणं करिष्यति, तद् गच्छत तत्रेति । कृतं तत् तथैव तैः । स च तेषां पुरतोऽपि स्थितानां संमुखमपि नावलोकयति । तत एकेन साधुना शेषसाधूनामभिमुखमुक्तम् स एष न भवति, वञ्चिता वा तैग्रमेयकैर्वयम्. । ततस्तेन संभ्रान्तेनोक्तम् - किं किं भणध यूयम् ? । ततस्तैः कथितं सर्वमपि तद्ग्राम्यभाषितम् । ततस्तेन चिन्तितम्- अहो ! मत्तोऽपि ते निकृष्टा यैरेतेऽपि प्रवञ्चिताः । तस्माद् मा भूवन्नमी, अहं च तदुपहासपात्रम् । अतोऽनिष्टमपि करोम्येतत् । इति विचिन्त्योक्तम्तिष्ठत मम निराकुलाः शालायामेतस्याम् परं मम धर्माक्षरं न कथनीयम् । प्रतिपन्नमेतत् तैः । स्थिताच सुखेन तत्र चतुर्मास्रकात्य यावत् । ततो विजिहीर्षुभिस्तैरनुव्रजनार्थमागतस्य शय्यातरस्य कल्पोऽयमिति दत्ताऽनुशास्तिः । ततो मद्य-मांस- जीवघातादिविरि कर्तुमशक्नुवतस्तस्यातिशयज्ञानितयाऽग्रे प्रतिबोधगुणं पश्यद्भिर्गुरुभिः साप्तपदिकं व्रतं दत्तम्- कञ्चित् पञ्चेन्द्रियप्राणिनं जिघांसुना यावता कालेन सप्त पदान्यवष्टभ्यन्ते तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति । प्रतिपन्नमेतत् तेन । गताथ साधवोऽन्यत्र । अन्यदा चासौ सेवकनरचौर्यार्थं गतः क्वापि । ततोऽपशकुनादिकारणेन स्वल्पेनैव कालेन प्रतिनिवृत्तः । कीदृशो मत्परोक्षे मदीयगृहे समाचार इति जिज्ञासुर्निशीथे प्रच्छन्न एव प्रविष्टो निजगृहे । तस्मिंश्च दिने तस्य भगिनी ग्रामान्तरादागता । तथा च केनापि हेतुना विहितपुरुपनेपथ्यया नटा नृत्यन्तो निरीक्षिताः । ततोऽतीवमवलनिद्रावशात् कृतपुरुषवेपैव भ्रातृजायासमीपे प्रदीपालोकादि वास भवनगतपल्यङ्क For Personal and Private Use Only बृहदचिः । ||६०८|| Page #11 -------------------------------------------------------------------------- ________________ एव निर्भरं प्रसुप्ता । तेनापि च तद्भन्धुनाऽकस्मादेव गृहप्रविष्टेन दृष्टं तत् तादृशम् । ततश्चिन्तितमनेन- अहो ! विनष्टं मद्गृहम् , विटः विशेषा० BE कोडप्ययं मद्भार्यासमीपे प्रसुप्तस्तिष्ठति । इति कोपावेशादाकृष्टः कृपाणः । ततः स्मृतं व्रतम् । विलम्बितं च सप्तपदापसरणकालम् । अत्रान्तरे तद्भगिनी बाहुलतिका निद्रावशेन तद्भार्याया मस्तकेनाक्रान्ता । ततः पीड्यमानया तद्भगिन्या प्रोक्तम्- हले! मुश्च मम बाहुम्, ॥६०९।। दयेऽत्यर्थमहम् । ततः स्वरविशेषेण ज्ञाताऽनेन स्वभागिनी । अहो ! निकृष्टोऽहम् , मनागेव मया न कृतमिदमकार्यम् , तत उत्थिते ससंभ्रमं भगिनी-भायें इति । कथितश्च सर्वैः स्वव्यतिकरः परस्परम् । ततो यथोक्ताभिग्रहमात्रस्याऽप्येवंभूतं फलमुद्रीक्ष्य संविग्नः प्रव्रजितोऽसाविति । तदत्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोस्तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति । कोङ्कणकदारकोदाहरणं यथा- कोकणकविषय एकस्य पुरुषस्य लघुदारकोऽस्ति । भार्या तु पृता । अन्यां च परिणेतुमिच्छताऽपि सपत्नीपुत्रोऽस्याऽस्तीति न कोऽपि ददाति । अन्यदा च सहैव तेन दारकेणासावरण्ये काष्ठानयनाय गतः । तत्र च कस्यापि पित्रा काण्डं मुक्तम् । तदानयनाय च दारकः प्रेषितः, गतश्चायम् । अत्रान्तरे दुष्पितुस्तस्य चलितं चित्तम् , यदस्य दारकस्य सत्ककारणेनाऽन्यां भार्या मम न कोऽपि ददाति । ततोऽन्यं काण्डं क्षिप्त्वा विद्धोऽसौ दारकः । ततो महता स्वरेणोक्तं बालकेनतात ! किमेतत् काण्डं त्वया मुक्तम् ?, विद्धोऽस्म्यनेनाऽहम् । ततो निघृणेन पित्राऽन्यत् काण्डं मुक्तम् । ततो ज्ञातं दारकेण- 'हन्त ! बुक्को मारयत्येष माम् , इति विस्वरं रटन् निकृष्टेन तेन मारितोऽसाविति । पूर्वमन्यस्य बाणं मुञ्चता पित्राऽनाभोगत एवाऽहं विद्ध इत्यवबुध्यमानस्य भावाननुयोगः, पश्चाद् यथावस्थिताधिगमे तस्य भावानुयोगः । अथवा, 'संरक्षणार्थमपि तं बालकं मारयामि' इत्य- A ध्यवस्यतः पितुर्भावाननुयोगः, तद्रक्षाध्यवसाये तु भावानुयोगः । एवं विपरीतभावप्ररूपणे भावाननुयोगः, अविपरीतभावप्ररूपणे तु भावानुयोग इति । ___ अथ नकुलोदाहरणम्- पदातेः कस्यचिद् भार्या गुर्विणी जाता। नकुलिका च काचित् तद्गृहवृत्त्याश्रिता गुर्विणी पदातिभार्यया सहैकस्यां रजन्यां प्रमूता। तस्या नकुलो जातः । इतरस्यास्तु पुत्रः। ततोऽस्य समीपे स्थितो नकुलः सदैव तिष्ठति । अन्यदाच पदातिभार्याया द्वारे खण्डयन्त्या मध्ये मश्चिकायां स्थितो बालकः सर्पण दष्टः, मृतश्च । ततो मश्चिकाया उत्तरन् नकुलेन दृष्टो विषधरः, * ज्डशः कृत्वा मारितश्च । ततो द्वारे पदातिभार्यायाः समीपे गत्वा शोणितोपलिप्तवक्त्रायवयवोऽसौ चाटूनि कर्तुमारब्धः, दृष्टश्च ॥६०९॥ १ क.छ. कदश ए'। RSORRRC JainEducatiana intemat For P o nt Private Use Only www.janeiorary.org Page #12 -------------------------------------------------------------------------- ________________ तया । ततो 'नूनं मदीयपुत्रो मारयित्वा भक्षितोऽनेन' इति विचिन्त्य कोपावेशाद् सुसलेन हत्वा मारितो नकुलः, गता च पुत्रसमीपे । दृष्टश्च विशेषा०पुषण सह विनष्टः सर्पः । ज्ञातं च यथा सर्पण पुत्रः, नकुलेन तु सर्पो निहतः। ततो हन्त ! इत्थं निरपराधोऽपि, उपकार्यपि मया निकृष्टया हतो वराको नकुल इति विचिन्त्य द्विगुणतरं शोकमापन्ना। पूर्वमनपराधिनमप्यपराधिनं विज्ञाय नकुलं घनत्यास्तस्या भावाननुयोगः, यथावत्परिज्ञाने तु भावानुयोग इति । प्रस्तुतयोजना त्वनन्तरोक्तवदिति । ___ अथ कमलामेलोदाहरणम्-तत्र द्वारवत्यां नगाँ बलदेवपुत्रो निषधः । तस्यापि पुत्रः सागरचन्द्रः। स च रूपेणातीवोत्कृष्टः, शम्बादीनां च कुमाराणां सर्वेषामप्यतिप्रियः । तस्यामेव च द्वारवत्यां नगर्यामन्यस्य राज्ञो दुहिता कमलामेला नाम समस्ति । सा चोग्रसेनतनयस्य नभःसेनकुमारस्य दत्ता, अता च तिष्ठति । अन्यदाच तत्र नारदः सागरचन्द्रस्य समीपं गतः । तेनाऽप्यभ्युत्थित उपवेश्य प्रणम्य च घृष्टः- दृष्टं भगवन् ! आश्चर्य किमपि कापि ? । नारदेनोक्तम्- दृष्टं कमलामेलाभिधानराजपुत्रिकाया न खलु ममैव, किन्तु भुवनत्रयस्याऽप्याश्चर्यकारि रूपम् । सागरचन्द्रेणोक्तम्- किं दत्ता कस्यचित् सा। नारदेनोक्तम्- दत्ता, परं नाद्यापि परिणीता। कथं पुनर्मम सा संपत्स्यते इति सागरचन्द्रेणोक्ते 'न जानाम्येतदहम्' इत्यभिधाय गतो नारदः । सागरचन्द्रस्तु तहिनादारभ्य न शयानो नाप्यासीनः कापि रतिं लभते । तामेव कन्यकां फलकादिष्वालिखत् । तन्नाममन्त्रजापं चानवरतं कुर्वन्नास्ते । नारदोऽपि कमलामेलान्तिकं गतः । तयापि तथैवाश्चर्य किमपि दृष्टमिति पृष्टः कलहदर्शनप्रियतया स प्राह- दृष्टमाश्चर्यद्वयं मया, सागरचन्द्रे सुरूपत्वम्, नभःसेने तु कुरूपत्वम् । ततो झगित्येव सा विरक्ता नभःसेने, अनुरक्ता च सागरचन्द्रे । तत्माप्तिचिन्तातुरा च समाश्वासिता नारदेन सा । वत्से ! स्थिरीभव, संपत्स्यतेऽचिरादेव तवाऽयम् । इत्युक्त्वा गतःसागरचन्द्रसमीपे 'वत्स ! इच्छति त्वां सा' इत्यभिधाय च गतः । ततो विरहावस्थाव्यथिते प्रलपति च सागरचन्द्रे आतेः सर्वोऽपि मात्रादिस्वजनवर्गः। खिद्यन्ते यादवाः । तदत्रान्तरे समायातः कथमपि सागरचन्द्रसमीपे शम्बकुमारः। दृष्टश्च तेनाऽसौ तदवस्थः । ततः पृष्ठतस्तस्य स्थित्वा हस्तद्वयेनाच्छादिते तदक्षिणी शम्बेन । सागरचन्द्रेणोक्तम्- किं कमलामेला ?। शम्बेनोक्तम्- नाहं कमलामेला, किन्तु कमलामेलोऽहम् । ततः सागरचन्द्रेण 'शम्बोऽयम्' इति ज्ञात्वा प्रोक्तम्- सत्यमेतत् , त्वमेव मम कमलदीर्घलोचनां कमलामेला मेलयिष्यसि, कोऽत्रार्थेऽन्यः समर्थः इति । ततोऽन्यैर्यदुकुमारैः पीतमद्यः परवशीभूतः शम्बो ग्राहितस्तद्दापनप्रतिज्ञाम् । उत्तीर्णे च मदभावे विचिन्तितं शम्बेनअहो ! आलं मयाऽभ्युपगतम् , अशक्यं घेतद् वस्तु, कयमियं प्रतिज्ञा निर्वाहयिष्यते । ततः प्रद्युम्नपार्थात् प्रज्ञप्तिविद्या याचिता शम्बेन । विवाहदिवसे च बहुभिर्यादवकुमारैः परिवृतेन तेन सुरजां पातयित्वा पितृगृहादाकृष्य नीता परिरुद्याने कमलामेला । eletelecated ६१०॥ For Personal and ma n y Page #13 -------------------------------------------------------------------------- ________________ बृहद विशेषा ॥६११॥ नारदं च साक्षिणं कृत्वा कारितस्तत्पाणिग्रहणसंबन्धः सागरचन्द्रस्य । ततः सर्वेऽपि कृतविद्याधरस्वरूपाः क्रीडन्तस्तिष्ठन्ति उद्याने । पितृ-श्वशुरपाक्षिकश्चान्वेषयद्भिदृष्टा कृतविद्याधररूपा नवपरिणीतवेषधारिणी च क्रीडन्ती कमलामेला। विद्याधरैर पहत्य परिणीता कमलामेलेति कथितं तैर्वासुदेवस्य । निर्गतश्च विद्याधरोपरि कुपितः सबलवाहनोऽसौ । लग्नं च महदायोधनं तावत्, यावत् पश्चाच्छम्बः परिहतक्रियरूपः पतितो जनकस्यांहियुग्मे । ततश्चोपसंहृतः संग्रामः । दत्ता च कृष्णन कमलामेला सागरचन्द्रस्यैव । गताश्च सर्वे स्वस्थानम् । तत्र सागरचन्द्रस्य शम्बं कमलामेलां मन्यमानस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । विपरीतादिपरूपणयोजना तु प्रस्तुता पूर्ववदिति । अथ शम्बस्योदाहरणम्- वासुदेवात् , शेषजनाच्च सदैव शृणोति जाम्बुवती, समस्तानामप्यालीनां मन्दिरं त्वत्पुत्रः शम्ब इति । ततो जाम्बुवत्या विष्णुरभिहित:- मया पुत्रसत्कैकाऽप्यालिने दृष्टा । विष्णुना प्रोक्तम्- आगच्छ, येनाऽद्य दर्शयामि । ततो जाम्बुवती उत्कृष्टलावण्यमाभीरीरूपं कारिता । खयं पुनराभीररूपं कृत्वा दण्डहस्तः स्वयं पृष्ठे व्यवस्थितः, अग्रतस्तु मस्तकन्यस्तदधिहण्डिका जाम्बुवती कृता । प्रविष्टोऽथ दधिविक्रयार्थ नगरीमध्ये । दृष्टा च शम्बेन माता तदोत्कृष्टरूपाऽऽभीरीति विज्ञाय प्रोक्ता शम्बेनैषा । आगच्छ मद्गृहम् , सर्वस्यापि त्वदीयदनो यावन्मात्रं मूल्यं याचसे, तदहं दास्यामि, इत्यग्रतः स्वयम् , पृष्ठतस्त्वाभीरी, पश्चात् स्वाभीरः । ततः शून्यदेवकुलिकायामेकस्यां गत्वा प्रोक्ता शम्बेनाभीरी- प्रविशैतन्मध्ये, मुश्च दधि, तया च विरूपाभिप्राय तं विज्ञाय प्रोक्तम् - नाहमत्र प्रविशामि, द्वारस्थिताया एव गृहाण दधि, प्रयच्छ मूल्यम् । बलादपि प्रवेशयिष्यामीत्यभिधाय गृहीता शम्बेन बाहौ । ततो धावित्वा द्वितीयबाहौ लग्न आभीरः। द्वयोरपि चाकर्षण-विकर्षणं कुर्वतोभयं भण्डनम् । ततः कृतं सहजरूपमात्मनः, जाम्बुवत्याश्च विष्णुना । तच्च दृष्ट्रा लज्जितो नष्टः शम्बः । नागच्छति चावसरेऽपि लज्जया राजकुले । ततोऽन्यदिवसे विष्णुनियुक्तबृहत्पुरुषैः कष्टेनानीयमानः क्षुरिकया वंशकीलकं घटयन्नागच्छत्यसौ । प्रणामे च कृते पृष्टो वासुदेवेन-शम्ब ! किमेतत् क्षुरिकया घव्यते ? । तेनोक्तम् - कीलकोऽयम् । किमर्थः पुनरसौ। यः पर्युषितानतीतजल्पान् वदिष्यति तन्मुखे आहननार्थ इति । तदत्र शम्बस्य मातरमप्याभीरी मन्यमानस्य भावाननुयोगः, पश्चाद् यथावदवगमे तु भावानुयोगः । प्रस्तुतयोजना तु पूर्ववदिति । अथ श्रेणिककोपोदाहरणम् - राजगृहे नगरे समवस्तस्य भगवतः श्रीमन्महावीरस्य श्रेणिकनराधिपो राझ्या चेल्लणया सह माघमासे हिमकणप्रवर्षिणि महाशीते पतिते वन्दनार्थ गतः । ततो निवर्तमानस्य च तस्य राझ्या चेल्लणया मार्गासनस्तपःकर्षितशरीरः १२. ग. छ. 'शम्ब'। २ क. ग. घ. 'मिति' । SerernationaOoOILDRONACHA ॥६११॥ JamEducational Intemationa Forson and Private Use Only ww.jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ विशेषा० सर्वथास्यनावरणो मेरुशिखरमिव निष्कम्पः पतिमाप्रतिपन्नोऽभिभवकायोत्सर्गे स्थितः संध्यायां दृष्टः कोऽपि तपस्वी। गताऽसौ तद्गुणानेव मनसि ध्यायन्ती गृहम् । सुप्ता च रजन्यामनेकशीतातपहावरणपाता पल्यथे। निर्गतश्च प्रावरणेभ्यो बहिस्तात् कथमप्येकः करः। शीताभिभूतश्चायमतीव स्तब्धीभूतः । तदनुसारेण च समस्तमपि शरीरं तथा व्याप्तं शीतेन. यथा निद्राभरेऽपि जागरित तया । ततः क्षिप्तो हस्तः प्रावरणमध्ये | स्थितश्च हृदये स तथाकायोत्सर्गस्थायी महामुनिः। ततस्तद्गुणोत्पन्नातुच्छबहुमानया विस्मितया च प्रोक्तं तया- 'स तपस्वी किं करिष्यति ?' इति । 'यद्यकेनाप्यावरणबहिनिर्गतेन हस्तेनाऽहमेतावती शीतबाधां प्राप्ता, तारण्ये निरावरणो रूक्षस्तपःकर्षितश्चैवंविधमहाशीतवाधितः स तपस्वी किं करिष्यति ?' इति तस्याश्चित्ताभिप्रायः। अयं चालुतया श्रेणिकनृपस्यान्यथा परिणत:- 'नूनमनया कस्यापि संकेतो दत्तः, तदन्तिके च मयि संनिहिते गन्तुं न शकिता, ततस्तञ्चित्तखेदं चेतसि निधायैतदुक्तम् ।' ततो महता खेदेन तस्य विभाता रजनी । चलितः श्रीमन्महावीरस्यान्तिकम् । गच्छता चातिकोपांवेशाद् निरूपितोऽभयकुमार:- सर्वाभिरेवान्तःपुरिकाभिः सह प्रदीपय सर्वाण्यप्यन्तःपुरगृहाणि । ततोऽभयकुमारेण चिन्तितम् - केनाऽप्यभिनवोत्पन्नकोपावेशनैवमसौ वक्ति । प्रथमकोपे च यदुच्यते तत् क्रियमाणं न खलु परिणतौ सुख यति । अथवा, अनुवर्तनीयं गुरूणां वचनम् । अतः शून्यां हस्तिशालामेका प्रदीप्य प्रस्थितः सोऽपि भगवद्वन्दनार्थम् । इतश्च भगवान् पृष्टः श्रेणिकराजेन- भगवन् ! चेल्लणा, किमेकपनी, अनेकपत्नी वा। भगवता प्रोक्तम्- एकपत्नीति । ततो निवृत्तः सत्वरमेव गृहाभिमुखमभयकुमारनिवारणाय । मार्गे चागच्छन् वीक्षितोऽसौ । पृष्टश्च-किं दग्धमन्तःपुरम् । तेनोक्तम्- दग्धम् । राज्ञा कुपितेनाभ्यधायि-त्वमपि तत्रैव प्रविश्य किं न दग्धोऽसि ? । कुमारेण प्रोक्तम्- किं ममानिप्रवेशन, व्रतमेव ग्रहीष्याम्यहम् । ततो मा भूदस्य महान् खेद इति कथितं यथावदेवेति । तदत्र सुशीलामपि चेल्लणां कुशीलां मन्यमानस्य राज्ञो भावाननुयोगः, यथावदवगमे च तदनुयोगः। एवमौदयिकादिभारान् विपरीतस्वरूपान् प्ररूपयतो भावाननुयोगः, यथावस्थितस्वरूपांस्तु तान् प्ररूपयतो भावानुयोग इति । तदेवमयंकार्थिकानि प्रतिपादयता यदुक्तम्'अणुभोगो य निओगो भास-विभासा य' इत्यादि, तत्र सनिक्षेपः, सोदाहरणचाभिहितोऽनुयोगः, तत्प्रतिपक्षत्वेनान योगश्च ।। १४१८ ॥ सांप्रतं नियोगस्वरूपमभिधित्सुर्भाध्यकारः पाह'नियओ व निच्छिओ वा हिओ व जोगो मओ निओगो त्ति । नेओ सभेअ-लक्खण-सोदाहरणोऽणुओगो व्व॥१४१९॥ ॥६१२॥ १ गाथा १३८५। २ नियतो वा निश्चितो वा हितो वा योगो मतो नियोग इति । ज्ञेयां सभेद-लक्षण-सोदाहरणोऽयोग इव 11४९॥ Jan Education Internat For Personal and Private Use Only Page #15 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥६१३॥ नियतो निश्चितो हितो वाऽनुकूलः मूत्रस्याभिधेयेन सह यः खलु योगः संबन्धः स नियोगो मतः । अयं च सभेदः सलक्षणः सोदाहरणश्चानुयोगवदेव विज्ञेय इति ॥ १४१९ ॥ अथ भाषाखरूपमभिधित्सुराह भासा वत्ता वाया सुयवत्तीभावमित्तयं सा य । सुयभावमित्तयं जह सामाइयमिहेवमाईयं ॥ १४२०॥ भाष व्यक्तायां वाचि' भाषणं भाषा व्यक्ता वागित्यर्थः। सा चेह व्यक्तिः श्रुतस्य व्यक्तिभावमात्ररूपैव गृह्यते, न त्वशेषविशेषरूपा विभाषा, वार्तिकविषयत्वात् तस्याः । अत्रोदाहरणमाह- यथाऽव्यक्तमनवबुद्धविशेषरूपं तत् श्रुतभावमात्रमविज्ञातव्यक्तरूपस्य विने| यस्य भाषकेन व्याख्यात्रा व्यक्तीक्रियते । कथम् ?, इत्याह- सामायिकमिदं शास्त्रपरिज्ञा, अध्ययनं वा, एतस्य च सामायिका| देरयं शब्दार्थ इत्यादि । इदमुक्तं भवति-भाषक-विभाषक-वार्तिककारभेदात् त्रिविधाः श्रुतस्य व्याख्यातारः । तत्र भाषकोऽविज्ञातविशेषस्वरूपस्य श्रुतमात्रस्य सव्युत्पत्तिकविशेषनाममात्रकथनेन व्यक्तिमात्रं कृत्वा चरितार्थो भवति । यथा समस्याऽऽयः सामायिकमिस त्यादि । तदेवं भाषकसंवन्धिन्या भाषायाः स्वरूपमुक्तम् ।। १४२० ॥ ___ अथ विभापकमणीतविभाषायाः स्वरूपमाहविविहा विसेसओ वा होइ विनासा दुगाइपज्जाया । जह सामइयं समओ सामाओ वा समाओ वा ॥१४२२॥ विविधा भाषाऽनेकपर्यायैः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो वा भाषा विभाषा, भाषापेक्षया सविशेष श्रुतस्य व्यक्तीकरणपित्यर्थः । एतदेवाह- यादयः पर्याया यस्यां सा द्वयादिपर्याया विभाषेत्यर्थः । अत्राप्युदाहरणमाह- यथा 'करेमि भंते ! सामाइयं इत्यादि श्रुतमिदं सामायिकमुच्यते- सर्वेषामपि मुमुक्षूणां समये संकेते भवं सामायिकमित्यर्थः । सर्वेऽपि हि मुमुक्षवः सर्वसावधविरमणरूपेऽस्मिन्नेवागत्य प्रथमं तिष्ठन्ति, तत उत्तरोत्तरगुणप्राप्त्या सर्वक्लेशेभ्यो मुच्यन्त इति भावः । अथवा, 'समओ त्ति' सम्यगयनं मुक्तिमार्गे प्रवर्तनं यस्मात् तत् समयः सामायिकमेवोच्यते । यदिवा, 'सामाउ त्ति' साम सर्वेषामपि जीवानां प्रियं तस्य साम्न आयः प्राप्तिः सामायः सामायिकमभिधीयते । अथवा 'समाउ ति' समस्य राग-द्वेषविरहितस्याऽऽयः प्रतिसमयमपूर्वापूर्वकर्मनिर्ज , भाषा व्यका वाक् श्रुतम्यक्तीभावमात्रक सा च । श्रुतभावमात्रकं यथा सामायिकमिदवमादिकम् ।। १४२०॥ २ विविधा विशेषतो वा भवति विभाषा विकादिपर्याया। यथा सामयिक समयः सामायो वा समायो वा ॥ १४२१॥३ करोमि भगवन् ! सामायिकम् । ॥६१३॥ Jan Education internat For and Private Us Only Page #16 -------------------------------------------------------------------------- ________________ PPRPIPARO विशेषा बृहद्वात्तिः। ॥६१४॥ राया लाम् समायः स एव सामायिकम् । इत्यादिका सर्वाऽपि विभाषाभिधीयत इति ॥ १४२१ ॥ अथ वार्तिकस्वरूपमाह 'वित्तीए वक्खाणं वत्तियमिह सव्वपज्जवेहिं वा । वित्तीओ वा जायं जम्मि वा जह वत्तए सुत्ते ॥१४२२॥ . वृत्तेः सूत्रविवरणस्य व्याख्यानं भाष्यं वार्तिकमुच्यते । यथेदमेव विशेषावश्यकम् । अथवा, उ कृष्श्रुतवतो गणधरादेर्भगवतः सर्वपर्यायैर्यद् व्याख्यानं तद् वार्तिकम् । वृत्तेर्वा सूत्रविवरणाद् यदायातं सूत्रार्थानुकथनरूपं तद् वार्तिकम् । यदिवा, यस्मिन् सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपारम्पर्येणायात व्याख्यानं तद् वार्तिकमिति ॥ १४२२ ॥ एवं च सति यस्य संबन्धि व्याख्यानं वार्तिकमुच्यते, तदाह उक्कोसयसुयनाणी निच्छयओ वत्तियं वियाणाइ । जो वा जुगप्पहाणो तओ व जो गिण्हए सव्वं॥१४२३॥ उत्कृष्टश्रुतज्ञान्येव निश्चयनयमतेन तावद् वार्तिकं कर्तुं विजानाति, नान्यः। यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्खाम्यादिर्भवति । ततो वा युगप्रधानाद् यः स्थूलभद्रस्वाम्यादिः सर्व श्रुतं गृह्णाति स वार्तिककृदिति ॥ १४२३ ।। अथ भाषक-विभाषक-वार्तिकविद एवान्यथा प्रतिपिपादयिषुराह ऊणं सममहियं वा भणियं भासंति भासगाइया । अहवा तिण्णवि साहेज कट्ठकम्माइनाएहिं ॥१४२४॥ अनुयोगाचार्येण यद् भणितं व्याख्यातं तस्मादून योऽन्यस्य भाषते व्याचष्टे स भाषक उच्यते । तद्याख्यातस्य समं तु भाषमाणो विभाषकः । प्रज्ञातिशयवांस्तदधिकं भाषमाणो वार्तिककृदिति । अथवा, किमेतेन बहुना, त्रीनप्येतान् भाषकादीननन्तरवक्ष्यमाणकाष्ठकर्मादिभिज्ञातैरुदाहरणैः साधयेत् कथयेदिति । अनन्तरनियुक्तिगाथाप्रस्तावनेयम् ।। इति द्वादशगाथार्थः ।। १४२४ ।। * तान्येव काष्ठकर्माद्युदाहरणान्याह कडे पोत्थे चित्ते सिरिघरिए पोंड-देसिए चेव । भासग-विभासए वा वत्तीकरणे य आहरणा ॥ १४२५ ॥ वृाख्यानं वार्तिकमिह सर्वपर्यवैर्वा । वृत्तितो वाऽऽयातं यस्मिन् वा यथा वर्तते सूत्रे ।। १४२२ ॥ २ छ, 'वत्ती' ३ उत्कृष्ट श्रुतज्ञानी निश्चयतो वार्तिकं विजानाति । यो वा युगप्रधानस्ततो वा यो गृह्णाति सर्वम् ।।१४२३ ॥४ क.ग.छ. 'थवा भा'। ५ ऊनं सममधिकं वा भणितं भाषन्ते भाषकादिकाः । अथवा त्रीनपि कथयेत् काष्ठकमांदिज्ञातः ।। १४२४ ॥ ६ काठे पुस्ते चित्र श्रीगृहिके पोण्ड-देशिकयोश्चैव । भाषक-विभाषकयोवा वृत्तिकरणे चोदाहरणानि ।। १४२५ ॥ ऊकसनराइजHAGRecatoose ॥६१४॥ In Education internat For Personal and Private Use Only www.jaineibrary.org, Page #17 -------------------------------------------------------------------------- ________________ विशेषा० ॥६१५॥ Jain Educationa Internati 'काष्ठे' इति काष्ठविषयो दृष्टान्तः । यथा काष्ठे कश्चिद् रूपकार आकारमात्रमेवोन्मीलयति, कश्चित् तु तत्रैव स्थूलावयत्र रूपं किञ्चिद् निष्पादयति, अपरस्तु सुविभक्तविचित्रोत्कृष्टनिःशेषाङ्गोपाङ्गावयवयुक्तं निर्वर्तयति । एवं काष्टकल्प सामायिकादिसूत्रम् । तत्र भाषकः किञ्चिदर्थमात्रमेव व्याचष्टे । विभाषकस्तु तस्यैवानेकप्रकारैरर्थमाख्याति । वार्तिककरस्तु निरवशेषैरपि व्याख्याप्रकारैस्तदर्थं प्रतिपादयति । पुस्तं लेप्यम्, तद्दृष्टान्तेऽपि काष्टवदेव सर्व वाच्यम् । चित्रदृष्टान्ते तु यथा कोऽपि चित्रकारो वर्तिकाभिः कुड्यादिषु रूपस्याकारमात्रं लिखति । कचित्तु तत्रैव हरितालादिवर्णकै गौरवर्णादिभावान् दर्शयति । कश्चित्तु निरवशेषानपि तद्गतभावान् सत्यापयति । दाष्टन्तिकयोजना तु तथैवेति । श्रीगृहं भाण्डागारम्, तदस्यास्तीति श्रीगृहको भाण्डागारिकः । तत्र कोऽप्यसौ 'अत्र भाजने रत्नानि सन्ति' इत्येतावन्मात्रमेव जानाति, अपरस्तु तज्जाति-माने अपि वेत्ति, अन्यस्तु सर्वास्तद्गुण-दोषानप्यवबुध्यत एव । एवं प्रथम द्वितीय तृतीय श्री गृहिक तुल्या यथासंख्यं भाषक विभाषक वार्तिककरा विज्ञेयाः । पोण्डमविकसितावस्थं कमलम् । तच्च यथेषद्विकसिता ऽर्धविकसित सर्व विकसितभेदात् त्रिधा भवति, एवं भाषकादिव्याख्यानमपीति । देशनं देशः कथनं सोऽस्यास्तीति देशिकः, तत्र यथा कश्चिद् देशिकः पन्थानं पृष्टो दिमात्रोपदेशेनैव तं कथयति, कश्चित् व्यवस्थितग्राम-नगरादिभेदेन अपरस्तु समस्ततदुत्थगुण-दोषाख्यानद्वारेणापि तमुपदिशति । दार्शन्तिकयोजना तथैव । एवमेतानि भाषकविभाषक व्यक्तीकरविषयाण्युदाहरणानि प्रतिपादितानि । इति नियुक्तिगाथासंक्षेपार्थः ।। १४२५ ।। विस्तरार्थ भाष्यकारः प्राह- पेढो रुवागारं थूलावयवोवदंसणं बीओ । तइओ सव्वावयवे निद्दोसे सव्वहा कुणइ ॥ १४२६ ॥ कट्ठसमाणं सुत्तं तदत्थरूवेगभासणं भासा । थूलत्थाण विभासा सव्वेसिं वत्तियं नेयं ॥ १४२७ ॥ प्रथमगाथायां प्रथम-द्वितीय-तृतीयशब्दवाच्या रूपकारः, द्वितीयगाथायां तु दाष्टन्तिकयोजना । तत्र काष्ठस्थानीयं सूत्रम् । ‘तदत्थरूवेगभासणं ति' तस्य च सूत्रस्यार्थस्तदर्थस्तस्य चानन्तरूपत्वाद् यदेकरूपभाषणं सा भाषा - स भाषकव्यापार इत्यर्थः स्थूलार्थानां तु कियतामपि भाषणं विभाषा, सर्वेषां तु निरवशेषाणामर्थानां भाषणं वार्तिकं ज्ञेयमिति ।। १४२६।१४२७ ॥ १ प्रथमो रूपाकारं स्थूलावयवोपदर्शनं द्वितीयः । तृतीयः सर्वावयवान् निर्दोषान् सर्वथा करोति । १४२६ ।। काष्ठसमानं सूत्रं तदर्थरूपैकभाषणं भाषा । स्थूलार्थानां विभाषा सर्वेषां वार्तिकं ज्ञेयम् ॥ १४२७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६१५॥ Page #18 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । पुस्तदृष्टान्तं व्याख्यातुमाहविशेषा 'पोत्थं दिट्ठागारं दिहावयवं समत्तपजायं । जह, तह सुत्तं भासा विभासणं वत्तियं चेव ॥ १४२८ ॥ ॥६१६॥ यथा पुस्तं लेप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य दृष्टाकारमात्रं भवति । ततः क्रमेण दृष्टतदवयवम् , ततोऽपि क्रमाद् निर्वर्तित RDI निःशेषतत्पर्यायं संपद्यते, तथा सूत्रमाश्रित्य भाषा, विभाषा, वार्तिकं च जघन्य-मध्यमो-त्तमव्याख्यानरूपं यथासङ्ख्यं ज्ञेयमिति ॥१४२८॥ चित्रदृष्टान्तं विवरीपुराह कुड्डे वत्तीलिहियं वण्णुब्भिन्नं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चरिमं ॥ १४२९॥ यथा किश्चिदिह मसणं धवलं कुख्यम् । तच्च प्रथमं वर्तिकाभिस्तदालेख्यरूपकाणां लिखिताकारमात्रं भवति । ततश्च वर्णकोद्भिनं संपद्यते, हरितालादिवर्णकैरुन्मीलितं गौरवर्णादिस्वरूपं भवतीत्यर्थः । ततः समस्ताः समाप्ता वा पर्याया आलेख्यधर्मा निष्पना यत्र तत् समस्तपर्यायम् , समाप्तपर्यायं वा भवति- सर्वात्मना निष्पन्नं भवतीत्यर्थः । तथाच कुड्यस्थानीय सूत्रम् । तत्र भाषा, विभाषा, वार्तिकं च चरमं तृतीयं भवतीति ।। १४२९ ।। श्रीगृहिकोदाहरणार्थमाह भाणे जाई-माणं गुणे य रयणाणं मुणइ सिरिघरिओ। जह, तह सुयभाणे भासगादओऽत्थरयणाणं॥१४३०॥ श्रीगृहिको भाण्डागारिकः, स च यथा कश्चिद् 'रत्नान्यत्र ताम्रकरण्डिकादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कारं व्याख्येयम् । अपरस्तु तेषामेव रत्नानां जाति मानं च जानाति । अन्यस्तु ज्वरादिरोगापहर्तृत्व क्षुत्-पिपासा-श्रमापनेतृत्वादीस्तद्गुणानपि वेत्ति । अथवा, अन्यथा योज्यते- यथा श्रीगृहिकः कश्चिद् रत्नभाजने मरकतादिकां तज्जातिं जानाति, अपरस्तु माष-वल्ल-गदियाणादिकादिकं तन्मानमपि बुध्यते ; अन्यस्तु पूर्वोक्तांस्तद्गुणानपि समस्तान् वेत्ति ; तथा रत्नभाजनस्थानीये श्रुते स्तोक-बहु-बहुतरार्थवेत्तारो भाषकादयो विज्ञेया इति ॥ १४३०॥ ॥६१६॥ १ पुस्तं दृष्टाकारं दृष्टावयवं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चैव ।। १४२८ ।। २ कुल्य वर्तिलिखितं वणों जिनं समस्तपर्यायम् । बधा, तथा सूत्रं भाषा विभाषणं कार्तिकं चरमम् ।। १४२५ ॥ ३ भाजने जाति-माने गुणांश्च रत्नानां जानाति श्रीगृहिकः । यथा, तथा श्रुतभाजने भाषकादयोऽर्थरवानाम् ।। १५३०॥ JanEducationa internatil For and Pre Only Page #19 -------------------------------------------------------------------------- ________________ विशेषा० ॥६१७॥ Jain Education internation पोण्डदृष्टान्त व्याख्यामाह वोडं विभिन्नमीसं दरफुल्लं वियसियं विसेसेण । जह कमलं चउरूवं सुत्ताइचउक्कमप्पेवं ॥ १४३१ ॥ पोण्डमविकसितावस्थं कमलम् । तस्य च पश्चात् तिस्रोऽवस्था जायन्ते, तद्यथा- 'विभिन्नमीसं ति' ईषद्विभिन्नमित्यर्थः । तथा, 'दरफुल्लं ति' अर्धविकसितमित्यर्थः । तथा, 'वियसियं विसेसेण त्ति' सर्वात्मना विकसितमित्यर्थः । एवं च सति यथा कमलं चतूरूपमुक्तम्, तथा मूत्रादिचतुष्कमपि विज्ञेयम्- अविवृतं मुकुलितं सूत्रम्, तथा, अल्प- बहु- बहुतरव्याख्यानरूपास्तस्य तिस्रोऽवस्थाः, इत्येवं चतूरूपतेति ।। १४३१ ।। अथ देशिकदृष्टान्त व्याख्यामाह * पंथो दिसाविभागो गाम- पुराइगुण-दोसपेयालं । जह, पहदेसणमेवं सुत्तं भासाइतिययं च ॥ १४३२ ॥ इह पन्थाः कश्चिद् ग्राम-नगरादीनां भवति । तं च पृष्टः कोऽपि दिग्विभागपात्रमेव कथयति, अन्यस्तु तद्व्यवस्थितग्रामनगरादीन् कथयति, अपरस्तु मार्गगतनिःशेषगुण-दोषविचारमपि कथयति । इत्थं यथा पथो मार्गस्य देशनं त्रिविधं प्रवर्तते, एवं भाषा विभाषा वार्तिकलक्षणमपि त्रितयमवगन्तव्यम् । तदिह सर्वेष्वपि काष्ठादिदृष्टान्तेष्वयं परमार्थ:- जघन्य मध्यमोत्कृष्टव्याख्यातारो भाषक - विभाषक व्यक्तीकरा उच्यन्त इति । तदेवं जिनप्रवचनोत्पत्तिः, प्रवचनैकार्थिकानि, तद्विभागश्वोक्तः ।। १४३२ ॥ अथ क्रमप्राप्तमपि द्वारविधिं ‘दौरवही वि महत्था तत्थ वि वक्खाणविहिविवज्जासो, मा होज्ज' इत्यादिपूर्वोक्तकारणादुल्लङ्घय, व्याख्यानविधिमेवेह तावदभिधित्सुः प्रस्तावनामाह ऐयरस को णु जोग्गो वत्तुं सोउं च, केण विहिणा वा ? । पुव्वोइयसंबंधो वक्खाणविही विभागाओ ॥ १४३३ ॥ एतस्य च वक्ष्यमाणस्य 'उद्देसे निद्देसे य' इत्यादिद्वारविधेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः ?, कश्च श्रोतुं योग्यः श्रोता ?, केन वा विधिनाऽसौ वक्तव्यः ? इत्येतदभिधानीयम् । अत एव तस्मात् प्रवचनैकार्थिकविभागादनन्तरं 'दारविही वि महत्था' इत्यादिना ७८ १ क. 'बोण्ड' । २ पोण्डं विभिन्नमीषदर्थं विकसितं विशेषेण । यथा कमलं चतूरूपं सूत्रादिचतुष्कमध्येवम् ॥ १४३१ ॥ ३ पन्था दिग्विभागो ग्राम पुरादिगुण-दोषविचारम् । यथा पथदेशनमेवं सूत्रं भाषादित्रितयं च ॥ १४३२ ॥ ४ गाथा १३६० । ५ एतस्य को नु योग्य वक्तुं श्रोतुं च केन विधिना वा ? पूर्वोदितसंबन्धो व्याख्यान विधिविभागात् ॥ १४३३ ।। ६ गाथा ९०३ । For Personal and Private Use Only बृहद्वृत्तिः । ॥६१७॥ Page #20 -------------------------------------------------------------------------- ________________ विशेषा• वृहदत्तिः । ॥६१८॥ सानासानासानाRAGARH पूर्वप्रतिपादितसंवन्धो व्याख्यानविधिरुच्यते । पाठान्तरं वा 'विभासाउ ति सामान्येन पूर्वमुद्दिष्टस्येदानी व्याख्यान विधिर्विशेषेण भाषणं भाषा भणनं 'क्रियते' इति शेषः ।। इति गाथाष्टकार्थः॥१४३३ ।। तमेव व्याख्यानविधिमाह गोणी चंदणकथा चेडीओ सावए बहिरगोहे । टंकणओ ववहारो पडिवक्खे आयरिय-सीसे ॥१४३४॥ आचार्य-शिष्ययोर्योग्या-ऽयोग्यविचारे 'गोणी' गौस्तदुदाहरणं वक्तव्यम् । तथा, चन्दनकन्थानिदर्शनम् । तथा, चेट्यौ जीर्णा-ऽभिनवश्रेष्ठिपुत्रिके, तद्दृष्टान्तो वाच्यः । तथा, श्रावकोदाहरणम् । तथा, बधिरगोदोहनिदर्शनम् । तथा, टङ्कणकव्यवहारः षष्ठमुदाहरणम् । एतेषु षट्स्वप्युदाहरणेषु शिष्या-ऽऽचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयम् । अथवा, एषां षण्णामप्युदाहरणानां मध्ये योग्या-ऽयोग्ययोर्विकल्पेनैकमुदाहरणमाचार्यस्य, एकं तु शिष्यस्य, इत्येवं योजनीयम् ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १४३४ ॥ विस्तरतस्तु गोदृष्टान्तं भाष्यकारः पाहभैग्गनिविढं गोणिं केउं दंतो व्व न सुयमायरिओ । एवं मए वि गहियं गिहि तुम पि त्ति जंपतो ॥ १४३५ ॥ आवेगलगोविक्केया व जो वि मदक्खमो सुगंभीरो । अक्खेवनिण्णयपसंगपारओ सो गुरू जोग्गो ॥१४३६॥ सांसो वि पहाणयरो गंताणावियारियग्गाही । सुपरिच्छियकेया इव स्थाणवियारक्खमो इहो ॥ १४३७ ॥ कस्यापि धूर्तस्योपचितसर्वाङ्गसुन्दरस्वरूपापि गौः कथमपि संस्थानीप्रदेशे स्थिता भग्ना । ततश्चोत्थातुं न शक्नोति, इत्युपविष्टव तिष्ठति । ततस्तेन धृतेन कस्यापि मुग्धस्य केतुस्तथैवोपविष्टा मूल्येन प्रदत्ताऽसौ । स्वयं पुनरपसृतः । क्रेतापि यावत् तामुत्थापयति, तावद् न शक्नोत्युत्थातुपसौ । ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा तेनेयम् । स च दक्षत्वादुधःप्रभृत्यवयवानां निरीक्षणार्थ , गौबन्दनकन्धा चव्यौ श्रावको बधिरगोदोहः । टङ्कणको व्यवहारः प्रतिपक्ष आचार्य-शिष्ययोः ॥ १५३५ ॥ २ भननिविष्टां गां क्रीत्वा दददिव न श्रुतमाचार्यः । एवं मयापि गृहीतं गृहाण त्वमपीति जल्पन् ॥ १४३५ ।। अविकलगोवितेव योऽपि मदक्षमः सुगम्भीरः । आक्षेपनिर्णयप्रसङ्गपारकः स गुरुयोग्यः ॥ १४३६ ॥ शिष्योऽपि प्रधानतरो नैकान्तनाऽविचारितमाही । सुपरीक्षितक्रेतेव स्थानविचारक्षम इष्टः ॥ १४३०॥ ॥६१८॥ Page #21 -------------------------------------------------------------------------- ________________ विशेषा० ॥६१९ ॥ Jain Educationa Internatio तामुत्थापयति । मूलक्रेता च तत्कर्तुं न ददाति । वदति च मयोपविष्टेवेयं गृहीता, स्वमप्युपविष्टामेवामुं गृहाण । एवं च न कोऽपि गृह्णाति, उपहसति च तमिति । अथ प्रकृते योज्यते - भग्ना सती निविष्टा भग्ननिविष्ठा तां भग्ननिविष्टां 'गोणिं' गां यथा मुग्धः कश्चिदुपविष्टामेव क्रीत्वोपविष्टामेवाऽन्यस्यं ददत् प्रयच्छन् केतोपहासविषयत्वादयोग्यः । 'न सुयमायरिउ त्ति' एवमाचार्योऽपि न नैव योग्यो भवति किं कुर्वन् ?, श्रुतं ददत् प्रयच्छन् । कथंभूतः सन् ?, इत्याह- 'एवमविचारितमेव मयाऽप्येतत् श्रुतं गृहीतम् त्वमप्यविचारितमेव गृहाण' इति शिष्यं प्रति जल्पन्निति । इत्थंभूतस्य सुरेः पार्श्वे न श्रोतव्यम्, संशीतिपदेषु निश्चयाभावेन मिध्यात्वगमनप्रसङ्गात् । अतो व्याख्यानस्यामयोग्योऽभिधीयत इति । कथंभूतः पुनर्योग्यः १, इत्याह- 'अविगलेत्यादि' सुगमा । तदेवं गुरोरयोग्यस्य योग्यस्य च स्वरूपमुपदर्श्य शिष्यस्यापि तदाह - 'सीसो वीत्यादि' शिष्योऽपि न नैव प्रधानतरः, किन्त्वयोग्यः । कथंभूतः ?, इत्याह-- मुग्धगोक्रेतेवैकान्तेनाऽविचारितग्राही । यस्तु स्थानविचारक्षम आग्रहरहितो विचारयोग्ये वस्तुनि विचारकः स सुपरीक्षितगवादिक्रयिक इव सिद्धान्तश्रवणे इष्टो योग्यः शिष्य इति ।। १४३५ ।। १४३६ ।। १४३७ ॥ अथ चन्दनकन्यादृष्टान्तविवरणमाह 'जो सीसो सुत्तत्थं चंद्रणकथं व परमयाईहिं । मीसेइ गलियमहवा सिक्खियमाणेण स न जोग्गो ॥ १४३८ ॥ कंथीकयसुत्तत्थो गुरू वि जोग्गो न भासियव्वस्स । अविणासियसुत्तत्था सीसा-यरिया विणिदिट्ठा || १४३९॥ इह भावार्थस्तावत् कथानकेनोच्यते- द्वारवत्यां नगर्यो वासुदेवस्य राज्यं पालयतो गोशीर्ष - श्रीखण्डमय्यो देवतापरिगृहीतास्तिस्रो भेर्य आसन्, तद्यथा - सांग्रामिकी, औद्भूतिकी, कौमुदिका । तत्र प्रथमा संग्रामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते, द्वितीया पुनरुद्भूते - आगन्तुके कस्मिंश्चित् प्रयोजने सामन्ता ऽमात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थं वाद्यते । चतुर्थ्यपि गोशीर्ष श्रीखण्डमयी मेरी तस्यासीत् । इयं तु षट् षण्मासपर्यन्ते वाद्यते, यश्च तच्छब्दं शृणोति, तस्यातीतम्, अनागतं च प्रत्येकं पाण्मासिकमशिवमुपशाम्यति । इयं च प्रकृतोपयोगिनी चतुर्थी भेरी । इति तदुत्पत्तिर्लिख्यते— १ यः शिष्यः सूत्राऽथ चन्दनकन्यामिव परमतादिभिः । मिश्रयति गलितमथवा शिक्षितमानेन स न योग्यः ॥ १४३८ ॥ कन्धीकृतसूत्रा-ऽर्थो गुरुरपि योग्यो न भाषितव्यस्य । अविनाशितसूत्रार्थाः शिष्या ऽऽचार्या विनिर्दिष्टाः ॥ १४३९ ॥ २घ छ 'चन्दनम' । For Personal and Private Use Only बृहद्वृत्तिः । ||६१९ ॥ www.janeibrary.org Page #22 -------------------------------------------------------------------------- ________________ विशेषा० ॥६२०॥ Jain Educationa Internation कदाचित् सौधर्मदेवलोके समस्तामरसभा पुरस्सरमभिहितं शक्रेण ""पेच्छ अहो ! हरिपमुहा सप्पुरिसा दोसलक्खमज्झे वि । गिव्हंति गुणं चिय, तह न नीयजुज्झेण जुज्झति ॥ १ ॥ एयं असतो कोइ सुरो चिंतए किह णु एयं । संभवइ, जं अगहिउं परदोसं चिट्टए कोइ ? ॥ २ ॥ इय चिंतिऊण इह समागओ तो विउब्वए एसो । बीभत्थकसिणवन्नं अइदुगंधं मयगसुणयं ॥ ३ ॥ तस्स य मुहे विउच्चइ कुंदुज्जलपवरदसणरिंछोलीं । नेमिजिणवन्दणत्थं चलियस्स पहम्मि हरिणो य ॥ ४ ॥ तं उवदंसइ सुणयं भग्गं गंधेण तस्स हरिसेन्नं । सयलं पि उप्पहेणं वच्चइ, कण्हो उण सरुवं ॥ ५ ॥ विविहं भावंतो पोग्गलाण वच्चइ पहेण तेणेव । दट्टूण य सुणयसवं पभणइ गरुयत्तणेणेवं ॥ ६ ॥ अइमसिणकसिणवत्थंचले व्व वयणे इमस्स पेच्छ अहो ! । मुत्तावलि व्व रेहइ निम्मलजोन्हा दसणपंती || ७ | अह चिंतियं सुरेणं सच्चं जं अमरसामिणा भणियं । नूण गुणं चिय गरुया पिच्छंति परस्स न हु दोसं ॥ ८ ॥ अह अन्नदिणे देवो तुरयं अवहरइ वल्लहं हरिणो । सिन्नं च तस्स सयलं विणिज्जियं तेण कुटलगं ॥ ९ ॥ तो अप्पणा वि विहू तुरगस्स कुढावयम्मि पडिलग्गो । अह देवेण भणियं जिणिउं घेप्पंति रयणाई ॥ १० ॥ १ प्रेक्षस्वाsहो ! हरिप्रमुखाः सत्पुरुषा दोषलक्षमध्येऽपि गृह्णन्ति गुणमेव तथा न नीचयुद्धेन युध्यन्ते ॥ १ ॥ एतदश्रद्दधानः कोऽपि सुरश्चिन्तयति कथं नु एतत् । संभवति, यदगृहीत्वा परदोषं तिष्ठति कोऽपि ? ॥ २ ॥ इति चिन्तयित्वेह समागतस्ततो विकरोत्येषः । बीभत्सकृष्णवर्णमतिदुर्गन्धं मृतकशुनकम् ॥ ३ ॥ तस्य च मुखे विकरोति कुन्दोज्ज्वलप्रवरदशन पक्किम् । नेमिजिनवन्दनार्थ चलितस्य पथे हरेश्व ॥ ४ ॥ तदुपदर्शयति शुनकं भनं गन्धेन तस्य हरिसैन्यम् । सकलमप्युत्पथेन व्रजति, कृष्णः पुनः स्वरूपम् ॥ ५ ॥ विविधं भावयन् पुलानां व्रजति पथेन तेनैव दृष्ट्रा च शुनकशवं प्रभणति गुरुत्वेनैवम् ॥ ६ ॥ अतिमसृणकृष्णवस्त्राञ्चल इव वदनेऽस्य प्रेक्षस्वाऽहो ! | मुक्तावलिरिव राजते निर्मलज्योत्स्ना दशनपङ्किः ॥ ७ ॥ अथ चिन्तितं सुरेण सत्यं यदमरस्वामिना भणितम् । नूनं गुणमेव गुरुकाः प्रेक्षन्ते परस्य न खलु दोषम् ॥ ८ ॥ अथान्यदिने देवस्तुरगमपहरति बल्लभं हरेः सैन्यं च तस्य सकलं विनिर्जितं तेन कुटलग्नम् ॥ ९ ॥ तत आत्मनाऽपि विष्णुस्तुरगस्यानुगमने प्रतिवद्मः । अथ देवेन भणितं जित्वा गृह्यन्ते रत्नानि ॥ १० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||६२०|| Page #23 -------------------------------------------------------------------------- ________________ विशेषा० ॥६२१॥ | Jain Educations Internation तो जुज्झामो ति भणे केसवो किंतु रहवरे अहयं । तो गेण्ह तुमं पि रहं जेण समाणं हवइ जुज्झं ॥ ११ ॥ नेच्छइ एयं देवो तुरएहिं गयाइएहिं वि स जुज्झं । जा नेच्छइ ता भणिओ हरिणा तो भणसु तुममेव ॥ १२ ॥ देवेण तओ भणियं परंमुहा दो वि होइऊण पुणो । जुज्झामो पूयधाएहिं भणइ तो केसबो देवं ॥ १३ ॥ जइ एवं तो विजिओ अहयं तुमए, तुरंगमं नेहि । जुज्झामि पुणो कहमवि न हु एरिसनीयजुज्झेणं ॥ १४ ॥ संजा पञ्चओ सो पच्चक्खो होइऊण तो देवो । भणइ अमोहं देवाण दंसणं भणसु किंपि वरं ॥ १५ ॥ अह भइ केसवो असिवपसमा तो पयच्छ महमेरिं । दिन्ना य सुरेणागमणवइयरं साहिउं थ गओ ॥ १६ ॥ छहं छण्हं मासाणं साइवाइज्जए तहिं भेरी। जो सुणइ तीए सदं पुव्वोप्पन्नाओ वाहीओ ॥ १७ ॥ नस्संति तस्स अवरा ताउ तह य न हु होंति जाव छम्मासा । अह अन्नया कयाई वणिओ आगंतुओ कोइ ॥ १८ ॥ दाहज्जरेण धणियं अभिभूओ भेरिरक्खयं भणइ । दीणारसयसहस्सं गेहसु मह देसु पलमेगं ॥ १९ ॥ भेरीए छिंदिऊणं दिनं तेणावि लोभवसगेणं । अन्नेण चंदणेण य भेरीए थिम्गलं दिन्नं ॥ २० ॥ इय अन्नाण विदितेण तेण कंथीकया इमा भेरी । अह अन्नया य असिवे हरिणा ताडाविया एसा ॥ २१ ॥ १ ततो युध्यावहे इति भणति केशवः किन्तु रथवरेऽहकम्। ततो गृहाण त्वमपि रथं येन समानं भवति युद्धम् ॥ ११ ॥ नेच्छत्येतद् देवस्तुरगैर्गजादिभिरपि स युद्धम् । यावद् नेच्छति तावद् भणितो हरिणा ततो भण खमेव ॥ १२ ॥ देवेन ततो भणितं पराङ्मुखौ द्वावपि भूत्वा पुनः । युध्यावहे पूतघातैर्भणति ततः केशवो देवम् ॥ १३ ॥ यद्येवं ततो विजितोऽहकं त्वया, तुरङ्गमं नय । युध्ये पुनः कथमपि न खल्वीदृशनीचयुद्धेन ॥ १४ ॥ संजातप्रत्ययः स प्रत्यक्षो भूत्वा ततो देवः । भणत्यमोघं देवानां दर्शनं भण किमपि वरम् ॥ १५ ॥ अथ भणति केशवोऽशिवप्रशमनीं ततः प्रयच्छ महाभेरीम् । दत्ता च सुरेणागमनव्यतिकरं कथयित्वाऽथ गतः ॥ १६ ॥ षण्णां षण्णां मासानां सातिवाद्यते तत्र भेरी । यः शृणोति तस्याः शब्दं पूर्वोत्पन्ना व्याधयः ॥ १७ ॥ नश्यन्ति तस्याऽपरास्ते तथा च न तु भवन्ति यावत् षड् मासान् । अथान्यदा कदाचिद् वणिगागन्तुकः कोऽपि ॥ १८ ॥ दाहज्वरेण धनमभिभूतो भेरीरक्षकं भणति । दीनारशतसहस्रं गृहाण मम देहि पलमेकम् ॥ १९ ॥ भेय हिरवा दतं तेनापि छोभवशगेन । अभ्येन चन्दनेन च भेर्याः संधानशकलं दत्तम् ॥ २० ॥ इत्यन्येषामपि दता तेन कन्धीकृतेयं भेरी । अथान्यदा चाशिवे हरिणा तांता ॥ २३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||६२१॥ Page #24 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा ॥६२२॥ SCRIPGolorle 'कंथत्तणेण तीसे सद्दो सुव्बइ न हरिसभाए वि । कंथीकरणवइयरो विन्नाओ केसवेण तओ ॥ २२ ॥ माराविओ य सो भेरिरक्खओ, तेण अट्ठमं काउं । आराहिओ स देवो अन्नं भेरिं च सो देइ ॥ २३ ॥ अन्नो य केसवेण कओ तहिं मेरिपालओ सो य । रक्खइ तं जत्तेणं लहेइ लाभं च तो हरिणो ॥ २४ ॥" अथ गाथाक्षरार्थः कथ्यते- स शिष्योऽनुयोगश्रवणस्य न योग्यः । यः, किम् ?, इत्याह- यः मूत्रम् , अर्थ वा चन्दनकन्थावत् परमतादिभिर्मिश्रयति । गलितं वा विस्मृतं शिक्षितमानेन शिक्षितत्वाहङ्कारेण परमतादिभिर्मिश्रयित्वा संपूर्ण करोति । इदमुक्तं भवति- यथा भेरीपालकेन गोशीर्ष श्रीखण्डभेरी इतरचन्दनखण्डैमिश्रयित्वा कन्था कृता, एवं यः शिष्यः सूत्रमर्थं वा परमतेन, आदिशब्देन स्वकीयेनैव ग्रन्थान्तरेण मिश्रयित्वा कन्धीकरोति, अथवा, विस्मृतं मूत्रमर्थ वा 'सुशिक्षितः स्वयमेवाहम् , नान्यं कश्चित् कदाचित् किमपि पृच्छामि' इत्यहङ्कारेण परमतादिभिरपि मिश्रयित्वा संपूर्ण विदधाति, सोऽनुयोगश्रवणस्य न योग्य इति । एवं कन्थीकृतमूत्रार्थों गुरुरप्यनुयोगभाषणस्य न योग्यः, किन्त्वविनाशितमूत्रार्थाः शिष्या-ऽऽचार्या अनुयोगस्य योग्या विनिर्दिष्टा इति ॥ १४३८ ॥ १४३९ ।। अथ चेटीदृष्टान्तो विवियतेअत्थाणत्थनिउत्ताभरणाणं जिण्णसे द्विधूय व्व । न गुरू विहिभणिए वा विवरीयनिओयओसीसो ॥ १४४०॥ सत्थाणत्थनिउत्ता ईसरधूया सभूसणाणं व । होइ गुरू सीसोऽवि य विणिओएंतो जहाभणियं ॥ १४४१ ॥ भावार्थः कथानकेनोच्यते- वसन्तपुरे नगरेऽग्रेतनः श्रेष्ठी राज्ञा पदात् स्फटितोऽन्यो नवश्रेष्ठी विहितः । तथापि जीर्णश्रेष्ठिदुहितुर्नवश्रेष्ठिदुहित्रा सह कथमपि महती प्रीतिः संजाता । परं तथापि जीर्णश्रेष्ठिपुत्रिका हृदये कालुष्यं न मुश्चति- 'वयमेतैः पदात् परिभ्रंशिताः' इति । अन्यदा च ते द्वे अपि जलाशये कचिद् गते । ततश्चाभरणानि तदे मुक्त्वा नवश्रेष्ठिदुहिता जीर्णश्रेष्ठिपुत्रिकया सहैव १ कन्धात्वेन तस्याः शब्दः श्रूयते न हरिसभायामपि । कन्धीकरणव्यतिकरी विज्ञातः केशवेन ततः ॥ २२ ॥ मारितश्च स भेरिरक्षकः, तेनाष्टमं कृत्वा । आराधितः स देवोऽन्यां भेरी च स ददाति ॥ २३ ॥ अन्यश्च केशवेन कृतस्तत्र भेरिपालकः स च । रक्षति तां यत्नेन लभते लाभं च सतो हरेः ॥ २४ ॥ २ क.ग. 'नभेरीक' । ३ क.ग. 'श्रीमण्डभे'। ५ अस्थानानियोक्ताभरणानां जीर्णश्रेष्ठिदुहितेव । न गुरुर्विधिभणिते वा विपरीतनियोजकः शिष्यः ॥ १४४० ॥ अस्वस्थानानियोक्ता ईश्वरदुहिता स्वभूषणानामिव । भवति गुरुः शिष्योऽपि विनियोजयन् पधाभाणितम् ॥ १४४१ ।। ६२२॥ Page #25 -------------------------------------------------------------------------- ________________ विशेषा० ॥६२३॥ Jain Educationa internat मञ्जनार्थं प्रविष्टा । ततश्च जीर्णश्रेष्ठदुहिता झगित्येव जलाद् निर्गत्य नवश्रेष्ठिदुहितृसत्कान्याभरणानि गृहीत्वा चलिता । इतरया तु जलमध्यगततयाऽप्युच्चैः स्वरेण निषिद्धा । ततश्च ' का त्वम् ?, कानि च तानि त्वदीयाभरणानि ?, मया होतान्यात्मीयान्येव गृहीतानि ' इत्यादि जल्पन्ती गाढमाक्रोशन्ती च सा गृहं गता । कथितं च निजमाता- पित्रोः । अनुमतं च तत् ताभ्याम् । भणिताऽसौ तूष्णीं विधाय तिष्ठत्वम् । तत इतरयापि निजपित्रोस्तत् कथितम् । याचितानि च ताभ्यां तान्याभरणानि । न समर्पयन्ति चेतराणि । ततो राजकुलव्यवहारो जातः । कारणिकैश्च साक्षी पृष्टः । न च कोऽप्यसौ संजातः । ततस्ते द्वे अपि दारिके आकार्य जीर्णश्रेष्ठदुहिता प्रोक्ता - यदि त्वदीयान्याभरणानि, तर्हि झगित्येवामून्यस्माकमेव पश्यतां परिधाय दर्शय । यावच्चैषा तानि परिधातुमारब्धा, तावदनभ्यासादन्यस्थानोचितमाभरणमन्यत्र नियोजयति । यदपि किञ्चित् स्थाने नियुङ्क्ते तदप्यश्लिष्टमेवाभाति, क्षुभितत्वेन च न किञ्चिदसौ जानाति । ततो नवश्रेष्ठिदुहिता तैरुक्ता । तया च स्वभ्यस्ततया स्थानौचित्येन सर्वाण्यप्याभरणानि झगित्येव परिहितानि श्लिष्टानि चातीव शोभन्ते । ततस्तैः पुनरपि सा मोक्ता - झगित्येव मुञ्च तानि । तया च क्रमेणावतार्य तथैव मुक्तानि । ततो ज्ञातः कारणिकैः सद्भावः । दण्डितश्च शरीरनिग्रहेण राज्ञा जीर्णश्रेष्ठी । तद्दुहिता चाऽनर्थभाजनं संजाता । एवं जीर्णष्ठिदुहितेवाभरणानामस्थानेऽर्थानां नियोक्ता न गुरुः- गुरुपदयोग्योऽसौ न भवतीत्यर्थः । ऐहिकामुष्मिकानां निःसंख्यानर्थानां भाजनमसौ संपयते । विधिभणिते च गुरुणा यथावत् प्ररूपिते चाज्ञानादिना विपरीतयोजकः शिष्योऽपि न नैव श्रवणयोग्यः, नापि कल्याणभागित्यर्थः । स्वस्थाने त्वर्थानां नियोक्ता, ईश्वरदुहितेव स्वभूषणानां गुरुर्योग्यो भवति । शिष्योऽपि गुरुभिर्यथोपदिष्टं तथैव नियोजयन् श्रवणयोग्यः कल्याणभाक् च भवतीति ।। १४४० ।। १४४१ ।। श्रावकोदाहरणभाष्यम् – 'चिरपरिचियं पि न सरइ सुत्तत्थं सावओ सभज्जं व । जो न स जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ||१४४२॥ इह कथानकं 'सागभज्जा' इत्यादौ कथितमेव । ततश्च यथा चिरपरिचितामपि स्वभार्थी परकलत्रबुद्ध्या भुञ्जानो न स्मरति, एवं चिरपरिचितमपि सूत्रार्थ यः शून्यहृदयतया न स्मरति, स शिष्यो न योग्यः शिष्यत्वस्यापि, गुरुत्वं तु तस्य दूरेणैवेत्यर्थः । १४४२ ॥ १ चिरपरिचितमपि न स्मरति सूत्रार्थं श्रावकः स्वभार्यामिव । यो न स योग्यः शिष्यो गुरुत्वं तस्य दूरेण ॥। १४४२ ॥ २ गाथा १४१२ । For Personal and Private Use Only बृहद्वृत्तिः । | ॥ ६२३|| www.janelibrary.org Page #26 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । ॥६२४॥ HON अथ गोदाहरणम्अन्नं पुट्ठो अनी साहइ सो गुरू न बहिरु व्व । न य सीसो जो अन्नं सुणेइ परिभासए अन्नं ॥ १४४३ ॥ बधिरकथानकं प्रागुक्तमेव । गाथाक्षरार्थस्तु सुगमः । अथवा, बधिरश्चासौ गोदोहश्चेति कर्मधारयो न क्रियते, किन्तु बधिरश्च गोदोहश्चेति द्वन्द्वः । ततो गोदोहो ग्रामेयकः, तत्कथानकं तु भिन्नमेवेह प्रागुक्तं द्रष्टव्यम् । उपनयस्तु स्वयमभ्यूट:-यो ग्रामेयकवद् यावन्मात्रमुक्तस्तावन्मात्रमेव स्वयं द्रव्य-क्षेत्र-कालाद्यौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोग्यः, गुरुत्वं तु रेणैव तस्येति ॥१४४३।। अथ टङ्कणकव्यवहारदृष्टान्तभाष्यम्अक्खेव-निण्णय-पसंगदाणगहणाणुवत्तिणो दो वि । जोग्गा सीसायरिया टंकण-वणिओवमा समए ॥१४४४॥ अहवा गुरुविणय-सुयप्पयाणभण्डविणिओगओ दो वि। निजरलाभयसहिया टंकण-वणिओवमा जोग्गा ॥१४४५॥ इहोत्तरापथे म्लेच्छदेशे कचिद् टङ्कणाभिधाना म्लेच्छाः । ते च सुवर्णसट्टेन दक्षिणापथायातानि क्रयाणकानि गृह्णन्ति, परं वाणिज्यकारकास्तद्भाषां न जानन्ति, तेऽपीतरभाषां नावगच्छन्ति । ततश्च कनकस्य क्रयाणकानां च तावत् पुञ्जः क्रियते, यावदुभयपक्षस्यापीच्छापरिपूर्तिः, यावच्चैकस्यापि पक्षस्येच्छा न पूर्यते, तावत् कनकपुञ्जात् क्रयाणकपुञ्जाच्च हस्तं नापसारयन्ति, इच्छापरिपूतौ तु तमपसारयन्ति । एवं तेषां परस्परमीप्सितपतीप्सितो व्यवहारः । अथोपनयगाथाद्वयं व्याख्यायते, तद्यथा- टङ्कणाश्च वणिजश्च तेषामुपमैवं समये वर्णिता यथते टङ्कण-वणिजः परस्परमीप्सित-प्रतीप्सितव्यवहारेण व्यवहरन्ति, एवमाक्षेप-निर्णय-प्रसङ्गदान-ग्रहणानुवर्तिनो द्वयेऽपि शिष्या आचार्याश्चानुयोगयोग्या भवन्ति । इदमुक्तं भवति- यथा टङ्कणा वणिजश्च परस्परेच्छापरिपूर्ति यावत् सुवर्णस्य क्रयाणकस्य च पुञ्जान् करोति, एवं शिष्योऽपि तावदाक्षेपं पूर्वपक्षं करोति यावत् मूत्रार्थमवबुध्यते, न पुनर्भय-लजा-ऽहङ्कारादिभिरेवमेवानवगतेनाग्रतो याति, गुरुरपि तावद् निर्णयं प्रयच्छति यावच्छिष्यः सूत्रार्थमवगच्छति, प्रासङ्गिकं च तावद् गुरुः कथयति यावन्मानं शिष्योऽवधारयति । शिष्योऽपि यथाशक्ति तत् सर्वं गृह्णातीति । एवं दान-ग्रहणानुवर्तिनो द्वयेऽपि शिष्या-ऽऽचार्या योग्याः। तत्र . अन्यत् पृष्टोऽन्यद् यः कथयति स गुरुर्न बधिर इव । न च शिष्यो योऽन्यत् शृणोति परिभाषतेऽन्यत् ॥१४४३॥ २ आक्षेप निर्णय-प्रसङ्गदान-ग्रहणानुवर्तिनी द्वावपि । योग्यौ शिष्या-ऽऽचायौं टङ्कण वणिगुपमी समये ॥ १४४४ ॥ अथवा गुरुविनय-श्रुतप्रदानभाण्डविनियोगतो द्वावपि । निर्जरालाभसहितौ टङ्कण-वणिगुपमी योग्यौ ॥ १४४५ ॥ NrESTE ॥६२४॥ in Education Internatio Forsonal and Private Use Only www.jainelbrary.org Page #27 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । FOR दानं च ग्रहणं च दान-ग्रहणे, प्रसङ्गस्य प्रसङ्गागतस्य दान ग्रहणे प्रसङ्गदान ग्रहणे; आक्षेपश्च निर्णयश्च प्रसङ्गदान-ग्रहणे च तानि तथेति विशेषा. समासः, तदनुवर्तनशीला द्वयेऽपि शिष्या-ऽऽचार्या योग्या भवन्ति । प्रकारान्तरेणापि टङ्कण-वणिगुपैमानं भावयति- अहवेत्यादि गाथा । अथवा, शिष्येणौचित्यानतिक्रमात् कर्तव्यः सर्वोऽपि गुरु॥६२५॥ विनयः, गुरुणापि शिष्यौचित्येन कर्तव्यं सर्वमपि श्रुतपदानम् । गुरुविनयश्च श्रुतप्रदानं च, ते एव भाण्डे ग्राह्य-देयक्रयाणके तयोर्वि नियोगो विनिमयस्तस्माद् गुरुविनय-श्रुतप्रदानभाण्डविनियोगाद् द्वयेऽपि शिष्या-ऽऽचार्याः कर्मनिर्जरालाभसहिताष्टकणवणिगुपमा अनु. योगस्य योग्या भवन्ति । विपर्यये तु विपर्यय इति । तदेवं गोणी चंदण' इत्यादिना योग्या अयोग्याश्चोक्ताः शिष्या-ऽऽचाBाः ।। १४४४ ॥ १४४५॥ इदानीं शिष्यस्य विशेपत एव योग्या-योग्यत्वमभिधित्सुः प्रस्तावनामाह अत्थी स एव य गुरू होइ जओ तो विसेसओ सीसो । जोग्गोऽजोग्गो भन्नइ तत्थाजोग्गो इमो होइ ॥१४४६॥ य इदानीं श्रुतस्यार्थ शृणोति स एव शिष्यः कालान्तरेणार्थी अर्थयुक्तोऽवगतमूत्रा-ऽर्थः सन् यस्माद् गुरुर्भवति नान्यः, तस्माद् योग्योऽयोग्यश्च विशेषतः शिष्यो भण्यते । तत्रायोग्यस्तावदयं वक्ष्यमाणो भवति ।। इति द्वादशगाथार्थः ॥ १४४६ ॥ कैस्स न होही देसो अणब्भुवगओ य निरुवगारी य । अप्पच्छंदमईओ पत्थियओ गंतुकामो य ॥१४४७॥ कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः, अपितु भविष्यत्येव । किं सर्व एव ?, न, इत्याह- अनभ्युपगतः श्रुतसंपदाऽनुपसंपन्नोऽनिवेदितात्मेत्यर्थः । अनुपसंपन्नत्वेऽपि तथा निरुपकारी गुरूणामनुपकारकः सर्वथा गुरुकृत्येष्वप्रवर्तक इत्यर्थः । तत्राप्यात्मच्छन्दमतिः स्वाभियं कार्यकारीत्यर्थः। तथा, प्रस्थितो यो योऽन्यः कोऽपि शिष्यो जिगमिषुः, तस्य तस्य द्वितीयः । तथा, गन्तुकामश्च सदैव गन्तुमना य आस्ते, वक्ति च- 'कोऽस्य गुरोः संनिधानेऽवतिष्ठते ?, समर्प्यतामेतत् श्रुतस्कन्धादि, ततो यास्यामि' इत्येवंचित्त एव सदैवास्ते । तदेवंभूतः शिष्योऽयोग्य एवं श्रवणस्येति भावः ॥ इति नियुक्तिगाथार्थः ।। १४४७ ।। अनभ्युपगतादिस्वरूपं भाष्यकारोऽप्याह १ घ.ज. 'पमा भा'। २ गाथा १४३४ । ३ क.ख.ग.घ. 'दनेत्या' । ४ अर्थी स एव च गुरुर्भवति यतस्ततो विशेषतः शिष्यः । योग्योऽयोग्यो भण्यते समायोग्योऽयं भवति ॥ १४४६ ।। . ५ कस्य न भविष्यति द्वेष्योऽनभ्युपगतश्च निरुपकारी च । आत्मच्छन्दमतिकः प्रस्थितको गन्तुकामश्च ॥ १४४७ ॥ ६ घ.ज. 'प्रायका'। 4॥६२५॥ an Education Intemato Foc Personal and Private Use Only www.janelbrary.org Page #28 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६२६॥ भैन्नर्इ अणब्भुवगओऽणुत्रसंपन्नो सुउवसंपदया गुरुणो करणिजाई अकुव्त्रमाणो निरुवगारी ||१४४८॥ अप्पच्छंदमईओ सच्छंदं कुणइ सव्वकज्जाई । पत्थियओ संपत्थियबिइज्जओ निच्चगमिउ व्व ॥ १४४९ ॥ गंतुमणो जो जंपर नवरं समप्पर इमो सुयक्खंधो। पढिउं सोउं च तओ गच्छं को अत्थए एत्थ ? ॥ १४५० ॥ तिस्रोऽपि गतार्थाः । नवरं 'निच्चगमिड व्व त्ति' यो यः प्रस्थितस्तत्तद्वितीयः प्रस्थित उच्यते । क इव १, नित्यगामीव पथिक इवेत्यर्थः ।। १४४८ ।। १४४९ ।। १४५० ।। बृहद्वृत्तिः अथ योग्यशिष्यगुणान् दर्शयन्नाह - "विणओणएहिं पंजलियडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ || १४५१ || विनयो वन्दनादिलक्षणस्तेनावनता विनयावनता स्तैरित्थंभूतैः सद्भिः, तथा, पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, तथा, छन्दो गुर्वभिप्रायस्तमिङ्गिताकारादिना विज्ञाय तदध्यवसितश्रद्धान-समर्थन करण-कारणद्वारेणानुवर्तमानैराराधितो गुरुजनः श्रुतं सूत्राऽर्थोभयरूपं बहुविधमनेकप्रकारं लघु शीघ्रं ददाति प्रयच्छति ॥ इति निर्बुक्तिगाथार्थः ॥ १४५१ ॥ भाष्यम् – "विणओणओऽभिवंदइ पढए पुच्छए पडिच्छईं वा णं । पंजलियडोऽभिमुहो कथंजली पुच्छणाईसु ॥१४५२॥ सद्दहइ समत्थेइ य कुणइ कराइ गुरुजणाभिमयं । छंदमणुयत्तमाणोस गुरुजणाराहणं कुणइ ॥ १४५३ ॥ उक्तार्थे || १४५२ ।। १४५३ ।। १ भण्यतेऽनभ्युपगतोऽनुपसंपन्नः श्रुतोपसंपदा । गुरोः करणीयान्यकुर्वन् निरुपकारी || १४४८ ॥ आत्मच्छन्दमतिकः स्वच्छन्दं करोति सर्वकार्याणि । प्रस्थितकः संप्रस्थितद्वितीयको नित्यगामी || १४४९ ॥ गन्तुमना यो जल्पति नवरं समप्यतामयं श्रुतस्कन्धः । पठित्वा श्रुत्वा च ततो गमिष्यामि कोऽर्थ्यतेऽत्र ? ॥ १४५० ॥ २ विनयावनतैः कृतप्राञ्जलिभिश्छन्दमनुवर्तमानैः । आराधितो गुरुजनः श्रुतं बहुविधं लघु ददाति ॥ १४५१ ॥ ३ विनयावनतोऽभिवन्दते पठति पृच्छति प्रतीच्छति वा । कृतप्रान्जलिरभिमुखः कृताञ्जलिः पृच्छादिषु ॥ १४५२ ॥ श्रद्धत्ते समर्थयते च करोति कारयति गुरुजनाभिमतम् । छन्दमनुवर्तमानः स गुरुजनाराधनां करोति ॥ १४५३ ॥ For Personal and Private Use Only ४.ग. 'इ ठाणं' । ||६२६ ॥ ww.jainelitary.ing Page #29 -------------------------------------------------------------------------- ________________ विशेषा० बृहा ॥६२७|| युक्तिगाथासंक्षेपामाहकः सेहुलका, गदा घटः, चालनीमती अथ प्रकारान्तरेणापि योग्या-ऽयोग्यशिष्यानुपदर्शयन्नाह-- 'सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसे य । मसग-जलूग-बिराली जाहग-गोभेरी आहेरी ॥१४५४॥ 'सेल त्ति' मुद्गशैलः पाषाणविशेषः, घनो मेघः, मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम् , कुटो घटः, चालनी प्रतीता, परिपूणकः सुघरीचिटिकागृहम् , हंस-महिप-मेष-मशक-जलूका-बिडाल्यः प्रतीताः, जाहकः सेहुलका, गोभेरी, आभेरी चेति योग्या-ऽयोग्यशिष्यविषयाणि चतुर्दशैतान्युदाहरणानि ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १४५४ ॥ उदाहरणं च द्विविधं भवति- चरितं, कल्पितं च । तत्रेह प्रथमं कल्पितमुदाहरणम् । एतच्च भाष्यकारो विवृण्वन्नाह ऊल्लेऊण न सको गजइ इय मुग्गसेलओऽरन्ने । तं संवट्टयमेहो गंतुं तस्सुपरिं पडइ ॥ १४५५ ॥ रविउ त्ति ठिओ मेहो, उल्लोऽम्हि नव त्ति गजइ सेलो। सेलसमं गाहिस्सं निविज्जइ गाहगो एवं॥१४५६॥ इह कचिदरण्ये पर्वतासन्नप्रदेशे समन्ताद् निबिडो मुद्गवद् वृत्तत्व-श्लक्ष्णत्वादिधर्मयुक्तः किश्चिद्भूतले निमग्नः किश्चित्तु प्रकाशश्चकचिकायमानो बदरादिप्रमाणलघूपलरूपो मुद्गशैलः किलासीत् । स च गर्जति-- साक्षेपं जल्पति । कथम् ?, इत्याह- अहमाकर्तु जलेन भेनुं केनापि न शक्य इति । तच मुद्गशैलस्य संबन्धि गर्ववचः कुतश्चिद् नारदकल्पात् श्रुत्वा संवर्तको नाम महामेघः 'तद्गर्वमद्याहमपनयामि' इति संप्रधार्य ते मुद्गशैलं गत्वा संप्राप्य तस्यैवोपरि पतति-निरन्तरं मुशलप्रमाणधाराभिवतीत्यर्थः । 'संवर्तकमेघश्चोत्सापिण्यां शुभीभवति, काले पूर्वदग्धभूम्याश्वासनार्थ वर्षति' इत्यागमे प्रतिपाद्यते । तस्य च संबन्धि जलमतीव भूम्यादेवकं वासकं च भवति, इति विशेषतस्तस्येह ग्रहणम् । एवं- सप्ताहोरात्राणि महावृष्टिं कृत्वा 'ठिओ पेघो त्ति' स्थितो दृष्टेरुपरतोऽसौ मेघः । कया बुद्धया ?, इत्याह- 'रविउ त्ति' द्रावितः खण्डशो नीतो मयाऽसौ मुद्गशैल इत्यभिभायेणेत्यर्थः । पानीये चापसते सुतरामुज्जलीभूतोऽसौ चकचिकायमानो मुद्गशैलः पुनरपि गर्जति । कथम् ?, इत्याह-'उल्लोऽम्हि नव त्ति' आर्दोऽस्म्यहं नवा ? इति सम्यग निरीक्षस्व । भोः पुष्करावर्तक ! किमित्येवमेव स्थितोऽसि, तिलतुषत्रिभागमात्रमपि मवाद्यापि न भिद्यत इति भावः । ततो लजितो शलघन-कुट-चालनी परिपूर्णक-हंस-महिष-मेषाश्च । मशक-जलूका-बिडाल्यो जाहक-गोभेयावाभेरी ॥ १४५४ ॥ २ भाकितं न शक्यो गर्जतीति मुदौलकोऽरण्ये । तं संवर्तकमेघो गत्वा तस्योपरि पतति ॥ १४५५ ॥ दावित इति स्थितो मेघः, आहोऽस्मि नवेति गजति शैलः । शैलसमं माहयिष्ये निर्विद्यते ग्राहक एवम् ॥१४५६॥३५, ज, 'लक आसी' । ॥६२७॥ For Personal and they Page #30 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । क विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः । तदेवं मुद्गशैलोदाहरणमभिधायोपनयमाह- 'सेलसममित्यादि' यस्य वचनकोटिभिरपि चित्तं न विशेषाभिद्यते, एकमप्यक्षरं तन्मध्याद् न परिणमतीत्यर्थः, स एवंभूतः शैलसमो मुशैलतुल्य इत्यर्थः, तं तथाभूतं शिष्यं ज्ञात्वापि कश्चिद् ग्राहयतीति ग्राहको गुरुः, ॥६२८॥ "आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव कृतीर्थेनाववारिताः ॥१॥" इत्यादिश्लोकाविभ्रमितमतिर्गर्वाद् ‘अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समाचतो महता च संरम्भेणाऽध्यापयितुमारब्धः, तथापि स मुद्गशैलोपमः शिष्योऽक्षरमपि न गृह्णाति । न च मनागपि स्वाग्रहग्रस्तत्वेन बुध्यते। ततश्चैवं यथा पुष्करावर्तः, तथैव सुचिरं क्लेशमनुभूय निर्विद्यते पराभज्यते । ततो विलक्षीभूतो लज्जितश्च निवर्तते तद्ग्रहणादयमाचार्य इति । एवंभूतस्य च शिष्यस्य सूत्रा-ऽर्थदान आगमे प्रायश्चित्तमुक्तम् ।। १४५५ ॥ १४५६ ॥ कुतः १, इत्याह आयरिये सुत्तम्मि य परिवाओ सुत्त-अत्थपलिमंथो । अन्नेसि पिय हाणी, पुट्ठा वि न दुइया बंझा ॥१४५७॥ एवं शैलसमस्यापि शिष्यस्य सूत्रा-ऽर्थदाने प्रवृत्त आचार्ये, मूत्रेऽपि चागमे परिवादोऽवर्णवादो लोकसमुत्थो भवति; तद्यथाअहो! नास्य मूरे प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानं, यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां संबन्धी निरतिशयो युक्तिविकलश्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा, मूत्रा-ऽर्थयोरन्तरायसंभवात् परिमन्यन मर्दनं विनाशनं सूत्रा-ऽर्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठन-परावर्तन-व्याख्यानभङ्गो भवतीत्यर्थः । अपरं च, तद्ग्राहणप्रसक्त सूरावन्येषां शिष्याणां सूत्रा-ऽर्थहानिः- तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनापि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः? इत्याशङ्कयात्रार्थे दृष्टान्तमाह- 'पुट्ठा वीत्यादि' नियमनेन नियन्त्र्य स्तनेषु करैबहुधा स्पृष्टापि वन्ध्या गौन खलु दुग्धदा भवति, एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृङ्गाति । ततस्तादृशस्य सूत्रा-ऽौँ न दातव्यौ, ऐहिका-ऽऽमुष्मिकलशादिबहुदोषसंभवात् । ददाति चेत् , तर्हि समयोक्तमायश्चित्तभागिति । अत्राह- ननु मोक्तोऽसौ मुद्गशैल । भाचार्य सूत्रे च परिवादः सुत्रा-ऽर्थपरिमन्थः । अन्येषामपि च हानिः, पुष्टापि न दुग्धदा वन्ध्या ॥ १४५७ ॥ 999 रनBARMER ६२८॥ Jan Education Internatio FOC Parman and Private Use Only www.jaincibrary.org Page #31 -------------------------------------------------------------------------- ________________ विशेषा० ॥६२९॥ Jain Educationa Internatio दृष्टान्तः, केवलं पाषाण- मेघादीनां जल्पः, अभिप्राय पूर्विके च प्रवृत्ति निवृत्ती, इत्यलौकिकमेवेदम् । सत्यम्, किन्तु पूर्वमुनिभिरेवात्रोक्तं प्रतिविधानम्, तद्यथा "चरियं च कप्पियं विय आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणट्टा इंधणमिव ओयणट्ठाए ॥ १ ॥ न वि अस्थिनविय होही उल्लावो मुग्गसेल-मेहाणं । उवमा खलु एस कथा भवियजणविवोहणट्टाए ॥ २ ॥ " इत्यलं प्रसङ्गेनेति ।। १४५७ ।। अथ मुद्गशैलप्रतिपक्षभूतं घनदृष्टान्तमाह दोणमे न कहभोमाओ लोठए उदयं । गहण धरणासमत्थे इय देयमच्छित्तिकारिम्मि ॥ १४५८ ॥ यावता दृष्टेनाकाशबिन्दुभिर्महती गर्गरी भ्रियते तावत्प्रमाणजलवर्षी मेघो द्रोणमेघ उच्यते । तस्मिन् दृष्टेऽपि सति कृष्णा भूमिर्यत्र प्रदेशेऽसौ कृष्णभूमः प्रदेशस्तस्माद् न प्रलोठति वद्दपि तन्मेधजलं पतितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः मंत्रिशतीति भावः । एवं शिष्योऽपि स कश्चिद् भवति यो गुरुभिरुक्तं वह्नप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीति । एवंभूते च सूत्रार्थग्रहणाऽवधारणासमर्थे शिष्ये सूत्रार्थयोः शिष्य-प्रशिष्यपरम्पराप्रदानेनाव्यवच्छेदकारिणि देयं सूत्राऽर्थजातम्, नान्यस्मिन्ननन्तराभिहितमुद्गशैलकल्पे | इत्यन्वन्य व्यतिरेकात्मकत्वादेकमेवेदमुदाहरणम् ।। १४५८ ।। अथ द्वितीयं कुटोदाहरणं विवृण्वन्नाह - भावि इयरेय कुडा अपसत्थ-पसत्थभाविया दुविहा । पुप्फाईहिं पसत्था सुर-तेल्लाईहिं अपसत्था ॥ १४५९॥ वम्मा अम्मा वियपसत्थवम्माओ होंति अगेज्झा । अपसत्थअवम्मा विर्य, तप्पडिवक्खा भवे गेज्झा || १४६०॥ १ चरितं च कल्पितमपिचोदाहरणं द्विविधमेव प्रज्ञप्तम् । अर्थस्य साधनार्थमिन्धनमिवोदनार्थितया ॥ १ ॥ नाप्यस्ति नापि च भविष्यत्युहापो मुद्रशैल - मेघयोः । उपमा खस्वेष कृता भविकजनविबोधनार्थम् ॥ २ ॥ २ वृष्टेऽपि द्रोणमेघे न कृष्णभूमालोठत्युदकम् । ग्रहण धारणासमर्थ इति देहित्तिकारिणि ॥ १४५८ ॥ ३ भाविता इतरे च कुटा अप्रशस्त प्रशस्तभाविता द्विविधाः पुष्पादिभिः प्रशस्ताः सुरा तैलादिभिरप्रशस्ताः ॥ १४५९ ॥ वाम्या अवाम्या अपि च प्रशस्तवाम्या भवन्त्यग्राह्याः । अप्रशस्तावाम्या अपि च तत्प्रतिपक्षा भवेयुर्मायाः ॥ १४६० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६२९॥ Page #32 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥६३०॥ कुप्पवयणआसेन्नेहिं भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्मा अवम्मा य तह चेव ॥१४६१॥ कुटा घटाः, ते च तावद् द्विविधाः- एके आपाकोत्तीर्णा नूतना अव्याप्रियमाणत्वादद्यापि पुष्प-जल-तैलादिनाऽभाविताः, अन्ये तु व्याप्रियमाणत्वाद् भाविताः। तत्र भाविता द्विविधाः-सुरभिपाटलाकुसुम-पटवासादिप्रशस्तवस्तुभिर्भाविताः प्रशस्तभाविताः, सुरा-तैलाद्यप्रशस्तवस्तुभावितास्त्वप्रशस्तभाविताः। प्रशस्तभाविताः पुनरपि द्विविधाः- तद्भावं वमयितुं शक्या वाम्याः, तद्विपरीतास्त्ववाम्याः । एवमेवाप्रशस्तभाविता अपि वाम्या-वाम्यभेदद्वयादेव द्विविधाः । तत्र ये प्रशस्तवाम्याः प्रशस्तभावं वमयितुं शक्यास्ते ग्राह्या भवन्ति, अनादेयाः, असुन्दरा इति यावत् । तथा, येऽप्रशस्तभावं वमयितुमशक्या अप्रशस्तावाम्यास्तेऽप्यग्राह्या भवन्ति । 'तप्पडिवक्खा भवे गेज्झ त्ति' तेषां प्रशस्तवाम्यानाम् , अप्रशस्तावाम्यानां च ये प्रतिपक्षाः प्रशस्तावाम्याः, अप्रशस्तवाम्याश्च ते ग्राह्या आदेयाः सुन्दरा भवन्ति । तदेवं द्रव्य कूटास्तावत् प्ररूपिताः। भावकुटा अपि प्रशस्ता-प्रशस्तगुणजलाचारवाच्छिष्यजीवा एवमेव भाविता-ऽभावितादिभेदाद् द्रष्टव्या: । केवलमत्र पक्षे कुपवचनावसनादिभिर्भाविताः 'अप्रशस्तभाविता उच्यन्ते' इत्यध्याहारः । ये तु संविग्नैरेव साधुभिर्भावितास्ते प्रशस्ताः प्रशस्तभाविता इत्यर्थः । 'वम्मा अचम्मा य तह चेव त्ति' वाम्याऽवाम्यभावना यथा द्रव्यकुटपक्षे तथैव भावकुटपक्षेऽपि द्रष्टव्येत्यर्थः । सा चैवम्- प्रशस्तभाविता वाम्या:, अप्रशस्तभावितास्त्ववाम्याः, एते उभयेऽप्यग्राह्याः । उक्तविपरीतास्तु ग्राह्या इति । तदेवमुक्तो भावितकुटपक्षः ॥ १४५९ ।। १४६० ।। १४६१ ॥ अथाभावितकुटपक्षमधिकृत्याह'जे उण अभाविया ते चउविहा, अहविमो गमो अन्नो। छिड्डकुड-भिन्न-खंडे सगले य परूवणा तेसिं ॥ १४६२ ॥ ये पुनरभाविताः कुटास्ते छिन्न-भिन्न-खण्ड-सकलभेदाच्चतुर्विधाः। अथवा, भाविता-भावितपक्षनिरपेक्ष एवाऽयमन्यश्छिन्न-भिन्नादिको गमः प्रकारो वर्तत इत्यर्थः । तमेवाह- 'छिड्डकुडेत्यादि' इह कुटो घटः कोऽपि तावच्छिद्रो भवति, बुघ्ने सच्छिद्रो भवतीत्यर्थः । अन्यस्तु भिन्नो राजिमान् भवति । तृतीयस्तु खण्डो भग्नकर्णः। चतुर्थस्तु सकलः परिपूर्ण एव भवति । एतेषां च चतुर्णामपि कुटभेदानां अBAR ॥६३०॥ प्रवचनावसभांविता एवमेव भावकुटाः । संविनः प्रशस्ता वाम्या अवाम्याश्च तथैव ॥ १४६१ ॥ २ ये पुनरभावितास्ते चतुर्विधाः, अथवाऽयं गमोऽन्यः । छिद्रकुट-भिन्न-खण्डेषु सकले च प्ररूपणा तेषाम् ॥ १४६२ ॥ JanEducatiana intermati FOC Parman and Private Use Only www.jaincibrary.org Page #33 -------------------------------------------------------------------------- ________________ CARNA वृहद्वत्तिः । दान्तिकमधिकृत्य प्ररूपणा स्वयमेव कार्या, यथा कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य छिद्रघटकल्पो भवति, कश्चित्तु भिन्नघटकल्प विशेषा इत्यादि वाच्यमिति ॥ १४६२ ॥ अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुः, मुद्गशैल-च्छिद्रकुट-चालन्युदाहरणानां परस्पराभेदोद्भावकशिष्यमतं च निराचिकीर्षुराह॥६३१॥ 'सेले य छिडु-चालणि मिहो कहा सोउमुट्ठियाणं तु । छिड्डाह तत्थ विट्ठो सुमरिंसु सरामि नेदाणि ॥१४६३ ॥ एगेण विसइ बीएण नीइ कन्नेण चालणी आह । धन्न त्थ आह सेलो जं पविसइ नीइ वा तुझं ॥ १४६४ ॥ शैल-च्छिद्रकुट-चालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, तत्सादृश्यात् । ततश्च शैल-च्छिद्रकुट-चालBA न्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वा, उत्थायान्यत्र गतानां मिथः परस्परं कथा समभवत । कीदृशी?, इत्याहLON छिडेत्यादि' छिद्रघटकल्पच्छिद्रः शिष्यः माह । किम् , इत्याह- तत्र गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम् , इदानीं तु न किमपि स्मरामि | छिद्रघटो ह्येवविध एव भवति । सोऽपि स्थानस्थितो मुद्गादिकं प्रक्षिप्तं धरति, अन्यत्र तूत्क्षिप्य नीतस्य तन्त्र प्राप्यते, RAM अधश्छिद्रेण गलित्वा निःस्तत्वात , अतस्तस्कल्पः शिष्योऽपीत्थमाहेति भावः । छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः प्राह एकणेत्यादि' चालनीकल्पः शिष्यश्चालनी, स प्राह-भोश्छिद्रकुट ! शोभनस्त्वम् , येन गुरुसमीपस्थेन त्वया तावदवधारितं तद्वचः पश्चादेव विस्मृतम् , मम तु गुर्वन्तिकेऽपि स्थितस्यैकेन कर्णेन विशति, द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम् । कणिकादिचालन्या अपि हि जलादिकमुपरिभागे निक्षिप्यते, अधोभागेन तु निर्गच्छति, न तु किमपि संतिष्ठते, अतस्तदुपमः शिष्योऽपीत्थमेवाहेति भावः । तदेवं छिद्रकुट-चालनीभ्यामेवमुक्ते मुद्गशैलः पाह- 'धन्न स्थेत्यादि' मुद्गशैलो वदति-धन्यावत्र युवाम् , यद् यस्मात् कारणाद् युवयोस्तावत्कर्णयोगुरूक्तं किमपि प्रविशति, निर्गच्छति च । मम त्वेतदपि नास्ति, तदुक्तस्य सर्वथापि मध्ये प्रवेशाभावात् , उपलस्यैवंविधत्वादेवेति । तदेवं चालन्युदाहरणस्य स्वरूपमुक्तम् , शैल-च्छिद्रघट-चालन्युदाहरणानां परस्परं विशेषश्वाभिहितः ।।१४६३।।१४६४॥ अथ चालनीप्रतिपक्षमाह शैले च च्छिद-चालन्योमिथः कथा श्रुत्वोत्थितानां तु । छिद्र आह तत्र विष्टोऽस्मार्ष स्मरामि नेदानीम् ॥ १४६३ ॥ एफेन विशति द्वितीयेन निगच्छति कर्णेन चालन्याह । धन्यावत्राह शैलो यत् प्रविशति निर्गच्छति वा युवयोः ॥ १४६४ ॥ जा525aharale ॥६३१॥ Jan Education 1924 For Peasonal and Preve n ty Page #34 -------------------------------------------------------------------------- ________________ विशेषा० ॥६३२॥ Jain Educationa Internation ती सखउरकठिण चालणिपडिवक्खो न सवइ दव्वं पि । परिपूणगम्मि उ गुणा गलंति दोसा य चिट्ठति ॥ १४६५ ॥ चालनीप्रतिपक्षः 'भवति' इति शेषः । कीदृशः १ इत्याह- तापसानां भोजनादिनिमित्तमुपकरणविशेषः 'खउरकठिनकम्' उच्यते । तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्लक्ष्णं कुयित्वा कमटकाकारं क्रियते । इदं चातिनिविडत्वाद् द्रव्यं, जलमपि प्रक्षिप्तं न स्रवति, किन्तु सम्यग् धरति । एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेत्र धरति, न विस्मरति, स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः । अथ परिपूणकोदाहरणमाह- 'परिपूणग-' इत्याद्युत्तरार्धम् । परिपूणको नाम सुघरीचिटिकाविरचितो नीडविशेषः तेन च किल घृतं गायते, ततस्तत्र कचवरमवतिष्ठते, घृतं गलित्वाऽधः पतति, एवं परिपूणक सदृशः शिष्योऽप्युपचारात् परिपूणकः । तत्र हि श्रुतसंबन्धिनो गुणाः सर्वेऽपि घृतवद् गलन्ति, दोषास्तु घृतगतकचवरवदवतिष्ठन्ते श्रुतस्य दोषानेव गृह्णाति गुणांस्तु सर्वथा परिहरत्यौ, अतोऽयोग्य इति भाव इति ।। १४६५ ।। अत्र प्रेर्यमुत्थाय परिहरन्नाह - सैव्वण्णुपामन्ना दोसा हु न संति जिणमए केइ । जं अणुवउत्तकहणं अपत्तमासज्ज व हवेज || १४६६ ॥ ननु सर्वज्ञप्रामाण्यात् सर्वज्ञोऽस्य प्रवर्तक इति हेतोर्जिनमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य कोऽपि दोषान् ग्रहीष्यति, असत्त्वादेव ? इति भावः । सत्यम्, किन्तु यद्यपि जिनमते दोषा न सन्ति, तथाऽप्यनुपयुक्तस्य गुरोर्यत् कथनं व्याख्याविधानं तदाश्रित्य दोषा भवेयुरिति संबन्धः । अथवा, अपात्रमयोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि तदुत्प्रेक्षिता दोषा भवेयुः, निर्दोषेsपि जनमते पात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्येवेत्यर्थः । तथाच ते वक्तारो भवन्ति, तद्यथा "पगथभासनिबद्धं को वा जाणइ पणीय केणेयं । किंवा चरणेणं णु दाणेण विणा उ हवइति ॥ १ ॥ कायावया य त चियते चैव पमाय-अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कज्जं ? ॥ २ ॥ 1 १ तापस- 'खउरकठिनकं' चालनीप्रतिपक्षो न ववति द्रव्यमपि परिपूरके तु गुणा गलन्ति दोषाच तिष्ठन्ति ।। १४६५ ।। २.ग. वंशकुन्दादिकं द्र' । ३ सर्वज्ञप्रामाण्याद् दोषाः खलु न सन्ति जिनमते केचित् । यदनुपयुक्तकथनमपात्रमासाद्य वा भवेयुः ॥ १४६६ ॥ ४ प्राकृतभाषानिबद्धं को वा जानाति प्रणीतं केनेदम् ? किंवा चरणेन तु दानेन विना तु भवतीति ॥ १ ॥ कायापद ता एव तावेव प्रमादा-प्रमादौ च । मोक्षाधिकारिकाणां ज्योतियनिभिः किं कार्यम् ? ॥ २ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥६३२॥ Page #35 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६३३॥ को आउरस्स कालो मइलंबरधोयणे य को कालो ? । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा ! ॥ ३ ॥ " इत्यादि । असन्तश्च सर्वेऽप्यमी दोषाः, "बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ १ ॥ " “पुंव्वभणियं पि जं वत्थु भण्णए तत्थ कारणं अस्थि । पडिसेहो य अणुन्ना वत्युविसेसोवलंभो वा ॥ १ ॥” इत्यादिना शास्त्रान्तरे विस्तरेण निराकृतत्वादिति ।। १४६६ ।। अथ हंसोदाहरणव्याख्यामाह - बत्तणेण जीहाए कूचिया होइ खीरमुदगम्मि । हंसो मुत्तूण जलं आवियइ पयं तह सुसीसो || १४६७॥ दुग्धं च जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि हंसस्य पानार्थमुपनयति । स च तन्मध्ये चञ्चुं प्रक्षिपति । तस्य च जिहा स्वभावत एवाम्ला भवति । तेन च जिह्वाया आम्लत्वेन हेतुभूतेनोदकमध्यगतं दुग्धं विलित्वा कूचिका विन्दुरूपा बुबुदा भवन्तीत्यर्थः । ततश्च जलं मुक्त्वा तद् बुद्बुदीभूतं दुग्धमापिवति हंसः । तथा सुशिष्योऽपि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थानीयान् गुणान् गृह्णातीत्यर्थ इति ।। १४६७ ॥ अथ महिषोदाहरणं विवृण्वन्नाह यमविन पियइ महिसो न य जूहं पियइ लोडियं उदगं । विग्गह-विगहाहि तहा अत्थकुपुच्छाहिय कुसीसो ॥ १४६८ ॥ स्वयूथेन समं वनमहिषो जलाशये कचिद् गत्वा तन्मध्ये च प्रविश्योद्वर्तन- परावर्तनादिभिस्तथा तज्जलमालोडयति यथा कलुषितं सद् न स्वयं पिवति, नापि तद्यथम् । एवं कुशिष्योऽपि व्याख्यामण्डलिकायामुपविष्टो गुरुणा, अन्येन वा शिष्येण सह विग्रह कलहमुदीरयति, विकथाप्रबन्धं वा किश्चिच्चालयति, संबद्धा-संबद्धरूपाभिरनवरतमुपर्युपरि पृच्छाभिश्च तथा कथञ्चिद् व्याख्यानमालोडयति, यथा नात्मनः किञ्चित् पर्यवस्यति, नापि शेषविनेयानामिति ।। १४६८ ॥ ८० १ क आतुरस्य कालो मलिनाम्बरधावने च कः कालः ? । यदि मोक्षहेतुर्ज्ञानं कः कालस्तस्याऽकालो वा १ ॥ ३ ॥ २ पूर्वभणितमपि यद् वस्तु भण्यते तत्र कारणमस्ति । प्रतिषेधश्चानुज्ञा वस्तुविशेषोपलम्भो वा ॥ १ ॥ ३ आम्लत्वेन जिह्वायाः कृतिका भवति क्षीरमुदके हंसो मुक्या जलमापिवति पयस्तथा शिष्यः ॥ १४६७ ॥ ४ स्वयमपि न पिबति महिषो न च यूथे पिबति लोडितमुदकम् । विग्रह विकथाभिस्तथाऽर्थ कुपृच्छामिश्र कुशिष्यः ॥ १४६८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६३३॥ Page #36 -------------------------------------------------------------------------- ________________ विशेषा० ॥६३४॥ मेषोदाहरणमाह अवि गोपयम्मि पिवे सुढिओ तणुयत्तणेण तुंडस्स । न करेइ कलुस तोयं मेसो एवं सुसीसो वि ॥ १४६९॥ जलभृते कचिद् गोष्पदेऽपि 'सुटिङ त्ति' संकुचिताङ्गो मेष ऊरणकः पिवेज्जलम्, न च तत् कलुषं करोति । केन हेतुना ? इत्याह- तनुकत्वेनाग्रभागे श्लक्ष्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवगम्य तीक्ष्णेन मुखेन तथासौ जलं पिवति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्योऽपि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति यथा तस्य, परिषदो वा न कस्यचिद् मनोवाधादिकं कालुष्यं भवतीति ॥। १४६९ ।। मशक- जलूकोदाहरणद्वयविवृतिमाह- स व तुदं जच्चाइएहिं निच्छुभए कुसीसो वि । जलुगा व अदूमंतो पिचइ सुसीसो वि सुयनाणं ||१४७० ॥ यथा मशको जन्तूंस्तुदते व्यथयति । ततच वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्घाटनैर्गुरु तुदन् व्यथयमानो निश्कास्यते परिहियत इति । जलूका पुनर्यथाऽष्टगु पिवति, न चासृग्मन्तं व्यथयति, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिवति गृह्णाति न तु जात्युद्घाटनादिना दुनोतीति ।। १४७० ।। विडाल्युदाहरणमाह- छैड्डेउं भूमीए खीरं जह पियइ दुमज्जारी । परिसदुट्टियाण पासे सिक्खइ एवं विनयभंसी ॥ १४७१ ॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थास्याः क्षीरं भूमौ छर्दयिला पिवति, न पुनस्तत्स्थम् । तथाच सति न तत् तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी विनयकरणभीरुः कुशिष्यो गोष्ठामा हिलवत् परिष दुत्थितानां विन्ध्यादीनामिव पार्श्वे शिक्षते श्रुतं गृहाति, न तु गुरोः समीपे तद्विनयकरणभयात् । इह च दुष्टमार्जारीस्थानीयः कुशिष्यः, भूमिकल्पस्तु परिषदुत्थिताः शिष्याः, छर्दितदुग्धपानसदृशं तु तद्गतश्रुतश्रवणमिति ।। १४७१ ॥ १ अपि गोष्पदे पिबेद् मेपकस्तनुकत्वेन तुण्डस्य । न करोति कलुषं तोयं मेप एवं सुशिष्योऽपि ॥ १४६९ ॥ २ मशक इव तात्यादिभिर्निष्कास्यते कुशिष्योऽपि । जलूके वाऽदुनन् पिबति सुशिष्योऽपि श्रुतज्ञानम् ॥। १४७० ॥ ३ उर्दयित्वा भूमौ क्षीरं यथा पिवति दुष्टमाजरी परिषदुत्थितानां पार्श्वे शिक्षत एवं विनयवंशी ।। १४७१ || For Personal and Private Use Only बृहद्वृत्तिः । ॥६३४ ॥ Page #37 -------------------------------------------------------------------------- ________________ विशेषा० ||६३५|| Jain Educationa Internatio जाहकोदाहरणमाह पीडं थोडं थोडं खीरं पासाईं जाहगो जह लिहइ । एमेव जियं काउं पुच्छइ मइमं न खेएइ ॥ १४७२ ॥ यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा ततो जाहकः सेहलको भाजनस्य पार्श्वानि लेढि पुनरपि च स्तोकं तत् पीत्वा भाजनपार्श्वानि लेढि, एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽप्रेतनं गृहीतं श्रुतं परिचितं कृत्वा पुनरन्यद् गृह्णाति एवं पुनः पुनस्तावद् विदधाति यावत् सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति, न च गुरुं खेदयतीति ।। १४७२ ॥ अथ गोष्टान्त उच्यते तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययननिमित्तचरणशब्दवाच्येभ्यश्चतुभ्य बाह्मणविशेषेभ्यो गौः प्रदत्ता । मोदान तेन ते ब्राह्मणाः- 'वारकेणासौ भवद्भिर्दोग्धव्या' इति । अन्येभ्योऽपि च चतुर्थ्यश्चरणद्विजेभ्यो गौरेका तेन प्रदत्ता । तेऽपि च तेन तथैवोक्ताः । तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मगेन केनचिद् गौः स्वग्रहे नीत्वा दुग्धा । ततवारीप्रदानवेलायां चिन्तितं तेन । किम् ? इत्याह अन्नो दोजिइ कल्ले निरत्थियं किं वहामि से चारिं । चउचरणगवी उ मया अवन्न-हाणी य बहुयाणं ||१४७३॥ तेनैतच्चिन्तितम् — हन्त ! वारकप्राप्तोऽन्यो ब्राह्मणः कल्ये तावदेतां धेनुं धोक्ष्यति, तत् किमद्य निरर्थकामस्याश्वारीं वहामि । कल्पेऽन्योऽपि हि तां दास्यति, इति विनिश्चित्य न तस्यावारी प्रदत्ता । ततो द्वितीये दिने द्वितीयेनापि द्विजातीयेन तथैव कृतम् । एवं तृतीये दिने तृतीयेनापि चतुर्थे दिने चतुर्थेनापि तथैव चेष्टितम् । इत्थं च चारीविरहिता दुह्यमाना कतिपयदिनमध्ये चतुर्णां चरणानां संबन्धिनीसा गौर्मृता । ततश्च तेषां बहूनां गोहत्या समभवत् । जने चावर्णवादो जातः, हानिश्च तेषां ततो यजमानात् अन्यस्माद् वा पुनर्गवादिलाभाभावादिति ।। १४७३ ।। अन्यैश्च यैश्चतुर्भिश्चरणैगौर्लब्धा, तन्मध्ये प्रथमद्विजस्तां दुग्ध्वा चारीप्रदानवेलायामचिन्तयत्, किम् ?, इत्याह मी मे हो अवणो गोवज्झा वा पुणो वि न दविज्जा । वयमवि दोज्झामो पुणो अणुग्गहो अन्नदुद्धे वि ॥ १४७४ ॥ १ पfear स्तोकं स्तोकं क्षीरं पार्श्वनि जाहको यथा लेढि । एवमेव जितं कृत्वा पृच्छति मतिमान् न खेदयति ।। १४७२ ।। २ अन्यो धोक्ष्यति कल्ये निरर्थिकां किं वहामि तस्याश्चवारीम् । चतुश्चरणगौस्तु मृताऽवर्ण-हान्यौ च बहुकानाम् ॥ १४७३ ।। ३ मा मम भूदवर्णो गोहत्या वा पुनरपि न दास्यति । वयमपि घोक्ष्यामः पुनरनुग्रहोऽम्यदुग्धायामपि ।। १४७४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६३५॥ Howww.janelibrary.org Page #38 -------------------------------------------------------------------------- ________________ पर विशेषाऽस्मन्य ॥६३६॥ ARRS मा भूज्जनमध्ये ममावर्णवादः, गोहत्या वा मा भूत् , इत्यस्याश्चारी प्रयच्छामि । यदि तु न दास्यामि तदा संजातकलङ्केभ्यो| ऽस्मभ्यं पुनर्गवादिकं किमपि कोऽपि न दास्यति । अपरश्च, एतस्याश्वारीपदाने को दोपः १ प्रत्युत गुण एव, यतश्चारीप्रदानपुष्टामेतां पुनरपि वारकेणागतां वयमेव धोक्ष्यामः । यदिवा, अन्येनापि ब्राह्मणेन दुग्धायामेतस्यामस्माकमेवानुग्रह इति ।। १४७४ ।। अथोपनयमाहसीसा पडिच्छगाणं भरो त्ति ते विय हु सीसगभरो त्ति । न करेंति सुत्तहाणी अन्नत्थ वि दुल्लहं तेसिं ॥१४७५॥ गुरोविनयकर्मणि कर्तव्ये वगच्छदीक्षिताः शिष्यास्तावचिन्तयन्ति । किम् ? इत्याह-प्रतीच्छकानामुपसंपन्नानामागन्तुकशिष्याणामयं गुरोविनयकरणलक्षणो भर आचारः, किमस्माकम् , तेषामेव सांप्रतं वल्लभत्वात् ? इति । तेऽपि च प्रतीच्छका एवं संपधारयन्ति-निजशिष्याणामेवाऽयं भरः, किमस्माकमागन्तुकानामद्य समागतानामन्येार्जिगमिपूणाम् ? इति । एवं संप्रधार्योभयेऽपि गुरोर्न किश्चिद् विनय-वैयावृत्त्यादिकं कुर्वन्ति । ततश्च गुरुषु सीदत्सु तेषां सूत्रा-ऽर्थहानिः, अन्यत्रापि च गतानां तेषां दुर्विनीतानां दुर्लभं सूत्रम् , अर्थश्च । उपलक्षणत्वादन्येऽप्यवर्णवादादयो दोषाः स्वयमेवाभ्यूह्याः । अयं च दुर्विनीतशिष्योपनयः कृतः । सुविनीतविनेयोपनयस्तूक्तविपर्ययेण स्वयमेव कर्तव्य इति ॥ १४७५ ॥ भेरीदृष्टान्तमाहकोमुइया तह संगामिया य उब्भूइया य भेरीओ । कण्हस्सासिण्हुतया असिवोवसमी चउत्थी उ ॥ १४७६ ॥ सक्कपसंसा गुणगाहि केसवो नेमिवंद-सुणुदंता । आसरयणस्स हरणं कुमारभंगे य पुयजुद्धं ॥ १४७७ ॥ नेहि जिओ म्हि त्ति अहं असिवोवसमीए संपयाणं च । छम्मासियघोसणया पसमइ न य जायए अन्नो ॥१४७८॥ आगंतुवाहिक्खोभो महिड्ढिमुल्लेण कंथ-दंडणया । अट्ठमआराहण अन्नभेरी अन्नस्स ठवणं च ॥ १४७९ ॥ शिष्याः प्रतीच्छकानां भर इति तेऽपिच खलु शिष्यकभर इति । न कुर्वन्ति सूत्र-हान्यावन्यत्रापि दुर्लभ तेषाम् ॥ १४७५ ॥ २ कीमुदिका तथा सांसामिकी चीजूतिकी च भेयः । कृष्णस्याशिश्नुतयाऽशिवोपशमिनी चतुर्थी तु ॥ १४०६ ।। शक्रप्रशंसा गुणग्राही केशवो नेमिवन्दन-वानोदन्ती । अश्वरवस्य हरणं कुमारभङ्गे च पूतयुद्धम् ।। १४७७ ॥ मय जितोऽमीत्यहमशिवोपशमिन्याः संप्रदानं च । पाण्मासिकघोषणया प्रशमति न जायतेऽन्यः ।। १४७८ ।। भागन्तुकन्याधिक्षोभो महाबमूल्पेन कन्या-दण्डनते । अष्टमाराधनमन्यभेरी अन्यस्य स्थापनं च ।। १४७५ ॥ FOR॥६३६॥ Page #39 -------------------------------------------------------------------------- ________________ विशेषा० ॥६३७॥ आसां भावार्थः कथानकादवसेयः । तच्च ‘गोणी चन्दनकथा' इत्यत्र सविस्तरं कथितमेव । इह चेत्थप्नुपनयोऽपि द्रष्टव्यःयः शिष्योऽशिवोपशमिका भेरी प्रथपरक्षक इव जिन-गणधरप्रदत्तां श्रुतरूपां भेरी परमतादिथिग्गलकैः कन्धीकरोति स न योग्यः, यस्तु नैवं करोति स द्वितीयभेरीरक्षक इव योग्य इति ॥ १४७६ ॥ १४७७ ।। १४७८ ॥ १४७९ ॥ अथाभीरीदृष्टान्तं विवृण्वन्नाह मुकं तया अगहिए दुपरिग्गहियं कयं तया, कलहो । पिट्टण-अइचिरविक्कय गएसु चोरा य ऊणग्घे ॥१४८०॥ ___ इह च कथानकेन भावार्थ उच्यते, तद्यथा- कुतश्चिद् ग्रामाद् गोकुलाद् वाऽऽभीरीसहित आभीरो घृतवारकाणां गन्त्री भृत्वा विक्रया) पत्तने समागतः । विक्रयस्थाने च गन्व्या अधस्ताद् भूमावीभीरी स्थिता । आभीरस्तूपरि स्थितस्तस्या घृतवारक समर्पयति । ततश्चानुपयोगेन समर्पणे, ग्रहणे वा घृतवारके भग्ने आभारी प्राह- भग्नाश ! नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतवारकोऽयं मयाऽगृहीत एव मुक्तः, ततो भग्नः। आभीरस्त्वाह- रण्डे ! नगरयूनां वदनानि वीक्षमाणया त्वयैव दुष्परिगृहीतोऽयं कृतः, ततो भग्नः, इत्युभयोरपि कलहः समभवत् । पिट्टिता च तेनाभीरी । कलहयतोश्च तयोरन्यदपि घृतं बहु च्छर्दितम् । उद्धरितशेषेण च घृतेनोत्सूरेऽर्थोऽप्यूनो लब्धः । इतरेषु सार्थिकेषु घृतं विक्रीय गतेषु तयोरेकाकिनोर्गच्छतोघृतद्रम्मा गन्त्री बलीवर्दाश्च सर्व तस्करैरपहृतमिति ॥ १४८०॥ एवं दृष्टान्तमभिधायोपनयमाह मा निण्हवइ य दाउं उवजुज्जिय देहि किं विचिंतेसि ? । वच्चामेलियदाणे किलस्ससि तं च हं चेव ॥१४८१॥ चिन्तनिकाद्यवस्थायां वितथं प्ररूपयन् , अधीयानो वा गुरुणा शिक्षितः शिष्यो जगाद- त्वयैव ममेत्थं व्याख्यातं, पाठितो वा त्वयैवैवंविधम् , अतस्तवैव दोषोऽयम् , किं मां शिक्षयसि । आचार्यः प्राह- न मयैवमुपदिष्टम् । कुशिष्यो ब्रवीति- हन्त ! साक्षादेव मम पुरस्सरमित्थं मूत्रमर्थं वा दचा सूरे ! मा निबोष्ठास्त्वम् । इत्थमुक्त आचार्यः किमप्यन्तायन् पुनरप्युक्तः शिष्याभासेन- 'किं बलीवत् पातित इव विचिन्तयसि, भव्यगत्योपयुज्योपयुक्तो भूत्वा देहि सूत्रा-ऽयौँ, व्यत्यानेडितदाने वितथमूत्रा-ऽर्थ१ गाथा १४३४ । २ मुक्तं त्वयाऽगृहीते दुष्परिगृहीतं कृतं त्वया, कलहः । पिट्टना-ऽतिचिरविक्रयी गतेषु चौराथोनाः ॥ १४८॥ ३ मा निहोष्ठान दत्त्वोपयुज्य देहि किं विचिन्तयसि ! । व्यत्यानेडितदाने क्लिश्यावस्त्वं चार चैव ॥ १४८१ ॥ marate ॥६३७॥ Jan Educ a tio For Personal and its Only Page #40 -------------------------------------------------------------------------- ________________ वृहदत्तिः । प्रदाने केवलं त्वम् , अहं च क्लेशमेवानुभवावः । तदित्यं वदोषाप्रतिपत्तौ गुरुदोषोद्भावनेनाभीरमिथुनस्येव गुरु-शिष्ययोः कलह एव विशषा मवर्तते । तथाच सति व्याख्याव्यवच्छित्ति-सूत्रा-ऽर्थहान्यादयो दोषाः। अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः, तथाहि- अन्योऽप्याभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थं गतः। कलत्रस्य च ॥६३८॥ चारके समर्पिते भने 'अहो! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति ब्रुवाणो झगिति गव्याः समुत्तीर्य कपरकैघृतं संवृणोति । भार्याऽपि 'धिम् । मयाऽनुपयुक्तया दुप्परिगृहीतः कृतोऽसौ, तेन भन्नः' इति वदन्ती तथैव तत् संवृणोति । ततश्चान्योन्यं कलहेऽज्ञात उभयसंवृत्या घृतं शीघ्रमेव विक्रीतम् । सार्थिकैश्च सह क्षेमण स्वस्थानं जग्मतुः । एवं गुरु-शिष्या अपि स्वदोषं प्रतिपद्यमानाः परदोषं तु निनुवाना EB येऽन्योन्यं न विवदन्ते, त एव मूत्रा-ऽर्थग्रहण-प्रदानयोोग्या भवन्ति, निर्जरादिलाभभागिनश्चेति ।। १४८१ ॥ तदेवं योग्या ऽयोगान गुरून् शिष्यांचोपदोपसंहारपूर्वकं तत्फलमाह भणिया जोग्गा-ऽजोगा सीसा गुरवो य तत्थ दोण्हं पि । पेयालियगुण-दोसो जोग्गो जोग्गस्स भासेज्जा ॥१४८२॥ भणिता योग्या-ऽयोग्या गुरु-शिष्याः । तत्र द्वयोरपि गुरु-शिष्ययोर्विचारितगुण-दोषो योग्यो गुरुर्योग्याय शिष्याय सूत्रार्थी भाषेतेति ।। १४८२ ॥ अथ क्रमप्राप्तमुपोद्धातद्वारमभिधित्सुः प्रस्तावनामाह__ केयमंगलोवयारो संपइ वण्णियपसंगवक्खाणो । दाइयवक्खाणविही वोच्छमुवग्घायदारविहिं ॥१४८३॥ तदेवं 'तित्थयरे भगवंते' इत्यादिना कृतमङ्गलोपचारो वर्णितप्रसङ्गागतजिनप्रवचनोत्पत्त्यादिव्याख्यानः पूर्वोक्तकारणाद् दर्शितव्याख्यानविधिश्च, सांपतं उपोद्वननं व्याख्येयस्य सूत्रस्य व्याख्यानविधिसमीपीकरणमुपोद्धातः, तद्विषयो द्वारविधिस्तं वक्ष्ये ।। इत्येकोनत्रिंशद्गाथार्थः ।। १४८३ ।। स चार्य द्वारविधिः । कः? इत्याहउद्देसे निदेसे य निग्गम खेत्त-काल-पुरिसे य । कारण-पच्चय-लक्खण-नए समोयरणा-णुमए ॥ १४८४ ॥ , भणिता योग्या अयोग्याः शिष्या गुरवच, तत्र द्वयोः । विचारितगुण-दोषो योग्यो योग्याय भाषेत ॥ १४८२ ॥ २ कृतमलोपचारः संप्रति वर्णितप्रसङ्गब्याख्यानः। दर्शितव्याख्यानविधिर्वक्ष्ये उपोदातद्वारबिधिम् ॥ १४८३॥ गाथा १०२५। शान निशो निर्गम क्षेत्र-काल-पुरुषाच । कारण-प्रत्यय-लक्षण-नयाः समवतारा-ऽनुमसी ॥ 16 ॥ 1516665656784586TRATHISESH ॥६३८॥ Page #41 -------------------------------------------------------------------------- ________________ विशेषा. ॥६३९॥ 'किं कइविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवा-गरिस-फोसणनिरुत्ती ॥१४८५|| उद्देशनं वस्तुनः सामान्याभिधानमुद्देशः, यथा- 'अध्ययनम्' इति । वक्तव्य इति क्रिया सर्वत्र द्रष्टव्या । तथा, निर्देशनं वस्तुन एव विशेषाभिधानं निर्देशः, यथा 'सामायिकम्' इति । निर्गमनं निर्गमः 'कुतः सामायिक निर्गतम्' इत्येवंरूपो वक्तव्यः । तथा, क्षेत्रकालौ च ययोः सामायिकमुत्पन्नं, तो वक्तव्यौ । यद् वक्ष्यत्यत्रैव बहसाहसुद्धएकारसीए पुव्वण्हदेसकालम्मि | महसेणवणुज्जाणे अणंतरं परंपर सेसं ॥१॥ इति । तथा, कुतः पुरुषात् तद् निर्गतमिति वक्तव्यम् । तथा, 'केन कारणेन गौतमादयः सामायिक भगवतः समीपे शृण्वन्ति' इत्येवंरूपं कारणं वाच्यम् । तथा च वक्ष्यति- 'गोयममाई य सामाइयं तु किंकारणं निसामंति' इत्यादि । तथा, प्रत्याययतीति प्रत्ययः स वक्तव्यः, केन प्रत्ययेन भगवता सामायिकमुपदिष्टम् , केन वा प्रत्ययन गणधरास्तेनोपदिष्टं तत् शृण्वन्ति ?, इत्येतद् वाच्यमित्यर्थः । तथाचाभिधास्यति केवलनाणि ति अहं अरिहा सामाइयं परिकहेइ । तेसि पि पचओ खलु सव्यण्णू तो निसामंति ॥१॥ तथा, सम्यक्त्वसामायिकस्य च तच्चश्रद्धानं लक्षणं वक्तव्यम् , श्रुतसामायिकस्य जीवादिपरिज्ञानम् , चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरत्य-विरतिवरूपं मिश्रलक्षणम् । तथा च सति निर्देक्ष्यति- सद्दहण-जाणणा खलु विरई मीसं च लक्षणं कहए' इत्यादि । एवं नैगमादयो नया वाच्याः । तेषां य नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः। यतोऽभिधास्यति 'मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥१॥' इत्यादि । तथा, कस्य व्यवहारादिनयस्य किं सामायिकमनुमन मिति निर्देष्टव्यम् । तथाच निर्देक्ष्यति किं कतिविधं कस्य कुत्र केषु कवं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भवा-ऽऽकप-स्पर्शननिरुक्तिः ॥ १४८५ ॥ २ वैशाखशुक्रकादश्या पूर्वाहदेशकाले । महासेनवनोद्यानेऽनन्तरं परंपरं शेषम् ॥1॥ ३ गौतमादयश्च सामायिकं तु फिकारणं निशाम्यन्ति । . केवलज्ञानीत्यहमहन् सामायिक परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञ इति निशाम्यन्ति ॥1॥ ५ श्रद्धान-ज्ञानं खलु विरति मिश्रं च लक्षणं कथयत्ति ।। मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥1॥ JanEducationa.intamation For Personal and ma n y Page #42 -------------------------------------------------------------------------- ________________ बृह 'तैव संजमो अणुमओ निग्गंथं पवयणं च ववहारो । सद्दो-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ १ ॥ विशेषा. इति 'किं सामायिकम् ?" इति प्रश्ने प्रत्युत्तरं दास्यति- 'जीवो गुणपडिवनो नयस्स दबहियस्स सामइयं' इत्यादि । 'कति- विध च तत, इत्यत्र निर्वचनं वक्ष्यति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च' इत्यादि । 'कस्य सामायिकम् ? इत्यत्रा॥६४०॥ भिधास्यति- 'जैस्स सामाणिओ अप्पा' इत्यादि । 'क सामायिकम् ?' इत्येतदपि "खित्त दिसा-काल-गइ-भविय-सन्नि-ऊसास-दिहिFor माहारे' इत्यादिना द्वारकलापेन निरूपयिष्यति । 'केषु सामायिकम्' इत्यत्रोत्तरम्- सर्वद्रव्येषु, तथाहि 'सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरई पड्डुच्चा दोण्हं वि पडिसेहणं कुज्जा ॥ १ ॥ इति वक्ष्यति । 'कथं सामायिकमवाप्यते' इत्यत्र 'माणुस्सखेत्तजाई' इत्यादि प्रतिपादयिष्यति । 'कियच्चिरं कालं भवति' इति चिन्तायामभिधास्यति 'सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुव्वकोडी देसूणा होइ उक्कोसा ॥ १ ॥ इति । 'कइ त्ति' कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः, पूर्वमतिपन्ना वा लभ्यन्ते ? इति वक्तव्यम् । तत्र च वक्ष्यति- 'सम्मत्त-देसविरया पलियस्स असंखभागमेत्ताओं' इत्यादि । सहान्तरेण वर्तत इति सान्तरम्, इति विचारणायां निर्णेष्यति कालमणंतं च सुए अद्धापरियट्टओ च देसूणो । आसायणबहुलाणं उकोसं अंतरं होई ॥१॥ इति । 'अविरहितं निरन्तरायं कियन्तं कालं सामायिकस्य प्रतिपत्तारो लभ्यन्ते ?' इत्यत्र निर्वचनयिष्यति- . , तपः संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-जुसूत्रयोः पुननिर्वाण संयम एव ॥१॥ २ जीवो गुणप्रतिपनो नयस्स द्रव्यास्तिकस्य सामायिकम् । सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । । यस्प सामाऽऽनीत आत्मा । ५ क्षेत्र दिक्-काल-गति-भविक-संज्ञि-उच्छ्रास-दृष्टि-आहारेपुः ।। ६ सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्याः ॥1॥ ७ मानुष्यक्षेत्रजात ८ सम्यक्त्वस्य श्रुतस्य च द्वाषष्टिः सागरोपमाणि स्थितिः । शेषाणां पूर्वकोटिर्देशोना भवत्युत्कृष्टा ॥1॥ ९ सम्यक्त्व-देशविरताः पल्यस्यासंख्यभागमात्राः । १. कालमनन्तं च श्रुतेऽद्धापरिपर्तकश्च देशोनः । आशातनाबहुलानामुत्कृष्टमन्तरं भवति ॥1॥ ६४०॥ Jan Education International FOC P o land Private Use Only Page #43 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥६४।। 'सम्म-सुय-अगारीणं आवलियअसंखभार्गमेत्ताओ । अट्ठ समया चरित्ते सव्वेसु जहण्ण दो समये ॥१॥' इत्यादि । 'कियतो भवानुत्कृष्टतः सामायिकमवाप्यते ?' इत्यत्रोत्तरमभिधास्यति सम्मत्त-देसविरया पलियस्स असंखभागेमेत्ताओ । अट्ट भवा उ चरिते अणंतकालं च सुयसमए ॥१॥ इति । आकर्षणमाकर्ष एकस्मिन् नानाभवेषु वा पुनः सामायिकस्य ग्रहणं प्रतिपत्तिरिति वाच्यम् । तत्र च तिहं सहस्सपुहत्तं सयपुहत्तं च होइ विरईए । एगभवे यागरिसा एवइया होति नायव्वा ॥ १ ॥ इत्यादि वक्ष्यति । 'फोसण ति' कियत्क्षेत्रं 'सामायिकवन्तः स्पृशन्ति ?' इत्येतदभिधानीयम् । तत्र च वक्ष्यति __'सेम्मत्त-चरणसहिया सव्वं लोयं फुसेंति निरवसेसं । सत्त य चउदस भाए पंच य सुय-देसविरईए ॥ १ ॥' इत्यादि । तथा, निश्चितोक्तिनिरुक्तिः सामायिकस्य वक्तव्या । तथा चाभिधास्यति “सम्मदिट्ठि अमोहो सोही सब्भावदंसणं बोही । अविवज्जओ सुदिदि त्ति एवमाई निरुत्ताई ॥ १॥' इत्यादि । इत्युपोद्धातनियुक्तिद्वारगाथाद्वयसंक्षेपार्थः ॥ १४८४ ॥ १४८५ ॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकार उद्देश-निर्देशविषयमाक्षेपं चेतस्याशक्य परिहारं तावदाह उद्देट्टुं निहिस्सइ पायं सामन्नओ विसेसो त्ति । उद्देसो तो पढमं निदेसोऽणंतरं तस्स ॥ १४८६ ॥ ननु कस्मात् 'प्रथममुद्देशस्ततो निर्देशः? इत्याशय परिहरति- 'उद्देलुमित्यादि' सामान्येन हि पूर्व वस्तूद्दिश्य ततः पश्चाद् विशेषतो निर्दिश्यते, इति शास्त्रे लोके च स्थितिः । तथा, ज्ञानमपि प्रायः प्रथमं वस्तुनः सामान्याकारग्राहकमुत्पद्यते, ततो १ सम्यक्त्व-श्रुता-ऽगारिणामावलिकाऽसंख्यभागमात्राः । अष्ट समयाश्चारित्रे सर्वेषु जघन्यतो ही समयी ॥१॥ २घ, ज. 'गमित्ता'। ३ सम्यक्त्व-देशविरती पल्यस्यासंख्यभागमात्रान् । अष्ट भवांस्तु चारित्रेऽनन्तकालं च श्रुतसामायिके। प्रयाणां सहस्रपृथक्त्वं शतपृथक्त्वं च भवति विरतेः । एकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः ॥१॥ ५ सम्यक्त्व-चरणसहिताः सर्व लोकं स्पृशान्ति निरवशेषम् । सप्त च चतुर्दश भागान् पञ्ज्ञ च श्रुत-देशविरत्योः ॥1॥ इसम्यग्दृष्टिरमोहः शुद्धिः सनावदर्शनं बोधिः । अविपर्ययः सुदृष्टिरित्येवमादीनि निरुक्तानि ॥१॥ घ. छ. 'हरंस्ताव' । ८ उद्दिश्य निर्दिश्यते प्रायः सामान्यतो विशेष इति । उरेशस्ततः प्रथमं निर्देशेऽजन्तरं तस्य ॥१॥ ॥६४१॥ Jan Education Internationa Foc Personal and Private Use Only | www.jamelbrary.org Page #44 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६४२ ॥ Jain Educationis Internation विशेषाकारग्राहकम् । ततस्तस्मात् कारणाद् वस्तुनः सामान्याभिधानलक्षणः प्रथममुद्देशः, ततस्तस्यैव विशेषाभिधानरूपो निर्देशः ॥ इति गाथार्थः || १४८६ ॥ तदेवं स्थापित आदावुद्देशः । अथ 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति कृत्वा तमेव भेदकथनद्वारेण व्याख्यातुमाह--- नाठवणा दविए खित्ते काले समासउसे । उद्देसुद्देसम्मि य भावम्मि होइ अट्ठमओ || १४८७ ॥ नामादिभेदादुद्देशोऽष्टविधः, तद्यथा - नामोद्देशः, स्थापनादेशः, द्रव्योद्देशः, क्षेत्रोद्देशः कालोद्देशः, समासोद्देशः, उद्देशोद्देशः, भावोदेशो भवत्यष्टमकः ॥ इति निर्मुक्तिगाथासंक्षेपार्थः ॥ १४८७ ॥ तत्र नामोद्देशं व्याख्यातुमाह भाष्यकारः--- नाम जसो नामे स एव जो जेणं । उद्देस्सो नामस्स व नामुद्देसोऽभिहाणं ति ॥ १४८८ ॥ यस्य जीवादेर्वस्तुन 'उद्देश:' इति नाम क्रियते स नामोद्देशः, नामरूप उद्देशो नामोद्देशः, यथा गोपालदारकादेरुदेश इति नाम । 'नामेणुद्देस एव जो जेणं ति' यो घट-पट-स्तम्भादिः पदार्थों येन घट-पट-स्तम्भादिनान्नोद्दिश्यते प्रतिपाद्यते सोऽपि घटपटादिपदार्थो नामोद्देश इति उच्यते, उद्दिश्यतेऽभिधीयते प्रतिपाद्यते निजेन नाम्नेति कृत्वा । 'उद्देसो नामस्स व नामुद्देसो ति' नाम्नो वा वस्तुसामान्याभिधानस्योदेशन मुच्चारणं नामोद्देशः । किमुक्तं भवति ?, इत्याह- 'अभिहाणं ति' वस्तुनः सामान्यं यदभिधानं स नामोदेश इत्यर्थः । यथा- आम्रादेर्वृक्षादि नाम । वाशब्दः सर्वत्र प्रकारान्तरसूचकः ।। १४८८ ॥ अत्र परोऽतिप्रसङ्गमुद्भावयन्नाह - एवं नणु सव्त्रो चिय नामुद्देसो जओऽभिहाणं ति । दव्वाईणं तेहिं व तेसु व जंकीरए जस्स ॥ १४८९ ॥ ननु यदि वस्तुनः सामान्याभिधानमात्र मुद्देशोऽभिधीयते, एवं तर्हि सर्व एवायं स्थापना- द्रव्य-क्षेत्र कालाद्युद्देशो नामोद्देश एव प्राप्नोतिः यतो द्रव्याणामपि हेम-रजतादीनां हेमादिकं सामान्याभिधानमस्ति, तैर्वा कुसुम्भ-हरिद्रादिद्रव्यैर्हेतुभूतैर्वस्त्रादीनां रक्तं पीत १ नाम स्थापना द्वव्ये क्षेत्रे काले समासोद्देशे । उद्देशोद्देशे च भावे च भवत्यष्टमकः ॥ १४८७ ।। २ नाम यस्योद्देशो नानोदेश एव यो येन । उद्देशो नानो वा नामोद्देशोऽभिधानमिति ।। १४८८ ॥ ३ एवं ननु सर्व एव नामोद्देशो यतोऽभिधानमिति । द्रव्यादीनां तैव तेषु वा यत् क्रियते यस्य ॥ १४८९ For Personal and Private Use Only बृहद्वृत्तिः । ॥६४२॥ Page #45 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६४३॥ Jain Education Internatio मित्यादि सामान्याभिधानं प्रवर्तते, तेषु वा दण्ड- कुण्डल - किरीटादिद्रव्येषु सत्सु दण्डी, कुण्डली, किरीटीत्यादिकं सामान्याभिधानं वर्तमानं दृश्यते । एवं स्थापना- क्षेत्रादिष्वपि वाच्यम् । ततो य एव द्रव्याद्युद्देशोऽभिमतः स एव सर्वोऽपि नामोद्देशः प्राप्नोति, इत्युदेशस्यैकविधत्वादष्टविधत्वं विशीर्यत इति ।। १४८९ ॥ अत्र पराभिहितमभ्युपगम्य परिहारमाह सव्वाणुगओ नामुद्देसोऽभिहाणमेतं जं । नाणत्तं तहवि मयं मइ किरिया - वत्थुभेएहिं ॥। १४९० ॥ सत्यमुक्तं भवता, यतो यत् सामान्यमभिधानमात्रं नामोद्देशः स खलु सर्वानुगत एव, तथापि नाम-स्थापना द्रव्यायुद्देशानां नानात्वं भेदरूपं मतं संमतमेव परमार्थवेदिनाम् । कैः १, इत्याह- मतिक्रिया वस्तुभेदैः; तथाहि - यादृशी नामेन्द्रे मतिः, न तादृश्येव स्थापनेन्द्रादिषूत्पद्यते, किन्तु विलक्षणैत्रः न च यां क्रियां नामेन्द्रः करोति तामेव स्थापना- द्रव्येन्द्रादयः, किन्तु विसदृशीमेव । अत एव नामेन्द्रादिवस्तूनां परस्परं वस्तुभेदो विज्ञेयः, भिन्नमत्यादिहेतुत्वात्, घटपटादिवस्तुवदिति । एवं प्रस्तुतनाम स्थापना -द्रव्याद्युद्देशानामपि मत्यादिभेदाद् भेदो योजनीय इति ।। १४९० ।। अथ स्थापनाद्युद्देशानाह - ठेवण उद्देसो ठवणुसो त्ति तस्स वा ठवणा । तं तेण तओ तम्मि व दव्वाईयाणमुद्देसो ॥ १४९१ ॥ दव्वदेसो दव्वं दव्वपई दव्ववं सदव्वो त्ति । एवं खेत्तं खेत्ती खेत्तपई खेत्तजायं ति ॥ १४९२ ॥ स्थापनाया उद्देशानमुच्चारणं सामान्येनाभिधानं स्थापनादेशः । तस्य बोद्देशस्य अक्षा- ऽक्षरादिषु स्थापना स्थापनोद्देशः । द्रव्योद्देशमाह- द्रव्यादीनामुद्देशो द्रव्योद्देशः, आदिशब्दाद् द्रव्यपति द्रव्यवदादिपरिग्रहः । कया पुनर्व्युत्पत्त्या द्रव्यादयो वाच्या भवन्ति ?, इत्याह- 'तमित्यादि' तदेव द्रव्यमुद्दिश्यते उच्चार्यते 'द्रव्यम्' इत्येवं सामान्येनाभिधीयत इति द्रव्योद्देशः । द्रव्यं च तदुद्देशवेति कर्मधारय समासः । अत्र व पक्षे द्रव्यमेवोद्देशशब्दवाच्यम् । अत एव द्वितीयगाथायामाह - दव्वमिति । अथवा, तेन द्रव्येण १ सत्यं सर्वानुगतो नामोद्देशोऽभिधानमात्रं यत् । नानात्वं तथापि मतं मति- क्रिया-वस्तुभेदैः ॥ १४९० ॥ २ स्थापनाया उद्देशः स्थापनोद्देश इति तस्य वा स्थापना । तत्तेन ततस्तस्मिन् वा द्रव्यादिकानामुद्देशः ॥ १४९३ ॥ -orient priorग्यवान् सदस्य इति । एवं क्षेत्रं क्षेत्री क्षेत्रपत्तिः क्षेत्रजातमिति ॥ १४९२ ।। For Personal and Private Use Only बृहद्वृत्तिः । ||६४३॥ www.janeibrary.org. Page #46 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । हेतुभूनेन य उद्दिश्यतेऽभिधीयते स द्रव्योद्देशः, यथा द्रव्यपतिरित्यादि । यदिवा, ततस्तस्माद् द्रव्यादुद्देशोऽभिधानप्रवृत्तिव्योद्देशः, यथा विशेषाद्रव्यवानित्यादि । अथवा, तस्मिन् द्रव्ये सत्युद्देशोऽभिधानप्रवृत्तिद्रव्योद्देशः, यथा सद्रव्य इत्यादिः सिंहासने राजा, चूते कोकिलः, वने मयूर इत्यादि वा । एममुद्दिश्यते तत् , उद्दिश्यते तेन वेत्यादिव्युत्पत्त्या क्षेत्रम् , क्षेत्री, क्षेत्रपतिः, क्षेत्रे जातं क्षेत्रमित्यादिकः ॥६४४॥ सर्वोऽपि क्षेत्रोद्देश इति ।। १४९१ ॥ १४९२ ॥ कालो कालाईयं कालोवेयं ति कालजायं ति । संखेवो त्ति समासो अंगाईणं तओ तिण्हं ॥ १४९३ ॥ अंग-सुयक्खंध-ज्झयणाणं नियनियप्पभेयसंगहओ । होइ समासुद्देसो जहंगमंगी तज्झेया ॥ १४९४ ॥ एमेव य सुयक्खंधो तस्सज्झेया तयत्थविण्णाया। अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णो ॥१४९५॥ 'कालो त्ति काल एवोद्दिश्यमानत्वादुद्देशः कालोदेशः । तेन वा कालेनोद्देशः कालोद्देशः, यथा कालातीतं कालातिक्रान्तमिदं वस्त्विति । ततो वा कालादुद्देशः कालोद्देशः, यथा कालोपेतं कालप्राप्तमिति । तस्मिन् वा काले जातं कालजातमित्यादिकः कालोद्देशः। अथ समासोद्देशं विवक्षुराह- 'संखेवो इत्यादि' संक्षेपेण विस्तरवतः संकोचनं समास उच्यते । तकोऽयं चेहाङ्गादीनां त्रयाणां विवक्षितः। एतदेव दर्शयति- 'अङ्गेत्यादि' अङ्गं, श्रुतस्कन्धः, अध्ययनम् , इत्येष समासो भवति । कुतः, इत्याह-निजनिजमभेदसंग्रहादिति । अस्याङ्गादिसमासस्योद्देशनमभिधानं समासोदेशः । कः ?, इति दर्शयति- यथा 'अङ्गम्' इति, तदेवोद्दिश्यमानत्वादुद्देश इत्यर्थः । तेन वाङ्गरूपसमासेनोद्देशः समासोद्देशः, यथा- अङ्गीति, तस्याङ्गात्मकसमासादुद्देशः, यथा तदध्येता- अङ्गाध्येतेत्यर्थः । एवं श्रुतस्कन्धात्मकसमास एवोद्दिश्यमानत्वादुद्देशः, यथा श्रुतस्कन्ध इति । तेन वोदेशः- यथा श्रुतस्कन्धीति । तस्माद् वोदेशः, यथा तस्य श्रुतस्कन्धस्याध्येता । तस्मिन् वोद्देशः, यथा तदर्थविज्ञाता श्रुतस्कन्धार्थज्ञ इत्यादि । एवमध्ययनात्मकसमास एवोद्दिश्यत इत्युद्देशः, यथाअध्ययनमिति । तेन वोदेशः, यथा- 'अध्ययनी' इति । तस्माद् बोद्देशः, यथा- तस्याध्ययनस्याध्येता, तस्मिन् वाध्ययने सत्युद्देशः, यथा तदर्थज्ञोऽध्ययनार्थवित , इत्यादि विवक्षया सर्व भावनीयमिति ॥ १४९३ ॥ १४९४ ।। १४९५ ॥ , कालः कालातीतं कालोपेतमिति कालजातमिति । संक्षेप इति समासोऽजादीनां तकस्त्रयाणाम् ॥ १४९३ ॥ अङ्ग-श्रुतस्कन्धा ऽध्ययनानां निजनिजप्रभेदसंग्रहतः । भवति समासोदेशो यथाङ्गमङ्गी तदभ्येता ॥ १४९४ ॥ एवमेव च श्रुतस्कन्धस्तस्यायेता तदर्थविज्ञाता । अध्ययनमध्ययनी तस्याध्येता तदर्थज्ञः ॥ १४९५ ॥ ॥६४४॥ Jan Education Internatio For Personal and Private Use Only www.janeltrary.org Page #47 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वृत्तिः । ॥६४५| अथोद्देशोद्देशं भावोद्देशं चाह उद्देसो उद्देसी उद्देसण्णो तयत्थवेत्ता वा । उद्देसुद्देसोऽयं भावो भावि त्ति भावम्मि ॥ १४९६ ॥ उद्देशः पुलाकोद्देशकादिः, स एवोद्दिश्यमानत्वादुद्देश उद्देशोद्देशः । स चायं विज्ञेयः । कः ? इत्याह- उद्देश इति; पुलाकोदेशकादिक उद्देशोऽप्युद्दिश्यमानत्वेनोद्देशोदेश उच्यते । तेन वोदेशेनोद्देशोऽभिधानं, यथा 'उद्देशी' इति । तस्माद् वोद्देशो यथा- उद्देशज्ञः । तस्मिन् वोद्देशो यथा तस्योद्देशकस्यार्थवेत्तेत्यादि । 'भावम्मि त्ति' भावविषय उद्देशो भावोद्देशः । कः ? इत्याह- 'भावो त्ति औदयिकादिको भाव उद्दिश्यतेऽभिधीयत इत्युद्देशः, भावश्चासावुद्देशश्च भावोद्देश इत्यर्थः । तेन वा भावेनोद्देशो भावोद्देशो यथा 'भावी' इत्यादि पूर्वोक्तानुसारेण वाच्यम् ।। इति गाथानवकार्थः ।। १४९६ ।। अथोद्देशव्याख्यानेन निर्देशमप्यतिदिशन्नाह ऐमेव य निदेसो अट्ठविहो सो वि होइ नायव्यो । अविसेसियमुद्देसो विसेसिओ होइ निदेसो ॥१४९७॥ एवमेव यथोद्देश उक्तस्तथा निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः । सर्वथा सामान्यप्रतिषेधार्थमाह-किन्त्वविशेषितसामान्यनाम-स्थापनादिरूप उद्देशः, विशेषितनामादिरूपस्तु स एव निर्देशो भवतीति विशेषः ।। इति नियुक्तिगाथाक्षरार्थः ॥१४९७।। भावार्थ तु भाष्यकारः प्राह नाम जिणदत्ताई ठवणा य विसिढवत्थुनिखेवो । दवे गोमं दंडी रहि त्ति तिविहो सचिवाई ॥१४९८॥ वस्तुनः पुरुषादेर्यत् पुरुषादिकं सामान्यनाम स नामोद्देश उक्तः, यत्तु तस्यैव विशेषनाम स इह नामनिर्देश उच्यते, यथा जिनदत्तादि । सामान्यस्य चन्द्रादेवस्तुनः स्थापना स्थापनोद्देश उक्तः, इह तु विशिष्टस्य सौधर्माधिपत्यादिवस्तुनो यः स्थापनारूपो निक्षेपः स स्थापनानिर्देशः। द्रव्यस्यापि त्रिविधस्य सचित्तादेर्विशिष्टस्य यो विशिष्टाभिधानरूपो निर्देशः स इह द्रव्यनिर्देशः। तत्र | सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तस्य तु दण्ड इत्यादि, मिश्रस्य तु रथ इत्यादि । रथस्य चाश्वादियुक्तस्येह मिश्रता १ उद्देश उद्देशी उद्देशज्ञस्तदर्थवेत्ता वा । उद्देशोद्देशोऽयं भावो भावीति भावे ॥ १४९६ ॥ २ एवमेव च निर्देशोऽष्टविधः सोऽपि भवति ज्ञातव्यः । अविशषित उद्देशो विशेषितो भवति निर्देशः ॥ १४९७ ॥ ३ नाम जिनदत्तादि स्थापना च विशिष्टवस्तुनिक्षेपः । द्रव्ये गोमान् दण्डी रथीति विविधः सचित्तादिः ॥ १४९८ ॥ Rece ||६४५॥ EHARS Jai Education Internatio For Personal and Private Use Only www.jaineltrary.org Page #48 -------------------------------------------------------------------------- ________________ विशेषा वृहद्वत्तिः ॥६४६॥ भावनीयेति । तेन वा सचित्तादिद्रव्यविशेषेण निर्देशः, यथा गोमानित्यादि, दण्डीत्यादि, रथीत्यादि ॥ १४९८ ॥ अथ क्षेत्र-कालनिर्देशाबाह-- खेत्ते भरहं तत्थ व भवो त्ति मगह त्ति मागहो व त्ति । सरउ त्ति सारउ त्तिय संवच्छरिउ त्ति कालम्मि॥१४९९॥ क्षेत्रं क्षेत्रीत्यादिकः क्षेत्रोद्देश उक्तः, इह तु तदेव विशिष्ट क्षेत्र क्षेत्रनिर्देशः, यथा 'भरतम्' इत्यादि । अथवा, 'मगह त्ति' मगधा जनपद इत्यादि । तस्मिन् वा क्षेत्रविशेषे भवः क्षेत्रनिर्देश उच्यते, यथा भारत इत्यादि । एतच्च स्वयमेव द्रष्टव्यम् । मगधासु भवो मागध इत्यादि । एतत्तु गाथायामप्यस्तीति । 'कालो कालाईयं' इत्यादिकः कालोद्देश उक्तः, इह तु तस्यैव कालस्य विशिष्टस्य विशिष्टमभिधानं स कालनिर्देशः, यथा शरदित्यादि । तत्र वा कालविशेषे भवः कालनिर्देशोऽभिधीयते, यथा शरदि भवः शारदः, संवत्सरे भवः सांवत्सरिक इत्यादि ॥ १४९९ ॥ अथ समासनिर्देशम् , उद्देशनिर्देशं चाहआयारो आयारवमायारधरो त्ति वा समासम्मि । आवस्सयमावासइ सुत्तत्थधरोऽहवा यं ति ॥ १५००॥ सत्थपरिण्णाई य व अज्झेयाऽयं समासनिद्देसो । उद्देसयनिदेसो सपएसो पोग्गलुद्देसो ॥ १५०१॥ विस्तरवतो वस्तुनः संक्षेपः समासः, तस्य सामान्याभिधानं समासोदेश उक्तः । इह तु तस्यैव समासस्य विशेषाभिधानं समासनिर्देशः । तत्र चाङ्ग-श्रुतस्कन्धा-ऽध्ययनभेदात् त्रिविधः समासोद्देशः पूर्वमुक्तः । इह तु तेषामेव त्रयाणामङ्गादीनां विशेषाभिधानरूपस्त्रिविध एव समासनिर्देशः । तथा चाह- 'आयारो इत्यादि' आचाररूपेणाऽङ्गविशेषाभिधानेन निर्देश्यमानत्वादाचार इति समासनिर्देशः । तेन वाऽऽचारसमासेन निर्देशो यथा-आचारवानित्यादि । तस्माद्वाऽऽचारसमासाद् निर्देशो यथा-आचारधर इत्यादि । श्रुतस्कन्धसमासनिर्देशो यथा- आवश्यकमिति । तेन वाऽऽवश्यकसमासेन निर्देशो यथा- आवश्यकीति । अथवा, तस्मादावश्यकसमासाद् निर्देशो यथा- आवश्यकसूत्रा-ऽर्थधरोऽयमिति । अध्ययनमाश्रित्य समासनिर्देशः कः? इत्याह- 'आचाराने प्रथममध्ययन 1 क्षेत्रे भरतं तत्र वा भव इति मगधा इति मागधो वेति । शरदिति शारद इति च सांवत्सरिक इति काले ॥ १४९९ ॥ २ गाथा १४९३ । ३ आचार आचारवानाचारधर इति वा समासे । आवश्यकमावश्यकी सूत्रा-ऽर्थधरोऽथवाऽयमिति ।। १५..॥ शपरिजादिक्ष वाऽध्येताऽयं समासनिर्देशः । उद्देशकनिर्देशः सप्रदेशः पुद्गलोदेशः ।। १५०१॥ ॥६४६॥ See and international FOC P ant Pro Use Only ww.jaineibrary.org Page #49 -------------------------------------------------------------------------- ________________ विशेषा. ॥६४७॥ शस्त्रपरिज्ञा' इत्यादि । तेन वा शस्त्रपरिज्ञासमासविशेषेण निर्देशो यथा- 'अज्ञयाऽयं ति' शस्त्रपरिज्ञाध्येताऽयमित्यर्थः, इत्यादि समासनिर्देशः । उद्देशनिर्देशस्तु स उच्यते । कः ? इत्याह- 'पएसो त्ति' अध्ययनस्य प्रदेशोश इत्यर्थः, यथा भगवत्यां पुद्गलोहे- बृहद्वत्तिः । शकः, तस्य निर्देशोऽभिधानमुद्देशनिर्देश इत्यादीति ॥ १५०० ॥ १५०१ ॥ अथ भावनिर्देशं, यकाभ्यां चोदेश-निर्देशाभ्यामिहाधिकारस्तदाह ओदइओ खइउ ति व नाणं चरणं ति भावनिद्देसो । एत्थ विसेसाहिगओ समास उद्देस निदेसो ॥१५०२॥ अज्झयणं उद्देसो त चिय सामाइयं ति निद्देसो। बुद्धीए जहासंभवमाजोज्ज सेसएसुं पि ॥ १५०३ ॥ औदयिको भावः, क्षायिको भाव इत्यादि, अथवा, ज्ञानं दर्शनं चारित्रमित्यादिको ज्ञानादीनां क्षयिक-क्षायोपशमिकभाववृत्तित्वाद् भावनिर्देशः । इह च प्रत्येकमष्टविध उद्देशे निर्देशे च समासोद्देशः समासनिर्देशश्च विशेषेणाधिकृत; तथाहि- प्रस्तुते । 'अध्ययनम्' इत्येष समासोद्देशः, 'सामायिकम्' इति च विशेषाभिधानरूपत्वात् समासनिर्देशः । एवं स्वबुद्ध्या यथासंभवं शेषेष्वपि श्रुतस्कन्ध-चतुर्विंशतिस्तवाध्ययनेष्वायोज्यम् , यथा श्रुतस्कन्ध इति समासोद्देशः, आवश्यकमिति समासनिर्देश इत्यादि ॥१५०२।। १५१३ ॥ उत्तरगाथासंबन्धनार्थमाह सामाइयं ति नपुंसयमस्स पुमं थी नपुंसगं वावि । निद्दिट्ठा तत्थिच्छइ के निद्देसं नओ को णु ? ॥१५०४॥ ___ इह सामायिकमिति नपुंसकतया रूढम् । अस्य च त्रिविधो निर्देष्टा-- उच्चारयिता, स्त्री-पुं-नपुंसकभेदात् । तत्रेदं नयैर्विचायते- 'को नयः कं निर्देशमिच्छति ?- किं निर्देश्यवशात् , निर्देशकवशाद् वा ?' इति विनेयः पृच्छति ।। इति गाथासप्तकार्थः ।।१५०४॥ अस्मिंश्च प्रश्ने सत्याहदुविहं पि नेगमनओ निर्टि संगहो य ववहारो । निदेसयमुज्जुसुओभयसरिच्छं च सदस्स ॥ १५०५ ॥ १ औदयिकः क्षयिक इति वा ज्ञानं चरणमिति भावनिर्देशः । अत्र विशेषाधिकृती समासोदेश-निर्देशी ॥ १५०२ ॥ अध्ययनमुदेशस्तदेव सामायिकमिति निर्देशः। बुद्ध्या यथासंभवमायोज्यं शेषकेष्वपि ।। १५०३।। २ सामायिकमिति नपुंसकमस्य पुमान् स्त्री नपुंसकं चापि । निर्देष्टा तत्रेच्छति के निर्देशं नयः को नु ? ॥ १५०४ ।। द्विविधमपि नैगमनयो निर्दिष्टं संग्रहश्च व्यवहारः । निर्देशकमजुसूत्रोभयसरशं च शब्दस्य ॥ १५०५ ॥ ॥६४७॥ JanEducationainterma Foc Personal and Private Use Only www.janelbrary.org Page #50 -------------------------------------------------------------------------- ________________ विशेषा० ॥६४८॥ Jan Education Internatio नैके गमा वस्तुधर्मपरिच्छेदा यस्यासौ ककारवर्णनाशाद् नैगमः, अनेकप्रकारवस्त्वभ्युपगमपर इत्यर्थः, नैगमश्वासौ नयश्च नैगमनयः । स द्विविधमपि 'निर्देश्यवशाद् निर्देशकवशाच्च निर्देशमिच्छति' इति शेषः, लोकव्यवहारपरत्वात्, अनेकगमरूपत्वाच्चास्य नयस्य । लोके च निर्देश्यवशात्, निर्देशकवशाच्च निर्देशप्रवृत्तिर्दृश्यते । तत्र निर्देश्यवशाद् यथा- 'वासवदत्ता, तरङ्गवती, प्रियदर्शनाकथा' इत्यादि । निर्देष्टृवशात्तु मनुना प्रणीतो भन्यो मनुः, अक्षपादेनोक्तोऽक्षपाद इत्यादि । लोकोत्तरे तु निर्देश्यवशात्, षड्जीवनिकायप्रतिपादकमध्ययनं पजीवनिका, साध्वाचारप्रतिपादको ग्रन्थ आचार इत्यादि । तथा निर्देशकवशाद् निर्देशों यथाकपिलेन प्रणीतं कापिलीयमध्ययनम्, हरिकेशिना प्रणीतं हरिकेशीयम् केशि-गौतमाभ्यामभिहितं कशि- गौतमीयम्, नन्दिसंहिता, जिनप्रवचनमित्यादि । एवं सावद्यविरमणरूपं सामायिकं रूढितो नपुंसकमिति कृत्वा निर्देश्यवशाद् नैगमो नपुंसकनिर्देशमेवास्य मन्यते, यथा- सामायिकं नपुंसकमिति । तथा, सामायिकं निर्देष्टुः स्त्री-पुं-नपुंसकलिङ्गत्वात् तद्वशात् सामायिकस्य त्रिलिङ्गताऽप्येतन्मतेन भवति, यथा सामायिकं स्त्री, सामायिकं पुरुषः, सामायिकं नपुंसकमिति यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते स घटादिशब्द उच्चारयितृदेवदत्तादिपरिणामत्वाद् देवदत्तादिशब्दत्वेन व्यपदिश्यतेः तथा तदभिधेयपृथुबुनोदरायाकारघटादिपदार्थपरिणामत्वाद् घटादिशब्दत्वेनापि लोके निर्दिश्यते । एवं स्वाभिधेयसावद्यविरमणपर्यायत्वात् सामायिकस्य नैगमो नपुंसक - निर्देशं मन्यते, अभिधायकस्त्री-पुरुषादिपरिणामत्वात्तु लिङ्गत्रय निर्देशमप्यस्याभ्युपगच्छति, यथा 'सामायिकं स्त्री' इत्यादि । आह- 'दुविहं पि नेगमनओ' एतावन्मात्रोक्तौ 'निर्देश्यवशाद् निर्देशकवशाच्च द्विविधं निर्देशमिच्छति' इति कुतो लभ्यते ? इति । अत्रोच्यते- 'निहिं संग्रहो य ववहारो' इति वचनात् । अत्र ह्ययमर्थः- निर्दिष्टमभिधेयं वस्त्वङ्गीकृत्य संग्रह-व्यवहारौ निर्देशमिच्छतः, निर्देश्यपर्यायत्वाद् वचनस्य, इत्यादियुक्तिश्च भाष्ये वक्ष्यते । तदिदं 'निर्दिष्टं वस्त्वाश्रित्य' इति वचनात् प्रागपि 'दुविहं पि' इत्यत्र निर्दिष्टनिर्देशकवशाद् निर्देश इति गम्यते । 'निद्देसयमुज्जुसुउ ति' निर्दिशतीति निर्देशको वक्ता तमङ्गीकृत्य ऋजुमूत्रो निर्देशमिच्छति । यथा 'सामायिकं स्त्री' इत्यादिः वक्तृपर्यायत्वाद् वचनस्येत्यादि युक्तिरत्रापि भाष्येऽभिधास्यते । 'उभयसरिच्छं च सद्दस्सति' उभयमिह निर्देश्यं निर्देशकं च वस्तु तस्योभयस्य सदृशं समानलिङ्गमेवाश्रित्य शब्दनयस्य 'निर्देशप्रवृत्तिः' इति गम्यते । यदि हि निर्देश्य नपुंसकं तदा निर्देष्टाsपि स्त्री-पुं-नपुंसकलक्षणो नपुंसकमेव, वक्तुर्वाच्योपयोगानन्यत्वेन तद्रूपत्वात् । उपयोग प्रधाना हि शब्दनयाः, ततो यो यत्रोपयुक्तः स तद्रूप एव यथाऽग्न्युपयुक्तोऽग्निः तथा च सति स्त्री-पुरुषावपि यदा रूढितो नपुंसके सामायिके उपयुक्तौ भवतः, तदा निर्देश्यनपुंसकोपयुक्तत्वाद् नपुंसकमेव, तदुपयोगानन्यत्वेन तद्रूपत्वादिति । स्त्री पुरुषो वा For Personal and Private Use Only बृहद्वृत्तिः । ||६४८|| www.jainelibrary.sing Page #51 -------------------------------------------------------------------------- ________________ विशेषा० ॥६४९॥ Baral नपुंसकं ब्रूत इत्यस्य त्वर्थस्य शब्दनयमतेनाऽसंभव एव ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १५०५ ॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकारः प्राह जं संववहारपरो गगमो णेगमो तओ दुविहं । इच्छइ, संववहारो दुविहो जं दीसए पायं ॥ १५०६ ॥ यद् यस्माल्लोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्माद् निर्देश्यवशाद् निर्देशकवशाच्च द्विविधमपि निर्देशमिच्छति । लोकव्यवहारश्च पायो द्विधां दृश्यते ॥ १५०६ ।। कथम् ? इत्याह छज्जीवणियाऽऽयारो निदिवसेण तह सुयं चण्णं । तं चेव य जिणवयणं सव्वं निदेसयवसेणं ॥१५.७॥ जह वा निहिट्ठवसा वासवदत्ता-तरंगवइयाई । तह निदेसगवसओ लोए मणुरक्खवाउ त्ति ॥१५०८॥ लोको द्विधा-अहद्दर्शनानुगतो लोकोत्तररूपः, तद्व्यतिरिक्तश्च । तत्र लोकोत्तरे निर्दिष्टार्थवशाद् निर्देशो यथा-षड्जीवनिका नामाध्ययनम् , आचारः, आवश्यकमित्यादि । 'तह सुयं चण्णं तं चेव येत्यादि' तथा, अत्रैव लोकोत्तरे तदन्यच्च श्रुतं निर्देशकवशात् सर्वमपि जिनप्रवचनमुच्यते । तथा, अन्यत् किमपि श्रुतं निर्देशकवशादेवोच्यते, यथा भद्रबाहुनिमित्तम् , नन्दसंहिता, कापिलीयमित्यादि । यथा वा, इतरलोके निर्दिष्टवसाद् वासवदत्ता, तरङ्गवतीत्यादि निर्देशः, निर्देशकवशात्तु मनुः, अक्षपाद इत्यादि ॥ १५०७ ॥१५०८॥ तथा किम् ? इत्याशय प्रकृते योजयन्नाह तह निदिवसाओ नपुंसगं नेगमस्स सामइयं । थी पुं नपुंसगं वा तं चिय निदेसयवसाओ ॥१५०९॥ यथा षड्जीवनिका, आचार इत्यादौ निर्दिष्टार्थवशाद् निर्देशः, तथात्रापि सावधविरमणलक्षणनिर्दिष्टनपुंसकार्थवशात् । । यत् संव्यवहारपरो नैकगमो नैगमस्ततो द्विविधम् । इच्छति, संव्यवहारो द्विविधो यद् दृश्यते प्रायः ॥ १५०६ ॥ २ क. ग. ज. 'धापि दृ' । ३ पजीवनिकाऽऽचारो निर्दिष्टवशेन तथा श्रुतं चान्यत् । तदेव च जिनवचनं सर्व निर्देशकवशेन ॥ १५००॥ यथा वा निर्दिष्टवशाद् वासवदत्ता-तरङ्गवत्यादि । तथा निर्देशकवशतो लोके मनुरक्षपाद इति ॥ १५०८॥ E६५९॥ • तथा निर्दिष्टवशात् नपुंसक नैगमस्य सामायिकम् । स्त्री पुमान् नपुंसकं वा तदेव निर्देशकवशात् ॥ १५०९ ॥ पर Form y Page #52 -------------------------------------------------------------------------- ________________ MANTRAPATRE विशेषा. ॥६५०|| 'सामायिक' इति नपुंसकनिर्देशः, यथा वा मनुः, अक्षपाद इत्यादौ निर्देशकवशाद् निर्देशः, तथाऽत्रापि योषित-पुरुष नपुंसकलक्षणत्रिविधनिर्देशकवशात् तदेव सामायिक स्त्री-पु-नपुंसकं भवति- स्यादित्रिविधनिर्देशकवशाद् नन्दसंहिता-मनु-कापिलीयादिवत् त्रिध्वपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा 'सामायिक स्त्री' इत्यादि ॥ १५०९॥ अथ प्रकारान्तरेणापि लोकव्यवहारोपदर्शनेन प्रकृतं समर्थयन्नाह जह वा घडाभिहाणं घडसद्दो देवदत्तसद्दो त्ति । उभयमविरुद्धमेवं सामइयं नेगमनयरस ॥ १५१० ॥ इयं च गाथा, 'यथा वा देवदत्तादिना घटादिशब्दे समुच्चारिते' इत्यादिना व्याख्यातैवेति ॥ १५१० ॥ "निद्दिढ संगहो य ववहारो' इत्येतद् व्याख्यातुमाह अत्थाउ च्चिय वयणं लहइ सरूवं जओ पईवो व्व । तो संगह-ववहारा भणति निदिट्ठवसगं तं ॥१५११॥ यतो यस्मादर्थादेव वाच्याद् घटादेः सकाशाद् वाचकं वचनं स्वरूपमात्मलाभ लभते, नान्यथा, यथा प्रदीपः, प्रदीपो हि प्रकाश्यमेवार्थ प्रकाशयन् प्रदीपो भण्य ते, यदि तु प्रकाश्यं वस्तु न स्यात् , तदा किमपेक्षोऽसौ पदीप: स्यात् । तस्माद् यथा प्रकाश्यादेवार्थात् प्रदीप आत्मलाभ लभते, तथा वाच्यादेवार्थाद् वचनमात्मस्वरूपमामोति । ततस्तस्मात् संग्रह-व्यवहारनयौ 'निर्दिश्यते' इति | निर्दिष्टं वाच्यं वस्तु तद्वशगं तदधीनमेव तद् वचनं भणतो ब्रूतः । वाच्यं चेह सामायिकशब्दस्य सावधविरतिरूपस्तदभिधेयोऽर्थः । | स च रूढितो नपुंसकतया प्रसिद्ध इति । अतः सामायिकस्य नपुंसकलिङ्गतामेव संग्रह-व्यवहारावभ्युपगच्छतः । अथवा, सामायिक| वतां सत्त्वानां स्त्री-पुंनपुंसकत्वात् तत्परिणामानन्यत्वेन च सामायिकार्थस्य स्व्यादिरूपत्वाद् वाच्यवशेन त्रिलिङ्गतापि सामायिकस्य संग्रह-व्यवहारनयमतेन द्रष्टव्यति ॥ १५११ ॥ प्रकारान्तरेणापि निर्दिष्टवशाद् निर्देशं समर्थयबाह अहव निद्रुित्थस्स पजओ चेव तं सधम्म व्व । तप्पच्चयकारणओ घडस्स रुवाइधम्म व्व ॥१५१२॥ नखETTE , यथा वा घटाभिधानं घटशब्दो देवदत्तशब्द इति । उभयमविरुद्धमेव सामायिक नैगमनयस्व ॥ १५१० ॥ २ गाथा १५०५ ॥ ३ अर्थादेव वचनं लभते स्वरूपं यतः प्रदीप इव । ततः संग्रह-व्यवहारी भणतो निर्दिष्टवशगं तत् ॥ १५11॥ ४ अधवा निर्दिष्टार्थस्य पर्यय एव तत् स्वधर्म इव । तत्प्रत्ययकारणतो घटस्य रूपादिधर्म इव ॥ १५१२ ॥ In die For Personal and Private Only Page #53 -------------------------------------------------------------------------- ________________ विशेषा. ॥६५॥ BIPI अथवा, तद् वचनं निर्दिष्टार्थस्य वाच्यवस्तुनः पर्याय एव, तत्प्रत्ययकारणत्वात्- वाच्यार्थप्रतीतिहेतुत्वात् , यथा तस्यैव निर्देशस्य घटादेरन्ये संस्थानादयो धर्माः । इह यद् यस्य प्रत्ययकारणं तत् तस्य वपर्यायः, यथा घटस्य रूपादयः, वचनं च वाच्याथस्य प्रत्ययकारणम् , अतस्तत्पर्यायः, पर्यायश्व पर्यायिणोऽधीन एव, इति युक्तो निर्देश्यवशाद् निर्देश इति ॥ १५१२॥ स्यादेतत् , असिद्धोऽयं हेतु:- 'एतत्प्रत्ययकारणत्वाद् वचनस्य' इति, एतन्निराकरणार्थमाहवैयणं विण्णाणफलं जइ तं भणिए वि नत्थि किं तेणं ?। अण्णत्थ पच्चए वा सव्वत्थ वि पच्चओ पत्तो ॥१५१३॥ अभिधेयसंकरो वा बत्तरि पच्चओऽणभिहिए वि । तम्हा निदिवसा नपुंसगं बेंति सामइयं ॥१५१४॥ अर्थविज्ञानफलं हि वचनं, यदि भणितेऽप्युदीरितेऽपि वचने 'तं ति' तदर्थविज्ञानं नास्ति न भवति, तर्हि कण्ठोष्ठशोषमात्रविधायिना किं तेनोक्तेन, निष्फलत्वात् । स्यादेतत् , वाच्यादर्थादन्यत्र वक्तृलक्षणेऽर्थे विज्ञानं जनयिष्यति वचनम् । ततश्च विज्ञानफलं च तद् भविष्यति, वाच्येऽर्थे विज्ञानं च न जनयिष्यति, तथा च सति वाच्यार्थपर्यायो वचनं न भविष्यति, इत्याशङ्कयाह- 'सव्वत्थेत्यादि' यदि हि वाच्यमर्थ विहाय वक्तृलक्षणेऽर्थान्तरे प्रत्ययं वचनं जनयेत् , तीविशेषेणैव सर्वत्रार्थे प्रत्ययः प्राप्तः, न वा कचिदप्यर्थेऽसौ भवेत् , अविशेषादिति- अतत्पर्यायत्वेऽपि तत्पत्ययहेतुत्वे सर्वत्रासौ भवेत् . न वा कचिद् भवेदिति भावः। स्यादेतत् , वचनाद् वक्तरि प्रत्ययो भवत्येव, यथाऽनेनेदमभिहितमिति, तत् किमुच्यते- 'जइ तं भणिए वि नात्थ किं तेणं' इति ? इत्याशङ्क्याह- 'अभिधेयसंकरो वेत्यादि । अथवा, वाच्यादर्थादन्यत्र प्रत्ययेऽभ्युपगम्यमाने सर्वत्रापि प्रत्ययो न भवेदित्येको दोष उक्तः । अथ दोषान्तरमभिधित्सुराह- 'अभिधेयसंकरो वेत्यादि' यदि हि वक्तर्यनभिहितेऽपि वचनात् तत्र प्रत्ययोऽभ्युपगम्यते, हन्त ! तर्हि वक्तृवदनभिहितानि खरो-ष्ट्र ढेङ्क-बकादीनि बहूनि वस्तूनि सन्ति, ततो वक्तृवत् तेषामपि श्रोतुः प्रत्यये सत्यभिधेयानां सर्वेषां, अभिधेयेन वा घटादिना सह वक्त्रादीनामन्येषां संकरः, एकस्यां श्रोतृपतीती सांकर्य युगपत् तदाकारसंक्रमणं प्रामोति, न चैतदस्ति, एकस्माद् वचनादेकस्यैव प्रतिनियतस्य घटाद्याकारस्य संवेदनादिति । तस्मादभिधेयपर्याय एव वचनम् , तत्प्रत्ययकारणत्वात् । अतो निर्दिष्टमिह सामायिकशब्दस्यार्थरूप सामायिक रूढितो नपुंसकम् , तद्वशात् सामायिकशब्दः संग्रह-व्यवहारयोनपुंसकलिङ्गति । अथवा, सामायिकवतः स्त्री-पुं-नपुंसकत्वात् , तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि संग्रह-व्यवहारावभ्युपगच्छतः। वचन विज्ञानफलं यदि तद् भणितेऽपि नास्ति किं तेन । अन्यत्र प्रत्यय वा सर्वत्रापि प्रत्ययः प्राप्तः ॥१५१३॥ अभिधेयसंकरो वा बक्तरि प्रत्ययोऽनभिहितेऽपि । तस्माद् निर्दिष्टवशाद् नपुंसकं मुवन्ति सामायिकम् ॥ ४५१४॥ NOTree ६५१॥ Foto s and Private Use Only www.janeibrary.org Page #54 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा. ॥६५२॥ बाहर ततो निर्दिष्टस्य सामायिकार्थस्य त्रिलिङ्गत्वाद् निर्देश्यवशादपि संग्रह-व्यवहारमतेन सामायिकस्य त्रिलिङ्गतापि भवति, यथा 'सामायिकं स्त्री' इत्यादि, एतच्च स्वयमेव द्रष्टव्यम् ॥ १५१३ ॥ १५१४ ।। "निद्देसयमुज्जुसुओ' इति व्याचिख्यासुराहउज्जुसुओ निदेसगवसेण सामाइयं विणिदिसइ । वयणं वत्तुरहीणं तप्पज्जाओ य तं जम्हा ॥१५१५॥ ऋजुमूत्रनयो निर्देशकवशेनाभिधातृपारतन्त्र्येण सामायिक निर्दिशति, यदेव निर्देशकस्य लिङ्गं तदेव सामायिकस्यासौ मन्यते, यथा- 'सामायिकं स्त्री' इत्यादि, वचनस्य वक्त्रधीनत्वात् , तत्पयार्यत्वाच्च, विज्ञानवदिति ॥ १५१५ ॥ अथ वचनस्य वक्त्रधीनत्वे युक्तिमाद___ करणत्तणओ मण इव सपज्जयाओ घडाइरूवमिव । साहीणत्तणओ विय सधणं व वओ वयंतस्स ॥१५१६॥ ___'वदत एव संबन्धि वचः' इति पर्यन्ते प्रतिज्ञा । अत्र सदृष्टान्तान् हेतूनाह- करणत्वात् , मनोवन ; तथा, स्वपर्यायत्वात् , घटादे रूपादिवत् । तथा, स्वाधीनत्वात् , स्वधनवदिति ॥ १५१६ ।। युक्त्यन्तरमाहतह सुत्त-दुरुत्ताओ तस्सेवाणुग्गहो-वघायाओ। तस्स तयमिंदियं पिव इहरा अकयागमो होज्जा ॥ १५१७ ॥ 'तस्यैव वक्तुस्तद् वचः' इति पक्षः, वचनस्य सूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरेवानुग्रहो-पघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तस्य तदात्मीयम् , यथा देवदत्तादेरिन्द्रियम् , दृश्यते च वचनमूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरनुग्रहो-पघातौ, तस्मात् तत् तस्यात्मीयम् । विपर्यये बाधकमाह- इतरथा अन्यथा वचनस्य वक्तुरसंबन्धित्वे तस्यानुग्रहो-पघातयोरकृताभ्यागम एव स्यादिति ॥ १५१७॥ अत्र परः प्राह १ गाथा १५०५। २ जुसूत्रो निर्देशकवशेन सामायिकं विनिर्दिशति । वचनं वक्तुरधीनं तत्पर्यायच तद् यस्मात् ॥ १५१५ ॥ ३ करणत्वतो मन इव स्वपर्ययाद् घटादिरूपमिव । स्वाधीनत्वतोऽपिच स्वधनमिव बचो वदतः ॥ १५॥ ४ तथा सूक्त-दुरुक्ताभ्यां तस्यैवानुग्रहो-पघाताभ्याम् । तस्य तदिन्द्रियमिवेतरथाऽकृतागमो भवेत् ॥ १५१७॥ ॥६५२॥ FolloTESTBहार For d Prive Only Page #55 -------------------------------------------------------------------------- ________________ विशेषा बृहदत्तिः । ॥६५३॥ 'निविट्ठस्स वि कस्सचि नणूवघायाइओ तयं जुत्तं । ते तस्स सकारणाओ इहरा थाणुस्स वि हवेजा॥१५१८॥ ननु न केवलं निर्देशकस्य, किन्तु निर्दिष्टस्याप्यभिधेयस्यापि कस्यचित् तस्करादेवचनादुपघातादयो दृश्यन्ते, यथा- 'बध्यता, हन्यतां चायं तस्करः, मुच्यतां चायम्' इत्याद्युक्ते तस्य विषादाद्युत्पत्तरुपघातादयोऽध्यक्षत एवोपलभ्यन्ते । अतस्तदर्शनाद् निर्दिष्टस्यापि संबन्धि तद् वचनं वक्तुं युज्यते । अत्रोत्तरमाह- 'ते इत्यादि' य इष्टा-निष्टवचनश्रवणात् तस्करादेनिर्दिष्टस्यानुग्रहादयो दृश्यन्ते ते तस्य स्वकीयश्रवणेन्द्रिय-मनःपुण्य-पापादिकात् कारणादेव मन्तव्याः, न त्विष्टा-निष्टवचनोक्तिमात्रात् , अन्यथा श्रोत्रादिक| रणविकलानां स्थावादीनामपि तदुक्तिमात्रात् ते भवेयुरिति ॥ १५१८ ॥ वक्तृधर्मत्वमेव वचनस्य हेत्वन्तरोक्तेः समर्थयन्नाह सेरनामोदयजणियं वयणं देहो व्व बत्तुपज्जाओ । तं नाभिधेयधम्मो जुत्तमभावाभिहाणाओ ॥१५१९॥ 'वक्तृपर्यायो वचनम्' इति प्रतिज्ञा, स्वररूपनामकर्मोदयजन्यत्वात् , इह यद् नामकर्मोदयजन्यं तत् तस्यैव वक्तुर्देवदत्तादेः पर्यायः, यथा तस्यैव देहः, नामकर्मोदयजन्यं च वचनम् , तस्मात् तस्यैव वक्तुः पर्यायः । तत् तस्माद् न वचनमभिधेयधर्मो युक्तम् , किन्त्वभिधातुरेव । उपचयमाह- अमावस्यापि वचनेनाभिधानात् । इदमुक्तं भवति- अभावोऽपि हि वचनेनाभिधीयते, न च वचनं तद्धर्म इति वक्तुं शक्यते, अभावस्यासत्त्वात् , यदि च वचनं तद्धर्मः स्यात् , तदा सोऽपि भावः स्यात् , वचनाश्रयत्वात् , देवदत्तादिवदिति ॥ १५१९ ॥ यस्यापि च घटादिशब्दाभिधेयस्य घटादेर्भावस्य वचनं तत्प्रत्ययकारणत्वाद् धर्मत्वेनाभ्युपगम्यते, तत्रापि पृच्छयते । किम् ? इत्याह भावम्मि वि संबद्धं तमसंबद्धं व तं पगासेज्जा । जइ संबई तिहुयणवावि त्ति तयं पगासेउ ॥ १५२० ॥ भावेऽपि घटादिके वचनाभिधेये पृच्छामो भवन्तं- तद् वचनं तत्र भावे किं संबद्धं सत् तं भावं प्रकाशयति, आहोखिदसंबद्धम् ? निर्दिष्टस्यापि कस्यचिद् ननूपघातादितस्तद् युक्तम् । ते तस्य स्वकारणादितरथा स्थाणोरपि भवेयुः ॥ १५१८॥ २ स्वरनामोदयजनितं वचनं देह इव वक्तृपर्यायः । तद् नाभिधेयधर्मों युक्तमभावाभिधानात् ॥ १५१९ ॥ ३ भावेऽपि संबद्धं तदसंबद्धं वा तं प्रकाशयेत् । यदि संबद्धं त्रिभुवनव्यापीति तत् प्रकाशयतु ॥ १५२० ॥ ॥६५३॥ Jain Education interna For and Use Only Page #56 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वृत्तिः । ॥६५४|| इति । यदि संबद्धं, तर्हि चिउहिं समएहि लोगो भासाए निरन्तरं तु होइ फुडो' इत्यादिवचनात् त्रिभुवनव्यापित्वात् तद्गतं समस्तमपि पदार्थजातं प्रकाशयतु, संबद्धत्वाविशेषादिति ॥ १५२० ॥ अथासंबद्धं प्रकाशयति, तत्राह निविण्णाणतणओ नासंबद्धं तयं पईवो व्व | भासयइ असंबद्धं अह तो सब् पगासेउ ॥ १५२१ ॥ नासंबद्धं तत् पदार्थान् प्रभासयति । कुतः ? इत्याह-निर्विज्ञानत्वात्- विज्ञानादन्यत्वे सत्यसंबद्धत्वादिति भावः, अयं च हेतुः। प्रदीपवदिति दृष्टान्तः । विज्ञानमसंबद्धमपि वस्तु प्रकाशयति, न च वचनं विज्ञानरूपम् , अतो नासंबद्धमर्थ प्रकाशयति, प्रदीपवत् । अथासंबद्धमपि तद् वस्तु प्रकाशयति, तर्हि सर्वमपि प्रकाशयतु, असंबद्धत्वाविशेषात् । तस्माद् वाच्यप्रत्ययकारणत्वेन तद्धर्मो वचनमिति ॥ १५२१॥ आह- ननूक्तम्- वचनमर्यादात्मलाभ लभते, प्रदीपवत् , अतः कथमिदं वक्तुरेवेष्यते ? इत्याह जइ वि वयणिज्ज वत्ता बज्झ-ब्भंतरनिमित्तसामण्णं । वत्ता तहवि पहाणो निमित्तमभंतरं जं सो॥१५२२॥ इह यद्यपि वचनीयं वक्ता च यथासंख्यं बाह्यमभ्यन्तरं च वचनस्य सामान्यं निमित्तं कारणम् , तथापि वक्ता प्रधानः । कुतः ? इत्याह- यद् यस्मादन्तरङ्ग प्रत्यासन्न निमित्तमसौ । तस्माद् वचनस्य वक्त्रधीनत्वाद् यदेव वक्तुर्लिङ्गं तदेव सामायिकस्य ऋजुमूत्रनयमतेन लिङ्गमिति स्थितम् ।। १५२२ ॥ 'उभयसरिच्छं च सद्दस्स' इत्येतद् व्याचिख्यासुराह सद्दो समाणलिंगं निदेसं भणइ विसरिसमवत्थु । उवउत्तो निदिट्ठा निदिस्साओ जओऽणण्णो॥१५२३॥ शब्दप्रधानो नयः शब्दो निर्देशं वचनमिच्छति । किंविशिष्टम् ? इत्याह- समानलिङ्गं निर्देश्य-निर्देशकयोस्तुल्यमेव लिङ्गमसाविच्छतीत्यर्थः । विसदृशं त्वसमानलिङ्ग निर्देशमघटमानकत्वादवस्तुत्वेनैव मन्यते । कुतः ? इत्याह- उपयुक्तो निर्देश्येऽर्थेऽर्पितान्तः १ गाथा ३७५। २ निर्विज्ञानत्वतो नासंबद्धं तत् प्रदीप इव । भासयत्यसंबद्धमय ततः सर्व प्रकाशयतु ॥ १५२१ ॥ ३ यद्यपि वचनीयं वक्ता याद्या-उभ्यन्तरनिमित्तसामान्यम् । वका तथापि प्रधानं निमित्तमभ्यन्तरं यत् सः ॥ १५२२ ॥ ४ गाथा १५०५। ५ शब्दः समानलिङ्ग निर्देशं भणति विसदृशमवस्तु । उपयुक्तो निर्देष्टा निर्देश्याद् यतोऽनन्यः ॥ १५२३ ॥ तरकुमार ||६५४॥ JanEducationaintermato For Personal and Private Use Only Page #57 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६५५।। Jain Education Internatio करणो निर्देष्टा यद् यस्माद् निर्देश्यादनन्योऽभिन्नः । इदमुक्तं भवति वक्तुस्त्रिलिङ्गवतोऽपि पुमांसमभिदधतः पुंनिर्देश एव, स्त्रियं प्रतिपादयतः स्त्रीनिर्देश एव, नपुंसकं निर्दिशतो नपुंसकनिर्देश एव, वाच्य उपयुक्तस्य वक्तुर्वाच्यादभिन्नत्वादिति ।। १५२३ ।। तथाचाह थीं निद्दिसइ जइ पुमं थी चेत्र तओ जओ तदुवउत्तो । श्रीविन्नाणाणन्नो निद्द्ट्ठिसमाणलिङ्गो ति ॥ १५२४॥ स्यादेः समानलिङ्गं स्त्र्यादिकं निर्दिशतः स्त्र्यादिनिर्देश इति तावत् किल प्रतीतमेव । यद्यपि च पुमान् कर्ता स्त्रियं कर्मतापत्रां निर्दिशति, यथा- 'वासवदत्ते ! इदमित्थं विधेहि' इति तदपि तकोऽसौ निर्देष्टा पुरुषः स्त्रयेव भवति । कुतः ? इत्याह- यतो यस्माद तदुपयुक्तः स्त्र्युपयुक्तः स्त्रीविज्ञानाद् वासवदत्ताध्यवसायादनन्योऽभिन्नः सन् निर्दिष्टया स्त्रिया समानलिङ्गः पुरुषो भवति । ततश्च यदा पुरुषो नपुंसकमभिधत्ते तदापि निर्दिष्टसमानलिङ्गत्वाद् नपुंसकमेवासौ । एवं स्त्रियां नपुंसके च निर्देष्टार निर्दिष्टसमानलिङ्गता योजनीयेति ।। १५२४ ॥ ननु कथं स्त्रीविज्ञानादनन्यः स पुरुषोऽपि त्र्येव भवति, न पुरुषोऽपि स्यात् ? इत्याह इस मं तो नत्थी अह थी न पुमं नवा तदुवउत्तो । जो श्रीविण्णाणमओ नो थी सो सव्वहा नत्थि ॥ १५२५॥ यदि स निर्देष्टा पुमान्, ततो न स्त्री- न खल्वसौ स्त्र्युपयोगवानित्यर्थः । अथासौ स्त्र्युपयोगोपयुक्तत्वात् स्त्रीत्यभ्युपगम्यते, तर्हि न पुमान्- न पुंस्त्वेनायमेष्टव्यः, किन्तु स्त्र्युपयोगोपयुक्तत्वात् त्र्येवासौ मन्तव्य इत्यर्थः । अथ नैवम्, तर्हि नवा न खल्वसौ तदुपयुक्तः स्त्र्युपयुक्तः, तदुपयुक्तस्य सर्वथैव पुंस्त्वविरोधात् । किं बहुना ?, यः स्त्रीविज्ञानमयः स्त्रयुपयोगोपयुक्तोऽपि न स्त्री, किन्तु पुमान् नपुंसकं वा स एवंभूतः पदार्थः सर्वथा नास्ति - असन्नेव, खरविषाणवदिति ।। १५२५ ।। अर्थानुपयुक्तः स्त्रियं भाषमाणोऽपि पुरुषो भविष्यतीत्याशङ्कयाह भास वाणुवत्तो जइ अन्नाणी तओ न तव्त्रयणं । निद्देसो जेण मयं निच्छियदेसो त्ति निद्देसो ॥१५२६ ॥ १ स्त्रियं निर्दिशति यदि पुमान् रथ्येव सको यतस्तदुपयुक्तः । स्त्रीविज्ञानानन्यो निर्दिष्टसमानलिङ्ग इति ॥ १५२४ ॥ २ यदि स पुमांस्ततो न स्त्री अथ स्त्री न पुमान् नवा तदुपयुक्तः । यः स्त्रीविज्ञानमयो नो खी स सर्वथा नास्ति ॥ १५२५ ॥ ३ भाषते वानुपयुक्तो यद्यज्ञानी सको न तद्वचनम् । निर्देशो येन मतं निश्चितदेश इति निर्देशः ॥ १५२६ ।। For Personal and Private Use Only बृहतिः । ॥६५५॥ Page #58 -------------------------------------------------------------------------- ________________ विशेषा. ॥६५६॥ यदि वा, उच्यते भवता- अनुपयुक्तोऽसौ पुरुषः स्त्रियं भाषते, अतो न खीरूपता प्रतिपद्यते । तदयुक्तम् , यत एवं सति तकोऽप्तावनुपयुक्तभाषकोऽज्ञानी, उपयोगशून्यत्वात् , घटादिवत् । ततश्च न तद्वचनं निर्देशः, उपयोगपूर्वकत्वाभावात् , उन्मत्तादिवचनवत् । कुतः ? इत्याह- येनैतद् मतं संमतं विपश्चिताम् । किम् ? इत्याह- उपयोगपूर्वकतया निश्चित्य देशनं भाषणं देशो निर्देशः, अथवा, निश्चितो देशो भाषणं यत्रासौ निर्देशो भण्यते । न च निरुपयोगभाषकस्यैवं संभवतीति ॥ १५२६ ॥ एतदेव भावयति-- सो जइ नाणुवउत्तोऽणुवउत्तो वा न नाम निद्देसो । निदेसोऽणुवउत्तो य बेइ सद्दो न तं वत्थु ॥१५२७॥ हन्त ! स यदि निश्चितदेशो निर्देशोऽभ्युपगम्यते, तर्हि तद्वान् देवदत्तादिर्नानुपयुक्तो युज्यते । अथानुपयुक्तोऽसौ, तर्हि न तस्य निर्देशः, निश्चितज्ञानपूर्वकत्वात् तस्य । किंबहुना ?, 'निर्देशः, अनुपयुक्तश्च तद्वान्' इत्येवंभूतं यद् मतं तच्छन्दनयोऽवस्त्वेव ब्रूते, विरुद्धत्वात् , 'अचेतन आत्मा, अश्रावणः शब्दः' इत्यादिवदिति ।। १५२७ ।। अथोपसंहरबाह तेम्हा जं जं निहिस्सइ तदुवउत्तोस तम्मओ होइ । वत्ता वयणीजाओ अनन्नो त्ति समाणलिंगो सो॥१५२८॥ तस्मादेतत् शब्दनयमतस्य तात्पर्यम्- यः पुरुषादिर्वक्ता यं यं च्यादिकमर्थं तदुपयुक्तः स्त्र्याधुपयुक्तो निर्दिशति वक्ति, स तन्मयो वाच्यार्थात्मको भवति । कुतः ? इत्याह- वक्ता वाच्योपयुक्तो वचनीयादनन्य एव भवतीति कृत्वा । ततो वक्तृवचनीयसमानलिङ्गोऽयमस्य निर्देश इति स्थितम् ॥ १५२८ ॥ प्रकृतमुपदर्शयन्नाह सामाइओवउत्तो जीवो सामाइयं सयं चेव । निदिदसइ जओ सव्यो समाणलिंगो स तेणेव ॥ १५२९॥ ___ इह प्रस्तुते सामायिके निर्देश्य उपयुक्तो निर्देष्टा जीवः सामायिकमेव 'भवति' इति शेषः । ततश्चासौ सामायिक निर्दिशन् १ स यदि नानुपयुक्तोऽनुपयुक्तो वा न नाम निर्देशः । निर्देशोऽनुपयुक्तश्च ब्रूने शब्दो न तद् वस्तु ।। १५२७ ॥ २ तस्माद् यद् यद् निर्दिशति तदुपयुक्तः स तन्मयो भवति । वक्ता पचनीयादनन्य इति समानालिङ्गः सः ॥ १५२८ ॥ ३ सामायिकोपयुक्तो जीवः सामायिक स्वकमेव । निर्दिशति यतः सर्वः समानलिङ्गः स तेनैव ॥ १५२९ ॥ Jan Educ a t For a nd Private Use Only www.janetbrary.org Page #59 -------------------------------------------------------------------------- ________________ विशेषा० ॥६५७॥ Jain Educationa Internat स्वकमेवात्मानमेव निर्दिशति । कुतः ? इत्याह- यतो यस्मात् स्त्री-पुं- नपुंसकरूपः सर्वोऽप्यसौ निर्देष्टा तदुपयुक्तत्वात् तेनैव निर्देश्येन सामायिकेन समानलिङ्गो भवति, सामायिकार्थस्य रूढितो नपुंसकत्वात्, स्त्रियाः, पुंसः, नपुंसकस्य वा सामायिकमभिदधानस्य नपुंसकलिङ्गनिर्देश एव भवतीति । आह- यदि पुनर्भावस्य द्वैविध्याद् निर्देश्य-निर्देशकोभयवशतोऽपि निर्देशः स्यात् तर्हि को दोषः १, तथाहि - द्विविधो भावोऽर्थस्य विज्ञानं, परिणतिश्चः भावाभिधायिनथ शुद्धनयाः । तत्र यदा पुमानुपयुक्तः सामायिकं नपुंसकमाह, तदा वक्तुर्नपुंसकविज्ञानानन्यत्वाद् नपुंसकनिर्देशोऽस्तु, निर्देष्टुव मुखरोमादिरूपपुरुषपरिणतिमयत्वात् पुंनिर्देशोऽपि भवत्विति । अत्रोच्यते- भावस्य द्वैविध्ये सत्यपि वस्तुनो विज्ञानमेवेहोप योगरूपमधिक्रियते, न पुनस्तत्परिणतिः, विज्ञानरूपस्यैवेह निर्देशस्याभिप्रेतत्वात् । आह- ननु शब्दोऽपि पुद्गलद्रव्यरूपः 'निर्दिश्यते' इति कृत्वा निर्देश एवोच्यते, तत् किमिति तदुपयोगरूप एव निर्देशोऽधिक्रियते । नैतदेवम्, शब्दस्य द्रव्यमात्रत्वात् ज्ञानलक्षणभावग्राहिणञ्च शब्दनयाः । अत एव पुरुषपरिणतेः सत्यपि भावत्वे न तस्या इह ग्रहणम्, किन्तु विज्ञानरूप एवात्र निर्देशो गृह्यते । तत्रैतत् स्यात् शब्दप्रधान एव हि शब्दनयः, तत् कथमिह शब्दरूपो निर्देशो नेष्यते ? । तदयुक्तम्, भावार्थापरिज्ञानात् शब्दनयो हि शब्दादेवार्थज्ञानमभ्युपगच्छति, तद्भावभावित्वात् तस्य । एवं च सति शब्दस्य ज्ञानकारणत्वात्, कारणस्य च द्रव्यत्वात् द्रव्यस्य च भावशून्यत्वात् शब्दनयस्य च भावग्राहित्वाद् न शब्दमात्रप्रधानता युक्तेति । अपरस्त्वाह- ननु यद्युपयुक्तो वक्ता यमर्थमाह, तद्वशाद् निर्देश इष्यते, ततो निर्देश्यवशाद् निर्देश इति प्राप्तम् एवं च सति संग्रह - व्यवहारयोः शब्दनयस्य च को विशेषः ? । अत्रोच्यते- संग्रह व्यवहारयोरुपयुक्तस्याऽनुपयुक्तस्य वा वक्तुरात्मनिरपेक्षोऽभिमाशात् शब्दमात्र निर्देशः, इह तु वाद्यवस्तुप्रत्ययमात्र मुररीकृत्य य उपयोगस्तस्मादनन्यत्वादभिधातुर्जीवत्योपयोगरूपं स्वरूपमेव निर्देशोऽङ्गीक्रियते । आह-यथेत्रम्, ऋजुमूत्रादस्य को विशेषः, तस्यापि हि निर्देशकवशाद् निर्देशः, स एवेहाप्यापन्नः ? । अत्राप्युच्यतेऋजुमूत्राभिप्रायेणानुपयुक्तस्यापि वक्तुः शब्दमात्रं निर्देशः, अत्र तु वाच्योपयोग एव निर्देश इति विशेषः, इत्यलं प्रसङ्गेनेति ।। १५२९ ।। तदेवं नयमतान्यभिधाय सम्यग् मिथ्याविभागमा ह ८३ For Personal and Private Use Only बृहद्वृत्तिः । ॥६५७॥ www.jainetbrary.org Page #60 -------------------------------------------------------------------------- ________________ विशेषा ईय सव्वनयमयाइं परित्तविसयाई, समुदियाइं तु । जइणं बज्झ-भंतरनिदेसनिमित्तसंगाहि ॥१५३०॥ इत्येवमुक्तप्रकारेण सर्वाण्यपि नैगमादिनयमतानि परीत्तविषयाण्यन्योन्यनिरपेक्षतयैकैकांशग्राहीणि, अतो मिथ्यारूपत्वात् बृहद्वृत्तिः । तान्यप्रमाणमिति भावः । समुदितानि पुनस्तान्येवान्योन्यसापेक्षतया संपूर्णवस्तुग्राहित्वाजनं मतं भवति । कथंभूतं यज्जैन मतम् ? ॥६५८॥ इत्याह- 'बज्झेत्यादि' बाह्या-ऽभ्यन्तराणि निर्देशस्य वचनस्य शब्दस्य निमित्तानि संग्रहीतुमभ्युपगन्तुं शीलं यस्य तद् बाह्या-5ऽभ्य न्तरनिर्देशनिमित्तसंग्राहि । तत्र बाद्यान्यभिधेयघट-पट-शकटादीनि, आभ्यन्तराणि तु स्वरनामकर्मोदय-तावादि-करण-प्रयत्नादीनि ER निर्देशस्य निमित्तानि द्रष्टव्यानि । समस्ततत्सामग्रीजन्यनिर्देशाभ्युपगमपरत्वेन सम्यग्रूपत्वाज्जैन मतं प्रमाणमितीह भावार्थः । आह- बाह्यो घटादिरर्थः शब्दस्य कथं निमित्तम् , संबन्धाभावात् । तदयुक्तम् , शब्दा-ऽर्थयोर्वाच्य-वाचकसंबन्धस्य विद्यमानत्वात् । यद्यर्थस्य शब्दो वाचकः, तहगृहीतसङ्केतस्यापि म्लेच्छादेरसावर्थ प्रतिपादयेदिति चेन् । नैवम् , कर्मक्षयोपशमस| व्यपेक्षस्यैव तस्य तत्पतिपादकत्वात् , क्षयोपशमस्य च संकेतादिसापेक्षत्वात् । न हि प्रदीपः प्रकाशक इत्येतावन्मात्रेणैवान्यादीनामप्यर्थे । प्रकाशयति । ननु यदि क्षयोपशमापेक्षः शब्दोऽर्थ प्रकाशयति, तर्हि संकेतकरणऽपि तदप्रकाशनप्रसङ्गः, न चैतदस्ति, गृहीतसंकेतानामविगानेनार्थप्रतिपत्तिदर्शनात् , ततः किमन्तर्गडुकल्पक्षयोपशमकल्पनेन ? । तदयुक्तम् , तथाहि- केषांचिज्जडमतीनां शास्त्रव्याख्यानादौ विषमपदवाक्येषु विशिष्टक्षयोपशमाभावात् संकेतोऽपि कर्तुं न शक्यते, अन्ये तु तत्करणेऽपि नार्थ प्रतिपद्यन्ते । यदपि केवांचिदपूर्वम्लेच्छभाषादिश्रवणेऽकृतसंकेतानामपि झगित्येव कथमप्यर्थप्रतिपत्तिदृश्यते, तत्रापि क्षयोपशमस्यैवातिपटुत्वं हेतुः । तस्मात् कर्मक्षयोपशमादिसामग्रीसव्यपेक्षः शब्दो वाचकः, अर्थस्तु वाच्यः, इति शब्दार्थयोर्वाच्यवाचकभावलक्षणः संबन्ध इति । तदेवं व्याख्याता 'दुविहं पि नेगमनओ' इत्यादिगाथा, तयाख्याने च व्याख्यातमुपोद्घातनियुक्तिद्वारगाथाद्वयस्य द्वितीयं द्वारम् ॥१५३०॥ अथ तृतीयं निर्गमद्वारमभिधित्सुस्तत्प्रतिपादकगाथायाः प्रस्तावनामाह-- निविट्ठस्स पसूई सा दव्व-खेत्त-काल-भावहिं । किं तं च जीवदव्वं पसूर्यमेयं जओ जह वा ॥ १५३१ ॥ खेत्ते कम्मि व काले पुरिसविसेसो व भावओ को सो । खेत्ताइतिगं निग्गमभेउ च्चिय छबिहो जं सो॥१५३२॥ इति सर्वनयमतानि परीतविषयाणि, समुदितानि तु । जैन बाह्या-ऽऽभ्यन्तरनिर्देशनिमित्तसंग्राहि ॥ १५३० ॥ २ गाथा १५.५। ३ निर्दिष्टस्य प्रसूतिः सा दप क्षेत्र काल-भावः । किं तच जीवद्रव्यं प्रसूसमेतद् यतो यथा वा ॥१५३१॥ ACA६५८॥ क्षेत्रे कस्मिन् वा काले पुरुषविशेषो वा भावतः कः सः । क्षेत्रादिनिक निगममेद एवं पविधो यत् सः ॥१५३२॥ ४ ज. 'मवंज'। For and P ony Page #61 -------------------------------------------------------------------------- ________________ विशेषा० ।।६५९॥ Jain Education Internal तदेवमुद्देशेनोद्दिष्टस्य, निर्देशेन च निर्दिष्टस्य प्रस्तुत सामायिकाध्ययनस्येदानीं प्रसूतिरुत्पत्तिर्वक्तव्या । सा च द्रव्य क्षेत्र कालभावैः करणभूतैर्भणनीया । एतदेव दर्शयति- 'किं तमित्यादि' किं नाम तज्जीवद्रव्यम्, 'जउ ति ' यत इदमेवंभूतं सामायिकाध्ययनं प्रस्तुतम् ? इति तावद् वक्तव्यम् । 'जह व त्ति' यथा वा तेन केनापि श्रीमन्महावीरलक्षणेन जीवद्रव्येण क्षायिकभाववृत्तिनैतत् सामायिकं प्ररूपितं तथा वक्तव्यम् । तथा, 'खेत्ते इत्यादि' कस्मिन् क्षेत्रे, क वा काले भगवता प्रथमतः सामायिकाध्ययनं प्ररूपितम् ? इति वाच्यम् । तथा भावतो भावे प्रष्टव्यतया प्रकृते कोऽसौ पुरुषविशेषो जीवो येनेदं सामायिकमभिहितम् ? इति भणनीयम् । इह च'देव्वा - भिलाव- विंधे वे धम्म-त्थ भोग- भावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ १ ॥' इति वक्ष्यमाणगाथायां द्रव्यादिभेदैरनेकधा पुरुषसंभवमुपदर्श्य भावे भावनिर्गमे विचार्ये भावपुरुषो जीव इति वक्ष्यते । earsoft 'भावपुरुषविशेषो जीवः' इत्युक्तम् । तदेवमत्र क्षेत्र-काल- पुरुषविशेषलक्षणत्रिकमनन्तरवक्ष्यमाणं निर्गमभेद एवं द्रष्टव्यम्, यस्मात् षड्विधोऽसौ निर्गमः । तस्य च निर्गमभेदपदकस्य मध्ये क्षेत्र कालौ साक्षादेव पठ्येते, भावनिर्गमे च पुरुषविशेषो rai क्ष्यते, इत्येवं क्षेत्रादित्रिकं निर्गमभेदः । अत्राह - ननु द्रव्यमपि निर्गमभेद एव तस्यापि तत्राभिधास्यमानत्वात् तत्कथं क्षेत्रादित्रिकमेव तद्भेदत्वेनोच्यते । सत्यम्, किन्तु पुरुषविशेषग्रहणेनैव तद्ग्रहणं मन्यत इत्यदोषः । इत्यलं प्रसङ्गेन ।। इति सप्तविंशतिगाथार्थः || १५३१ ।। १५३२ ।। कथं पुनर्निर्गमः षड्विधः ? इत्याह नामं ठवणा दत्रिए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्स निक्खेवो छव्त्रिहो होइ ॥ १५३३ ॥ नाम-स्थापनानिर्गमौ नामावश्यकायुक्तानुसारेण भावनीयौ । द्रव्याद् द्रव्यस्य वा निर्गमः, क्षेत्रात् क्षेत्रस्य वा, कालात् कालस्य वा, भावाद् भावस्य वा निर्गम इत्यादि वाच्यम् ।। इति नियुक्तिगाथासंक्षेपार्थः ।। १५३३ ।। विस्तरार्थं तु भाष्यकारः माह दैवाओ दव्वरस व विणिग्गमो दव्वनिग्गमो सो य। तिविहो सचित्ताई तिविहाओ संभवो नेओ ॥ १५३४ ॥ १ व्या ऽभिलाप चिह्नानि वेदो धर्माऽर्थ भोग-भावाश्च । भावपुरुषस्तु जीवो भावे प्रकृतं तु भावेन ॥ १ ॥ २ नाम स्थापना नव्ये क्षेत्रे काले तथैव भावे च एष तु निर्गमस्य निक्षेपः पद्विधो भवति ॥ १५३३ ॥ ३ या द्रव्यस्य वा विनिर्गमो द्रव्यनिर्गमः स च । त्रिविधः सचितादिस्त्रिविधात् संभवो ज्ञेयः ।। १५३४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। ६५९॥ www.jamneibrary.org Page #62 -------------------------------------------------------------------------- ________________ विशेषा० ॥६६०॥ Jain Educationa Internationa द्रव्याद् द्रव्यस्य वा निर्गमो द्रव्यनिर्गमः । स च सचित्तादिद्रव्य संबन्धित्वात् सचित्तादिस्त्रिविधः । तस्य च त्रिविधस्य सचित्तास्त्रिविधादेव सचितादेर्द्रव्यात् संभव उत्पादो ज्ञेय इति ।। १५३४ ॥ तथाहि- पैभवो सचित्ताओ भूमेरंकुर-पयंग-बफाई । किमि गब्भ-सोणियाई मीसाओ थीसरीराओ ॥ १५३५ ॥ किमि घुणघुणचुणाई दारुओ जं व निग्गयं जत्तो । दव्यं विगप्पवसओ जहसन्भावो वयारेहिं ॥ १५३६॥ सचित्ताद् भूमिद्रव्यात् सचित्तद्रव्यस्याङ्कुरस्य प्रभवो निर्गमो ज्ञातव्यः, मिश्रस्य तु पतद्रव्यस्य तस्य हि पक्षादिप्रदेशा अचित्ताः शेषं तु सचित्तमिति ः अचित्तस्य तु वाष्पद्रव्यस्य । तदेवं सचित्तात् सचित्तादेस्त्रिविधस्य निर्गम इत्युक्तम् । अथ मिश्रात् स्त्रीशरीरद्रव्यात् सचित्तद्रव्यस्य कृमेर्निर्गमो वेदितव्यः, मिश्रस्य तु गर्भद्रव्यस्य डिम्भरूपस्य तद्गतकेशादीनामचित्तत्वात्, शेषस्य तु सचित्तत्वाद् मिश्रता; अचित्तस्य तु शोणितद्रव्यस्य । मिश्रात् सचित्तादेर्निर्गम इत्यपि भावितम् । अचित्तद्रव्याद् दारुणः काष्ठात् सचित्तस्य कृमिद्रव्यस्य निर्गमः, मिश्रस्य तु घुणस्य, पतङ्गवदस्यापि मिश्रत्वात् अचित्तस्य तु घुणचूर्णस्य, घुणाकृष्टश्लक्ष्णतदवयवनिवहस्येत्यर्थः । अचित्तात् सचित्तादेर्निर्गम इत्यपि गतम् । तथा, 'जं वेत्यादि' यद् वा द्रव्यं यस्माद् द्रव्याद् विकल्पवशतो मानसकल्पनासमारोपाद् यथासद्भावेन सद्भूतप्रकारेण, उपचारेण वा निर्गतं, सोऽपि द्रव्याद् निर्गमो द्रव्यनिर्गम उच्यते । तत्र यथासद्भावेन विकल्पवशाद् यथा दुग्वादिद्रव्याद् घृतादिद्रव्यस्य निर्गमः । अत्र हि भूमेः संमूच्छेजचटकन्यायेन दुग्धाद् घृतादिनिर्गमो न दृश्यत इति 'विकल्पवशतः' इत्युच्यते, दुग्धस्य च घृतादिभावेन परिणामिकारणता समीक्ष्यते, इत्येतावता 'यथासद्भावेन' इत्यभिधीयते । उपचारेण तु रूपकादेर्द्रव्याद् भोजनादेर्निंगम इत्यादि सर्वे यथासंभवमन्यदपि स्वबुद्ध्याऽभ्यू वक्तव्यमिति ।। १५३५ ।। १५३६ ।। क्षेत्रनिर्गममाह खेत्तस्स विनिग्गमणं सरूवओ नत्थि तं जमक्किरियं । खेत्ताओ खेत्तम्मि वि हवेज दव्वाइनिग्गमणं ॥ १५३७ ॥ १ प्रभवः सचित्ताद् भूमेरङ्कुर - पतङ्ग बाष्पादयः कृमि-गर्भ-शोणितादयो मिश्रात् स्त्रीशरीरात् ॥ १५३५ ॥ कृमि घुणघुणचूर्णादयो दारुणो यद्वा निर्गतं यतः । द्रव्यं विकल्पवशतो यथासद्भावोपचाराभ्याम् ॥ १५३६ ॥ २ क्षेत्रस्य विनिर्गमनं स्वरूपतो नास्ति तद् यदक्रियम् । क्षेत्रात् क्षेत्रेऽपि भवेद् द्रव्यादिनिर्गमनम् ।। १५६७ ॥ For Personal and Private Use Only बृहद्वतिः । ||६६०॥ Page #63 -------------------------------------------------------------------------- ________________ विशेषा० ॥६६१॥ Jain Education internati उवयारओ खेत्तस्स निग्गमो लोगनिक्खुडाणं च । लद्धं विनिग्गयं ति य जह खेत्तं राउलाउ ति ॥ १५३८ ॥ यथा द्रव्यस्यापि कचित् कल्पनया निर्गम उच्यते, न तु स्वरूपतः एवं क्षेत्रस्यापि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याक्रियत्वेन तदयोगात् । क्षेत्रात् पुनर्निर्गमोऽस्ति, यथाऽऽयुः क्षपादिसमय ऊर्ध्वा घोलोकादिक्षेत्राद् देव नारकद्रव्यादेर्निर्गमः । क्षेत्रेऽपि धान्यादेर्निर्गमो द्रष्टव्यः । न तु क्षेत्रस्य स्वरूपेण निर्गमः । किं सर्वथा नास्ति ? इत्याह- उपचारतः कल्पनामात्रेण क्षेत्रस्यापि निर्गमः समस्त्येव यथा लोकक्षेत्राद् निष्कुटा निर्गता इति तेषां स्वरूपेणावस्थितानां निर्गपक्रियाभावेऽपि निर्गता इव निर्गता इति निर्गमोपचारः । तथा, लब्धं विनिर्गतं क्षेत्रं राजकुलात्, निर्गतं भरतादिक्षेत्रं दुःपमादिकालाद् दुर्भिक्षा ऽशिवादेर्वेत्यादीति । १५३७।। १५३८ ।। कालनिर्गममाह कालो विदव्वधम्मो निक्किरिओ तस्स निग्गमो पभवो । तत्तो च्चिय दव्वाओ पभवइ काले व जं जम्मि॥। १५३९ ॥ उवयारओ व सरओ विणिग्गओ निग्गओ य तत्तोऽहं । अहवा दुक्कालाओ नरो व बालाइकालाओ || १५४० ॥ कालोsपि वर्तरूप द्रव्यधर्म एव । स च स्वरूपेण निष्क्रियः, द्रव्यद्वारेणैव तत्क्रियाप्रवृत्तेः । तस्य च तत एव स्वाश्रयभूताद् द्रव्याद् निर्गमः प्रभव उत्पत्तिः । यथा हरितादिकं यस्मिन् वर्षादिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति । अथवा, उपचा तोsपि कालनिर्गमो यथा- शरत्समयोऽसौ निर्गत आविर्भूतः, ततो वा शरत्कालाद् दुष्कालाद् वा निर्गतो निस्तीर्णोऽहम् वालायवस्थातो वा नरो निर्गत इत्याद्युपचारतः कालनिर्गम इतेि ।। १५३९ ।। १५४० ।। अथ भावनिर्गममाह— भावविव्धम्म तत्तो च्चिय तस्स निग्गमो पभवो । दव्यस्स व भावाओ विणिग्गमो भावओऽवगमो ॥१५४१ ॥ १ उपचारत: क्षेत्रस्य निगमों लोकनिष्कुटानां च लब्धं विनिर्गतमिति यथा क्षेत्र राजकुलादिति ॥ १५३८ ॥ २ कालोsपि धर्मो निष्क्रियस्तस्य निर्गमः प्रभवः । तत एव द्रव्यात् प्रभवति काले वा यद् यस्मिन् ॥ १५३९ ॥ उपचारतो वा शरद् विनिर्गता निर्गतश्च ततोऽहम् । अथवा दुष्कालाद् नर इव बालादिकालात् || १५४० ॥ ३ भावोऽपि द्रव्यधर्मस्तत एव तस्य निर्गमः प्रभवः । द्रव्यस्य वा भावाद् विनिर्गमो भावतोऽपगमः । १५४१ ।। For Personal and Private Use Only वृहद्वृत्तिः । ॥६६१॥ Page #64 -------------------------------------------------------------------------- ________________ विशेषा बृहदत्तिः । ॥६६२।। रुवाई पोग्गलाओ कसाय-नाणादओ य जीवाओ । निंति पभवंति ते वा तेहिंतो तविओगम्मि ॥१५४२ ॥ . भावोऽपि कालबद् द्रव्यधर्म एव । तस्य च ततो द्रव्याद् यो निर्गमः प्रभवः स भावनिर्गमः, द्रव्यस्य वा भावाद् निर्गमो भाव- निर्गमः । कः ? इत्याह-- भावतो भावमाश्रित्य यो द्रव्यस्यापगमो विनाशः । इदमुक्तं भवति- यदा द्रव्यं पूर्वपर्यायेण विनश्यति, अपूर्वपर्यायेण तूत्पद्यते, तदा पूर्वपर्यायात् प्राक्तनभावाद् द्रव्यस्य निर्गतत्वाद् भावाद् निर्गमो भावनिर्गम इत्युच्यते । तथा, रूपादयो भावाः पुद्गलद्रव्यात , कषाय-बानादयश्च जीवाद् निर्गच्छन्ति प्रभवन्तीति भावानां निगमो भावनिर्गम उच्यते । 'ते वा तेहितो ति' अथवा ते पुद्गल-जीवादयः पदार्थास्तेभ्यो रूपादिभ्यः कषायादिभ्यश्च भावेभ्यस्तद्वियोगे प्राक्तनभावविनाशे निर्गच्छन्तीति भावेभ्यो निगमो भावनिर्गम इत्युच्यत इति । तदेवं विनेयमतिव्युत्पादनार्थमभिहितः पड्विधो निर्गमः ।। १५४१ ॥ १५४२ ।। इदानी प्रकृते यावता प्रयोजनं तदुपदर्शयितुम् , प्रशस्तभावनिर्गमस्वरूपं तावद् दर्शयन्नाह तेत्थ पसत्थं मिच्छत्तण्णाणाविरइभावनिग्गमणं । जीवस्स संभवंति य ज सम्मत्तादओ तत्तो ॥१५४३॥ तत्रानन्तरोक्ते भावनिर्गमे प्रशस्तं शुभं निर्गमनम् । किम् ? इत्याह-मिथ्यात्वा-ज्ञाना-ऽविरतिलक्षणादप्रशस्तभावाद् यनिर्गमनं निःसरणं जीवस्य । किमिति ? इत्याह- यद् यस्मात् संभवन्त्येव ततो मिथ्यात्वाद्यप्रशस्तभावनिर्गमाउजीवस्य मुक्तिपदप्राप्तिहेतवः सम्यक्वादयो गुणा इति ।। १५४३ ॥ भवत्वेवम् , प्रस्तुते केन प्रयोजनम् ? इत्याह ऐत्थ उ पसत्थभावप्पसूइमेत्तं विसेसओऽहिगयं । अपसत्थावगमो विय सेसा वि तदंगभावाओ ॥१५४४॥ इह च प्रक्रमे सामायिकाध्ययन प्रस्तुतम् । तच्च क्षायोपशमिके भावे वर्तते । अत इह तस्यैव प्रशस्तक्षायोपशमिकभावस्य या प्रसूतिमहावीरात् तन्निर्गमरूपा, तयैव विशेषतोऽधिकृतमधिकारः । तथा, अप्रशस्तमिथ्यात्वादिविषयौदयिकभावस्य योऽपगमो विनाशस्तेनापि चाधिकारः, तदपगमाभावे प्रशस्तभावप्रसूतेरेवायोगादिति । शेषास्तु निर्गमभेदास्तदङ्गभावेन प्रशस्तभावनिर्गमकारणतयाऽऽनन्तर्येण पारम्पर्येण वा कोऽपि कथश्चिद् व्याप्रियत इतीह निर्दिष्टा इति ।। १५४४ ॥ रूपादयः पुतलात कपाय-ज्ञानादया जीवात् । निर्गच्छन्ति प्रभवन्ति ते वा तेभ्यसद्वियोगे ॥ १५४२॥ २ तत्र प्रशस्त मिथ्यात्वा-उज्ञाना-विरतिभावनिर्गमनम् । जीवस्य संभवन्ति च यत सम्पत्यादयस्ततः ॥ १५४३॥ ३ अन्नतु प्रशस्तभावप्रतिमा विशेषतोऽधिकृतम् । अप्रशस्तापगमोऽपिच शेषा अपि सदाभावात् ।। १५५४ ।। ॥६६२॥ Page #65 -------------------------------------------------------------------------- ________________ विशेषा० SHA ॥६६॥ तदङ्गत्वमेव द्रव्यादीनां दर्शयति वीरो दवं खेत्तं महसेणवणं पमाणकालो य । भावो य भावपुरिसो समासओ निग्गमंगाई ॥ १५४५ ।। यतो द्रव्यात् सामायिक निर्गतं तद् द्रव्यमत्र श्रीमन्महावीरो मन्तव्यः । यस्मिंश्च क्षेत्रे तद् निर्गतं तदिह महसेनवनमवगन्तव्यम् । कालस्तु प्रथमपौरुषीलक्षणः प्रमाणकालः । भावस्तु भावपुरुषो वक्ष्यमाणलक्षणः। एतानि समासतः संक्षेपतः सामायिकस्य निर्गमाङ्गानीति ॥ १५४५ ॥ एतदेव दर्शयति-- सामइयं वीराओ महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं ॥१५४६॥ गतार्था । नवरं श्रीमन्महावीरजीवलक्षणाद् भावपुरुषादयं वक्ष्यमाणविस्तरखरूपः सामायिकलक्षणो भावो विनिर्गतः । इह च क्षायोपशामिके भावे वर्तमानत्वात् 'सामायिक भावः' इत्युक्तम् ॥ १५४६ ॥ अथ महावीरलक्षणस्य द्रव्यस्य निर्गमं तावदभिधित्सुराह इच्चवमाई सव्वं दवाहीणं जओ जिणस्सेव । तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तओ ॥ १५४७ ॥ इत्येवमादिकं क्षेत्र-कालनिर्गमनादिकं सामायिकाध्ययना-ऽऽवश्यकश्रुतस्कन्धा-ऽऽचारादिकं वा सर्वमपि यतो यस्माद् द्रव्यस्य | महावीरलक्षणस्याधीनम् । ततस्तस्यैव महावीरजिनस्य निर्गमनमुक्त्वा ततः सामायिकस्य निर्गमनं वक्ष्य इति ॥ १५४७॥ ननु महावीरजिनस्यापि निर्गमनं कथं वक्तव्यम् ? इत्याह-- "मिच्छत्ताइतमाओ स निग्गओजह य केवलं पत्तो । जह य पसूयं तत्तो सामइयं तं पवक्खामि ॥१५४८॥ तमिति तदेतत् सर्व प्रवक्ष्यामि ॥ इति गाथापश्चदशकार्थः ॥ १५४८ ॥ वीरो द्रव्यं क्षेत्र महासेनवनं प्रमाणकालश्च । भावश्च भावपुरुषः समासतो निर्गमानानि ॥ १५४५ । २ सामायिक वीराद् महासेनवने प्रामाणकाले च । भावपुरुषादि भावो विनिर्गतो वक्ष्यमाणोऽयम् ॥ १५५५ ।। इस्पेवमादि सर्व ग्याधीनं यतो जिनस्यैव । ततो निर्गमनमुक्त्वा वक्ष्ये सामायिकस्य ततः ॥ १५४७ ।। ४ मिथ्यात्वादितमसः स निर्गतो यथा न केवलं प्राप्तः । यथा च प्रसूतं ततः सामायिकं तत् प्रवक्ष्यामि ।। १५५८।। ककककटर-ANTARA For and Pri n www.janeibrary.org Page #66 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । ॥६६४॥ इत उर्व "पंथं किर देसित्ता' इत्यादिका सर्वापि निर्गमवक्तव्यता मूत्रसिद्धव । यच्चेह दुरवगम तद् मूलावश्यकविवरणादवगन्तव्यं तावत् , यावत् प्रथमगणधरवक्तव्यतायां भाष्यम् ।। जीवे तुह संदेहो पच्चक्खं जं न घिप्पइ घडो व्य । अच्चतापच्चक्खं च नात्थ लाए खपुप्फ व ॥१५४९॥ आयुष्मन् इन्द्रभूने ! तवैष संदेहः-किमयमात्माऽस्ति, नास्ति वा, उभयहेतुसद्भावात् । तत्र नास्तित्वहेतवोऽमी-नास्त्यात्मा, प्रत्यक्षेणात्यन्तमगृह्यमाणत्वात् , इह यदत्यन्ताप्रत्यक्षं तल्लोके नास्त्येव, यथा खपुष्पम् , यच्चास्ति तत्प्रत्यक्षेण गृह्यत एव, यथा घट इत्यसौ व्यतिरेकदृष्टान्तः । अणवोऽपि ह्यप्रत्यक्षाः, किन्तु घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि भावप्रत्यक्षमुपगच्छति, अतोऽत्रात्यन्तविशेषणमिति ।। १५४९ ॥ एवं च मन्यसे त्वं, किम् ? इत्याह_ न य सोऽणुमाणगम्मो जम्हा पच्चक्खपुव्वयं तं पि । पुवोवलडसंबंधसरणओ लिंग-लिंगाणं ॥ १५५० ॥ न चासावात्माऽनुमानगम्यः, यस्मात् तदप्यनुमानं प्रत्यक्षपूर्वकं प्रवर्तते । कुतः ? इत्याह- 'पुब्बोवलद्धेत्यादि' लिङ्गयते गम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम् । अथवा लीनं तिरोहितमर्थ गमयतीति लिङ्गं धूम-कृतकत्वादिकम् , तदस्यास्तीति लिङ्गी बढ्य-ऽनित्यत्वादिः, तयोलिङ्ग-लिङ्गिनोर्यः पूर्व महानसादौ प्रत्यक्षादिनोपलब्धः कार्यकारणभावादिकः संवन्धस्तस्य यत् स्मरणं तस्मादिनि । इदमुक्तं भवति- पूर्व महानसादावग्नि-धूमयोलिङ्गि-लिङ्गयोरन्वयव्यतिरेकवन्तमविनाभावमध्यक्षतो गृहीत्वा तत उत्तरकालं कचित् कान्तार-पर्वतनितम्बादौ गगनावलम्बिनीं धूमलेखामवलोक्य प्राग् गृहीतं संबन्धमनुस्मरति, तद्यथा- यत्र यत्र धृमस्तत्र तत्र प्रागई वह्निमद्राक्षम् , यथा महानसादौ, धुमश्चात्र दृश्यते, तस्माद् वहिनापीह भवितव्यम् , इत्येवं लिङ्गग्रहण-संबन्धस्मरणाभ्यां तत्र प्रमाता हुतभुजमवगच्छति । न चैवमात्मना लिङ्गिना सार्धं कस्यापि लिङ्गस्य प्रत्यक्षेण संबन्धः सिद्धोऽस्ति, यतस्तत्संबन्धमनुस्मरतः पुनस्तल्लिङ्गदर्शनाजीचे संप्रत्ययः स्यात् । यदि पुनर्जीव-लिङ्गयोः प्रत्यक्षतः संवन्धसिद्धिः स्यात् तदा जीवस्यापि प्रत्यक्षत्वापत्त्याऽनुमानवैययं स्यात् , तत एव तत्सिद्धेरिति ॥ १५५० ॥ एतदेवाह १ आवश्यकनियुकी पृ० २२ । २ जीवे तव संदेहः प्रत्यक्षं यद् न गृह्यते घर इव । अत्यन्ताप्रत्यक्षं च नास्ति लोके खपुष्पमिव ।। १५४९॥ ३ प. ज. 'पि प्रत्यक्षभावमु'। न च सोऽनुमानगम्यो यस्मात् प्रत्यक्षपूर्वकं तदपि । पूर्वोपलब्धसंवश्वमरणतो लिङ्ग-लिनिनोः ॥ १५५० ।। ॥६६४॥ Jan Education Internal For Personal and Private Use Only ww.janelbrary.org Page #67 -------------------------------------------------------------------------- ________________ विशेषा० ॥६६५॥ Jan Education Internation नेय जीवलिंग संबंध दरिसणमभू जओ पुणो सरओ । तल्लिंगदरिसणाओ जीवे संपच्चओ होज्जा ॥ १५५१॥ गतार्था । न च वक्तव्यं सामान्यतोदृष्टादनुमानादादित्यादिगतिवज्जीवः सिध्यति, यथा- गतिमानादित्यः, देशान्तरप्राप्तेः, देवदत्तवदिति, यतो हन्त ! देवदत्ते दृष्टान्तधर्मिणि सामान्येन देशान्तरप्राप्तिं गतिपूर्विका प्रत्यक्षेणैव निश्चित्य, सूर्येऽपि तां तथैव प्रमाता साधयतीति युक्तम् । न चैवमत्र कचिदपि दृष्टान्ते जीवसत्वेनाविनाभूतः कोऽपि हेतुरध्यक्षेणोपलक्ष्यत इति । अतो न सामान्यतोदृष्टादप्यनुमानात् तद्गतिरिति ।। १५५१ ।। न चागमगम्योsपि जीव इति दर्शयति- नागमम्मो वि तओ भिज्जइ जं नागमोऽणुमाणाओ । न य कासइ पच्चक्खो जीवो जस्सागमो वयणं ॥ १५५२॥ न चागमगम्योsपि तकोऽसौ जीवः, यद् यस्मादागमोऽपि नानुमानाद् भिद्यते, परमार्थतस्तस्याप्यनुमानत्वात् ; तथाहिशाब्दं प्रमाणमागम उच्यते, शब्दश्च द्विविधः- दृष्टार्थविषयः, अदृष्टार्थविषयश्च । तत्र दृष्टार्थविषया शब्दाद् या प्रतीतिः सा वस्तुतोsनुमानसमुत्थैव, यतः कचित् प्रथमं पृथुवुभोदरो धर्ध्वकुण्ड-लोष्ठायत वृत्तग्रीवादिमति घटपदार्थे घटशब्दं प्रयुज्यमानं दृष्ट्वा तदुत्तरकालं कापि 'घटमानय' इत्यादिशब्दं श्रुत्वा पृथुवुभोदरादिमदर्थ एव घट उच्यते, तथाभूतपदार्थ एव घटशब्दप्रयोगप्रवृत्तेः, यथा पूर्व कुम्भकारापणादौ, घटशब्दश्वायमिदानीमपि श्रूयते, तस्मात् तथाभूतस्यैव पृथुवनोदरादिमतः पदार्थस्य मयाऽऽनयनादिक्रिया कर्तव्या' इत्यनुमानं विधाय प्रमाता घटानयनादिक्रियां करोति, इत्येवं दृष्टार्थविषयं शाब्दं प्रमाणं वस्तुतो नानुमानाद् भिद्यते । न चैवमसावात्मशब्दः शरीराहतेऽन्यत्र प्रयुज्यमानः कचिदुपलब्धः, यत्र खल्वात्मशब्दश्रवणात् 'आत्मा' इति प्रत्ययो भवेदिति । यदपि स्वर्ग-नरकायदृष्टार्थविषयं शाब्दं प्रमाणम्, तदपि तत्वतोऽनुमानं नातिवर्तते, तथाहि - 'प्रमाणं स्वर्ग-नरकाद्यदृष्टार्थविषयं वचनम्, अविसंवादिवचनासप्रणीतत्वात् चन्द्रा-कपरागादिवचनवत्' इत्येवमनुमानादेव तत्र प्रमाणता । न चैवंभूतमाप्तं कमपि पश्यामः यस्यात्मा प्रत्यक्ष इति तद्वचनमागम इति 'प्रतिपद्येमहि' इति शेषः ।। १५५२ ॥ किञ्च, ८४ १ न च जीवलिङ्गसंबन्धदर्शनमभूद् यतः पुनः स्मरतः । तलिङ्गदर्शनाजीचे संप्रत्ययो भवेत् ।। १५५१ ।। २ नागमगम्योऽपि सको भिद्यते यद् नागमोऽनुमानात् । न च कस्यचित् प्रत्यक्षो जीवो यस्यागमो वचनम् ।। १५५२ ।। For Personal and Private Use Only बृहद्वृत्तिः । |६६५॥ www.janeibrary.org Page #68 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६६६॥ Jain Education internatio जं चार्गमा विरुद्धा परोप्परमओ वि संसओ जुत्तो । सव्वप्पमाणविसयाईओ जीवो त्ति तो बुद्धी ॥१५५३ || यतश्च तीर्थिकानां संबन्धिनः सर्वेऽप्यागमाः परस्परविरोधिनः खलु, अतोऽपि संशय एवात्मनो युक्तः, न तु निश्चयः, तथाहि - बृहद्वृत्तिः । केचिदागमा आत्मनो नास्तित्वमेव प्रतिपादयन्ति यदाहुर्नास्तिकाः “एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः || १ ||" इत्यादि । भोsयाह - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न च प्रेत्यसंज्ञास्ति" । सुगतस्त्वाह" न रूपं भिक्षवः ! पुद्गलः" इत्यादि । आत्मास्तित्ववचनान्यप्यागमेषु श्रूयन्ते तथाच वेद:- "न हि वै सशरीरस्य प्रिया-प्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः" इति तथा, "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि । कापिलागमे तु प्रतिपाद्यते - " अस्ति पुरुपोकर्ता निर्गुणो भोक्ता चिद्रूपः" इत्यादि । तस्मादागमानां परस्परविरुद्धत्वाद् नागमप्रमाणादध्यात्मसत्त्वासिद्धिः । इदं च वैशेषिकमतेन प्रत्यक्षानुमाना- Sगमलक्षणं प्रमाणत्रयमुपन्यस्तम् । एतच्च स्वयं द्रष्टव्यम् - उपमाप्रमाणगम्योऽपि जीवो न भवति । तत्र हि 'यथा गौस्तथा गवयः' इत्यादावेव सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । न चेहान्यः कश्चित् त्रिभुवनेऽप्यात्मसदृशः पदार्थोऽस्ति यद्दर्शनादात्मानमवगच्छामः । काला-ssकाश-दिगादयो जीवतुल्या विद्यन्त इति चेत् । न तेषामपि विवादास्पदीभूतत्वेन तदहिवद्धत्वात् । अर्थापत्तिसाध्योऽपि जीवो न भवति । न हि दृष्टः श्रुतो वा कोऽप्यर्थ आत्मानमन्तरेण नोपपद्यते, यद्धलात् तं साधयामः । तस्मात् सर्वप्रमाणविषयातीतो जीव इति तव बुद्धिः, भावोपलम्भकप्रमाणपञ्चकविषयातीतत्वात्, प्रतिषेधसाधकाभावाख्यपष्ठप्रमाणविषय एव जीव इत्यर्थः । इति पूर्वपक्ष: ।। १५५३ ।। अथैतत्प्रतिविधानमाह- गोयम ! पक्खु चिय जीवो जं संसयाइविन्नाणं । पच्चक्खं च न सज्झं जह सुह दुक्खा सदेहम्मि || १५५४ || गौतम ! भवतोऽपि प्रत्यक्ष एवायं जीवः, किमन्येन प्रमाणान्तरोपन्यासेन ? । कोऽयं जीवो मम प्रत्यक्षः ? इति चेत् । उच्यतेयदेतत् तवैव संशयादिविज्ञानं स्वसंवेदनसिद्धं हृदि स्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्षं १ यचागमा विरुद्वाः परस्परमतोऽपि संशयो युक्तः । सर्वप्रमाणविषयातीतो जीवोऽस्ति ततो बुद्धिः ।। १५५३ ।। २ . ज. 'दख्य' । ३ गौतम ! प्रत्यक्ष एव जीवो यत् संशयादिविज्ञानम् । प्रत्यक्षं च न साध्यं यथा सुख-दुःखे स्वदेहे ॥ १५५४ ॥ ४ध.ज. 'बक्खो थि' । For Personal and Private Use Only ॥६६६॥ www.jainveltrrying Page #69 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । , अत्र स्वात्मग्राहक, निरालम्बनाः सर्वे प्रत्ययाः, सुख दुःखादयः। प्रत्यक्षसिद्धपपि या ॥६६७॥ करमाटाकाहाकासासव तद् न प्रमाणान्तरेण साध्यम् , तथा स्वशरीर एवात्मसंवेदनसिद्धाः सुख-दुःखादयः। प्रत्यक्षसिद्धमपि सग्राम-नगरं विश्वं शून्यवादिनं प्रति साध्यत एवेति चेत् । नैवम् , 'निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वमप्रत्ययवत् , इत्यादेस्तदुद्भावितबाधकप्रमाणस्यैव तत्र निराकरणात् , अत्र वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाभावादिति ।। १५५४ ॥ इतश्चायं प्रत्यक्षो जीवः । कुतः ? इत्याह__ कय करेमि काहं वाहमहं पच्चया इमाउ य । अप्पा स पञ्चक्खो तिकालकज्जोवएसाओ॥ १५५५ ॥ वेत्यथवा, 'कृतवानहम् , करोम्यहम् , करिष्याम्यहम् '; 'उक्तवानहम् , ब्रवीम्यहम् , वक्ष्याम्यहम्', 'ज्ञातवानहम् , जानेऽहम् , ज्ञास्याम्यहम्' इत्यादिप्रकारेण योऽयं त्रैकालिकः कार्यव्यपदेशः, तद्विषयप्रयुज्यमानतया तत्समुत्थो योऽयमहंप्रत्ययः, एतस्मादपि 'प्रत्यक्ष एवाऽयमात्मा' इति प्रपद्यस्व । अयं ह्यहंप्रत्ययो नानुमानिकः, अलैङ्गिकत्वात् । नाप्यागमादिप्रमाणसंभवः, तदनभिज्ञानानां बाल-गोपालादीनामप्यन्तर्मुखतयाऽऽत्मग्राहकत्वेन स्वसंविदितस्य तस्योत्पादात् , घटादौ चानुत्पादादिति ।। १५५५ ॥ अपि च, कैह पडिवण्णमहं ति य किमत्थि नत्थि त्ति संसओ कह णु ? । सइ संसयम्मि वायं कस्साहपञ्चओ जुत्तो ? ॥१५५६॥ हन्त ! कथमसति जीवे 'अहम्' इति प्रतिपन्नं त्वया, विषयाभावे विषयिणोऽनुत्थानप्रसङ्गात् ? । देह एवास्य प्रत्ययस्य विषय इति चेत् । न, जीवविषमुक्तेऽपि देहे तदुत्पत्तिप्रसङ्गात् । सति च जीवविषयेऽस्मिन्नहंपत्यये 'किमहमस्मि नास्मि' इति भवतः संशयः कथं केन प्रकारेणोपजायते ? अहंपत्ययग्राह्यस्य जीवस्य सद्भावात् 'अस्म्यहम्' इति निश्चय एव युज्यत इति भावः। सन्ति वास्मिनात्मास्तित्वसंशये कस्यायमहंप्रत्ययो युज्यते, निर्मूलत्वेन तदनुत्थानप्रसङ्गात् ? इति ॥ १५५६ ॥ जीवाभावे संशयविज्ञानमपि न युज्यत एवेति दर्शयन्नाहजइ नत्थि संसइ च्चिय किमत्थि नत्थि त्ति संसओ कस्स ? । संसइए व सरूवे गोयम ! किमसंसयं होज्जा ? ॥१५५७॥ - कृतवान् करोमि करिष्यामि वाहमहंप्रत्ययादस्माच्च । आत्मा स प्रत्यक्षस्बैकालिककार्योपदेशात् ॥ १५५५ ॥ २ कथं प्रतिपनामहमिति च किमस्मि नास्मीति संशयः कथं नु । सति संशये चायं कस्याहंप्रत्ययो युक्तः। ॥१५५६॥ ३ क. ग. 'मस्ति नास्ति'। ४ यदि नास्ति संपायी एवं किमस्मि नास्मीति संशयः कस्यो । संशयिते वा स्वरूपे गीतम! किमसंशयं भवेत् ॥ १५५७ ॥ डामारस्वररर ॥६६७॥ door Jan Education Internatio For Personal and Private Use Only www.janeitrary.org Page #70 -------------------------------------------------------------------------- ________________ यदि संशयी जीव एवादौ नास्ति, तर्हि 'अस्मि नास्मि' इति संशयः कस्य भवतु । संशयो हि विज्ञानाख्यो गुण एव, विशेषानच गुणिनमन्तरेण गुणः संभवति । देहोत्र गुणीति चेत् । न, देहस्य मूर्तत्वाजडत्वाच, ज्ञानस्य चामूर्तत्वाद् बोधरूपत्वाच । वहात्तिः। न चाननुरूपाणां गुणगुणिभावो युज्यते, आकाश-रूपादीनामपि तद्भावापच्याऽतिप्रसङ्गप्राप्तेः । 'संसइए वेत्यादि' वेत्यथवा, संशयिते । ॥६६८॥ स्वरूपे गौतम ! किमसंशयं शेषं भवेत् ? । इदमुक्तं भवति- 'किमस्मि नास्म्यहम्' इत्येवं यः स्वरूपेऽपि संशेते-आत्मनिश्चयोऽपि यस्य नास्तीत्यर्थः, तस्य शेषं कर्मबन्ध-मोक्षादिकं घट-पटादिकं च किमसंशयमसंदिग्धं स्यात् ? न किञ्चित् , सर्वसंशय एव तस्य स्यादि| त्यर्थः, आत्मास्तित्वनिश्चयमूलो हि शेषवस्तुनिश्चय इति भावः । अहंप्रत्ययग्राह्यं च प्रत्यक्षमात्मानं नि वानस्य 'अश्रावणः शब्दः' इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासः, तथा, वक्ष्यमाणात्मास्तित्वानुमानसद्भावाद् 'नित्यः शब्दः' इत्यादिवदनुमानविरुद्धोऽपि । तथा, 'अहमस्मि संशयी' इति प्रागभ्युपगम्योत्तरत्र 'नास्मि' इति प्रतिजानानस्य, सांख्यस्याऽनित्यः कर्ता, अचेतन आत्मेत्यादिवदभ्यु-| पगमविरोधः । बाल-गोपालाङ्गनादिप्रसिद्धं चात्मानं निराकुर्वतः 'अचन्द्रः शशी' इत्यादिवल्लोकविरोधः । 'अहं नाई वा' इति गदतो 'माता मे बन्ध्या' इत्यादिवत् स्ववचनव्याहतिः । एवं च प्रत्यक्षादिबाधितेऽस्मिन् पक्षेऽपक्षधर्मतया हेतुरप्यसिद्धः । हिमवत्पलपरिमाणादौ पिशाचादौ च प्रमाणपञ्चकाभावस्य प्रवृत्तेरनैकान्तिकोऽपि, वक्ष्यमाणानुमानप्रमाणसिद्धे चात्मनि विपक्ष एव वृत्तेविरुद्धश्चेति।।१५५७॥ प्रकारान्तरेणाप्यात्मनः प्रत्यक्षसिद्धतामाह गुणपच्चक्खत्तणओ गुणी वि जीवो घडोव्व पच्चक्खो । घडओ विघेप्पइ गुणी गुणमेत्तग्गहणओ जम्हा॥१५५८॥ प्रत्यक्ष एवं गुणी जीवः, स्मृति-जिज्ञासा-चिकीर्षा-जिगमिषा-संशीत्यादिज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षसिद्धत्वात् , इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टः, यथा घटः, प्रत्यक्षगुणश्च जीवः, तस्मात् प्रत्यक्षः, यथा घटोऽपि गुणी रूपादि गुणप्रत्यक्षत्वादेव प्रत्यक्षः, तद्वद् विज्ञानादिगुणप्रत्यक्षत्वादात्मापीति । आह- अनैकान्तिकोऽयम् , यस्मादाकाशगुणः शब्दः प्रत्यक्षोऽस्ति, BRUन पुनराकाशमिति । तदयुक्तम् , यतो नाकाशगुणः शब्दः, किन्तु पुद्गलगुणः, ऐन्द्रियकत्वात् , रूपादिवदिति ॥ १५५८ ।। गुणानां प्रत्यक्षत्वे गुणिनस्तद्रूपतायां किमायातम् ? इति चेत् । उच्यतेअन्नोऽणन्नो व गुणी होज गुणेहिं, जइ नाम सोऽणन्नो । ननुगुणमेत्तग्गहणे घेप्पइ जीवो गुणी सक्खं ॥१५५९॥ ६६८॥ १.ग. 'अस्ति नास्ति'। २ गुणप्रत्यक्षत्वतो गुण्यपि जीवो घट इव प्रत्यक्षः । घटकोऽपि गृह्यते गुणी गुणमात्रग्रहणतो यस्मात् ॥ १५५८ ॥ ३ अन्योऽनन्यो वा गुणी भवेद् गुणैः, यदि नाम सोऽनन्यः । ननु गुणमात्रग्रहणे गृह्यते जीवो गुणी साक्षात् ॥ १५५९ ।। For Personal and Private Use Only Page #71 -------------------------------------------------------------------------- ________________ विशेषा CERITA HICO अह अन्नो तो एवं गुणिनो न घडादओ वि पञ्चक्खा । गुणमेत्तग्गहणाओ जीवम्मि कउवियारोऽयं ? ॥१५६०॥ ननु भवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यते, अनर्थान्तरभूतो वा । यदि नाम सोऽनन्यस्तेभ्योऽनर्थान्तरभूतः, तर्हि ज्ञानादिगुणग्रहणमात्रादेव गुणी जीवः प्रत्यक्षेण गृहयत इति सिद्धमेव । प्रयोगः- यो यस्मादनन्तरं स तद्ग्रहणे गृह्यत एव, यथा वाससि रागः, गुणेभ्योऽनर्थान्तरं च गुणी, तस्माद् गुणग्राहकप्रत्यक्षेण सोऽपि गृह्यत एवेति । अथ गुणेभ्योऽन्योऽर्थान्तरभूत एवं गुणी । तत एवं सति घटादयोऽपि गुणिनो न प्रत्यक्षाः, तदर्थान्तरभूतस्य रूपादिगुणमात्रस्यैव ग्रहणात् । इह यद् यस्मादर्थान्तरभूतं तद्ग्रहणेऽपि नेतरस्य ग्रहणम् , यथा घटे गृहीते पटस्य, अर्थान्तरभूताश्च गुणिनो गुणा इष्यन्ते, अतो गुणग्रहणेऽपि न गुणिग्रहणम् । अतो घटादीनामपि समानेऽग्रहणदोषे कोऽयं नाम भवतः केवलजीचे विचारो नास्तित्वविवक्षा, येनोच्यते- 'पंचक्खं जं ने धिप्पड़ घडोब इत्यादि । अथ द्रव्यविरहिताः केऽपि न सन्त्येव गुणाः, इत्यतस्तद्ग्रहणद्वारण गृह्यन्त एव घटादयः । नन्वेतदात्मन्यपि समानमेव । किञ्च, गुणिनो गुणानामर्थान्तरत्वेऽभ्युपगम्यमाने गुणी भवतु, मा भूद् वा प्रत्यक्षः, तथापि ज्ञानादिगुणेभ्यः पृथगात्मा गुणी त्वदभ्युपगमेनापि सिध्यत्येवेति ॥ १५५९ ॥ १५६० ॥ अत्र पराभिप्रायमाशङ्कमानः प्राह अह मन्नसि अत्थि गुणी न य देहत्थंतरं तओ किंतु । देहे नाणाइगुणा सो च्चिय तेसिं गुणी जुत्तो ॥१५६१॥ अथ मन्यसे- अस्त्येव ज्ञानादिगुणानां गुणी, नैव तं प्रत्याचक्ष्महे, एतत्तु नाभ्युपच्छामो यत्- 'देहादर्थान्तरं तकोऽसौ' इति, किन्तु देह एव ज्ञानादयो गुणाः समुपलभ्यन्ते, अतः स एव तेषां गुणी युक्तः, यथा रूपादीनां घटः, प्रयोगः-देहगुणा एव ज्ञानादयः, तत्रैवोपलभ्यमानत्वात् , गौर-कृश-स्थूलतादिवदिति ॥ १५६१ ।। अत्रोत्तरमाह नौणादओ न देहस्स मुत्तिमत्ताइओ घडस्सेव । तम्हा नाणाइगुणा जस्स स देहाहिओ जीवो ॥१५६२॥ १ भथान्यस्तत एवं गुणिनो न घटादयोऽपि प्रत्यक्षाः । गुणमात्रग्रहणाजीवे कुतो विचारोऽयम् ॥१५६०॥ २ गाथा १५४९ । ३ क.ग.घ.ज.'न दीसइ घ' । . अथ मन्यसेऽस्ति गुणी न च देहाान्तरं सकः । किन्तु देहे ज्ञानादिगुणाः स एव तेषां गुणी युक्तः ॥ १५६१ ॥ ५ ज्ञानादयो न देहस्व मूर्तिमवादितो घटस्येव । तस्माज्ज्ञानादिगुणा यस्य स देहाधिको जीवः ॥ १५६२ ॥ HAMARETTERSबनाना बनाया ॥६६९॥ For e en Page #72 -------------------------------------------------------------------------- ________________ विशेषा बदत्ति ॥६७०|| हसास प्रयोगः- देहस्य संबन्धिनो ज्ञानादयो गुणा न भवन्त्येव, तस्य मूर्तिमत्त्वात् , चाक्षुषत्वाद् वा, घटवत् । न च द्रव्यरहितो गुणः समस्ति । ततो यो ज्ञानादिगुणानामनुरूपोऽमृतः, अचाक्षुषश्च गुणी, स देहातिरिक्तो जीवो ज्ञातव्यः । आह - ज्ञानादयो न देहस्येति प्रत्यक्षबाधितमिदम् , देह एव ज्ञानादिगुणानां प्रत्यक्षेणैव ग्रहणात् । तदयुक्तम् , अनुमानवाधितत्वादस्य प्रत्यक्षस्य, तथाहिइहेन्द्रियातिरिक्तो विज्ञाता, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् , यो हि यदुपरमेऽपि यदुपलब्धमर्थमनुस्मरति, स तस्मादर्थान्तरं दृष्टः, यथा- पञ्चवातायनोपलब्धार्थानुस्मता देवदत्त इत्यादि वायुभूतिप्रश्ने वक्ष्याम इति ।। १५६२ ।। उपसंजिहीर्षराहइय तुह देसेणायं पच्चक्खो सव्वहा महं जीवो । अविहयनाणतणओ तुह विण्णाणं व पडिवज्जा ॥१५६३॥ इत्येवमुक्तप्रकारेण स्वशरीरे तवापि देशतः प्रत्यक्षोऽयमात्मा, छद्मस्थत्वेन भवतः सर्वस्यापि वस्तुनो देशविषयत्वात् , घटवत् , तथाहि- सर्वमपि स्व-परपर्यायतोऽनन्तपर्यायं वस्तु, छद्मस्थश्च प्रत्यक्षेण साक्षात् तद्देशमेव गृह्णाति । प्रत्यक्षेण च प्रदीपादिप्रकाशेनेव देशतः प्रकाशिता अपि घटादयो व्यवहारतः प्रत्यक्षा उच्यन्त एव । सर्वात्मना च केवलिप्रत्यक्षमेव वस्तु प्रकाशयति । अतो ममापतिहतानन्तज्ञानत्वेन सर्वात्मनापि प्रत्यक्षोऽयं जीवः, यथाऽतीन्द्रियमपि त्वत्संशयविज्ञानमिति पतिपद्यस्वेति ॥१५६३ ।। परशरीरे तर्हि कथम् ? इत्याह ऐवं चिय परदेहेऽणुमाणओ गिण्ह जीवमत्थि ति। अणुवित्ति-निवित्तीओ विन्नाणमयं सरूवे व्व ॥१५६४॥ यथा स्वदेहे, एवं परदेहेऽपि गृहाण जीवमनुमानतः । कथम् ? इत्याह- अस्ति विद्यत इति । कथंभूतं जीवम् ? इत्याहविज्ञानमयं विज्ञानात्मकम् । अनुमानमेव सूचयन्नाह- 'अणुवित्ति-निवित्तीओ सरूवे व त्ति' इदमुक्तं भवति- परशरीरेऽप्यस्ति जीवः, इष्टा-निष्टयोः प्रवृत्ति-निवृत्तिदर्शनात् , यथा स्वरूपे स्वात्मनि, इह यत्रेष्टा-निष्टयोः प्रवृत्ति-निवृत्ती दृश्येते, तत्सात्मक दृष्टम् , यथा स्वशरीरम् , तथा च प्रवृत्ति-निवृत्ती दृश्येते परशरीरे, अतस्तदपि सात्मकम् ; आत्माभावे चेष्टा-निष्टप्रवृत्ति-निवृत्ती न भवतः, यथा घटे, इत्यनुमानात् परशरीरेऽपि जीवसिद्धिः॥ १५६४ ॥ इति तव देशेनार्य प्रत्यक्षः सर्वथा मम जीवः । अविहतज्ञानत्वतस्तव विज्ञानमिव प्रतिपद्यस्य ।। १५६३ ॥ २ एवमेव परदेहेऽनुमानतो गृहाण जीवमस्तीति । अनुवृत्ति-निवृत्तिभ्या विज्ञानमयं स्वरूप इव ॥ १५६४ ॥ ||६७०॥ कासAPE Jan Education Internati For Personal and Private Use Only www.janeltrary.org Page #73 -------------------------------------------------------------------------- ________________ हत्तिः । अत्र परमतमाशङ्कयोत्तरमाहविशेषा जं च न लिंगेहिं समं मन्नसि लिंगी जओ पुरा गहिओ। संगं ससेण व समं न लिंगओ तोऽणुमेओ सो॥१५६५॥ ॥६७१।। सोऽणेगंतो जम्हा लिंगेहिं समं न दिट्ठपुव्वो वि । गहलिंगदरिसणाओ गहोऽणुमेओ सरीरम्म ॥१५६६॥ यच्च 'न य जीवलिंगसंबंधदरिसणमभू' इत्यादिपूर्वोक्तपूर्वपक्षानुसारण मन्यसे त्वम् । किम् ? इत्याह- ततो न लिङ्गतो लिङ्गादनुमेयोऽसौ जीवः । यतः, किम् ? इत्याह- यतो न खलु लिङ्गः कश्चिदपि समं लिङ्गी जीवः कापि केनापि पुरा पूर्व गृहीतः । | किंवदित्याह-शृङ्गमिव शशकेन समम् । ततो लिङ्ग-लिङ्गिनोः पूर्व संबन्धाग्रहणाद् न लिङ्गाजीचोऽनुमीयते । इति यद् मन्यसे त्वं तत्र प्रतिविधीयते- सोऽनेकान्तः, यस्माल्लिङ्गः सममदृष्टपूर्वोऽपि ग्रहो देवयोनिविशेषः, शरीरे हसन-गान-रोदन-कर-चरण-भूविक्षेपादिविकृतग्रहलिङ्गदर्शनादनुमीयत इति बालानामपि प्रतीतमेवेति ॥ १५६५ ॥ १५६६ ॥ अनुमानान्तरमप्यात्मसाधकमाह-- देहस्स स्थि विहाया पइनिययागारओ घडस्सेव । अक्खाणं च करणओ दंडाईणं कुलालो ब्व ॥१५६७॥ देहस्यास्ति विधाता कर्तेति प्रतिज्ञा, आदिमत्प्रतिनियताकारत्वात् , घटवत् , यत् पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽभ्रविकारः, यश्च देहस्य कर्ता स जीवः । प्रतिनियताकारत्वं मेर्वादीनामप्यस्ति, न च तेषां कश्चिद विधाता, इति । तैरनैकान्तिको हेतुः स्यात् , अतोऽनुक्तमप्यादिमत्त्वविशेषणं द्रष्टव्यमिति । तथा, अक्षाणामिन्द्रियाणामस्ति 'अधिष्ठाता' त्यध्याहारः, करणत्वात् , यथा चक्र-चीवर-मृत्-सूत्र-दण्डादीनां कुलालः, यच्च निरधिष्ठातृकं तत् करणमपि न भवति, यथाऽऽकाशम् , यश्चेन्द्रियाराणामधिष्ठाता स जीव इति ॥ १५६७॥ तथा, अथिदिय-विसयाणं आयाणादेयभावओऽवस्सं । कम्मार इवादाया लोए संडास-लोहाणं ॥ १५६८ ॥ १ यच्च न लिङ्गः समं मन्यसे लिङ्गी यतः पुरा गृहीतः । शृङ्गं शशेन वा समं न लिङ्गतस्ततोऽनुमेयः सः ॥ १५६५ ॥ २ क. ग. स. पुरा जओ ग' । सोऽनेकान्तो यस्मालिः समं न दृष्टपूर्वोऽपि । प्रहलिङ्गदर्शनाद् अहोऽनुमेयः शरीरे ॥ १५६६॥ ३ गाथा १५५१ । ४ देहस्यास्ति विधाता प्रतिनियताकारतो घटस्येव । अक्षाणां च करणतो दण्डादानां कुलाल इव ॥ १५६७ ॥ ५ अस्तीन्जिय-विषयाणामादानादेयभावतोऽवश्यम् । कार इवादाता लोके संदंशक-लोहानाम् ॥ १५६८ ॥ ॥६७१॥ S Educantem For Personal and Private Use Only towww.jaineltrary.org Page #74 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६७२॥ Jain Education internati इह यत्रादानादेयभावस्तत्रावश्यमादाता समस्ति, यथा लोके संदंशक- लोहानां कर्मारोऽयस्कारः, विद्यते चेन्द्रिय-विषयाणामादानादेयभावः, अतस्तेषामप्यस्त्यादाता, स च जीवः, यत्र त्वादाता नास्ति, तत्रादानादेयभावोऽपि न विद्यते, यथाऽऽकाश इति ।। १५६८ ।। तथा, भोत्ता देहाईणं भोजत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अस्थि य अत्थी घरस्सेव ॥ १५६९ ॥ ह देहादीनां भोक्ता समस्ति भोग्यत्वात्, यथा शाल्यादिभक्त वस्त्रादीनां नरः यस्य च भोक्ता नास्ति तद् भोग्यमपि न भवति, यथा खरविषाणम्, भोग्यं च शरीरादिकम्, ततो विद्यमानभोक्तृकमिति । तथा, अर्थी स्वामी । ततश्च देहादीनां विद्यते स्वामी, संघातरूपत्वात्, आदिशब्दाद् मूर्तिमत्वात् ऐन्द्रियकत्वात् चाक्षुषत्वादित्यादयोऽप्यनैकान्तिकत्वपरिहारार्थं संभवद्विहितविशेषणा तवो योजनीयाः, यथा गृहादीनां सूत्रधारादय इति दृष्टान्तः यत्पुनरस्वामिकं तत् संघातादिरूपमपि न भवति, यथा गगनकुसुमम्, संघातादिरूपं च देहादिकम् तस्माद् विद्यमानस्वामिकमिति ।। १५६९ ।। आह- ननु देहस्स त्थि विहाया' इत्यादिना शरीरादीनां कर्तादय एव सिध्यन्ति' न तु प्रस्तुतो जीवः, इत्याशङ्कयोत्तरमाक्षेपपरिहारौ चाह- जो कत्ताइ स जीवो सज्झविरुद्धो ति ते मई होज्जा । मुत्ताइपसंगाओ तं न संसारिणो दोसो ॥१५७०॥ यामनन्तरं देहेन्द्रियादीनां कर्ता, अधिष्ठाता, आदाता, भोक्ता, अर्थी चोक्तः स सर्वोऽपि जीव एव, अन्यस्येश्वरादेर्युक्त्यक्षमत्वेन कर्तृत्वाद्य संभवादिति । अथ साध्यविरुद्धसाधकत्वाद् विरुद्धा एते हेतव इति तब मतिर्भवेत्, तथाहि घटादीनां कर्त्रादिरूपाः कुलालादयो मूर्तिमन्तः, संघातरूपाः, अनित्यादिस्वभावाच दृष्टाः इत्यतो जीवोऽप्येवंविध एव सिध्यति, एतद्विपतिश्च किलास्माकं साधयितुमिष्टः, इत्येवं साध्यविरुद्धसाधकत्वं हेतूनामिति । तदेतदयुक्तत्वाद् न, यतः खलु संसारिणो जीवस्य साधयितुष्टिस्याsदोषोऽयम् । स ह्यष्टकर्मपुद्गलसंघातोपगूढत्वात् सशरीरत्वाच्च कथंचिन्मूर्तत्वादिधर्मयुक्त एवेति भावः ।। १५७० ।। १ भोक्ता देहादीनां भोग्यत्वतो नर इव भक्तस्य । संघातादित्वतोऽस्ति चार्थी गृहस्येव ।। १५६९ ।। २.ग.ज. 'दे' ३ गाथा १५६७ । ४ यः कर्मादि स जीवः साध्यविरुद्ध इति तब मतिर्भवेत् । मूतदिप्रसङ्गात् तद् न संसारिणी दोषः ।। १५७० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥६७२॥ Page #75 -------------------------------------------------------------------------- ________________ SHREE NETसार विशेषा. बृहदत्तिः । ॥६७३|| अपरमप्यात्मसाधकमनुमानमाहअस्थि च्चिय ते जीवो संसयओ सोम्म ! थाणुपुरिसो व्व । जं संदिई गोयम ! तं तत्थन्नत्थ वत्थि धुवं ॥१५७१॥ हे सौम्य ! गौतम ! अस्त्येव तव जीवः, संशयतः संशयसद्भावात् , यत्र यत्र संशयस्तत् तदस्ति, यथा स्थाणु पुरुषो, संशयश्च तव जीवे, तस्मादस्त्येवायम् , तथाहि- स्थाणु-पुरुषयोरूर्खत्वारोह-परिणाहाद्युभयसाधारणधर्मप्रत्यक्षतायां चलन-शिरकण्डूयन-वयोनिलयन-वल्ल्यारोहणाधुभयगतविशेषधर्माप्रत्यक्षतायां चोभयगतैतद्धर्मानुस्मरणे च सत्येकतरविशेषनिश्चयचिकीर्षोः 'किमिदम् ?' इति विमर्शरूपः संशयः प्रादुरस्ति । एवंभूते च स्थाणु-पुरुषादिगतसंशये तत् स्थाणु-पुरुषादिकं वस्त्वस्त्येव, अवस्तुनि संशयायोगात् । एवमात्मशरीरयोरपि प्रागुपलब्धसामान्य-विशेषधर्मस्य प्रमातुस्तयोः सामान्यधर्मप्रत्यक्षतायां विशेषधर्माप्रत्यक्षत्वेऽपि च तद्विषयानुस्मृतौ सत्यामेकतरविशेषोपलिप्सोः 'किमयमात्मा किं वा शरीरमात्रमिदम् ?' इति विमर्शरूपः संशयो जायते । अयं चात्म-शरीरयोः सत्त्व एवोपपद्यते, नैकतरस्याऽप्यभावे, अतोऽस्ति जीवः । अथैवं ब्रूषे- अरण्यादिषु स्थाणु-पुरुषसंशये तत्र विवक्षितप्रदेशेऽनयोरेकतर एव भवति, न पुनरुभयमपि, तत्कथमुच्यते- विद्यमान एव वस्तुनि संशयो भवति' इति । तदयुक्तम् , अभि| पायापरिज्ञानात्, न हि वयमेवं ब्रूमः- 'तत्रैव प्रदेशे तदुभयमप्यस्ति' इति, किन्तु यद्गतसंदेहस्तद् वस्तु तत्राऽन्यत्र वा प्रदेशे ध्रुवमस्त्येव, अन्यथा षष्ठभूतविषयोऽपि संशयः स्यात् । एतदेवाह- 'जं संदिद्धमित्यादि' तस्मात् संशयाविषयत्वादस्त्येव जीव इति स्थितम् ॥ १५७१॥ अथ पूर्वपक्षमाशङ्कय परिहरनाह ऐवं नाम विसाणं खरस्स पत्तं न त खरे चेव । अन्नत्थ तदत्थि च्चिय एवं विवरीयगाहे वि ॥ १५७२ ॥ हन्त ! यदि यत्र संशयस्तेनावश्यमेव भवितव्यम् , एवं ततः खरविषाणमप्यस्तीति प्राप्तम् , तत्रापि कस्यचित् संशयसद्भावात् । उच्यते- नन्वभिहितमत्र यदुत--तत्रान्यत्र वा विद्यमान एव वस्तुनि संशयो भवति, नाविद्यमाने । खरस्य विषाणं खरविषाणं नास्तीत्यत्र च कोयः? इत्याह- 'न तं खरे चेव त्ति'खर एव तद्विषाणं नास्ति, अन्यत्र गवादावस्त्येवेति न कश्चिद् व्यभिचारः । एवं , अस्त्येव तव जीवः संशयतः सौम्य ! स्थाणु पुरुषाविद । यत् संदिग्धं गौतम ! तत् तत्रान्यन्त्र वास्ति ध्रुवम् ॥ १५ ॥ २ एवं नाम विषाणं खरस्य प्राप्तं न तत् खर एव । अन्यत्र तदस्त्येव एवं विपरीतगृहेऽपि ॥ १५७२ ॥ ॥६७३॥ JainEducatioria.Intematio For Personal and Private Use Only www.jaineltrary.org Page #76 -------------------------------------------------------------------------- ________________ 'विवरीयगाहे वित्ति' इदमुक्तं भवति- यदा विपर्यस्तः कश्चित् स्थाणौ 'पुरुष एवायम्' इत्यादिविपरीतग्रहं करोति तदाप्ययमेव न्यायो विशेषा० वाच्यः- सोऽपि विपरीतग्रहो विपरीते पुरुषादिके वस्तुनि सत्येवोपपद्यते नाविद्यमान इत्यर्थः । एवं भवदभिप्रायेण योऽस्मादृशां शरीर PA आत्मास्तित्वाभिमानः, नायमात्मनः सर्वथा नास्तित्वे युज्यत इति ॥ १५७२ ॥ ॥६७४ इतोऽप्यस्ति जीवः । कुतः ? इत्याह अत्थिअजीवविवक्खो पडिसेहाओघडोऽघडस्सेव । नत्थि घडोत्ति व जीवत्थित्तपरो नत्थिसद्दोऽयं ॥१५७३॥ अत्र प्रयोगः- प्रतिपक्षवानयमजीवः, अत्र व्युत्पत्तिमच्छुद्धपदप्रतिषेधात् , यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् दृष्टः, यथाऽघटो घटप्रतिपक्षवान् , अत्र ह्यघटपयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिषेधः, अतोऽवश्यं घटलक्षणेन प्रतिपक्षण भवितव्यम् । यस्तु न प्रतिपक्षवान् न तत्र शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिषेधः, यथाऽखरविषाणम् , अडित्थ इति । अखरविषाणमित्यत्र खरविषाणलक्षणस्याशुद्धस्य सामासिकपदस्य प्रतिषेध इति, अतोऽत्र खरस्य विषाणं खरविषाणमित्यादिव्युत्पत्तिमचे सत्यपि खरविषाणलक्षणो विपक्षो नास्ति । अडित्थ इत्यत्र तु व्युत्पत्तिरहितस्य डिस्थपदस्य प्रतिषेधः, इति समासरहितत्वेन शुद्धत्वे सत्यपि नावश्यमवस्थितो डिस्थलक्षणः कोऽपि पदार्थो जीववद् विपक्षभूतोऽस्तीति । 'नत्थि घडो त्ति व' इत्यादि पश्चार्धम् । 'नास्त्यात्मा' इति च योऽयमात्मनिषेधध्वनिः स जीवास्तित्वनान्तरीयक एव, यथा 'नास्त्यत्र घटः' इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगः- यस्य निषेधः क्रियमाणो दृश्यते तत्कचिदस्त्येव, यथा घटादिकम् , निषिध्यते च भवता 'नास्ति जीवः' इति वचनाजीवः, तस्मादस्त्येवासौ, यच्च सर्वथा नास्ति तस्य निषेधो न दृश्यत एच, यथा खरविषाणकल्पानां पञ्चभूतातिरिक्तभूतानाम् , निषिध्यते च त्वया जीवः, तस्माद् निषेध एवायं तत्सत्त्वसाधक इति ॥ १५७३ ॥ | अनैकान्तिकोऽयं हेतुः, असतोऽपि खरविषाणादेनिषेधदर्शनात , इत्याशक्याह-- असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्ध । संजोगाइचउक्कं पि सिद्धमत्थंतरे निययं ॥ १५७४ ॥ असतोऽविद्यमानस्य नास्ति न संभवत्येव निषेध इति सिद्धम् । कुतः ? इत्याह-संयोगादिप्रतिषेधात् , आदिशब्दात् समवाय , अस्त्यजीवविपक्षः प्रतिषेधाद् घटोऽघटस्येव । नास्ति घट इतीव जीवास्तित्वपरो नास्तिशब्दोऽयम् ॥ १५७३ ॥ २ असतो नास्ति निषेधः संयोगादिप्रतिषेधतः सिद्धम् । संयोगादिचतुष्कमपि सिद्धमान्तरे नियतम् ॥ १५७४ ॥ ६७४॥ Educa tion For Pesonal and Private Use Only Page #77 -------------------------------------------------------------------------- ________________ विशेषा० ||६७५|| Jain Education Internation सामान्य- विशेषपरिग्रहः । एतदुक्तं भवति इह यत् किञ्चित् कचिद् देवदत्तादिकं निषिध्यते तस्याऽन्यत्र सत एव विवक्षितस्थाने कस्मिंश्चित् संयोग- समवाय-सामान्य विशेषलक्षणं चतुष्टयमेव निषिध्यते, न तु सर्वथैव देवदत्तादेरभावः प्रतिपाद्यते । तत्र 'नास्ति गृहे देवदत्तः' इत्यादिषु गृह-देवदत्तादीनां सतामेव संयोगमात्रं निषिध्यते, न तु तेषां सर्वथैवास्तित्वमपाक्रियते । तथा, 'नास्ति खरविषाम्' इत्यादिषु खर- विषाणादीनां सतामेव समवायमात्रं निराक्रियते । तथा, 'नास्त्यन्यश्चन्द्रमाः' इत्यादिषु विद्यमानस्यैव चन्द्रमसोऽन्यचन्द्रनिषेधाच्चन्द्रसामान्यमात्रं निषिध्यते, न तु सर्वथा चन्द्राभावः प्रतिपाद्यते । तथा, 'न सन्ति घटप्रमाणा मुक्ताः' इत्यादिषु घटप्रमातामात्ररूपो विशेषो मुक्तानां निषिध्यते, न तु मुक्ताऽभावः ख्याप्यत इति । एवं च सति 'नास्त्यात्मा' इत्यत्र विद्यमानस्यैवात्मनो यत्र वचन येन केनचित् सह संयोगमात्रमेव त्वया निषेद्धव्यम्, यथा 'नास्त्यात्मा वपुषि' इत्यादि, न तु सर्वथाऽऽत्मनः सत्वमिति । अत्राह कश्चित् ननु यदि यद् निषिध्यते तदस्ति, तर्हि मत्रिलोकेश्वरताऽप्यस्ति, युष्मदादिभिर्निषिध्यमानत्वात् तथा, चतुर्णां समवायादिप्रतिषेधानां पञ्चमोऽपि प्रतिषेधप्रकारोऽस्ति त्वयैव निषिध्यमानत्वात् । तदयुक्तम्, त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते, यथा घटप्रमाणत्वं मुक्तानाम्, न तु सर्वथैवेश्वरता, स्वशिष्यादीश्वरतायास्तत्रापि विद्यमानत्वात् । तथा, प्रतिषेधस्यापि पञ्चसंख्याविशिष्टत्वमपाक्रियते, न तु सर्वथा प्रतिषेधस्याभावः, चतुःसंख्याविशिष्टस्य तस्य सद्भावात् । ननु सर्वमप्यसंबद्धमिदम्, तथाहि - मत्रिलोकेश्वरत्वं तावदसदेव निषिध्यते, प्रतिषेधस्यापि पञ्चसंख्या विशिष्टत्वमविद्यमानमेव निवार्यते, तथा, संयोग- समवाय-सामान्य विशेषाणामपि गृहदेवदत्त-खरविषाणादिध्वसतामेव प्रतिषेधः इत्यतो ' यन्निषिध्यते तदस्त्येव' इत्येतत् कथं न प्लवते ? इत्याशङ्कयाह- 'संजोगाइचउकं पीत्यादि । इदमुक्तं भवति देवदत्तादीनां संयोगादयो गृहादिष्वेवासन्तो निषिध्यन्ते, अर्थान्तरे तु तेषां ते विद्यन्त एव; तथाहि - गृहेणैव सह देवदत्तस्य संयोगो न विद्यते, अर्थान्तरेण तु क्षेत्र- हट्ट ग्रामादिना सह तस्यासौ समस्त्येव, गृहस्यापि देवदत्तेन सह संयोगो नास्ति, खड्गादिना तु सह तस्यासौ विद्यत एव एवं विषाणस्यापि खर एव समवायो नास्ति, गवादावस्त्येवः सामान्यमपि द्वितीयचन्द्राभावाच्चन्द्र एव नास्ति, अर्थान्तरे तु घट- गवादावस्त्येवः घटप्रमाणत्वमपि मुक्तासु नास्ति, अर्थान्तरे तु कूष्माण्डादावस्त्येव । त्रिलोकेश्वरताऽपि भवत एव नास्ति, तीर्थकरादावस्त्येव, पञ्चसंख्याविशिष्टत्वमपि प्रतिधे नास्ति, अर्थान्तरे त्वनुत्तरविमानादावस्त्येवः इत्यनया विवक्षया ब्रूमः - 'यद् निषिध्यते तत् सामान्येनास्त्येव, न त्वेवं मतिजानीमहे - 'यद् यत्र निषिध्यते तत् तत्रैवास्ति' इति, येन व्यभिचारः स्यात् । वयमपि शरीरे जीवं निषेधयामः, नान्यत्रेति चेत् । साधूक्तम् अस्मत्समीहितस्य सिद्धत्वात्, जीवसिद्धयर्थमेव हि यतामहे For Personal and Private Use Only बृहद्वृत्तिः । ॥६७५।। Page #78 -------------------------------------------------------------------------- ________________ विशेषा ० ॥६७६ ।। Jan Education Internation बयम्, स चेत् सिद्धः, तर्हि तत्सिद्धयन्यथानुपपत्तेरेव तदाश्रयः सेत्स्यति, किं तया चिन्तया १ । न च शरीरमन्तरेण जीवस्याश्रयान्तरसुपपद्यते, तत्रैव तदवस्थानलिङ्गोपलब्धेः । न च वक्तव्यं शरीरमेव जीवः, 'जीवति' 'मृत:" 'मूच्छितः' इत्यादिव्यवस्थानुपपत्तेः, इत्यादेरभिधास्यमानत्वादिति ।। १५७४ ।। जीवसिद्धावेवोपपश्यन्तरमाह - जीवो ति सत्थयमिणं सुद्धत्तणओ घडाभिहाणं व । जेण त्थेण सदत्थं सो जीवो, अह मई हो ॥१५७५॥ अत्थो देहो च्चिय से तंनो पज्जायवयणभेआओ । नाणाइगुणो य जओ भणिओ जीवो न देहो ति ॥ १५७६ ॥ जीव इत्येतद्वचनं सार्थकमिति प्रतिज्ञा, व्युत्पत्तिमत्वे सति शुद्धपदत्वात् इह यद् व्युत्पत्तिमत्रे सति शुद्धपदं तदर्थवद् दृष्टम्, यथा घटादिकम्, तथा च जीवपदम्, तस्मात् सार्थकम्, यत्तु सार्थकं न भवति तद् व्युत्पत्तिमत् शुद्धपदं च न भवति, यथा डित्थादिकं खरविषाणादिकं च, न च तथा जीवपदम् तस्मात् सार्थकम् । यद् व्युत्पत्तिमद् न भवति तच्छुद्धपदमपि सद् न सार्थक, यथा डित्थादिपदम् इति हेतोरनैकान्तिकतापरिहारार्थं व्युत्पत्तिमत्वविशेषणं द्रष्टव्यम् । यदपि शुद्धपदं न भवति किन्तु सामासि कम्, तदपि व्युत्पत्तिमत्वे सत्यपि सार्थकं न भवति, यथा खरविषाणादिकम्, इनि शुद्धत्वविशेषणम् । अथ मन्यसे - देह एवास्य जीवपदस्यार्थः, न पुनरर्थान्तरम् उक्तं च- "देह एवाऽयमनुप्रयुज्यमानो दृष्टः यथैष जीवः, एनं न हिनस्ति" इति, अतो देह एवास्यार्थो युक्त इति । तदेतद् न । कुतः ? इत्याह- देह-जीवयोः पर्यायवचनभेदात् यत्र हि पर्यायवचनभेदस्तत्रान्यत्वं दृष्टम्, यथा घटा-ऽऽकाशयोः । तत्र घट- कुट-कुम्भ-कलशादयो घटस्य पर्यायाः, नभो-व्योमा अन्तरिक्षा-काशादयस्त्वाकाशपर्यायाः । प्रस्तुते च जीवो जन्तुरसुमान् प्राणी सच्चो भूत इत्यादयो जीवपर्यायाः, शरीरं वपुः कायो देहः कलेवरमित्यादयस्तु शरीरपर्यायाः । पर्यायवचनभेदेऽपि च वस्त्वेकत्वे सर्वैकत्वप्रसङ्गोऽत्र बाधकम् । यत्पुनरिदमुक्तम्- "देह एवायमनुप्रयुज्यमानो दृष्टः " - इत्यादि, तच्छरीरसहचरणा-वस्थानादितः शरीरे जीवोपचारः क्रियते । किश्च इत्थमपि श्रूयत एव 'गतः स १ जीव इति सार्थकमिदं शुद्धस्तो घटाभिधानमिव । येनार्थेन सदर्थं स जीवः, अथ मतिर्भवेत् ॥ १५७५ ॥ अर्थी देह एव तस्य तद् मो पर्यायवचनभेदात् । ज्ञानादिगुणश्च यतो भणितो जीवो न देद इति ॥ १५७६ ॥ २ क.ग. 'जीवो यथैनं' । For Personal and Private Use Only बृहद्वृत्तिः । ॥६७६॥ Page #79 -------------------------------------------------------------------------- ________________ नरव विशेषा ॥६७७|| EAN alam जीवः' 'दद्यतामिदं शरीरम्' इति । किश्च, 'नाणाईत्यादि' यस्माच ज्ञानादिगुणयुतो जन्तुः, जडश्च देहा, तत्कथं देह एव जीवः । प्रागिहैव चोक्तम्-न ज्ञानादिगुणो देहः, मूर्तिमत्त्वात् , घटवत् । तथा, देहेन्द्रियातिरिक्त आत्मा, तदुपरमेऽपि तदुपलब्धार्थानामनुस्मरणात् , वातायनपुरुषवदिति ॥ १५७५ ॥ १५७६ ।। तदद्याप्यप्रतिबुध्यमान इन्द्रभूतौ भगवानाह जीवो त्थि वओ सच्चं मव्वयणाओऽवसेसवयणं व । सव्वण्णुवणयओ वा अणुमयसव्वण्णुवयणं व॥१५७७॥ 'जीवोऽस्ति' इत्येतद् वचः सत्यम् , मद्वचनत्वात् , भवत्संशयविषयाद्यवशेषवचनवत् , यच्च सत्यं न भवति तद् मदीयवच| नमपि न भवति, यथा कूटसाक्षिवचनम् । अथवा, सत्यं 'जीवोऽस्ति' इति वचनम् , सर्वज्ञवचनत्वात् , भवदनुमतसर्वज्ञवचनवदिति ॥१५७७॥ यदिवा, भय-राग-दोस-मोहाभावाओ सच्चमणइवाइं च । सव्वं चिय मे वयणं जाणयमझत्थवयणं व ॥१५७८॥ सर्वमपि मद्वचनं सत्यमनतिपाति च बोदव्यम् , भय-राग-द्वेषा-ज्ञानरहितत्वात् , इह यद् भयादिरहितस्य वचनं तत् सत्यं दृष्टम् , यथा मार्गज्ञस्य भयरहितस्य प्रष्टरि राग-द्वेषरहितस्य मार्गोपदेशवचनम् , तथाच मदचः, तस्मात् सत्यमनतिपाति चेति ॥१५७८॥ अत्र गौतममाशङ्कय भगवानुत्तरमाह कह सव्वण्णु त्ति मई जेणाहं सव्वसंसयच्छेई। पुच्छसु व जं न जाणसि जेण व ते पच्चओहोजा ॥१५७९॥ कथं नाम 'त्वं सर्वज्ञः' इति ते मतिः ? एवं त्वं मन्यसे, तथा, भय-राग-द्वेष-मोहाभावश्चासिद्ध इति मन्यसे । तदयुक्तम् , येनाहं सर्वसंशयच्छेदी, यश्च सर्वसंशयच्छेत्ता स सर्वज्ञ एव । दृष्टान्ताभावेनान्वयासिद्धरनैकान्तिकोऽयं हेतुरिति चेत् । न, सर्वसंशयच्छेत्तृत्वानुपपत्तिरेवेह विपर्यये बाधकं प्रमाणम् , किमिहान्वयान्वेषणेन ? । यदिवा, पृच्छयतां यत् त्रैलोक्यान्तर्गतं वस्तु त्वं न , जीवोऽस्ति वचः सत्वं महूचनादवशेषवचनमिव । सर्वज्ञवचनतो वाऽनुमतसर्वज्ञवचनमिव ॥ १५७७॥ २ भय-राग-द्वेष-मोहाभावात् सत्यमनतिपाति च । सत्यमेव मे वचनं ज्ञायकमध्यस्थवचनमिव । १५७८ ॥ ३ कथं सर्वज्ञ इति मतिपैनाई सर्वसंशयच्छेदी । पृच्छ वा यद् न जानासि बेन वा ते प्रत्ययो भवेत् ॥ १५७९ ॥ SSIPS ||६७७॥ सामर For and Private Use Only www.janelibrary.org Page #80 -------------------------------------------------------------------------- ________________ विशेषा० ॥६७८ ॥ Jain Educationa internatio जानासि, येन सर्वज्ञत्वमत्ययस्तव जायते । भयाद्यभावोऽपि तल्लिङ्गादर्शनाद् माये सिद्ध एवेति स्वयमेव द्रष्टव्यम् । कदाचिदपि लिङ्गादर्शने लिङ्गिनोऽस्तित्वशङ्कायामतिप्रसङ्ग इति ।। १५७९ ।। अथोपसंहरन्नाह--- एवमुवओगलिंगं गोयम ! सव्वप्पमाणसंसिद्धं । संसारी - यर थावर - तसाइभेयं मुणे जीवं ॥ १५८० ॥ एवमुक्तेन प्रकारेण जीवमात्मानं गौतम ! मुण- प्रतिपद्यखेति संबन्धः । कथंभूतम् ? उपयोग एव लिङ्गं यस्य स तथा सर्वैः प्रत्यक्षानुमानाssगमप्रमाणैः संसिद्धं प्रतिष्ठितम्, तथा, संसारी-तर- स्थावर त्रसादिभेदम् । संसारिणश्वेतरे सिद्धाः । आदिशब्दाच सूक्ष्म-वादर-पर्याप्ताऽपर्याप्तादिभेदपरिग्रह इति ।। १५८० ।। अत्र वेदान्तवादी प्राह- ननु बहुभेदत्वमात्मनोऽसिद्धम्, तस्य सर्वत्रैकत्वात्, तदुक्तम्- " एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमित्र मात्राभिर्भिन्नाभिरभिमन्यते ॥ २ ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥ ३ ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ४ ॥ " तैथा, "पुरुष एवेदं नि सर्व, यद् भूतं यच्च भाव्यम्, उतामृतत्वस्येशानः, यदन्नेनातिरोहति, यदेजति, यद् नैजति, यद् दूरे, यदु अन्तिके, यदन्तरस्य सर्वस्य यत् सर्वस्यास्य बाह्यतः" इत्यादि । इत्येतदेव पूर्वार्धेनाक्षिष्योत्तरार्धेन परिहरन्नाह- जैइ पुण सो एगो च्चिय हवेज वोमं व सव्वपिंडेसु । गोयम ! तदेगलिंगं पिंडेसु तहा न जीवोऽयं ॥ १५८१॥ १ एवमुपयोगलिङ्गं गौतम ! सर्वप्रमाणसंसिद्धम् । संसारी तर स्थावर त्रसभेदं मुण जीवम् || १५८० ॥ २ घ. ज. 'व्यवस्थितः ' । ३ घ.ज. 'पु' । ४ अयमन्त्रार्थ:- पुरुष आत्मा । एवशब्दोऽवधारणे। स च कर्म-प्रधानादिव्यवच्छेदार्थः । इदं सर्वं प्रत्यक्षं वर्तमानं चेतनाऽचेतनम् । निमिति वाक्यालङ्कारे । यद् भूतं यदतीतम्, यश्च भाव्यं यच भविष्यत् तत् स एवेत्यर्थः । उताऽमृतत्वस्येशान इति- उतशब्दोऽप्यर्थे, अपिश्व समुच्चये, अमृतत्वस्याऽमरणभावस्य मोक्षस्य ईशानः प्रभुश्चेत्यर्थः । यदिति यश्च- चशब्दलोपात्, अनेन आहारण अतिरोहति अतिशयेन वृद्धिमुपैति यदेजति यश्चलति भश्वादि, यद् नैजति पर्वतादि, यद् दूरे मेघादि, यदु अन्तिके, उशब्दोऽवधारणे, अन्तिके समीपे यत् तत्पुरुष एवेत्यर्थः । यदन्तर्मध्येऽस्य चेतना-चेतनस्य सर्वस्य यदेव सर्वस्याऽस्य बाह्यतस्तत्सर्वं पुरुष एवेति ॥ ५ यदि पुनः स एक एव भवेद् व्योमेव सर्वपिण्डेषु । गौतम ! तदेकलिङ्गं पिण्डेषु तथा न जीवोऽयम् ॥ १५८ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥६७८॥ Page #81 -------------------------------------------------------------------------- ________________ विशेषा० ॥६७९ ॥ Jain Educationa Internation परः प्राह - यदि पुनर्दर्शितन्यायेन स आत्मा सर्वेष्वपि नारक- तिर्यङ् नरा-मरपिण्डेषु व्योमत्रदेक एव भवेद् न तु संसारीतरादिभेदभिन्नः तर्हि किं नाम दूषणं स्यात् । एवमुक्ते भगवानाह - गौतम ! तद् व्योम सर्वेष्वपि पिण्डेषु मूर्तिविशेषेषु स्थितमेकलिङ्ग |वैसदृश्याभावादेकरूपमेव, इति युक्तं तस्यैकत्वम्, जीवस्त्वयं विचार्यत्वेन प्रस्तुतो न तथा नैकलिङ्गः सर्वत्र दृश्यते, प्रतिपिण्डं तस्य विलक्षणत्वात्, लक्षणभेदे च लक्ष्यभेदात् इति न तस्यैकत्वमिति ।। १५८१ ॥ अत्र प्रयोगमाह - नाणा जीवा कुंभादर व्व भुवि लक्खणाइभेयाओ । सुह-दुक्ख-बंध मोक्खाभावो य जओ तदेगत्ते ॥१५८२ ॥ नानारूपा व जीवाः परस्परं भेदभाज इत्यर्थः । लक्षणादिभेदादिति हेतुः कुम्भादय इवेति दृष्टान्तः, यच्च न भिन्नं न तस्य लक्षणभेदः, यथा नभस इति । सुख-दुःख-बन्ध - मोक्षाभावश्च यस्मात् तदेकत्वे तस्माद् भिन्ना एव सर्वेऽपि जीवा इति ।। १५८२ ।। कथं पुनस्तेषां प्रतिपिण्डं लक्षणभेदः १ इत्याह जेणोवओगलिंगो जीवो भिन्नो य सो पइसरीरं । उवओगो उक्करिसा वगरिसओ तेण तेऽणंता ॥। १५८३ ॥ येन ज्ञान- दर्शनोपयोगलक्षणोऽसौ जीवः, स चोपयोगः प्रतिशरीरमुत्कर्षापकर्षभेदादनन्तभेदः, तेन जीवास्तद्भेदादनन्तभेदा एवेति । तदेवं भावितं 'नाणा जीवा' इत्यादि पूर्वार्धम् ।। १५८३ ।। I इदानीं 'सुख- दुक्ख' इत्यायुत्तरार्ध भावयन्नाह— ऍगते सव्वगयत्तओ न मोक्खादओ नभस्सेव । कत्ता भोत्ता मंता न य संसारी जहागासं ॥। १५८४ ॥ एकत्वे जीवानां सुख-दुःख-बन्ध-मोक्षादयो नोपपद्यन्ते, सर्वगतत्वात्, नभस इव, यत्र तु सुखादयो न तत् सर्वगतं यथा १ नाना जीवाः कुम्भादय इव भुवि लक्षणादिभेदात् । सुख-दुःख-बन्ध-मोक्षाभावश्च यतस्तदेकत्वे ॥। १५८२ ॥ २ येनोपयोगलिङ्गो जीवो भिन्न स प्रतिशरीरम् । उपयोग उत्कर्षापकर्षतस्तेन तेऽनन्ताः ॥ १५८३ ॥ ३ गाथा १५८२ ।। ४ एकत्वे सर्वगतत्वतो न मोक्षादयो नभस इव । कर्ता भोक्ता मन्ता न च संसारी यथाकाशम् ।। १५८४ | For Personal and Private Use Only बृहद्वृत्तिः । ।।६७९ ।। www.janelibrary.org Page #82 -------------------------------------------------------------------------- ________________ विशेषा० ॥६८०॥ Jain Educationa Internation देवदत्त इति । किश्व न कर्ता, न भोक्ता, न मन्ता, न संसारी जीवः, एकत्वात् सर्वजीवानाम्, यश्चैकं न तस्य कर्तृत्वादयः, यथा नभस इति ।। १५८४ ॥ अपि च, ऐगत्ते नत्थि सुही बहूवघाउ त्ति देसनिरुउ व्व । बहुतरबद्धत्तणओ न य मुक्का देसमुको व्व ॥१५८५॥ इदमत्र हृदयम् - नारक- तिर्यगादयोऽनन्ता जीवा नानाविधशरीर-मानसोपघातसंपातैर्दुःखिता एवं तदनन्तभागवर्तिनस्तु सुखिनः, एवमनन्ता बद्धाः, तदनन्तभागवर्तिनस्तु मुक्ताः, तेषां च सर्वेषामेकत्वे न कोऽपि सुखी माझोति, बहुतरोपघातान्त्रितत्वात् यथा सर्वा ङ्गरोगग्रस्तोऽङ्गुल्येकदेशेन नीरोगो यज्ञदत्तः, एवं न कोऽपि मुक्तस्तत्सुखभाक् च न कोऽपि घटते, बहुतरवद्धत्वात्, यथा सर्वा - ङ्गकीलितोऽङ्गुल्येकदेशमुक्तः । तस्मादेकत्वे सुखाद्यनुपपत्तेर्नानात्वं जीवानामिति स्थितम् ।। १५८५ ।। भवतु तर्हि जीवानां नानात्वम्, किन्त्वेकैको जीवः सर्वजगद्व्यापकोsस्तु, इति नैयायिकादिमतमपाकुर्वन्नाह - जीवो तणुमेतत्थो जह कुंभो तग्गुणोवलंभाओ | अहवाऽणुवलंभाओ भिन्नम्मि घडे पडस्सेव || १५८६ ॥ तनुमात्रस्थो जीव इति प्रतिज्ञा, तत्रैव तद्गुणोपलब्धेः, यथा घटः, 'स्वात्ममात्रे' इति शेषः । ' अहवेत्यादि ' अथवा, यो यत्र प्रमाणैर्नोपलभ्यते तस्य तत्राभाव एव यथा भिन्ने घंटे पटस्य, नोपलभ्यते च शरीराद् बर्हिजीवः तस्मात् तस्य तत्राभाव एवेति ।। १५८६ ।। उपसंहरन्नाह - म्हा कत्ता भोत्ता बंधो मोक्खो सुहं च दुक्खं च । संसरणं च बहुत्ता ऽसव्वगयत्ते सुजुत्ताई ॥ १५८७ ॥ तस्माद् बहुत्वा-सर्वगतत्वयोरेव सतोः कर्तृत्वादयो धर्मा जीवस्य युज्यन्ते, नान्यथा, इत्येवंविधं प्रमाणसिद्धं जीवं प्रतिपद्यखेति ।। १५८७ ।। १ एकत्वे नास्ति सुखी बहूपघात इति देशनिरुज इव । बहुतरवत्वतो न च मुक्तो देशमुक्त इव ।। १५८५ ।। २ क.ग. 'को घ' । ३ जीवस्तनुमात्रस्थो यथा कुम्भस्तद्गुणोपलम्भात् । अथवाऽनुपलम्भाद् भिने घटे पटस्येव ॥। १५८६ ५ ४ तस्मात् कर्ता भोक्ता बन्धो मोक्षः सुखं च दुःखं च । संसरणं च बहुत्वा सर्वगतत्वयोः सुयुक्तानि ॥ १५८७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||६८०|| Page #83 -------------------------------------------------------------------------- ________________ विशेषा० ॥६८१॥ Jain Educationa Internation अथ "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसंज्ञास्ति" इत्यादिवेदवाक्यार्थमनुभावयतस्त्यजतोऽपि मम संशयोऽतिविराधिताऽहित इव पृष्ठं न मुञ्चति तत् किं करोमि १ इति चेत् । तदयुक्तम् । कुतः १ इत्याहगोयम ! वेयपयाणं इमाण अत्यं च तं न याणासि । विन्नाणघणो च भूयेहिंतो समुत्थाय ॥१५८८ ॥ मण्णसि मज्जंगेसु व मयभावो भूयसमुद्उब्भूओ । विन्नाणमेत्तमाया भएऽणु विणस्सइ स भूओ || १५८९|| अत्थि न य पेच्चसण्णा जं पुव्वभवेऽभिहाणममुगो त्ति । जं भणियं न भवाओ भवंतरं जाइ जीवो ति ॥ १५९०॥ गौतम ! इत्यामन्त्रणम्, वेदपदानां श्रुतिवाक्यानाममीषां "विज्ञानघन एवैतेभ्यः" इत्यादीनां चेतसि वर्तमानानामर्थं यथास्थितं त्वं न जानासि नावबुध्यसे । किमिति ? अत आह- यद् यस्मात् त्वमात्माभिप्रायेणैवंभूतमिहार्थं मन्यसे विकल्पयसीति संबन्धः । कथंभूतम् ? इत्याह- 'विष्णाणघणो चिय त्ति' पृथिव्यादिभूतानां विज्ञानलवसमुदायो विज्ञानघनः पृथिव्यादिविज्ञानांशानां पिण्ड इत्यर्थः ; अवधारणं त्वात्मवादिपरिकल्पितस्य भूतसमुदायातिरिक्तस्य ज्ञान दर्शनादिगुणाश्रयस्यात्मनो निरासार्थम् । भूतेभ्यः पृथिव्यादिभ्यः समुदितेभ्यो न तु व्यस्तेभ्यः, ज्ञानस्य तत्समुदाय परिणामाङ्गीकारादिति भावः, मद्याङ्गेषु मद्यकारणेषु धातक्यादिषु मदभाव इत्रः कथंभूतो विज्ञानघनः ? इत्याह- 'भूयसमुदउन्भूओ विन्नाणमेत्तमाय त्ति' भूतसमुदयादुद्भूतस्तदैव जातो न तु परभवात् कश्चि दायात विज्ञानमात्ररूप आत्मेत्यर्थः समुत्थायोत्पद्य ततस्तान्येव पृथिव्यादीनि भूतानि विनाशमनुवानान्यनु लक्षीकृत्य भूयः पुनरपि स विज्ञानघनोविज्ञानमात्ररूप आत्मा विनश्यति, न त्वात्मवादिनामिवान्यभवं याति । अत एव न प्रेत्यभवे परभवे संज्ञास्ति, यत् पूर्वभवे नारकादिजन्मन्यभिधानमासीत् तत् परभवे नास्ति, यदुत अमुको नारको देवो वा भूत्वेदानीं मनुष्यः संवृत्त इत्यादि, नारकाः प्रागेव सर्वनाशं नष्टत्वादिति भावः । किमिह वाक्ये तात्पर्यवृत्या प्रोक्तं भवति ? इत्याह- 'जं भणियमित्यादि' सर्वथात्मनः समुत्पद्य विनष्टत्वाद् न भवाद् भवान्तरं कोऽपि यातीत्युकं भवति ।। १५८८ ।। १५८९ ।। ११२० ॥ यद्येवंभूतमस्य वेदवाक्यस्यार्थमहमवगच्छामि, तः किम् ? इत्याह ८६ १ गौतम ! वेदपदानामेषामर्थं च त्वं न जानासि । यद् विज्ञानघन एवं भूतेभ्यः समुत्थाय ॥। १५८८ ॥ मन्यसे मयाविव मदभावो भूतसमुदयोद्भूतः । विज्ञानमाश्रमात्मा भूतेऽनु विनश्यति स भूयः ॥ १५८९ ॥ अस्ति च प्रेत्यसंज्ञा यत् पूर्वभवेऽभिधाननमुक इति । यद् भणितं न भवाद् भवान्तरं याति जीव इति ॥ १५९० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।६८१॥ Page #84 -------------------------------------------------------------------------- ________________ विशेषा ॥६८२॥ गोयम ! पयत्थमेवं मन्नंतो नत्थि मन्नसे जीवं । वकंतरेसु य पुणो भणिओ जीवो जमथि त्ति ॥१५९१॥ अग्गिहवणाइकिरियाफलं च तो संसयं कुणसि जीवे । मा कुरु न पयत्थोऽयं इमं पयत्थं निसामेहि॥ १५९२ ॥ गौतम ! अस्य वाक्यस्य दर्शितरूपमेव पदार्थ मन्यमानस्त्वं 'नास्ति' इत्येवं जीवं मन्यसे । यस्माच पुनः “न ह वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः” इत्यादिषु वेदवाक्यान्तरेषु 'अस्ति' इत्येवं जीवो भणितः प्रतिपादितः । तथा “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादिवचनादग्निहवनादिक्रियायाः फलं च पारभविकं श्रूयते । न चेदं भवान्तरयायिनमात्मानमन्तरेणोपपद्यते । अतः 'किं जीवोऽस्ति नास्ति वा ?' इत्येवं संशयं जीवे करोषि त्वम् । तदमु मा कृथाः, यस्माद् "विज्ञानघन एव०" इत्यादिवाक्यस्य नायमर्थो यं भवानध्यवस्यति, किन्त्वमुं वक्ष्यमाणं पदार्थमिह निशमयाऽऽकर्णयेति ॥१५९१॥ ॥१५९२ ॥ तमेव दर्शयति*विण्णाणाओऽणण्णोविण्णाणघण्णोत्ति सव्वओवावि । स भवइ भूएहिंतो घडविण्णाणाइभावेण ॥१५९३॥ ताई चिय भूयाइं सोऽणु विणस्सइ विणस्समाणाइं । अत्थंतरोवओगे कमसो विष्णेयभावेणं ॥ १५९४ ॥ इह विज्ञानघनो जीव उच्यते । कथम् ? इति चेत् । उच्यते- विशिष्ट ज्ञानं विज्ञानं ज्ञान-दर्शनोपयोग इत्यर्थः, तेन विज्ञानेन सहानन्यभूतत्वादेकतया घनत्वं निविडत्वमापनो विज्ञानघनो जीवः, यदिवा 'सचओवावि त्ति' सर्वतः प्रतिप्रदेशमनन्तानन्तविज्ञानपर्यायसङ्घातघटितत्वाद् विज्ञानघनो जीवः । एवकारेण तु विज्ञानघन एवासौ, न तु नैयायिकादीनामिव 'स्वरूपेण निर्विज्ञानत्वाज्जडोऽसौ, बुद्धिस्तु तत्र समवेतैव' इति नियम्यते । स भवति- उद्यत इति क्रिया । केभ्यः ? इत्याह- 'भूएहितो त्ति' भूतानीह घट-पटादिज्ञेयवस्तुरूपाण्यभिप्रेतानि, तेभ्यो ज्ञेयभावेन परिणतेभ्यः । केन भवति ? इत्याह- 'घटोऽयम्' 'पटोऽयम्' इत्यादिविज्ञानभावेन घटादि , गौतम ! पदार्थ एवं मन्यमानो नास्ति मन्यसे जीवम् । वाक्यान्तरेषु च पुनणितो जीवो यदस्तीति ।। १५९१ ॥ अमिहवनादिक्रियाफलं च ततः संशयं करोषि जीवे । मा कुरु न पदार्थोऽयमिमं पदार्थ निशमय ॥ १५९२ ॥ २ विज्ञानादनम्यो विज्ञानघन हति सर्वतोव्यापी । स भवति भूतेभ्यो घटविज्ञानादिभावन ॥ १५९३ ॥ साम्येव भूतानि सोऽनु विनश्यति विनश्यमानानि । अर्थान्तरोपयोगे कमशो विज्ञेयभावेन ॥ १५९४. ॥६८२॥ For and Private Use Only Page #85 -------------------------------------------------------------------------- ________________ सम ज्ञानपर्यायेण । ततः किम् ? इत्याशङ्कय 'तान्येवानु विनश्यति' इत्यस्यार्थमाह- 'ताई चियेत्यादि' तान्येव ज्ञानालम्बनभूतानि घटादिविशेषाभूतानि क्रमशः कालक्रमेण व्यवधान-स्थगना-ऽन्यमनस्कत्वादिनार्थान्तरोपयोगे सति विज्ञेयभावेन ज्ञानविषयभावेन विनाशमश्नुवानानि, अनु- पश्चात् तद्बोधपर्यायण, स विज्ञानघनो विनश्यतीति संबन्धः। ज्ञानपर्यायेण घटादिभ्यो ज्ञेयभूतेभ्यो जीवः समुत्थाय कालक्रमाद् ॥६८३॥ व्यवधानादिनार्थान्तरोपयोगे सति ज्ञेयभावेन तान्येव विनाशमश्नुवानान्यनु विनश्यतीति तात्पर्यार्थः ॥१५९३॥१५९४॥ किमित्थं सर्वथाऽयमात्मा विनश्यति ? । न, इत्याहपुव्वावरविण्णाणोवओगओ विगम-संभवसहावो । विण्णाणसंतईए विण्णाणघणोऽयमविणासी ॥ १५९५ ॥ एक एवायमात्मा त्रिस्वभावः । कथम् ? इत्युच्यते- अर्थान्तरोपयोगकाले पूर्व विज्ञानोपयोगेन तावदयं विगमस्वभावो विनश्वररूपः, अपरविज्ञानोपयोगतस्तु संभवस्वभाव उत्पादस्वरूपः, अनादिकालप्रवृत्तसामान्यविज्ञानमात्रसंतत्या पुनरयं विज्ञानघनो जीवो विनष्ट एवावतिष्ठते । एवमन्यदपि सर्व वस्तूत्पाद-व्यय-ध्रौव्यस्वभावमेवावगन्तव्यम् , न पुनः किमपि सर्वथोत्पद्यते, विनश्यति | चेति ॥१५९५॥ 'न प्रेत्यसंज्ञास्ति' इत्येतद् व्याचिख्यासुराह__ ने च पेच्चनाणसण्णावतिट्ठए संपओवओगाओ। विण्णाणघणाभिक्खो जीवोऽयं वेयपयभिहिओ ॥१५९६॥ न च प्रेत्येति- न चान्यवस्तूपयोगकाले प्राक्तनी ज्ञानसंज्ञास्ति । कुतः १ सांप्रतवस्तुविषयोपयोगात् । इदमुक्तं भवति- यदा घटोपयोगनिवृत्तौ पटोपयोग उत्पद्यते, तदा षोपयोगसंज्ञा नास्ति, तदुपयोगस्य निवृत्तत्वात् । किन्तु पटोपयोगसंवास्ति, तदुपयो- | गस्यैव तदानीमुत्पन्नत्वात् । तस्माद् विज्ञानघनाभिख्यो वेदपदेष्वभिहितोऽयं जीवः । ततो गौतम ! प्रतिपद्यस्खैनमिति ॥ १५९६ ॥ पुनरपीह प्रेर्यमाशङ्कय परिहरन्नाहएवं पि भूयधम्मो नाणं तब्भावभावओ बुद्धी । तं नो तदभावम्मि वि जं नाणं वेयसमयम्मि ॥ १५९७ ॥ ६८३॥ १ पूर्वा-ऽपरविज्ञानोपयोगतो विगम-संभवस्वभावः । विज्ञानसंतल्या विज्ञानघनोऽयमविनाशी ॥ १५९५ ॥ न च प्रेत्यज्ञानसंज्ञाऽवतिष्ठते सांप्रतोपयोगात् । विज्ञानघनाभिख्यो जीवोऽयं वेदपदाभिहितः ॥ १५९६ ॥ ३ एवमपि भूतधर्मो ज्ञानं तद्भावभावतो बुद्धिः । तद् न तदभावेऽपि यज्ज्ञानं वेदसमये ॥ १५९७ ॥ in Education International For Personal and Pre Ube Only www.ncbaryo Page #86 -------------------------------------------------------------------------- ________________ विशेषा० ||६८४॥ Jain Education internati अत्थमिए आइच्चे चंदे संतासु अग्गि वायासु । किंजोइरयं पुरिसो अप्पज्जोइ त्ति निद्दि ॥ १५९८ ॥ 'बुद्धी 'ति स्याद् बुद्धिः प्रेरकस्य - एवमपि - 'से भवइ भूएहिंतो' इत्यादिना युष्मद्व्याख्यानप्रकारेणापीत्यर्थः, पृथिव्यादिभूतधर्म एव ज्ञानं भूतस्वभावात्मकमेव ज्ञानमिति भावः । कुतः ? इत्याह- 'तभावभाव त्ति' "एतेभ्यो भूतेभ्यः समुत्थाय तान्येबानु विनश्यति" इति वचनाद् भूतसद्भावे ज्ञानस्य भावात् तदभावे चाभावादित्यर्थः यस्य च भाव एव यद् भवति, अभावे च न भवति तत् तस्यैव धर्मः, यथा चन्द्रमसचन्द्रिका, तथा च ज्ञानमनुविदधाति भूतान्वयव्यतिरेकौ तस्मात् तद् भूतधर्म एव । तदयुक्तम्, विशिष्टमेव हि नीलपीतादिभूतग्राहकं ज्ञानं तदन्यय- व्यतिरेकावनुविदधाति न तु सामान्यं ज्ञानमात्रम्, यस्माद् भूताभावेऽपि वेदलक्षणे समये सिद्धान्ते 'सामान्यज्ञानं भणितमेव' इति शेषः । केन वाक्येन ? इत्याह- 'अत्थमिए इत्यादि' अस्तमिते आदित्ये, याज्ञवल्क्यः, चन्द्रमस्यस्तमिते, शान्तेऽग्नौ, शान्तायां वाचि, किंज्योतिरेवायं पुरुषः, आत्मज्योतिः सम्राडिति होवाच, ज्योतिरिति ज्ञानमाह । आदित्यास्तमयादौ किं ज्योतिः ? इत्याह- 'अयं पुरुष इति, पुरुष आत्मेत्यर्थः । अयं च कथंभूतः ? इत्याह- 'अप्पज्जोइ ति' आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिर्ज्ञानात्मक इति हृदयम्, निर्दिष्टो वेदविद्भिः कथितः, ततो न ज्ञानं भूतधर्म इति स्थितम् ।। १५९७।१५९८।। इतथ न ज्ञानं भूतधर्मः । कुतः ? इत्याह- तदभावे भावाओ भावे चाभावओ न तद्धम्मो । जह घडभावाभावे विवज्जयाओ पडो भिन्नो || १५९९॥ न भूतधर्मो ज्ञानम्, मुक्त्यवस्थायां भूताभावेऽपि भावात्, मृतशरीरादौ तद्भावेऽपि चाभावात् यथा घटस्य धर्मः पटो न भवति, किन्तु तस्माद् भिन्न एव । कुतः ? इत्याह- घटभावाभावे विपर्ययात्- घटभावेऽप्यभावात्, तदभावेऽपि च भावादित्यर्थः।। १५९९ ।। तदेवं केषांचिद् वेदपदानामर्थं व्याख्याय सांप्रतमुपसंहरन्, सर्वेषां च वेदपदानां संक्षेपतोऽर्थमुपदर्शयन्नाह - ऐसि वेयपयाणं न तत्थं वियसि अहव सव्वेसिं । अत्थो किं होज्ज सुई विण्णाणं वत्थुभेओ वा ॥१६०० ॥ १ अस्तमित आदित्ये चन्द्रे शान्तयोरनि बाचोः । किंज्योतिरयं पुरुष आत्मज्योतिरिति निर्दिष्टः ॥ १५९८ ॥ २ गाथा १५९३ । ३ तदभावे भावाद् भावे चाभावतो न तद्धर्मः । यथा घटभावाभावे विपर्ययात् पटो भिन्नः ॥ १५९९ ॥ ४क.ग. 'मुक्ताव' ५ घ.ज. शैयंथा'। ६ एषां वेदपदानां न त्वमर्थं वेत्सि, अथवा सर्वेषाम् । अर्थः किं भवेत् श्रुतिर्विज्ञानं वस्तुभेदो वा ॥ १६०० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥६८४ ॥ Page #87 -------------------------------------------------------------------------- ________________ विशेषा. दृत्तिः । ॥६८५|| जाई दव्वं किरिया गुणोऽहवा संसओ तवाजुत्तो । अयमेवेति नवायं न वाधरो जओ जुत्तो ॥१६०१॥ सव्वं चिय सव्वमयं स-परपज्जायओ जओ निययं । सव्वमसव्वमयं पि य विवित्तरूवं विवक्खाओ॥१६०२॥ सामण्ण-विसेसमओ तेण पयत्थो विवक्खया जुत्तो । वत्थुस्स विस्सरूवो पज्जायावेक्खया सव्वो ॥१६०३। तस्मादेषां पूर्वोक्तानां वेदपदानां यथा मया व्याख्यातोऽर्थस्तथा त्वं न वत्सि, तेन जीवे संशयं करोषि । अथवा, सर्वेषामप्यशेषवेदपदानामर्थ त्वं न जानासि, यस्मात् सर्वेष्वपि वेदपदेषु विषये तवैवंभूतः संशयोऽस्तीति संवन्धः । कथंभूतः ? इत्याह- 'अत्थो किं होज्ज सुईत्यादि' किमतेषां वेदपदानामर्थः श्रुतिः शब्दो भवेत् , यथा भेरी-पटह-ढकादीनां शब्दस्य शब्द एवार्थः; अथवा, यद् घटादिशब्दे समुच्चारिते तदभिधेयार्थविषयं विज्ञानं भवद् दृश्यते, तत् तेषामर्थः ?; किंवा घटशब्दे समुत्कीर्तिते 'पुथुतुनोदराद्याकारवान् घटलक्षणोऽर्थोऽनेनोक्तः, न तु पटादिः' इत्येवं यो वस्तुभेदः प्रतीयते स एषामर्थः ?; यदिवा, कि जातिरमीषामर्थः, यथा गोशब्दे समुच्चारिते गोजातिरवसीयते?; यदिवा, किं द्रव्यमेषामर्थः, यथा दण्डीत्यादिषु दण्डादिमद् द्रव्यम्; किंवा धावतीत्यादीनामिव धावनादिक्रियाऽमीषामर्थः?; अथवा, किं शुक्लादीनामिव शुक्लादिगुण एतेषामर्थः ? इति । अयं च संशयस्तवायुक्तः, यस्मात् 'अयमेव, नैव वाऽयम्' इत्येवं कस्यापि वस्तुनो धर्मोऽवधारयितुं न युक्तः । शब्दोऽपि वस्तुविशेष एव, ततः 'एवंभूतस्यैवार्थस्यायमभिधायकः, नैव वेत्थंभूतस्यार्थस्यायं प्रतिपादकः' इत्येवमेतद्धर्मस्याप्यवधारणमयुक्तमेव । कुतः ? इत्याह- 'सव्वं चियेत्यादि' यस्मात् सर्वमपि वाच्यवाचकादिकं वस्तु नियतं निश्चितं स्व-परपर्यायैः सर्वात्मकमेव सामान्यविवक्षयेत्यर्थः । तथा, सर्वमसर्वमयमप्यस्ति विविक्तरूपं सर्वतो व्यावृत्तम् । कया? इत्याह-विवक्षया, केवलस्वपर्यायापेक्षयेत्यर्थः, विशेषविषययेति तात्पर्यार्थः । तस्मात् सर्वेषामपि पदानां विवक्षावशतः सामान्यमयो विशेषमयश्च पदार्थो युक्तः, न पुनरेकान्तेनेत्थंभूत एव, अनित्थंभूत एव वेति । कुतः ? इत्याह- 'वत्थुस्सेत्यादि' यस्मात् सर्वोऽपि वाच्यस्य वाचकस्य वा वस्तुनः स्वभावः पर्यायापेक्षया विश्वरूपो नानाविधो वर्तते । ततश्च सामान्यविवक्षया घटशब्दः सर्वात्मकत्वात् सर्वेषामपि द्रव्य-गुण-क्रियाअर्थानां वाचकः, विशेषविवक्षया तु प्रतिनियतरूपत्वाद् य एवास्येह पृथुबुनोदराद्याका , जातिव्य क्रिया गुणोऽथवा संशयस्तवायुक्तः । अयमेवेति नवार्य न वस्तुधर्मो यतो युक्तः ॥१६०१॥ सर्वमेव सर्वमयं स्व-परपर्यायतो यतो नियतम् । सर्वमसर्वमयमपि च विविक्तरूपं विवक्षया ॥ १६०२ ।। सामान्य-विशेषमयस्तेन पदार्थो विवक्षया युक्तः । वस्तुनो विश्वरूपः पर्यायापेक्षया सर्वः ॥ १६०३ ॥ २ क.ग. 'ज्ञानभवनं । E ६८५।। Education For Personal and Private Use Only Page #88 -------------------------------------------------------------------------- ________________ विशेषा० ||६८६॥ Jain Educationa Internation रवानर्थो वाच्यतया रूढस्तस्यैव वाचकः । एवमन्योऽपि शब्दो विशेषविवक्षया या यत्र देशादौ यस्यार्थस्य वाचकतया रूढः स तस्य वाचको द्रष्टव्यः । सामान्यविवक्षया तु 'सर्वः सर्वस्य वाचकः, सर्व च सर्वस्य वाच्यम्' इत्यनया दिशा सकलं स्वधिया भावनीयमिति । तदेवं तेन त्रिजगत्स्वरूपवेदिना भगवता श्रीमन्महावीरेण निःशेषपरमबोधनोपायकुशलतया तीक्ष्णपरशुनेव निपुणयुक्तिप्रबन्धेन गुपलवल्ली वितान इव मूलाच्छिन्नः समस्तोऽपि तस्य तत्समासन्न परमकल्याणस्येन्द्रभूतेः संशयः || १६०० || १६०१ ।। १६०२।।१६०३।। तस्मिंश्च च्छित्रे किमसौ कृतवान् ? इत्याह 'छिन्नम्म संसयम्मि जिणेण जर मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥ १६० ॥ सुबोधा, नवरं श्राम्यतीति भ्रमणः सन्नसौ पापाद् व्रजितः प्रव्रजितो भागवती दीक्षां प्रतिपन्न इत्यर्थः । 'संयतः संयतो भवति नासंयत:' इति निश्चयनयमताश्रयणाच्चेत्थमुक्तमितीह भावार्थ: । खण्डिकास्तच्छात्रा इति ।। १६०४ ॥ अथ वक्ष्यमाणेषु कर्मादिषु दशसु वादस्थानेषु यदिह तुल्यं तद् ग्रन्थलाघवार्थमतिदिशन्नाह ऐवं कम्माईसु विजं सामण्णं तयं समाउज्जं । जो पुण जत्थ विसेसो समासओ तं पवक्खामि ॥१६०५ ॥ 1 एवं यदिहात्मवादप्रक्रमे प्रत्यक्षानुमानाऽऽगमप्रमाणवक्तव्यतादिकं वक्ष्यमाणकर्मादिवादस्थानकैः किमपि तुल्यं तत् स्वधिया तत्र तत्रायोजनीयम् । यस्तु यत्र वादस्थानके विशेषस्तं तत्र संक्षेपतः स्वयमेव वक्ष्यामि ।। इति सप्तपञ्चाशद्वाथार्थः ।। १६०५ ।। ॥ इति प्रथमगणधरवादः समाप्तः ॥ अथ द्वितीयगणधर वक्तव्यतामभिधित्सुराह *तं पव्वइअं सोउं बीओ आगच्छइ अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ता ण तं समणं || १६०६॥ १ छिन्ने संशये जिनेन जरा-मरणविप्रमुक्तेन । स श्रमणः प्रब्रजितः पञ्चभिः सह खण्डिकशतैः ॥ १६०४ ॥ २ एवं कर्मादिष्वपि यत् सामान्यं तत् समायोज्यम् । यः पुनर्यन्त्र विशेषः समासतस्तं प्रवक्ष्यामि || १६०५ ॥ तं प्रत्रजितं श्रुत्वा द्वितीय आगच्छत्यमर्षेण । ब्रजाम्यानयामि पराजित्य तं श्रमणम् ॥ १६०६ ॥ For Personal and Private Use Only बृहद्वत्तिः । ||६८६ ॥ : Page #89 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा० ॥६८७॥ तमिन्द्रभूति प्रव्रजितं श्रुत्वा द्वितीयोऽग्निभूतिनामा तत्सोदर्यबन्धुरत्रान्तरेऽपर्षेणाकुलितचेताः समागच्छति भगवत्समीपम् । केनाभिप्रायेण ? इत्याह-व्रजामि । 'ण' इति वाक्यालङ्कारे । आनयामि निजभ्रान्तरमिन्द्रभृति 'ततः' इति गम्यते । 'ण' इत्ययमपि वाक्यालङ्कारे । तं श्रमणमिन्द्रजालिकं कमपि पराजित्येति ॥ १६०६ ॥ पुनरपि किं चिन्तयन्नसावागतः १ इत्याह छलिओ छलाइणा सो मण्णे माइंदजालिओ वा वि । को जाणइ कह वत्तं एत्ताहे वट्टमाणी से ॥१६०७॥ दुर्जयत्रिभुवनस्यापि मद्भातेन्द्रभूतिः, केवलमहमिदं मन्ये- छलादिना छलितोऽसौ तेन धूर्तेन- च्छल-जाति-निग्रहस्थानग्रहणनिपुणेन तेन केनापि दुष्टेन भ्रमितो मद्वन्धुरित्यर्थः । अथवा, मायेन्द्रजालिकः कोऽपि निश्चितमसौ, येन तस्यापि जगद्गुरोमद्भातुभ्रमितं चेतः । तस्मात् किंबहुना, को जानाति तद्वादस्थानकं तयोस्तत्र कथमपि वृत्तम् , मत्परोक्षत्वात् । इत ऊर्ध्व पुनर्मयि तत्र गते तस्य तदिन्द्रजालव्यतिकरभ्रमितमानसखचर-नरा-ऽमरवातवन्दनमात्रबृंहितचेतसः श्रमणकस्य 'वट्टमाणि त्ति' या काचिद् वार्ता वर्तनी वा भविष्यति तां द्रक्ष्यत्ययं समग्रोऽपि लोक इति ॥ १६०७ ॥ किं च तेन तत्र गच्छता प्रोक्तम् ? इत्याह सो पक्खंतरमेगं पि जाइ जइ मे तओ मि तस्सेव । सीसत्तं होज गओ वोत्तुं पत्तो जिणसगासे ॥१६०८॥ को जानाति तावदिन्द्रभूतिस्तेन कथमपि तत्र निर्जितः ? । मम पुनरप्येकमपि पक्षान्तरं पक्षविशेष स यदि यात्यवबुध्यतेमद्विहितस्य सहेतू-दाहरणस्य पक्षविशेषस्य स यदुत्तरप्रदानेन कथमपि पारं गच्छतीति हृदयम् , ततो 'मि' इति वाक्यालङ्कारे, तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयमिति निश्चयः । तत इत्यादि वाग्गजि कृत्वा जिनस्य श्रीमन्महावीरस्यान्तिकं प्राप्त इति ॥१६०८॥ ततः किम् ? इत्याहआभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१६०९॥ छलितश्छलादिना स मन्ये मायेन्द्रजालिको वापि । को जानाति कथं वृत्तमेतस्माद् वर्तमाना तस्य ॥ १६॥ २ स पक्षान्तरमेकमपि याति यदि मे ततस्तस्यैव । शिष्यत्वं भवेयं गत उक्त्वा प्राप्तो जिनसकाशे ॥ १६०८॥ ३ आभाषितच जिनेन जाति-जरा-मरणविप्रमुक्तेन । नाम्ना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ॥ १६०९॥ ॥६८७|| Jan Education Internate For and P U Only www.jaineltrary.org Page #90 -------------------------------------------------------------------------- ________________ विशेषा० ||६८८|| Jain Education Internation आभाषितश्च संलप्त जाति-जरा-मरणविप्रमुक्तेन सर्वज्ञेन सर्वदर्शिना च जिनेन । कथम् ? नाम्ना च- हे अग्निभूते !, गोत्रेण च - हे गौतमसगोत्र ! इति । इत्थं च नाम- गोत्राभ्यां संलप्तस्य तस्य चिन्ताऽभूत्- अहो ! नामापि मम विजानाति, अथवा, जगत्प्रसिद्धोऽहम् कः किल मां न वेत्ति १ । यदि हि मे हृतं संशयं ज्ञास्यति, अपनेष्यति वा, तदा भवेद् मम विस्मयः ।। १६०९ ।। इति चिन्तयति तस्मिन् भगवानाह - 'किं मन्ने अत्थि कम्मं उयाहु न त्थि त्ति संसयो तुज्झं । वेयपयाण य अत्थं न याणसि तेसिमो अत्थो ॥ १६१० ॥ हे अग्निभूते ! गौतम ! त्वमेतद् मन्यसे चिन्तयसि यदुत - क्रियते मिथ्यात्वादिहेतुसमन्वितेन जीवेनेति कर्म ज्ञानावरणादिकम्, तत् किमस्ति नास्ति वा ? इति । नन्वयमनुचितस्तव संशयः । अयं हि भवतो विरुद्धवेदपदनिबन्धनो वर्तते, तेषां च वेदपदानां स्वमर्थं न जानासि तेन संशयं करोषि । तेषां च वेदपदानामयं वक्ष्यमाणलक्षणोऽर्थ इति ।। १६१० ॥ अत्र भाष्यम् -- म्मे तुह संदेहो मन्नसि तं नाणगोयराईयं । तुह तमणुमाणसाहणमणुभूइमयं फलं जस्स ॥ १६११ ॥ हे आयुष्मन्ननिभूते ! ज्ञानावरणादिपरमाणु संघातरूपे कर्मणि तव संदेहः, यतः प्रत्यक्षानुमानादिसमस्तप्रमाणात्मकज्ञानगोचरातीतमेव तत् त्वं मन्यसे, तथाहि न तावत् प्रत्यक्षं कर्म, अतीन्द्रियत्वात् खरविषाणवत्, इत्यादि प्रमाणविषयातीतत्वं प्रावज्जीवस्येव कर्मणोऽपि समानप्रायत्वाद् भावनीयमिति । तदेतत् सौम्य ! मा स्थास्त्वम्, यतो मम तावत् प्रत्यक्षमेव कर्म, तवाप्यनुमानं साधनं यस्य तदनुमानसाधनं वर्तते तत् कर्म, न पुनः सर्वप्रमाणगोचरातीतम् । यस्य किम् ? इत्याह- 'अणुभूइमयं फलं जस्स ति' सुख-दुःखानामनुभूतिरनुभवनं तन्मयं तदात्मकं फलं यस्य शुभाशुभकर्मण इति । अनेन चेदमनुमानं सूचितम् अस्ति सुख-दु:खानुभवस्य हेतु:, कार्यत्वात् अङ्कुरस्येवेति । अथ यदि भवतः प्रत्यक्षं कर्म, तर्हि ममापि तत्प्रत्यक्षं कस्माद् न भवति ? इति चेत् । तदयुक्तम्, न हि यदेकस्य कस्यचित् प्रत्यक्षं तेनापरस्यापि प्रत्यक्षेण भवितव्यम् । न हि सिंह-सरभ-हंसादयः सर्वस्यापि लोकस्य प्रत्यक्षाः, न च ते न सन्ति बालादीना - १ किं मन्यसेऽस्ति कर्म उताहो नास्तीति संशयस्तव । वेदपदानां चार्थे न जानासि तेषामयमर्थः ॥ १६१० ॥ २ कर्मणि तव संदेहो मन्यसे तज्ज्ञानगोचरातीतम् । तव तदनुमानसाधनमनुभूतिमयं फलं यस्य ।। १६११ । For Personal and Private Use Only वृद्वृत्तिः । ||६८८|| Page #91 -------------------------------------------------------------------------- ________________ विशेषा० ||६८९ ।। Jain Educationa Internationa मपि तत्सर्वस्य प्रसिद्धत्वात् । तस्मादस्ति कर्म, सर्वज्ञत्वेन मया प्रत्यक्षीकृतत्वात् भवत्संशयविज्ञानवदिति । न च वक्तव्यम् - त्वयि सर्वज्ञत्वमस्मान् प्रत्यसिद्धम् 'केह सव्वण्णु त्ति मई जेणाहं सव्वसंसयच्छेई, पुच्छसु व जं न याणसि' इत्यादिना प्रागेव प्रतिविहितत्वात् । कार्यप्रत्यक्षतया भवतोऽपि च प्रत्यक्षमेव कर्म, यथा घटादिकार्यप्रत्यक्षतया परमाणव इति ।। १६११ ।। यदुक्तम्- 'तुह तमणुमाणसाहणं' इति, तदेवानुमानमाह अथ सुह दुक्खऊ कज्जाओ बीयमंकुररसेव । सो दिट्ठो चैव मई वभिचाराओ न तं जुतं ॥ १६१२॥ जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं ॥ १६१३ ॥ प्रतिप्राणि प्रसिद्धयोः सुख-दुःखयोर्हेतुरस्ति, कार्यत्वात्, अङ्कुरस्येव वीजमिति । यश्चेह सुख-दुःखयोर्हेतुस्तत् कर्मैव इत्यस्ति तदिति । स्याद् मतिः- स्रक्- चन्दना ङ्गनादयः सुखस्य हेतवः, दुःखस्य त्वहि-विष कण्टकादयः, इति दृष्ट एव सुख-दुःखयोर्हेतुरस्ति, किमदृष्टस्य कर्मणस्तद्धेतुत्वकल्पनेन ? । न हि दृष्टपरिहारेणादृष्टकल्पना संगतत्वमावहति, अतिप्रसङ्गात् । तदयुक्तम्, व्यभिचारात्, तथाहि - 'जो तुल्लेत्यादि' इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुख साधनसमेत योर निष्टार्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुखदुःखानुभवनलक्षणे विशेषस्तारतम्यरूपो दृश्यते, नासावदृष्टं कमपि हेतुमन्तरेणोपपद्यते, कार्यत्वात्, घटवत् । यश्च तत्र विशेषाधायकोSeष्टस्तद् गौतम ! कर्मेति प्रतिपद्यस्येति ।। १६१२ ।। १६१३ ।। अनुमानान्तरमपि कर्मसाधनायाह बौलसरीरं देहंतरपुत्रं इंदियाइमत्ताओ । जह बालदेहपुव्वो जुवदेहो, पुव्त्रमिह कम्मं ॥ १६१४ || शरीरान्तरपूर्व कमाद्यं बालशरीरम् इन्द्रियादिमच्चात्, युवशरीरवदिति, आदिशब्दात् सुख-दुःखित्व-प्राणा-पान- निमेषोमेष - जीवनादिमत्वादयोऽपि हेतवो ग्राह्याः । न च जन्मान्तरातीतशरीरपूर्वकमेवेदमिति शक्यते वक्तुम्, तस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः । न चाशरीरिणो नियतगर्भ-देश- स्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामक कारणाभावात् । नापि स्वभावो १ गाथा १५७९ । २ घ.ज. 'च्छेदी' । ३ अस्ति सुख-दुःखहेतुः कार्या (यत्वात् ) बीजमङ्करस्येव । स दृष्ट एवं मतिर्व्यभिचाराद् न तद् युक्तम् ।।१६१२॥ यस्तुल्यसाधनयो: फले विशेषो न स विना हेतुम् । कार्यस्वतो गौतम ! घट इव हेतुश्च स कर्म ।। १६१३ ।। ४ बालशरीरं देहान्तरपूर्व कमिन्द्रियादिमत्वात् । यथा बालदेहपूर्वी युवदेहः, पूर्वमिह कर्म ॥। १६९४ ॥ 6'9 For Personal and Private Use Only बृहद्वृत्तिः । ||६८९ ॥ Page #92 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । Baral सयररच्या नियामकः, तस्य निराकरिष्यमाणत्वात् । यच्चेह बालशरीरस्य पूर्व शरीरान्तरं तत् 'कर्म' इति मन्तव्यम्- कार्मणं शरीरमित्यर्थः, "जोएण कम्मएणं आहारेई अणंतरं जीवो" इत्यादिवचनादिति ॥ १६१४ ॥ अनुमानान्तरमपि तत्सिद्धये पाह-- किरियाफलभावाओ दाणाईणं फलं किसीए ब्व । तं चिय दाणाइफलं मणप्पसायाई जइ बुद्धी ॥१६१५॥ किरियासामण्णाओ जं फलमस्सावि तं मयं कम्मं । तस्स परिणामरूवं सुह-दुक्खफलं जओ भुजो॥१६१६॥ 'दाणाईणं फलं ति' इह दानादिक्रियाणां फलमस्ति 'किरियाफलभावाउ त्ति' सचेतनारब्धक्रियाणां फलभावात् फलभाव दर्शनादित्यर्थः, यथा कृषिक्रियायाः । इह या चेतनारब्धक्रिया तस्याः फलं दृष्टम् , यथा कुष्यादिक्रियायाः, चेतनारब्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः, यच्च तासां फलं तत् कर्म । या तु निष्फला क्रिया सा सचेतनारब्धापि न भवति, यथा परपावादिक्रिया, सचेतनारन्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः। स्यादेतत् , अनैकान्तिकोऽयं हेतुः, चेतनारन्धानामपि कासांचित् कृष्यादिक्रियाणां निष्फलत्वदर्शनात् । तदयुक्तम् , फलवचाभिप्रायेणैव तदारम्भात् । यच कचिद् निष्फलत्वमपि दृश्यते तत्सम्यग्ज्ञानाद्यभावेन सामग्रीवैकल्याद् द्रष्टव्यम् , मनःशुद्ध्यादिसामग्रीविकलतया दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः। यदि चात्र परस्यैवभूता बुद्धिः स्यात् । कथंभूता? इत्याह- 'तं चियेत्यादि' तदेव दानादिक्रियाणां फलं यदस्मादृशामपि | प्रत्यक्षं मनःप्रसादादि । इदमुक्तं भवति- कृष्यादिक्रिया दृष्टधान्याद्यवाप्तिफला दृष्टाः, अतो दानादिक्रियाणामपि दृष्टमेव मनःप्रसादादिकं फलं भविष्यति, किमदृष्टकर्मलक्षणफलसाधनेन ?। तत इष्टविरुद्धसाधनाद् विरुद्धोऽयं हेतुः । तत्र वयं ब्रूमः- 'किरियासामण्णाओ इत्यादि' अस्यापि मनःप्रसादस्य यत् फलं तद् मम कर्म संमतम् । ननु मनःप्रसादस्यापि कथं फलमभिधीयते ? इत्याह-किरियासामण्णाउ ति' इदमुक्तं भवति- मनःप्रसादोऽपि क्रियारूप एव, ततश्च यथा दान-कृष्यादिकाः क्रियाः फलवत्यः, तथा क्रियासाम्याद् मनःप्रसादस्यापि फलेन भवितव्यमेव, यच्च तस्य फलं तत् कमैंव, इति न कश्चिद् व्यभिचारः । यतः कर्मणः सकाशात् , किम् ? इत्याह- 'सुह-दुक्खफलं जउ त्ति' सुख-दुःखरूपं फलं सुख-दुःखफलं यतो यस्मात् कर्मणः |, योगेन कर्मकेणाहरत्यनन्तरं जीवः । २ क्रियाफळभावाद् दानादीनां फलं कृषरिव । तदेव दानादिफलं मनःप्रसादादि यदि बुद्धिः ॥ १६१५ ॥ क्रियासामान्याद् यत्फलमस्यापि तद् मतं कर्म । तस्य परिणामरूपं सुख-दुःखफलं यतो भूयः ।। १६१६॥ ३ घ.ज. 'त्र' ||६९०॥ सखारासस Jan Education a l Forson and Private Use Only Page #93 -------------------------------------------------------------------------- ________________ विशेषा० ॥६९१॥ सकाशाज्जायते । कथम् ? भूयः पुन: पुनरपि । कथंभूतं यत् सुख-दुःखफलम् ? इत्याह- तस्यैव कर्मणस्तजनकत्वेन यत परिणमनं परिणामस्तद्रूपमिति । एतदुक्तं भवति- यतः कर्मणः सकाशात् पतिक्षणं तत्परिणतिरूपं सुख-दुःखफलं पाणिनां समुपजायते, तत् कर्म मनाप्रसादक्रियाया अपि फलमभिमतम् । आह- नन्वनन्तरगाथायां 'दानादिक्रियाफलं कर्म' इति वदता दानादिक्रियैव कर्मणः कारणमुक्ता, अत्र तु मनःप्रसादादिक्रिया तत्कारणमुच्यते, इति कथं न पूर्वापरविरोधः । इति । सत्यम् , किन्तु मनःप्रसादादिक्रियैवानन्तर्येण कर्मणः कारणम् , केवलं तस्या अपि मनाप्रसादादिक्रियाया दानादिक्रियैव कारणम् , अतः कारणकारणे कारणोपचाराददोष इति ।। १६१५ ।। १६१६ ।। अत्र पुनरपि प्रेर्यमाशङ्कय परिहारमाह होज मणोवित्तीए दाणाइकिए व जइ फलं बुद्धी । तं न निमित्तताओ पिंडो व्व घडस्स विन्नेओ ॥१६१७॥ अत्र परस्य यद्येवंभूता बुद्धिः स्यात् । कथंभूता ? इत्याह- ननु मनोवृत्तमनःप्रसत्यादिक्रियाया दृष्टरूपा दानादिक्रियैव फलम् , न स्वदृष्टं कर्मेति भावः । अयमभिप्रायः-दानादिक्रियातो मनाप्रसादादयो जायन्ते, तेभ्यश्च प्रवर्धमानदित्सादिपरिणामः पुनरपि दानादिक्रियां करोति, एवं पुनः पुनरपि दानक्रियाप्रवृत्तेः सैव मनःप्रसादादेः फलमस्तु, न तु कर्मेति भावः, दृष्टफलमात्रेणैव चरि| तार्थत्वात् किमदृष्टफलकल्पनेन ? इति हृदयम् । तदेतद् न । कुतः ? निमित्तत्वाद्-मनःप्रसादादिक्रिया प्रति दानादिक्रियाया निमि| त्तकारणत्वादित्यर्थः, यथा मृत्पिण्डो घटस्य निमित्तं विज्ञेयस्तथा दानादिक्रियापि मनःप्रसत्तेः। दृश्यन्ते हि पात्रदानादिभ्यश्चित्ताहादादयो जायमानाः । न च यद् यस्य निमित्तं तत् तस्यैव फलं वक्तुमुचितम् , दूरविरुद्धत्वादिति ॥ १६१७ ॥ पुनरपि दृष्टान्तीकृतकृष्यादिक्रियावष्टम्भेनैव सर्वासामपि क्रियाणां दृष्टफलमात्ररूपतामेव साधयन्नाह प्रेरकःऐवं पि दिट्ठफलया किरिया न कम्मफला पसत्ता ते । सा तम्मेत्तफल च्चिय जह मंसफलो पसुविणासो ॥१६१८॥ नन्वेवमपि युष्मदुपन्यस्तकृष्यादिक्रियानिदर्शनेनापीत्यर्थः, सर्वा दानादिकापि क्रिया दृष्टफलदैव प्रसक्ता न कर्मफला । इदमुक्तं भवति- यथा कृष्यादिक्रिया दृष्टफलमात्रेणैवावसितप्रयोजना भवति, तथा दानादिक्रियाया अपि श्लाघादिकं किञ्चिद् , भवेद् मनोवृत्तेर्दानादिक्रियैव यदि फलं बुद्धिः । तद् न निमित्तत्वात् पिण्ड इव घटस्य विज्ञेयः ॥ १६१७॥ २ एवमपि एफला क्रिया न कर्मफला प्रसक्ता ते । सा तन्मात्रफलैव यथा मांसफलः पशुबिनाशः१६१८ ॥ Jan Education Intera For Personal and Private Use Only T www.janeltrary.ana Page #94 -------------------------------------------------------------------------- ________________ विशेषा. ॥६९२॥ दृष्टफलमस्तु, किमदृष्टफलकल्पनेन ?। किंबहुना ?, सा क्रिया सर्वापि तन्मात्रफलैब दृष्टमात्रफलैव युज्यते, नादृष्टफला, यथा दृष्टमांसमात्रफला पशुविनाशक्रिया; न हि पशुविशसनक्रियामदृष्टाधर्मफलार्थ कोऽप्यारभते, किन्तु मांसभक्षणार्थम् । अतस्तन्मात्रफलैव सा, तावतैवावसितप्रयोजनत्वात् । एवं दानादिक्रियाया अपि दृष्ठमात्रमेव श्लाघादिकं किश्चित् फलम् , नान्यदिति ॥ १६१८ ।। अस्यैवार्थस्य समर्थनार्थ कारणान्तरमाह पायं व जीवलोगो वट्टइ दिट्ठफलासु किरियासु । अदिट्ठफलासुं पुण वट्टइ नासंखभागो वि ॥ १६१९ ॥ . लोकोऽपि च प्रायेण दृष्टमात्रफलाखेव कृषि-वाणिज्यादिक्रियासु प्रवर्तते, अदृष्टफलासु पुनर्दानादिक्रियासु तदसंख्येयभागोऽपि न वर्तते- कतिपयमात्र एव लोकस्तासु प्रवर्तते, न बहुरित्यर्थः । ततश्च हिंसादीनामशुभक्रियाणामदृष्टफलाभावाच्छुभक्रियाणामपि दानादीनामदृष्टफलाभावो भविष्यति । इति पराभिप्राय इति ।। १६१९ ।। भगवानाह सोम्म ! जउ च्चिय जीवा पायं दिट्ठप्फलासु वटुंति । अदिट्ठफलाओ वि य ताओ पडिवज तेणेव ॥१६२०॥ सौम्य ! इत्यनिभूतेरामन्त्रणम् , यत एव प्राणिनः प्रायेण कृषि-वाणिज्य-हिंसादिकास्खेव दृष्टफलास्व शुभक्रियासु प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिकासु शुभक्रियासु स्वल्पा एवं प्रवर्तन्ते, तेनैव तस्मादेव कारणात् ता अपि कृषि हिंसादिका दृष्टफलाः क्रिया अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ । इदमुक्तं भवति- यद्यपि कृषि-हिंसादिक्रियाकर्तारो दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थम् , तथापि तेऽधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव, अनन्तसंसारिजीवान्यथानुपपत्तेः । ते हि कृषि-हिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्धाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति, दानादिक्रियानुष्ठातारस्तु स्वल्पा अदृष्टं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति । ___ ननु दानादिक्रियानुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत् तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं तत् तेषां कथं भवति ? इति चेत् । तदयुक्तम् , न ह्यविकलं कारणं स्वकार्य जनयत् कस्याप्याशंसामपेक्षते, किन्त्वविकलकारणतया स्वकार्य जनयत्येव । वप्तुरज्ञातमपि हि कोद्रवादिवीजं कचिद् भूप्रदेशे पतितं जलादिसामग्रीसद्भावेऽविकलकारणतां प्राप्त १क.ग. "विनाशन' । २ प्रायो वा जीवलोको वर्तते दृष्टफलासु क्रियासु । अदृष्टफलासु पुनर्वर्तते नासंख्यभागोऽपि ॥ १६.९॥ । सौम्य ! यत एवं जीवाः प्रायो दृष्टफलायु वर्तन्ते । अरष्टफला अपि च ताः प्रतिपय स्ख तेनैव ॥ १६२० ॥ ॥६९२॥ Jan Education Internation Foc Pesonal and Private Use Only www.janelbrary.org Page #95 -------------------------------------------------------------------------- ________________ विशेषा० ॥६९३|| वत्राशंसाभावेऽपि स्वकार्य जनयत्येव । अविकलकारणभूताश्च कृषि-हिंसादयोऽधर्मजनने । अतस्तत्कर्तृगताशंसा तत्र कोपयुज्यते । न च दानादिक्रियायामपि विवेकिनः फलाशंसां कुर्वते, तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति । तस्मात् शुभाया अशुभायाश्च सर्वस्या अपि क्रियाया अदृष्टं शुभा-ऽशुभं फलमस्त्येवेति प्रतिपत्तव्यम् , अनन्तसंसारिजीवसत्तान्यथानुपपत्तेरिति स्थितम् ।। १६२० ॥ एतदेव प्रतिपादयितुमाह इहरा अदिहरहिया सव्वे मुच्चेज ते अपयत्तेणं । अदिट्ठारंभो चेव केसबहुलो भविजाहि ॥ १६२१ ॥ इतरथा यदि कृषि-हिंसाधशुभक्रियाणामदृष्टं फलं नाभ्युपगम्येत, तदा ते तत्कर्तारोऽदृष्टफलाभावाद् मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्चरन्- संसारकारणाभावाद् मुक्तिं गच्छेयुः, ततश्च प्रायः शून्य एव संसार: स्यादित्यर्थः । यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव क्लेशबहुलः संसारपरिभ्रमणकारणतया दुरन्तः स्यात् । तथाहि- ते दानादिक्रियानुष्ठातारस्तदनुष्ठानेनादृष्टफलानुबन्धं विदध्युः, ततो जन्मान्तरे तद्विपाकमनुभवन्तस्तत्प्रेरिताः पुनरपि दानादिक्रियास्वेव प्रवर्तेरन् , ततो भूयस्तफलसंचयात् तद्विपाकानुभूतिः, पुनरपि दानादिक्रियारम्भः, इत्येवमनन्तसंततिमयः संसारस्तेषां भवेत् । तत्रैतत् स्यात् , इत्थमप्यस्तु, कात्र किलास्माकं बाधा ? । अत्रोच्यते- इयमत्र गरीयसी भवतां बाधा, यत् कृषि-हिंसाद्यशुभक्रियानुष्ठातृणामदृष्टसंचयाभावे सर्वेषां मुक्तिगमन एकोऽपि तक्रियानुष्ठाता संसारे कापि नोपलभ्येत, अशुभतत्फलविपाकानुभविता चैकोऽपि कचिदपि न दृश्येत, दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव च केवलाः सर्वत्रोपलभ्येरन् , न चैवं दृश्यते ॥ १६२१ ॥ तस्मात् किम् ? इत्याह जमणिट्ठभोगभाजो बहुतरगा जं च नेहमइपुव्वं । अहिट्ठाणिट्ठफलं कोइ विकिरियं समारभइ ॥१६२२॥ तेण पडिवज, किरिया अदिद्रुगंतियप्फला सव्वा । दिट्ठाणेगंतफला सा वि अदिट्ठाणुभावेण ॥१६२३॥ , इतरथाऽदष्टरहिताः सर्वे मुच्येरस्ते प्रयत्नेन । अदृष्टारम्भ एव क्लेशबहुलो भवेत् ॥ १६२१॥ २ यदनिष्टभोगभाजो बहुतरका यच्च नेह मतिपूर्वाम् । अदृष्टानिष्टफलां कश्चिदपि क्रिया समारभते ॥ १५२२ ॥ तेन प्रतिपयस्व क्रियाष्टकान्तिकफला सर्वा । इष्टानकान्तिकफला सायरष्टानुभावेन ॥ १६२३ ।। ह क ॥६९३ हमकरस्कार Jan Education Intera Foc Pesonal and Private Use Only www.janelbrary.org Page #96 -------------------------------------------------------------------------- ________________ विशेषा० ॥६९४॥ Jain Education Internat यस्मादनिष्टभोगभाजो बहुतरा भूयांसः - अशुभकर्मविपाकजनितदुःखभाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते, शुभकर्मविपाकनिबन्धनसुखानुभवितारस्तु स्वल्पा एवेति भावः । तेन तस्मात् कारणात् सौम्य ! प्रतिपद्यस्त्र शुभाशुभा वा सर्वाऽपि क्रिया, अदृष्टं शुभाशुभं कर्मरूपमैकान्तिकं फलं यस्याः साऽदृष्टैकान्तिकफलेत्युत्तरगाथायां संबन्धः । इदमुक्तं भवति येन दुःखिनोऽत्र बहवः प्राणिनो दृश्यन्ते सुखिनस्तु स्वल्पाः तेन ज्ञायते - कृषि-वाणिज्य हिंसादिक्रियानिबन्धनाशुभकर्मरूपादृष्टफलविपाको दुःखिनाम्, इतरेषां तु दानादिक्रिया हेतुकशुभकर्मरूपादृष्टफलविपाक इति । व्यत्ययः कस्माद् न भवति ? इति चेत् । उच्यते- अशुभक्रियारम्भि णामेव बहुत्वात् शुभक्रियानुष्ठातृणामेव च स्वल्पत्वादिति । अत्राह - नन्वशुभक्रियारम्भकाणामपि यद्यदृष्टफलं भवति, तत् किमिति दानादिक्रियारम्भक इव तदारम्भकोsपि कश्चित् तदाशंसां कुर्वाणो न दृश्यते ? इत्याह- 'जं च नेहेत्यादि' यस्माच नेहाऽदृष्टमनिष्टमशुभं फलं यस्याः साऽदृष्टानिष्टफला तामित्यंभूत क्रियां मतिपूर्वमाशंसाबुद्धिपूर्विकां कोऽपि समारभते, इत्यतो न कोऽपि तदाशंसां कुर्वाणो दृश्यते । तस्मात् सर्वापि क्रियाsहकान्तिकफलेति प्रतिपद्यखेति । पुनरपि कथंभूताः इत्याह- 'दिट्ठाणेगतफल त्ति' दृष्टं धान्य- द्रविणलाभादिकमनैकान्तिकमवश्यंभावि फलं यस्याः कृषिवाणिज्यादिक्रियायाः सा दृष्टानैकान्तिकफला सर्वापि क्रिया । इदमुक्तं भवति - सर्वस्या अपि क्रियाया अदृष्टं फलं तावदेकान्तेनैव भवति, यत्तु दृष्टफलं तदनैकान्तिकमेव- कस्याश्चित् तद् भवति कस्याविद् नेत्यर्थः । एतच्च दृष्टफलस्यानैकान्तिकत्वमदृष्टानुभावेनैवेति प्रतिपत्तव्यम् । न हि समानसाधनारब्धतुल्यक्रियाणां द्वयोर्वहूनां वैकस्य दृष्टफलविघातः, अन्यस्य तु न इत्येतददृष्टहेतुमन्तरेणोपपद्यत इति भावः । एतच्चैव प्रागुक्तमेवेति ।। १६२२ ।। १६२३ ।। अथवा, किमिह प्रयासेन ? प्रागेव साधितं कर्म । कया युक्त्या ? इत्याह हवा फलाउ कम्मं कजत्तणओ पसाहियं पुण्यं । परमाणवो घडस्स व किरियाण तयं फलं भिन्नं ॥ १६२४|| अथवा, " जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं ॥ १ ॥' १ घ.ज. 'ष्टं द्रविणधान्यला' । २ अथवा फलात् कर्म कार्यत्वतः प्रसाधितं पूर्वम् । परमाणवो घटस्येव क्रियाणां तत् फलं भिन्नम् ।। १६२४ ।। ३ गाथा १६१३ | For Personal and Private Use Only बृहद्वृत्तिः । ||६९४ || www.jainveltaaryair Page #97 -------------------------------------------------------------------------- ________________ विशेषा० ॥ ६९५ ॥ Jain Education Internat इत्यस्यां गाथायां प्रागस्माभिः कर्म प्रसाधितमेव । कुतः १ इत्याह- फलात् तुल्यसाधनानां यः फले विशेषस्तस्मादित्यर्थः । ततोऽपि फलविशेषात् कस्मात् प्रसाधितं कर्म ? इत्याह- कार्यत्वात् तस्य फलविशेषस्य यच्च कार्य तस्य कारणं भवत्येव यथा घटस्य परमाणवः, यच्चेह कारणं तत् कर्म । 'किरियाण तयं फलं भिन्नं ति' तदेव च कर्म सर्वासामपि क्रियाणामदृष्टं फलमित्येवमिहापि साध्यते । कथंभूतम् १ ताभ्यः क्रियाभ्यो भिन्नम् कर्मणः कार्यत्वात् क्रियाणां च कारणत्वात्, कार्यकारणयोश्च परस्परं | भेदादिति भावः ।। १५२४ ॥ अत्राक्षेप - परिहारौ प्राह आह नणु मुत्तमेवं मुत्तं चिय कज्जमुत्तिमत्ताओ। इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥ १६२५॥ आह प्रेरक :- ननु यदि कार्याणां शरीरादीनां दर्शनात् तत्कारणभूतं कर्म साध्यते, तर्हि कार्यस्य मूर्तस्वात् कर्मापि मूर्त प्राप्नोति । आचार्य उत्तरमाह - 'मुत्तं चियेत्यादि' यदस्माभिः प्रयत्नेन साधयितव्यम्, तद्भवतापि परसिद्धान्तानभिज्ञबालबुद्धितयाऽनिष्टापादनाभिप्रायेण साधितमेव, तथाहि वयमपि ब्रूमः- मूर्तमेव कर्म, तत्कार्यस्य शरीरादेर्मूर्तत्वात् इह यस्य यस्य कार्य मूर्त तस्य तस्य कारणमपि मूर्तम्, यथा घटस्य परमाणवः, यश्चामूर्त कार्य न तस्य कारणं मूर्त, यथा ज्ञानस्यात्मेति । समवायिकारणं चेहाधिक्रियते, न निमित्तकारणभूता रूपाऽऽलोकादय इति । आह- ननु सुख-दुःखादयोऽपि कर्मणः कार्यम्, अतस्तेषाममूर्तत्वात् कर्मणोमूर्तत्वमपि प्रामोति । न हि मूर्तादमूर्तप्रसवो युज्यते । न चैकस्य मूर्तत्वममूर्तत्वं च युक्तम्, विरुद्धत्वात् । अत्रोच्यते नन्वत एवात्र समवायिकारणमधिक्रियते, न निमित्तकारणम्, सुख-दुःखादीनां चात्मधर्मत्वादात्मैव समवायिकारणम्, कर्म पुनस्तेषामन्नपाना ऽहि विपादिवद् निमित्तकारणमेवेत्यदोष इति । १६२५ ।। कर्मणो मूर्तस्वसाधनाय हेत्वन्तराण्यप्याह तेह सुहसंवित्तीओ संबंधे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ १६२६ ॥ आहार इवानल इव घडु व्व नेहाइकयबलाहाणो । खीरमिवोदाहरणाई कम्मरूवित्तगमगाई || १६२७॥ १ आह ननु मूर्तमेवं मूर्तमेव कार्यमूर्तिमत्त्वात् । इह यथा मूर्तस्वतो घटस्य परमाणवो मूर्ताः ॥ १६२५ ॥ २ तथा सुखसंविसेः संबन्धे वेदनोजवाय बाावलाधानात् परिणामाच्च विज्ञेयम् ।। १६२६ ।। आहार इवानल इव घट इव नेहादिकृतबलाधानः । क्षीरमिवोदाहरणानि कर्मरूपित्वगमकानि ॥ १६२७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।६९५।। Page #98 -------------------------------------------------------------------------- ________________ विशेषा. ॥६९६॥ इह प्रथमगाथोपन्यस्तहेतुचतुष्टयस्य द्वितीयगाथायां यथासंख्यं चत्वारो दृष्टान्ता द्रष्टव्याः। तत्र मूर्त कर्म, तत्संबन्धे सुखादिसंवित्तेः, इह यत्संबन्धे सुखादि संवेद्यते तद् मूर्तं दृष्टम् , यथाऽशनाद्याहारः, यच्चामृत न तत्संबन्ध सुखादिसंविदस्ति, यथा5sकाशसंबन्धे, संवेद्यते च तत्संबन्धे सुखादि, तस्मात् मूर्तं कर्मेति । तथा, यत्संबन्धे वेदनोद्भवो भवति तद् मूर्ते दृष्टम् , यथाऽनलोऽग्निः, भवति च कर्मसंबन्धे वेदनोद्भवः, तस्मात् तद् मूर्तमिति । तथा, मूत कर्म, आत्मनो ज्ञानादीनां च तद्धर्माणां व्यतिरिक्तत्वे सति बाधेन सक्-चन्दना-ऽङ्गनादिना बलस्योपचयस्याधीयमानत्वात् , यथा स्नेहाद्याहितबलो घटः, इह यस्यानात्म-विज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तद् मूर्तं दृष्टम् , यथा स्नेहादिनाऽऽधीयमानबलो घटः, आधीयते च बार्मिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलम् , तस्मात् तद् मूर्तमिति । तथा, मूर्त कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात् , क्षीरमिवेति । एवमादीनि हेतू-दाहरणानि कर्मणो रूपित्वगमकानीति ॥ १६२६ ॥१६२७ ।। अत्र परिणामित्वासिद्धिमाशङ्कयोत्तरमाह अह मयमसिहमेयं परिणामाउ त्ति सो वि कज्जाओ। सिद्धो परिणामो से दहिपरिणामादिव पयस्स ॥१६२८॥ _ अथ 'परिणामित्वात्' इत्यसिद्धोऽयं हेतुरिति मतं भवतः । एतदप्ययुक्तम् , यतः सोऽपि परिणामः सिद्धः कर्मणः, 'कज्जाउ ति' कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनादित्यर्थः । इह यस्य कार्य परिणाम्युपलभ्यते तस्यात्मनोऽपि परिणामित्वं निश्चीयते, यथा दनस्तकादिभावेन परिणामात् पयसोऽपि परिणामित्वं विज्ञायत एवेति ॥ १६२८ ॥ यत् पूर्व सुख-दुःखादिवैचित्र्यदर्शनात् तद्धेतुभूतं कर्म साधितं, तत्र पुनरप्यामिभूतिराहअब्भादिविगाराणं जह वेचित्तं विणा वि कम्मेण । तह जइ संसारीणं हवेज को नाम तो दोसो ? ॥१६२९॥ आह-ननु यथाऽभ्रादिविकाराणामन्तरेणापि कर्म, वैचित्र्यं दृश्यते, तथा तेनैव प्रकारेण संसारिजीवस्कन्धानामपि सुखदुःखादिभावेन वैचित्र्यं यदि कर्म विनापि स्यात् , ततः को नाम दोषो भवेत् ?-न कोऽपीत्यर्थः ॥ १६२९ ।। भगवानाह-- क. ख. ग. 'बन्धि तस्मात् तत्संबन्धिसुखादिसंवेदनाद् मू। २ मध मतमसितमेतत् परिणामादिति सोऽपि कार्यात् । सिद्धः परिणामसस्य दधिपरिणामादिव पयसः ॥ १॥२८॥ ३ अभादिविकाराणां यथा वैचित्र्यं विनापि कर्मणा । तथा यदि संसारिणां भवेत् को नाम ततो दोषः ॥२९॥ ETRACelod दि Jan Education Internatio For Personal and private Use Only www.jannelbrary.org Page #99 -------------------------------------------------------------------------- ________________ कुमार ETSAMRAPraka विशेषा ॥६९७॥ कम्मम्मि व को भेओजह बज्झक्खंधचित्तया सिद्धा। तह कम्मपोग्गलाण वि विचित्तया जीवसहियाणं ॥१६३०॥ यद्यभ्रविकाराणां गन्धर्वनगरे-न्द्रधनुरादीनां गृह-देवकुल-प्राकार-तरु-कृष्ण-नील-रक्तादिभावेन वैचित्र्यमिष्यते सौम्य !, वाशब्दस्यापिशब्दार्थत्वात् , तर्हि कर्मण्यपि को भेदः को विशेषः, येन तत्र वैचित्र्यं नाभ्युपगम्यते ? । ननु हन्त ! यथा सकललोकप्रत्यक्षाणाममीषां गन्धर्वपुर-शककोदण्डादीनां बाह्यस्कन्धानां विचित्रता भवतोऽपि सिद्धा, तथा तेनैव प्रकारेणान्तराणामपि कर्मस्कन्धानां पुद्गलमयत्वे समानेऽपि जीवसहितत्वस्य विशेषवतो वैचित्र्यकारणसद्भावेऽपि सुख-दुःखादिजनकरूपतया विचित्रता किमिति नेष्यते ? । यदि ह्यभ्रादयो बाह्यपुद्गला नानारूपतया परिणमन्ति, तर्हि जीवैः परिगृहीताः सुतरां ते तथा परिणंस्यन्तीति भावः ॥ १६३०॥ एवदेव भावयति बैज्झाण चित्तया जइ पडिवन्ना कैम्मणो विसेसेण । जीवाणुगयस्स मया भत्तीण वैसिप्पिनत्थाणं ॥१६३१॥ यदि हि जीवापरिगृहीतानामपि बाह्यानामभ्रादिपुद्गलानां नानाकारपरिणतिरूपा चित्रता त्वया प्रतिपन्ना, तर्हि जीवानुगतानां कर्म-पुद्गलानां विशेषत एवास्माकं भवतश्च सा सम्मता भविष्यति, भक्तयो विच्छित्तयस्तासामिव "चित्रादिषु शिल्पिन्यस्तानाम् । अयमभिप्रायः-चित्रकरादिशिल्पिजीवपरिगृहीतानां चित्र-लेप्य-काष्ठकर्मानुगतपुद्गलानां या परिणामचित्रता सा विस्त्रसापरिणतेन्द्रधनुरादिपुद्गलपरिणामचित्रतायाः सकाशाद् विशिष्टेवेति प्रत्यक्षत एव दृश्यते । अतो जीवपरिगृहीतत्वेन कर्मपुद्गलानामपि सुख-दुःखादिवैचित्र्यजननरूपा विशिष्टतरा परिणामचित्रता कथं न स्यात् ? इति ।। १६३१ ।। अत्र परः माह--- तो जइ तणुमत्तं चिय हवेज का कम्मकप्पणा नाम ? । कम्म पि नणु तणु च्चिय सण्हयरमंतरा नवरं ॥१६३२॥ एवं मन्यते परः- यद्यभ्रादिविकाराणामिव कर्मपुद्गलानां विचित्रपरिणतिरभ्युपगम्यते । ततो बाह्यं सकलजनप्रत्यक्षं तनुमात्रमे. कर्मणि वा को भेदो यथा बायस्कन्धचित्रता सिद्धा । तवा कर्मपुद्गलानामपि विचित्रता जीवसहितानाम् ॥ १६३०॥ २ बाह्यानां चित्रता यदि प्रतिपन्ना कर्मणो विशेषेण । जीवानुगतस्य मता भक्तीनामिव शिल्पिन्यस्तानाम् ॥१६३१॥ ३ घ.ज.'कम्मुणो' । ४ क.ख. ग. झ.'व चित्तन' । ५ क. स्व. ग. 'चित्रन्य' । ६ ततो यदि तनुमात्रमेव भवेत् का कर्मकल्पना नाम ? । कर्मापि ननु तनुरेव सूक्ष्मतराभ्यन्तरा नवरम् ॥ १६३२ ॥ ॥६९७॥ Jan Education Internatio For and Private Use Only www.janeibrary.org Page #100 -------------------------------------------------------------------------- ________________ विशेषा० ॥६९८ ॥ Jain Educationa Internati वेदं सुरूप- कुरूप सुख-दुःखादिभावैः स्वभावत एवाभ्रादिविकारवद् विचित्ररूपतया परिणमति, इत्येतदेवास्तु का नाम पुनस्तद्वैचित्र्यहेतुभूतस्यान्तर्गकल्पस्य कर्मणः परिकल्पना, स्वभावादेव सर्वस्यापि पुद्गलपरिणामवैचित्र्यस्य सिद्धत्वात् । इति । भगवानाह - 'कम्मं पीत्यादि । अयमभिप्रायः- यद्यभ्रादिविकाराणामित्र तनोर्वैचित्र्यमभ्युपगम्यते, तर्हि ननु कर्मापि तनुंरव, कार्मणशरीरमेवेत्यर्थः, केवलं श्लक्ष्णतरा, अतीन्द्रियत्वात्; अभ्यन्तरा च, जीवेन सहातिसंश्लिष्टत्वात् । ततश्च यथाऽभ्रादिविकारवद् बाह्यस्थूरतनोर्वैचित्र्यमभ्युपगम्यते, तथा कर्मतनोरपि तत्किं नाभ्युपगम्यते ? इति भावः ।। १६३२ ।। अथ प्रेर्यमाशङ्कय परिहरन्नाह hi ती विणा दोसो लाए सव्वहा विप्पमुकस्स । देहग्गहणाभावो तउ य संसारवोच्छिती ॥ १६३३ ॥ प्रेरकः प्राह - ननु बाह्याया: स्थूरतन्वा वैचित्र्यं प्रत्यक्षदृष्टत्वादेवाभ्रादिविकारवदभ्युपगच्छामः । अन्तरङ्गायास्तु कर्मरूपायाः सूक्ष्मतनोवैचित्र्यं कथमिच्छामः, तस्याः सर्वथाऽप्रत्यक्षत्वात् ? । अथ तदनभ्युपगमे दोषः कोऽप्यापतति, ततोऽर्थापत्तेरेव तद्विचित्रताSभ्युपगन्तव्या, तर्हि निवेद्यतां कस्तया विना दोषोऽनुषज्यते १ । आचार्यः प्राह- मरणकाले स्थूलया दृश्यमानतन्वा सर्वथा विप्रमुतस्य जन्तोर्भवान्तरगतस्थूलतनुग्रहणनिबन्धनभूतां सूक्ष्मकर्म तनुमन्तरेणाग्रेतन देहग्रहणाभावलक्षणो दोषः समापयते । न हि निष्कारमेव शरीरान्तरग्रहणं युज्यते । ततश्च देहान्तरग्रहणानुपपत्तेर्मरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात् १६३३ ततोऽपि च किं स्यात् ? इत्याह सेव्वविमोक्खाबत्ती निक्कारणउ व्व सव्वसंसारो । भवमुक्काणं व पुणो संसरणमओ अणासासो ॥ १६३४ ॥ ततः संसारव्यवच्छेदानन्तरं सर्वस्यापि जीवराशेर्मोक्षापत्तिर्भवेत् । अथाशरीराणामपि संसारपर्यटनम् तर्हि निष्कारण एव सर्वस्यापि संसारः स्यात्, भवमुक्तानां च सिद्धानामित्थं पुनरप्यकस्माद् निष्कारण एव संसारपातः स्यात् । तथैव च तत्र संसरणम् । ततश्च मोक्षेऽप्यनाश्वास इति ।। १६३४ ।। १ कस्तया विना दोषः स्थूलया सर्वथा विप्रमुक्तस्य । देहग्रहणाभावस्ततश्च संसारव्यवच्छित्तिः ॥ १६३३ ॥ २ सर्वविमोक्षापत्तिर्निष्कारणको वा सर्वसंसारः । भवमुक्तानां वा पुनः संसरणमतोऽनाश्वासः ॥ १६३४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||६९८ || www.jainerary.sing Page #101 -------------------------------------------------------------------------- ________________ विशेषा ॥६९९॥ पुनः प्रकारान्तरेण प्रेर्यमाहमुत्तस्सामुत्तिमया जीवेण कहं हवेज संबंधो ? । सोम्म ! घडस्स व्व नभसा जह वा दव्वस्स किरियाए॥१६३५॥ ननु मृत कर्मेति प्राग भवद्भिः समर्थितम् । तस्य च मूर्तस्य कर्मणोऽमर्तेन जीवेन सह कथं संयोगलक्षणः समवायलक्षणो वा संबन्धः | स्यात् । अतः कर्मसिद्धावप्येतदपरमेव रन्ध्र पश्यामः। भगवानाह-सौम्य ! यथा मूर्तस्य घटस्यामूर्तेन नभसा संयोगलक्षणः संबन्धस्तथाऽत्रापि जीव-कर्मणोः । यथा वा द्रव्यस्याङ्गुल्यादेः क्रिययाऽऽकुश्चनादिकया सह समवायलक्षणः संबन्धः, तथाऽत्रापि जीव-कर्मणारयमिति ॥ १६३५॥ प्रकारान्तरेणापि जीव-कर्मणोः संबन्धसिद्धिमाह अहवा पच्चक्खं चिय जीवोवनिबंधणं जह सरीरं । चिट्ठइ कम्मयमेवं भवंतरे जीवसंजुत्तं ॥१६३६॥ अथवा, यथेदं बाह्यं स्थूलशरीरं जीवोपनिबन्धनं जीवेन सह संबद्धं प्रत्यक्षोपलभ्यमानमेव तिष्ठति सर्वत्र चेष्टते, एवं भवान्तरं गच्छता जीवेन सह संयुक्त कार्मणशरीरं प्रतिपद्यस्व । अथ ब्रूषे- धर्मा-ऽधर्मनिमित्तं जीवसंबद्धं बाह्यं शरीरं प्रवर्तते, तर्हि पृच्छामो भवन्तम्- तावपि धर्मा-ऽधमाँ मूतौं वा भवेताम् , अमूतौं वा । यदि मूर्ती, तर्हि तयोरप्यमूर्तेनात्मना सह कथं संबन्धः । अथ तयोस्तेन सहासौ कथमपि भवति, तर्हि कर्मणोऽपि तेन सार्धमयं कस्माद् न स्यात् ।। अथामूतौ धर्मा-ऽधर्मी, तर्हि बाह्यमूर्तस्थरशरीरेण सह तयोः संबन्धः कथं स्यात् , मूर्ता-ऽमूर्तयोर्भवदभिप्रायेण संबन्धायोगात् । न चासंबद्धयोस्तयोर्बाह्यशरीरचेष्टानिमित्तत्वमुपपद्यते, अतिप्रसङ्गात् । अथ मूर्तयोरपि तयोर्वाह्यशरीरेण मूर्तेण सहेष्यते संबन्धः, तर्हि जीव-कर्मणोस्तत्सद्भावे कः प्रद्वेषः ? इति ॥१६३६॥ अथापरावाक्षेप-परिहारौ पाहमुत्तेणामुत्तिमओ उवघाया-ऽणुग्गहा कहं होजा ?। जह विण्णाणाईणं मइरापाणोसहाईहिं ॥ १६३७ ॥ ॥६९९॥ , मूर्तस्यामूर्तिमता जीवन कथं भवेत् संबन्धः ? । सौम्य ! घटस्येव नभसा यथा वा अन्यस्य क्रियया ॥१६३५॥ २ अथवा प्रत्यक्षमेव जीवोपनिवन्धनं यथा शरीरम् । तिष्ठति कार्मणमेवं भवान्तरे जीवसंयुक्तम् ।। १६३६॥ ३ मूर्तेणामूर्तिमत उपघाता-ऽनुग्रही कथं भवेताम् ? । यथा विज्ञानादीनां मदिरापानी-पधादिभिः ॥ १६३.. Jan Education in tema Fonden Page #102 -------------------------------------------------------------------------- ________________ विशेषा ० ||७००॥ Jain Educationia Internation ननु मूर्तेन कर्मणामूर्तिमतो जीवस्य कथमाहाद-परितापाद्यनुग्रहोपघातौ स्याताम् । न ह्यमूर्तस्य नभसो मूर्तेर्मलयजज्वज्वालादिभिस्तौ युज्यते इति भावः । अत्रोत्तरमाह- 'जह विष्णाणाईणमित्यादि' यथाऽमूर्तानामपि विज्ञान-विविदिषा- धृति-स्मृत्यादिजीवधर्माणां मूतैरपि मदिरापान हत्पूर - विष- पिपीलिकादिभिर्भक्षितैरुपघातः क्रियते, पयः-शर्करा - घृतपूर्णभेषजादिभिस्त्वनुग्रह इत्येवमिहापीति । एतच्च जीवस्यामूर्तत्वमभ्युपगम्योक्तम् ।। १६३७ ।। यदिवा, अमूर्तोsपि सर्वथाऽसौ न भवतीति दर्शयन्नाह - अहवा गतोऽयं संसारी सव्वहा अमुत्तोति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो ॥ १६३८ ॥ अथवा, नायमेकान्तो यदुत - संसारी जीवः सर्वथाऽमूर्त इति । कुतः १ । यद् यस्मादनादिकर्मसन्ततिपरिणामापनं वचय:पिण्डन्यायेनानादिकर्म संतान परिणतिस्वरूपतां प्राप्तं रूपं यस्य स तथा । ततश्च मूर्तकर्मणः कथञ्चिदनन्यत्वाद् मृर्तोऽपि कथञ्चिज्जीवः । इति मूर्तेन कर्मणा भवत एव तस्यानुग्रहो-पघातौ, नभसस्त्वमूर्तस्वात्, अचेतनत्वाच्च तौ न भवत एवेति ।। १६३८ ।। कथं पुनः कर्मणोऽनादि संतानः १ इत्याह ताणोऽणाई उपरोप्परं हेउहे उभावाओ । देहस्स य कम्मस्स य गोयम ! बीयं- कुराणं व ॥ १६३९ ॥ अनादिः कर्मणः सन्तान इति प्रतिज्ञा । देह कर्मणोः परस्परं हेतुहेतुमद्भावादिति हेतुः । बीजा-ऽङ्कुरयोरिवेति दृष्टान्तः । यथा बीजेनाऽङ्कुरो जन्यते, अङ्कुरादपि क्रमेण वीजमुपजायते; एवं देहेन कर्म जन्यते, कर्मणा तु देह इत्येवं पुनः पुनरपि परस्परमनादिकालीनहेतुहेतुमद्भावादित्यर्थः । इह ययोरन्योऽन्यं हेतुहेतुमद्भावस्तयोरनादिः सन्तानः, यथा बीजाङ्कुर पितृपुत्रादीनाम्, तथा च देह- कर्मणोः, ततोऽनादिः कर्मसन्तान इति ।। १६३९ ॥ वेदोक्तद्वारेणापि कर्म साधयन्नाह - कैम्मे चासइ गोयम ! जमग्गिहोत्ताइ सग्गकामस्स । वेयविहियं विहरणइ दाणाइफलं च लोयम्मि || १६४० ॥ १ अथवा नैकान्तोऽयं संसारी सर्वथाऽमूर्त इति । यदनादिकर्म सन्ततिपरिणामापन्नरूपः सः ॥ १६३८ ॥ २ सन्तानोऽनादिस्तु परस्परं हेतुहेतुभावात् । देहस्य च कर्मणश्च गौतम ! बीजा-ऽङ्कुरयोरिव । १६३९ ॥ ३ कर्मणि चासति गौतम ! यदग्निहोत्रादि स्वर्गकामस्य । वेदविहितं विहन्यते दानादिफलं च लोके ॥ १६४० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७०० ॥ Page #103 -------------------------------------------------------------------------- ________________ बृह विशेषा० ॥७०१॥ कर्मणि चाऽसति गौतम ! अग्निहोत्रादिना स्वर्गकामस्य वेदविहितं यत् किमपि स्वर्गादिफलं तद् विहन्यते, स्वर्गादेः शुभ- कर्महेतुत्वात , तस्य च भवताऽनभ्युपगमात् । लोके च यद् दानादिक्रियाणां फलं स्वर्गादिकं प्रसिद्धं तदपि विहन्येत । अयुक्तं चेदम् , "किरियाफलभावाओ दाणाईणं फलं किसीए ब्व' इत्यादिना प्रतिविहितत्वादिति ॥ १६४०॥ कर्मानभ्युपगमे च यदीश्वरादयो जगद्वैचित्र्यकर्तार इष्यन्ते तदप्ययुक्तमिति दर्शयन्नाह कैम्ममणिच्छंतो वा सुखै चिय जीवमीसराइं वा । मण्णसि देहाईणं जं कत्तारं न सो जुत्तो ॥ १६४१॥ कर्म वाऽनिच्छन्नग्निभूते गौतम ! यं कर्मरहितत्वात् शुद्धमेव जीवमात्मानमीश्वरांव्यक्तकाल-नियति यदृच्छादिकं वा देहादीनां कर्तारं मन्यसे, तत्राप्युच्यते-नासौ शुद्धजीव-श्वरादिः कर्ता युज्यत इति ॥ १६४१ ॥ कुतः ? इत्याह उवगरणाभावाओ निच्चेद्वा-ऽमुत्तयाइओ वा वि । ईसरदेहारंभे वि तुल्लया वाऽणवत्था वा ॥ १६४२ ॥ नायमीश्वरजीवादिरकर्मा शरीरादिकार्याण्यारभते, उपकरणाभावात् , दण्डाद्युपकरणरहितकुलालवत् । न च कर्म विना शरीराद्यारम्भे जीवादीनामन्यदुपकरणं घटते, गर्भाद्यवस्थास्वन्योपकरणासंभवात् , शुक्र-शोणितादिग्रहणस्याप्यकर्मणोऽनुपपत्तेः । अथवा, अन्यथा प्रयोगः क्रियते-'निचढेत्यादि' नाकर्मा शरीराधारभते, निश्चेष्टत्वात् , आकाशवत् , तथाऽमूर्तत्वात् , आदिशब्दादशरीरत्वात् , निष्क्रियत्वात् , सर्वगतत्वात् , आकाशवदेवः तथा, एकत्वात् , एकपरमाणुवदित्यादि । अथोच्यते- शरीरवानीश्वरः, सर्वाण्यपि देहादिकार्याण्यारभते । नन्वीश्वरदेहारम्भेऽपि तर्हि तुल्यता पर्यनुयोगस्य, तथाहि- अकर्मा नारभते निजशरीरमीश्वरः, निरुपकरणत्वात् , दण्डादिरहितकुलालवदिति । अथान्यः कोऽपीश्वरस्तच्छरीरारम्भाय प्रवर्तते । ततः सोऽपि शरीरवान् , अशरीरो वा'। यद्यशरीरः, तर्हि नारभते, निरुपकरणत्वात् , इत्यादि सैव वक्तव्यता । अथ शरीरवान् , तर्हि तच्छरीरारम्भेऽपि तुल्यता, सोऽप्यकर्मा निजशरीरं नारभते, निरुपकरणत्वादित्यादि । अथ तच्छरीरमन्यः शरीरवानारभते । अतस्तस्याप्यन्यः, तस्याप्यन्य इत्येवमनवस्था । अनिष्ट च सर्वमेतत् । तस्माद् नेश्वरो देहादीनां कर्ता, किन्तु कर्मसद्वितीयो जीव एव । निष्पयोजनश्चेश्वरो देहादीन् कुर्वन्नुन्मत्तकल्प एव १ गाथा १६१५। २ कर्मानिच्छन् वा शुद्धमेव जीवमीश्वरादि वा । मन्यसे देहादीनां यं कर्तारं न स युक्तः ॥ १६४१॥ ३ क. ग. 'रायुक्त' । ४ उपकरणाभावाद् निचेष्टा-ऽमूर्ततादितो वापि । ईश्वरदेहारम्भेऽपि तुल्यता वाऽनवस्था वा ॥ १६४२ ॥ ॥७०१॥ in Education Internat NA Foresonal and Private Use Only www.jaineibrary.org Page #104 -------------------------------------------------------------------------- ________________ विशेषा. हदतिः । ७०२॥ स्यात् , सप्रयोजनकर्तृत्वे पुनरनीश्वरत्वप्रसङ्गः। न चानादिशुद्धस्य देहादिकरणेच्छा युज्यते, तस्या रागविकल्परूपत्वात् , इत्याद्यत्र बहु वक्तव्यम् , ग्रन्थगहनताप्रसङ्गात्तु नोच्यत इति । अनेनैव विधानेन विष्णु-ब्रह्मादयोऽपि प्रत्युक्ता द्रष्टव्या इति ।। १६४२ ॥ अथाशङ्कान्तरं प्रतिविधातुमाहअहव सहावं मनसि विण्णाणघणाइवेयवुत्ताओ। तह बहुदोसं गोयम ! ताणं च पयाणमयमत्थो ॥१६४३ ॥ अथ "विज्ञानघन एवैतेभ्यो भूतेभ्यः" इत्यादिवेदवचनश्रवणात् स्वभावं देहादीनां कर्तारं मन्यसे, यतः केचिदाहुः "सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ १ ॥ राजीवकण्टकादीनां वैचित्र्यं कः करोति हि ! । मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ? ॥२॥ कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैक्षण्यादि तथा चैते सुखादयः ॥ ३ ॥" तदेतद् यथा त्वं मन्यसे गौतम !, तथाऽभ्युपगम्यमानं बहुदोषमेव; तथाहि- यो देहादीनां कर्ता स्वभावोऽभ्युपगम्यते, स किं वस्तुविशेषो वा, अकारणता वा, वस्तुधर्मो वा ?, इति त्रयी गतिः । तत्र न तावद् वस्तुविशेषः, तद्ग्राहकममाणाभावात् । अप्रमाणकस्याभ्युपगमे कर्मापि कि नाभ्युपगम्यते, तस्यापि त्वदभिप्रायेणाप्रमाणकत्वात् । किश्च, वस्तुविशेषः स स्वभावो मूर्ती वा स्यात् , अमृतॊ वा ? । यदि मूर्तः, तर्हि स्वभाव इति नामान्तरेण कमैंवोक्तं स्यात् । अथामूर्तः, तर्हि नासौ कस्यापि कर्ता, अमूर्तत्वात् , निरुपकरणत्वाच्च, व्योमवदिति । न च मूर्तस्य शरीरादेः कार्यस्यामूर्तं कारणमनुरूपम् , आकाशवदिति । अथाकारणता स्वभाव इष्यते, तत्राप्यभिदध्महे- नन्वेवं सत्यकारणं शरीराद्युत्पद्यत इत्ययमर्थः स्यात् , तथा च सति कारणाभावस्य समानत्वाद् युगपदेवाशेषदेहोत्पादप्रसङ्गः । अपिच, इत्थमहेतुकमाकस्मिकं शरीराद्युत्पद्यत इत्यभ्युपगतं भवेत् । एतच्चायुक्तमेव, यतो यदहेतुकमाकस्मिकं न तदादिमत्पतिनियताकारम् , यथाऽभ्रादिविकारः, आदिमत्पतिनियताकारं च शरीरादि । तस्माद् नाकस्मिकम् , किन्तु कर्महेतुकमेव । पतिनियताकारत्वादेव चोपकरणसहितकर्तृनिवर्त्यमेव शरीरादिकं घटादिवदिति गम्यत एव । न च गर्भाद्यवस्थासु कर्मणोऽन्यदुपकरणं घटत इत्युक्तमेव । अथ वस्तुनो धर्मः स्वभावोऽभ्युपगम्यते । तथाप्यसौ यद्यात्मधर्मो विज्ञानादिवत् , तर्हि न शरीरादिकारणमसौ, अ. १ अथवा स्वभाव मम्पसे विज्ञानधनादिवेदोक्कात् । तथा बहुदोषं गौतम ! तेषां च पदानामयमर्थः ॥ १६४३ ॥ PARESere ॥७०२॥ Page #105 -------------------------------------------------------------------------- ________________ विशेषा० 1100311 Jain Educationa Internatio मूर्तत्वात्, आकाशवत् इत्यभिहितमेव । अथ मूर्तवस्तुधर्मोऽसौ तर्हि सिद्धसाध्यता, कर्मणोऽपि पुद्गलास्तिकाय पर्यायविशेषत्वेनास्माभिरभ्युपगतत्वादिति । अपच, "पुरुष एवेदं सर्वम् - " इत्यादिवेदवाक्यश्रवणाद् भवतः कर्मास्तित्वसंशयः । एषां हि वेदपदानामयमर्थस्तव चेतसि विपरिवर्तते - पुरुष आत्मा, एवकारोऽवधारणे, स च पुरुषातिरिक्तस्य कर्म प्रकृती-श्वरादेः सत्ताव्यवच्छेदार्थः, इदं सर्व- प्रत्यक्षं वर्तमानं चेतनाचेतनखरूपम्, 'मिं' इति वाक्यालङ्कारे, यद् भूतम् - अतीतम्, यच्च भाव्यं भविष्यद् मुक्तिसंसारावपि स एवेत्यर्थः । उतामृतत्वस्येशान इति । उतशब्दोऽप्यर्थे । अपिशब्दश्च समुच्चये । अमृतत्वस्य च - अमरणभावस्य मोक्षस्येशानः प्रभुरित्यर्थः । यदनेनातिरोहतीति । चशब्दस्य लुप्तस्य दर्शनाद् यच्चानेन - आहारण, अतिरोहति- अतिशयेन दृद्धिमुपैति । यदेजति चलति, पश्वादि । यद् | नैजति - न चलति पर्वतादि । यद् दूरे मेर्वादि । यदु अन्तिके- उशब्दोऽवधारणे, यदन्ति के समीपे तदपि पुरुष एवेत्यर्थः । यदन्तः- मध्ये, अस्य - चेतनाचेतनस्य सर्वस्य यदेव सर्वस्याप्यस्य बाह्यतः; तत् सर्वं पुरुष एवेति । अतस्तद्व्यतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेयेति ते मतिः । तथा, "विज्ञानघन एवैतेभ्यो भूतेभ्यः" इत्यादीन्यपि वेदपदानि कर्माभावप्रतिपादकानि मन्यसे त्वम् अत्रायेवकारस्य कर्मादिसत्ताव्यवच्छेदपरत्वात् । तदेवमेतेषां "पुरुष एवेददम् - " इत्यादीनां "विज्ञानघन " - आदीनां च वेदपदानां नायमर्थो यो भवतश्चेतसि वर्तते, किन्तु तेषां पदानामयं भावार्थ:- " पुरुष एवेदं सर्वम् - " इत्यादीनि तावत् पुरुषस्तुतिपराणि जात्यादिमत्याग हे तो रद्वैतभावनाप्रतिपादकानि च वर्तन्ते, न तु कर्मसत्ताव्यवच्छेदकानि । वेदवाक्यानि हि कानिचिद विधिवादपराणि, कान्यप्यर्थवादगधानानि, अपराणि त्वनुवादपराणि । तत्र “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादीनि विधिवादपराणि । अर्थवादस्तु द्विधा - स्तुत्यर्थवादः, निन्दार्थवादश्च । तत्र “पुरुष एवेदं सर्वम् - " इत्यादिकः स्तुत्यर्थवादः, तथा तत्र “स सर्वविद् यस्यैषा महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योनि आत्मासु प्रतिष्ठितस्तमक्षरं वेदयते यस्तु स सर्वज्ञः सर्ववित् सर्वमेवाविवेश" इति तथा, “एकया पूर्णयाहूत्या सर्वान् कामानवाप्नोति" इत्यादिकश्च सर्वोऽपि स्तुत्यर्थवादः । " एकया पूर्णया" इत्यादिविधिवादोsपि कस्माद् न भवति १ इति चेत् । उच्यते- शेषस्याग्निहोत्राद्यनुष्ठानस्य वैयर्थ्यप्रसङ्गादिति । " एष वः प्रथमो यज्ञो योऽग्निष्टोमः, योऽनेनानिष्ट्वाऽन्येन यजते स गर्तमभ्यपतत्" अत्र पशुमेधादीनां प्रथमकरणं निन्द्यत इत्ययं निन्दार्थवादः । “द्वादश मासाः संवत्सरः" "अग्निरुष्णः " " अग्निर्हिमस्य भेषजम्" इत्यादीनि तु वेदवाक्यान्यनुवाद१. छ. 'दिप्रथमगणधर लिखितवे' २ घ. ज. 'पूर्वया' For Personal and Private Use Only 000000eeded?A? बृहद्वतिः । ॥७०३ ॥ Page #106 -------------------------------------------------------------------------- ________________ P विशेषा. ॥७०४॥ धानानि, लोकमसिद्धस्यैवार्थस्यैतेष्वनुवादादिति । तस्मात् "पुरुष एवेदं सर्वम्" इत्यादीनि वेदपदानि स्तुत्यर्थवादप्रधानानि द्रष्टव्यानि | "विज्ञानघन एवैतेभ्यः" इत्यत्राप्ययमर्थ:-विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरं वर्तते । स च कर्ता, कार्य च शरीरादिकमिति प्राक् साधितमेव । ततश्च कर्तृकार्याभ्यामर्थान्तरं करणमनुमीयते; तथाहि- यत्र कर्तृ-कार्यभावस्तत्रावश्यंभावि करणम् , यथाऽयस्कारा-ऽयापिण्डसद्भावे संदंशः, यच्चावात्मनः शरीरादिकार्यनिवृत्तौ करणभावमापद्यते तत् 'कर्म' इति प्रतिपद्यस्व । अपिच, साक्षादेव कर्मसत्ताप्रतिपादकानि श्रयन्त एव वेदवाक्यानि, तद्यथा- "पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा" इत्यादि । तस्मादागमादपि सिद्ध प्रतिपद्यस्व कर्मेति ॥१६४३॥ एवं भगवताऽभिहितेऽग्निभूतिः किं कृतवान् ? इत्याह 'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१६४४॥ अस्याः पूर्ववदेव व्याख्या । इत्येकोनचत्वारिंशद्गाथार्थः ॥ १६४४ ॥ ॥ इति द्वितीयो गणधरवादः समाप्तः ॥ अथ तृतीयगणधरस्य वायुभूतेर्वक्तव्यतामभिधित्सुराह ते पव्वइए सोउं तइओ आगच्छइ जिणसगासं । वच्चामि वंदामी वंदित्ता पज्जुवासामि ॥ १६४५ ॥ ताविन्द्रभूत्य-ऽग्निभूती प्रबजितौ श्रुत्वा तृतीयो वायुभूतिनामा द्विजोपाध्यायो जिनसकाशमागच्छति सातिशयनिजबन्धुद्वय निष्क्रमणाकर्णनाज्झगिति विगलिताभिमानो भगवति संजातसर्वज्ञप्रत्ययः सन्नेवमवधार्यागतः- व्रजामि तत्राहमपि, बन्दे भगवन्तं श्रीमन्महावीरम् , वन्दित्वा च पर्युपासे- पर्युपास्ति करोमि तस्य भगवत इति ॥ १६४५ ॥ अपरं च, किं विकल्प्य समागतोऽसौ ? इत्याह छिन्ने संशय जिनेन जरा-मरणविप्रमुक्तेन । स श्रमणः प्रबजितः पञ्चभिः सह खण्डिकशतैः ॥ १६४४ ॥ २ तो प्रमजिती श्रुत्वा तृतीय आगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १६४५ ॥ ||७०४॥ हारपसासन Educ a to For Personal and Private Use Only Page #107 -------------------------------------------------------------------------- ________________ विशेषा ॥७०५॥ सीसत्तेणोवगया संपयमिंद-ग्गिभूइणो जस्स । तिहुयणकयप्पणामो स महाभागोऽभिगमणिज्जो ॥१६४६॥ तदभिगमण-बंदणो-वासणाइणा होज पूयपावोऽहं । वोच्छिण्णसंसओ वा वोत्तुं पत्तो जिणसगासे.॥१६४७॥ हतिः। प्रतपापो विशुद्धपापोऽपगतपाप इत्यर्थः । शेषं सुगमम् ॥ १६४६ ॥ १६४७ ॥ ततः किम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१६४८॥ व्याख्या पूर्ववदिति ॥ १६४८ ॥ इत्थं सगौरवं साञ्जसमाभाषितोऽपि भगवता सकलत्रैलोक्यातिशायिनी तस्य रूपादिसमृद्धिमभिवीक्ष्य क्षोभादसमर्थो हृद्गतसंशयं प्रष्टुं विस्मयात् तूष्णीमाश्रितः पुनरप्युक्तः । किम् ? इत्याह तेजीव तस्सरीरं ति संसओ न वि य पुच्छसे किंचि । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१६४९॥ हे आयुष्मन् वायुभूते ! 'तदेव वस्तु जीवस्तदेव च शरीरम् , न पुनरन्यत्' इत्येवंभूतस्तव संशयो वर्तते, नापिच तदपनोदार्थ किश्चिद् मा पृच्छसि । ननु यज्ञपाटाद् निर्गच्छता त्वयाऽभिहितमासीत्- 'वोच्छिण्णसंसओ वा' इति, तत् किमिति न किश्चित् पृच्छसि । अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनो वर्तते । तेषां च वेदपदानामर्थ त्वं न जानासि, तेन संशयं कुरुषे । तेषां चायं वक्ष्यमाणलक्षणोऽर्थ इति ।। १६४९ ॥ यथा च वायुभूतेरयं संशयस्तथा विशेषत एव भाष्यकारो भावयन्नाहवैसुहाइभूयसमुदयसंभूया चेयण त्ति ते सका । पत्तेयमदिट्ठा वि हु मजंगमउ व्व समुदाये ॥ १६५० ॥ , शिष्यत्वेनोपगती सांप्रतमिन्द्रा-उनिभूती यस्य । त्रिभुवनकृतप्रणामः स महाभागोऽभिगमनीयः ॥ १६४६॥ तदभिगमन-वन्दमो-पासनादिना भवेयं पूतपापोऽहम् । व्यवच्छिनासंशयो बोक्त्वा प्राप्तो जिनसकाशे ॥१६४७॥२ प.ज. 'म'। गाथा १६०० - तजीवस्तपारीरमिति संशयो नापि च पृच्छसि किञ्चित् ? । वेदपदान चार्थ न जानासि तेषामयमर्थः ॥ १५४९ ॥ ५ वसुधादिभूतसमुदयसंभूता चेतनेति तब शङ्का । प्रत्येकमदृष्टाऽपि खलु मयाजामद हब समुदाये ॥ ११५.॥ ७०५॥ JanEducational Internation For Personal and Use Only Page #108 -------------------------------------------------------------------------- ________________ विशेषा जह मजंगेसु मओ वीसुमदिट्ठो वि समुदए होउं । कालंतरे विणस्सइ तह भूयगणम्मि चेयण्णम् ॥१६५१॥ वसुधा पृथ्वी, आदिशब्दादप-तेजो वायुपरिग्रहः, वसुधादय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि, तेषां समुदयः परस्परमीलनपरिणतिर्वसुधादिभूतसमुदयः, तस्मात् प्रागसती संभूता संजाता, चेतनेत्येवंभूता तव शङ्का । सा च चेतना पृथिव्यादिभूतेषु प्रत्येकावस्थायामदृष्टापि धातकीकुसुम-गुडो-दकादिषु मद्याङ्गेषु मद इव तत्समुदाये संभूतेति प्रत्यक्षत एव दृश्यते । तदेवमन्वयद्वारेण चेतनाया भूतसमुदायधर्मता दर्शिता । अथ व्यतिरेकद्वारेण तस्यास्तां दर्शयितुमाह- 'जह मजगेसु इत्यादि' यथा च मद्याङ्गेषु मदभावः प्रत्येकावस्थायामदृष्टोऽपि तत्समुदाये भूत्वा ततः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कुतश्चिद् विनश्यति, तथा भूतगणेऽपि प्रत्येकपसचैतन्यं भूत्वा ततः कालान्तरे विनश्यति । ततोऽन्वय-व्यतिरेकाभ्यां निश्चीयते- भूतधर्म एव चैतन्यम् । इदमत्र हृदयम्- यत् समुदायिषु प्रत्येकं नोपलभ्यते तत्समुदाये चोपलभ्यते, तत् तत्समुदायमात्रधर्म एव, यथा मद्याङ्गसमुदायधर्मो मदः । स हि मद्यानेषु विष्वग् नोपलभ्यते, तत्समुदाये चोपलभ्यते, अतस्तद्धर्मः । एवं चेतनापि भूतसमुदाय भवति, पृथग न भवति, अतस्तद्धर्मः। धर्म-धर्मिणोश्चाभेद एव, भेदे घट-पटयोरिव धर्मि-धर्मभावाप्रसङ्गात् । तस्मात् स एव जीवस्तदेव च शरीरम् । वाक्यान्तरेषु पुनः शरीराद् भिन्नः श्रूयते जीवः, तद्यथा- 'न हि चै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियापिये न स्पृशतः" इत्यादि । ततस्तव संशय इति ॥ १६५० ॥ १६५१ ॥ अत्रोत्तरमाह पेत्तेयमभावाओ न रेणुतेल्लं व समुदये चेया । मज्जंगेसुं तु मओ वीसुं पि न सव्वसो नत्थि ॥ १६५२ ॥ 'न समुदये चेय त्ति' न भूतसमुदयमात्रप्रभवा चेतना, 'पत्तेयमभावाउ त्ति' भूतप्रत्येकावस्थायां तस्या अंशतोऽपि सर्वथाऽनुः पलब्धेरित्यर्थः । किं यथा किंमभवं न भवति ? इत्याह- 'न रेणुनेल्लं व त्ति' यथा प्रत्येकं सर्वथाऽनुपलम्भाद् रेणुकणसमुदायमभवं तैलं न भवतीत्यर्थः । प्रयोगः- यद् येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां समुदायेऽपि न भवति, यथा सिकताकणसमुदाये ७०६॥ , यथा मद्याङ्गेषु मदो विष्वगदृष्टोऽपि समुदये भूत्वा । कालान्तरे विनश्यति तथा भूतगणेऽपि चैतन्यम् ॥ १६५१ ॥ २ प्रत्येकमभावादून रेणुतैलमिव समुदये चेतना । मद्यानेषु तु मदो विष्वगपि न सर्वशो नास्ति ।। १६५२ ॥ in Education Internatio For Personal and Private Use Only Page #109 -------------------------------------------------------------------------- ________________ सदर क बृहदा विशेषा० १७०७|| तैलम् । यत्तु तेषां समुदाये भवति न तस्य पृथग् व्यवस्थितेषु तेषु सर्वथाऽनुपलम्भः, यथैकैकतिलावस्थायां तैलस्य, सर्वथा नोपलभ्यते च भूतेषु प्रत्येकावस्थायां चेतना, तस्माद् नासौ तत्समुदायमात्रप्रभवा, किन्त्वपत्तेरेवान्यत् किमपि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संघट्टितं, यत इयं प्रभवतीति प्रतिपत्तव्यम् । आइ- 'प्रत्येकावस्थायां सर्वथाऽनुपलम्भात्' इत्यनैकान्तिकोऽयं हेतुः, प्रत्येकावस्थायां सर्वथाऽनुपलब्धस्यापि मदस्य मद्याङ्गसमुदाय दर्शनात् , इत्याशङ्क्याह- 'मजंगेसु इत्यादि धातकीकुसुमादिषु मद्याङ्गेषु पुनर्विष्वक् पृथग न सर्वथा मदो नास्ति, अपितु या च यावती च मदमात्रा पृथगपि तेष्वस्त्यवेत्यर्थः। ततो नानैकान्तिकता हेतोरिति ।। १६५२ ॥ भूतेष्वप्येवं भविष्यतीति चेत् । नैतदेवम् । कुतः ? इत्याहभैमि-धणि-वितण्हयाई पत्तेयं पि हु जहा मयंगेसु । तह जइ भूएसु भवे चेया तो समुदये होज्जा ॥१६५३॥ यथा प्रत्येकावस्थायां धातकीकुसुमेषु या च यावती च भ्रमिश्चितभ्रमापादनशक्तिरस्ति, गुड-द्राक्षे-क्षुरसादिषु पुनर्धाणिरतप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति, आदिशब्दादन्येष्वपि मद्याङ्गष्वन्यापि यथासंभवं शक्तिर्वाच्या; तथा तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिचैतन्यशक्तिरभविष्यत् , तदा तत्समुदाये संपूर्णा स्पष्टा चेतना स्यात् , न चैतदस्ति, तस्माद् न भूतसमुदायमात्रप्रभवेयमिति ।। १६५३ ॥ ननु यदि प्रत्येकावस्थायां मद्याङ्गेषु सर्वथैव मदशक्तिर्न स्यात् तदा किं दूषणं स्यात् ? इत्याहजइ वा सव्वाभावो वीसु तो किं तदंगनियमोऽयं । तस्समुदयनियमो वा अन्नेसु वि तो हवेज्जाहि ॥१६५४॥ ___ यदि च मद्याङ्गेषु पृथगवस्थायां सर्वथैव मदशक्त्यभावः, तर्हि कोऽयं तदङ्गनियमः- कोऽयं धातकीकुसुमादीनां मद्याङ्गतानियमः, तत्समुदायनियमो वा- किमिति मद्यार्थी धातकीकुसुमादीन्येवान्वेषयति, तत्समुदायं किमिति नियमेन मीलयति ? इत्यर्थः, नन्वन्येष्वपि च भस्मा-ऽश्म-गोमयादिषु समुदितेषु मद्यं भवेदिति ।। १६५४ ॥ अथ मद्याङ्गेषु प्रत्येकावस्थायामपि मदशक्तिसद्भावं साधितमाकर्ण्य कदाचित् पर एवं ब्रूयात् । किम् ? इत्याह१५. ज. 'घटित' । २ भ्रमि-ध्राणि-वितृष्णतादयः प्रत्येकमपि खलु यथा मदाङ्गेषु । तथा यदि भूतेषु भवेचेतना ततः समुदये भवेत् ।। १६५३ ।। यदि वा सर्वाभावो विष्वक् ततः किं तदङ्गनियमोऽयम् । तत्समुदयनियमो बाऽन्येष्वपि ततो भवेत् ॥ १६५४ ।। ७०७॥ Jan Education Intemat For Personal and Private Use Only www.janeltrary.org Page #110 -------------------------------------------------------------------------- ________________ विशेषा० ॥७०८॥ Jain Educationa Internatio भूयाणं पत्तेयं पि चेयणा समुदए दरिसणाओ । जह मज्जंगेसु मओ मइ त्ति हेऊ न सिद्धोऽयं ॥ १६५५ ॥ स्यात् परस्य मतिः- साधूक्तं यत्- पृथगपि मद्याङ्गेषु किञ्चिद् मदसामर्थ्यमस्तीति । एतदेव हि मम भूतेषु व्यस्त।वस्थायां चैतन्यास्तित्वसिद्धावुदाहरणं भविष्यति, तथाहि — व्यस्तेष्वपि भूतेषु चैतन्यमस्ति तत्समुदाये तदर्शनात्, मद्याङ्गेषु मदवदिति । यथा मद्याङ्गेषु मदः पृथगल्पत्वाद् नातिस्पष्टः, तत्समुदाये त्वभिव्यक्तिमेति तथा भूतेष्वपि पृथगवस्थायामणीयसी चेतना, तत्समुदाये तु भूयमिति । अत्रोत्तरमाह - 'हेऊ न सिद्धोऽयमिति' 'चेतनाया भूतसमुदाये दर्शनात् इत्यसिद्धोऽयं हेतुरित्यर्थः, आत्मनो भूतसमुदायान्तर्गतत्वेन चेतनायास्तद्धर्मत्वात्, आत्माभावे च तत्समुदायेऽपि तदसिद्धेरसिद्धोऽयं हेतुरिति भावः । यदि हि भूतसमुदायमाना भवेत् तदा मृतशरीरेऽप्युपलभ्येत । वायोस्तदानीं तत्राभावात् तदनुपलम्भ इति चेत् । नैवम्, नलिकादिप्रयोगतस्तप्रक्षेपेऽपि तदनुपलब्धेः । तेजस्तदानीं तत्र नास्तीति चेत् । न तत्प्रक्षेपेऽपि तदनुपलम्भात् । विशिष्टतेजो वाय्वभावादनुपलम्भ इति चेत् । किं नामात्मसत्वं विहायाऽन्यत् तद्वैशिष्टयम् १, ननु संज्ञान्तरेणात्मसत्वमेव त्वयापि प्रतिपादितं स्यादिति ।। १६५५ ॥ अथ परस्योत्तरमाशङ्कय प्रतिविधातुमाह- ने पच्चक्खविरोहो गोयम ! तं नाणुमाणभावाओ । तुह पच्चक्खविरोहो पत्तेयं भूयचेय त्तिं ॥ १६५६ ॥ ननु प्रत्यक्षविरुद्धमेवेदं यत्- भूतसमुदाये सत्युपलभ्यमानापि चेतना न तत्समुदायस्येत्यभिधीयते । न हि घटे रूपादय उपलभ्यमाना न घटस्येति वक्तुमुचितम् । तदयुक्तम्, यतो न भू-जलसमुदायमात्रे उपलभ्यमाना अपि हरितादयस्तन्मात्रप्रभवा इति शक्यते वक्तुम् । तीजमाधकानुमानेन बाध्यतेऽसावुपलम्भ इति चेत् । तदेतदिहापि समानम् । एतदेवाह - 'गोयमेत्यादि' वायुभूतेरपीन्द्रभूतिसोदर्यभ्रातृत्वेन समानगोत्रत्वाद् 'गौतम !' इत्येवमामन्त्रणम्, यत्त्वं ब्रूषे तदेतद् न, भूतसमुदायातिरिक्तात्मसाधकानुमान सद्भावात्, तत|स्तेनैव त्वत्प्रत्यक्षस्य बाधितत्वादिति भावः । प्रत्युत तवैव प्रत्यक्षविरोधः । किं कुर्वतः ? इत्याह- 'पत्तेयं भूयचेय त्ति' 'ब्रुवत:' इति शेषः । प्रत्येकावस्थायां पृथिव्यादिभूतेषु चैतन्याभावस्यैव दर्शनात् तदस्तित्वं प्रत्यक्षेणैव वाध्यत इति 'प्रत्येकं भूतेषु चेतना' इति तस्तत्र प्रत्यक्षविरोध इत्यर्थः ।। १६५६ ।। १ भूतानां प्रत्येकमपि चेतना समुदये दर्शनात् । यथा मचाङ्गेषु मदो मतिरिति हेतुर्न सिद्धोऽयम् ॥ १६५५ ॥ २ ननु प्रत्यक्षविरोधो गौतम ! तद् नानुमानभावात् । तव प्रत्यक्षविरोधः प्रत्येकं भूतचेतनेति ॥ १६५६ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७०८ || Page #111 -------------------------------------------------------------------------- ________________ विशेषा० ॥७०९ ॥ Jain Educationa Internatio किं पुनस्तदात्मसाधकमनुमानम् १ इत्याह भूइंदियोवलद्धाणुसरणओ तेहिं भिन्नरूवरस | चेया पंचगवक्खोवलडपुरिसस्स वा सरओ || १६५७॥ तेभ्यो भूतेन्द्रियेभ्यो भिन्नरूपस्य कस्यापि धर्मश्चेतनेति प्रतिज्ञा । भूतेन्द्रियोपलब्धार्थानुस्मरणादिति हेतुः । यथा पञ्चभिर्गवाक्षैरुपलब्धानर्थाननुस्मरतस्तदतिरिक्तस्य कस्यापि देवदत्तादेः पुरुषस्य चेतनेति दृष्टान्तः । अयमत्र तात्पर्यार्थः - इह य एको गैरकैरुपलब्धानर्थाननुस्मरति स तेभ्यो भेदवान् दृष्टः, यथा पञ्चभिर्गवाक्षैरुपलब्धानर्थाननुस्मरन् देवदत्तः, यश्च यस्माद् भूतेन्द्रियामकसमुदायाद् भिन्नो न भवति, किं तर्हि ? अनन्यः, नायमेकोऽनेकोपलब्धानामर्थानामनुस्मर्ता, यथा शब्दादिग्राहकमनोविज्ञानविशेषः, तैरुपलभ्यानुस्मरतोऽपि च तदनतिरिक्तत्वे देवदत्तस्यापि गवाक्षमात्रप्रसङ्गो बाधकं प्रमाणम् । इन्द्रियाण्येवोपलभन्ते, न पुनस्तैरन्य उपलभत इति चेत् । न, 'तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात्, तद्व्यापारे च कदाचिदनुपलम्भात्' इत्यनन्तरमेव वक्ष्यमाणत्वादिति || १६५७ ॥ अनुमानान्तरमप्यात्मसिद्धये माह तेंदुवरमे विसरणओ तव्वावारे वि नोवलंभाओ । इंदिय भिन्नस्स मई पंचगत्रक्खाणुभविणो व्व ॥ १६५८ ॥ इन्द्रियेभ्यो भिन्नस्यैव कस्यापीयं घटादिज्ञानलक्षणा मतिरिति प्रतिज्ञा । तदुपरमेऽपि - अन्धत्व- वाधिर्याद्यवस्थायामिन्द्रियव्यापाराभावेऽपि तद्वारेणोपलब्धानामर्थानामनुस्मरणादिति हेतुः । अथवा, अस्यामेव प्रतिज्ञायां तयापारेऽपि - इन्द्रियव्यापृतावपि कदाचिदनुपयुक्तावस्थायाम्, वस्त्वनुलम्भादित्यपरो हेतुः । यदि हीन्द्रियाण्येव द्रष्टुणि भवेयुः तर्हि किमिति विस्फारिता स्थापि गुणश्रोत्रादीन्द्रियवर्गस्यापि योग्यदेशस्थितानामपि रूप - शब्दादि वस्तूनामनुपयुक्तस्य अन्यमनस्कस्य शून्यचित्तस्योपलम्भो न भवति । ततो ज्ञायते - इन्द्रियग्रामव्यतिरिक्तस्यैव कस्यचिदयमुपलम्भः, यथा पञ्चभिर्गवाक्षैर्योषिदादि वस्तून्यनुभवितुर्दर्श कस्येति दृष्टान्तः । अत्रापि प्रयोगाभ्यां तात्पर्यमुपदर्श्यते, तद्यथा- इह यो यदुपरमेऽपि यैरुपलब्धानामर्थानामनुस्मर्ता स तेभ्यो व्यतिरिक्तो दृष्टः, १ भूतेन्द्रियोपलब्धानुस्मरणतस्तेभ्यो भिन्नरूपस्य । चेतना पञ्चगवाक्षोपलब्धपुरुषस्येव स्मरतः ॥ १६५७ ॥ २ तदुपरमेऽपि स्मरणतस्तव्यापारेऽपि नोपलम्भात् । इन्द्रियभिशस्य मतिः पञ्चगवाक्षानुभविन इव ॥ १६५८ ॥ ३क. स. ग. 'यदुप' For Personal and Private Use Only बृहद्वृत्तिः । ॥७०९ ॥ Page #112 -------------------------------------------------------------------------- ________________ समा विशेषा० ७१०॥ यथा गवाक्षरुपलब्धानामर्थानां गवाक्षोपरमेऽपि देवदत्तः, अनुस्मरति चायमात्माऽन्ध-बधिरत्वादिकाले पीन्द्रियोपलब्धानर्थान् , अतः स| तेभ्योऽर्थान्तरमिति । तथा, इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तयापारेऽप्यनुपलम्भात् , इह यो ययापारेऽपि यैरुपलभ्यानर्थान् नोपलभते स तेभ्यो भिन्नो दृष्टः, यथाऽस्थगितगवाक्षोऽप्यन्यमनस्कतयाऽनुपयुक्तोऽपश्यंस्तभ्यो देवदत्त इति ॥ १६५८ ॥ अपरमपि भूतेन्द्रियव्यतिरिक्तात्मसाधकमनुमानमाह-- उवलब्भन्नण विगारगहणओ तदहिओ धुवं अत्थि । पुवावरवातायणगहणविगाराइपुरिसो व्व ॥१६५९॥ इह ध्रुवं निश्चितं तदधिकस्तेभ्य इन्द्रियेभ्यः समधिको भिन्नः समस्ति जीवः, अन्येनोपलभ्यान्येन विकारग्रहणात् , इह योऽन्येनोपलभ्यान्येन विकारं प्रतिपद्यते स तस्माद् भिन्नो दृष्टः, यथा प्रवरप्रासादोपरीतस्ततः पदपरिपाटी कुर्वाणः पूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समागतायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन् देवदत्तः, तथा चायमात्मा चक्षुषाऽम्लीकामनन्तं दृष्ट्वा रसनेन हल्लास-लालास्त्रावादिविकारं प्रतिपद्यते, तस्मात् तयोभिन्न इति । अथवा, ग्रहणशब्दमिहाऽऽदानपर्यायं कृत्वाऽन्यथानुमान विधीयते- इन्द्रियेभ्यो व्यतिरिक्त आत्मा, अन्येनोपलभ्यान्येन ग्रहणात् , इह य आदेयं घटादिकमर्थमन्यनोपलभ्यान्यन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन घटादिकमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः, गृह्णाति च चक्षुषोप| लब्धं घटादिकमर्थ हस्तादिना जीवः, ततस्ताभ्यां भिन्न इति ।। १६५९ ।। अथान्यदनुमानम् सेव्वेदिउवलडाणुसरणओ तदहिओऽणुमंतव्यो । जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥ १६६० ॥ सर्वेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तदधिकोऽस्ति जीवः । दृष्टान्तमाह- यथा पञ्च च ते भिन्नविज्ञानाश्च पञ्चभिन्नविज्ञाना इच्छावशात् प्रत्येक स्पर्श-रस-गन्ध-रूप-शब्दोपयोगवन्त इत्यर्थः, पञ्चभिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्नविज्ञानपुरुषास्तेषां यानि स्पर्शादिविषयाणि विज्ञानानि तैः संपन्नस्तद्वेत्ता यः षष्ठः पुरुषस्तेभ्यः पञ्चभ्यो भिन्नः। इदमत्र तात्पर्यम् - य इह यैरुपलब्धानामनामेकोऽनुस्मर्ता स तेभ्यो भिन्नो दृष्टः, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपुरुषपञ्चकात् तदशेषविज्ञानाभिज्ञः पुमान् , इच्छानुविधायिशब्दादिभिन्न १ उपलभ्यान्येन विकारग्रहणतस्तदधिको ध्रुवमस्ति । पूर्वापरवातायनग्रहणविकारादिपुरुष इव ॥ १६५९ ॥ २ सर्वेन्द्रियोपलब्धानुस्मरणतस्तदधिकोऽनुमन्तव्यः। यथा पञ्चभित्रविज्ञानपुरुषविज्ञानसंपन्नः ॥ १६५० ॥ ||७१०॥ Jan Education Internation Forson and Private Use Only Page #113 -------------------------------------------------------------------------- ________________ विशेषा० ॥७११ ॥ Jain Education Internationa जातीय विज्ञानेन्द्रियपञ्चकाशेषविज्ञानवेत्ता चायमेक आत्मा, तस्मादिन्द्रियपञ्चकाद् भिन्न एवेति । शब्दादिभिन्नविज्ञान पुरुषपञ्चकस्यैव पृथगिन्द्रियाणामुपलब्धिसङ्गतोऽनिष्टापादनाद् विरुद्धोऽयं हेतुरिति चेत् । न इच्छानुविधायिविशेषणात् इच्छायाश्चेन्द्रियाणामसंभ वात्, सहकारिकारणतयोपलब्धिकारणमात्रताया इन्द्रियेष्वपि सद्भावात्, उपचारतस्तेषामप्युपलब्धेरविरोधाददोषः । किञ्च, प्रतिपश्युपामात्रमेवैतत् न ह्यतीन्द्रियेष्वर्थेष्वेकान्तेनैव युक्त्यन्वेषणपरैर्भाव्यम्; उक्तं च “आगमश्चोपपत्तिश्च संपूर्ण दृष्टिकारणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १ ॥ " इति ।। १६६० ।। अथापरमपि भूतव्यतिरिक्तात्मसाधकमनुमानमाह- 'विष्णाणंतरपुव्वं बालण्णाणमिह नाणभावाओ । जह बालनाणपुत्रं जुवनाणं तं च देहहिअं ॥१६६१ ॥ अन्यविज्ञानपूर्वकमिदं बालविज्ञानम् विज्ञानत्वात् इह यद् विज्ञानं तदन्यविज्ञानपूर्वकं दृष्टम्, यथा बालविज्ञानपूर्वकं युत्रविज्ञानम्, यद्विज्ञानपूर्वकं चेदं बालविज्ञानं तच्छरीरादन्यदेव, पूर्वशरीरत्यागेऽपीहत्यविज्ञानकारणत्वात् तस्य च विज्ञानस्य गुणत्वेन गुणिनमात्मानमन्तरेणासंभवात् तच्छरीरव्यतिरिक्तमात्मानं व्यवस्यामः, न तु शरीरमेवात्मेति । विज्ञानत्वादिति प्रतिज्ञार्थैकदेशत्वादसिद्धो हेतुरिति चेत् । न, विशेषस्य पक्षीकृतत्वात् । भवति च विशेषे पक्षीकृते सामान्यं हेतुः यथाऽनित्यो वर्णात्मकः शब्दः, शब्दस्वात्, मेघशब्दवत् । एवमिहापि बालविज्ञानमन्यविज्ञानपूर्वकमिति विशेषः पक्षीकृतः, न तु सामान्यविज्ञानमन्यविज्ञानपूर्वकमिति पक्षीकृतं येन विज्ञानत्वादिति प्रतिज्ञार्थैकदेशः स्यात्, यथाऽनित्यः शब्दः शब्दत्वादित्यादि ॥ १६६१ ॥ अथान्यदनुमानम् — माहिलास अण्णाहाराहिलासपुव्वोऽयं । जह संपयाहिलासोऽणुभूइओ सो य देहहिओ || १६६२॥ गौतम ! आद्यः स्तनाभिलाषो बालस्यायमन्याभिलाषपूर्वकः, अनुभूतेः- अनुभवात्मकत्वात्, समिताभिलाषवदिति । अथवा, ‘अभिलाषत्वात्' इत्ययमनुक्तोऽपि हेतुर्द्रष्टव्यः, इह योऽभिलाषः सोऽन्याभिलाषपूर्वको दृष्टः, यथा सांप्रताभिलाषः, यदभिलाषपूर्वक १ विज्ञानान्तरपूर्व बालज्ञानमिह ज्ञानभावात् । यथा बालज्ञानपूर्व युवज्ञानं तच देहाधिकम् ॥ १६६ ॥ २ प्रथमः स्तनाभिलाषोsन्याहाराभिलाषपूर्वोऽयम् । यथा सांप्रताभिलाषोऽनुभूतितः स च देहाधिकः ॥ १६६२ ॥ ३ . ज. 'योऽयमाद्यः' । For Personal and Private Use Only बृहद्वृत्तिः । ।।७११ ॥ www.jainelibrary.ing Page #114 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ७ ॥७१२॥ थायमाद्यः स्तनाभिलाषः स शरीरादन्य एव, पूर्वशरीरपरित्यागेऽपीहत्याभिलाषकारणत्वात् । ज्ञानगुणश्चाभिलाषो न गुणिनमन्तरेण संभवति । अतो यस्तस्याश्रयभूतो गुणी स शरीरातिरिक्त आत्मेति । आह- नन्वनैकान्तिकोऽयम् , सर्वस्याऽप्यभिलाषपूर्वकत्वानुपपत्तेः। न हि मोक्षाभिलाषो मोक्षाभिलाषपूर्वको घटते । तदयुक्तम् , अभिप्रायापरिज्ञानात् , यो हि स्तनाभिलाषः स सामान्येनैवाभिलाषपूर्वक इत्येतदेवास्माभिरुच्यते, न पुनर्विशेषेण ब्रूमः- 'स्तनाभिलापोऽन्यस्तनाभिलाषपूर्वकः' इति । एवं च सामान्योक्ती मोक्षाभिलाषपक्षेऽपि घटत एव, मोक्षाभिलाषस्यापि सामान्येनाऽन्याभिलाषपूर्वकत्वादिति ॥ १६६२ ॥ अनुमानान्तरमाह-- बोलसरीरं देहतरपुव्वं इन्दियाइमत्ताओ । जुवदेहो बालादिव स जस्स देहो स देहि त्ति ॥ १६६३ ॥ बालशरीरं शरीरान्तरपूर्वकम् , इन्द्रियादिमत्त्वात् , इह यदिन्द्रियादिमत् , तदन्यदेहपूर्वकं दृष्टम् , यथा युवशरीरं बालदेहपूर्वकम् , यत्पूर्वकं चेदं बालशरीरं तदस्मात् शरीरादर्थान्तरम् , तदत्ययेऽपीहत्यशरीरोपादानात् , यस्य च तच्छरीरं स भवान्तरयायी शरीरादर्थान्तरभूतो देहवानस्त्यात्मा, न पुनः शरीरमेवात्मेति सिद्धमिति ॥ १६६३ ॥ अनुमानान्तरमाह अण्णसुह-दुक्खपुव्वं सुहाइ बालस्स संपइसुहं व । अणुभूइमयत्तणओ अणुभूइमओ य जीवो ति॥१६६४॥ अन्यसुखपूर्वकमिदमार्य बालसुखम् , अनुभवात्मकत्वात् , सांप्रतसुखवत् , यत्सुखपूर्वकं चेदमाद्यं सुखम्, तच्छरीरादन्यदेव, तदत्ययेऽपीहत्यसुखकारणत्वात् । गुणश्चायम् , स च गुणिनमन्तरेण न संभवति, अतो यस्तस्याश्रयभूतो गुणी स देहादर्थान्तरम् , इति सुखानुभूतिमयो जीव इति सिद्धम् । एवं दुःख-राग-द्वेष-भय-शोकादयोऽप्यायोजनीया इति ॥ १६६४ ॥ अथ प्राग् जीवकर्मसिद्धाबुक्तान्यप्यनुमानान्यत्रापि जीवसिद्धिप्रस्तावाद् मन्दस्मृत्यनुग्रहार्थं पुनरप्याहसंताणोऽणाई उ परोप्परं हेउ-हेउभावाओ। देहस्स य कम्मस्स य गोयम ! बीयं-कुराणं व ॥ १६६५ ॥ ॥७१२॥ १ बालशरीरं देहान्तरपूर्वमिन्द्रियादिमत्त्वात् । युवदेहो बालादिव स यस्य देहः स देहीति ॥ १६६३ ॥ २ अन्यसुख-दुःखपूर्व सुखादि बालस्य सांप्रतसुखमिव । अनुभूतिमयत्वतोऽनुभूतिमयश्च जीव इति ॥ १६॥ गाथा १६३९ । Hiresire JanEducationaintam Page #115 -------------------------------------------------------------------------- ________________ समा विशेषा० द्वृत्तिः । ॥७१३|| सरकार यदि नाम देह-कर्मणोरनादिः संतानः, तर्हि जीवसिद्धौ किमायातम् ? इत्याहतो कम्म-सरीराणं कत्तारं करण-कज्जभावाओ । पडिवज्ज तदब्भहिअं दंड-घडाणं कुलालं व ॥ १६६६ ॥ ॲत्थि सरीरविहाया पइनिययागारओ घटस्सेव। अक्खाणं च करणओ दंडाईणं कुलालो ब्व ॥ १६६७ ॥ अथिदियविसयाणं आयाणादेयभावओऽवस्सं। कम्मार इवादाया लोए संडास-लोहाणं ॥ १६६८ ॥ भोत्ता देहाईणं भोज्जत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घरस्सेव ॥ १६६९ ॥ जो कत्ताइ स जीवो सज्झविरुद्धो त्ति ते मई होज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥१६७०॥ आसां व्याख्या पूर्ववदेवेति ॥ १६६६ ॥ १६६७ ॥ १६६८ ॥ १६६९ ॥ १६७० ॥ अथ सुगतमतानुसारी कश्चिदाह- ननु सर्वपदार्थानां क्षणनश्वरत्वाज्जीवस्यापि क्षणिकतया शरीरेण सदैव विनष्टत्वाद् वस्तुतः शरीरात् तस्यानर्थान्तरतैव, इति किं तब्यतिरिक्तत्वसाधनप्रयासेन ? इत्यत्राह जाइस्सरो न विगओ सरणाओ बालजाइसरणो व्व । जह वा सदेसवत्तं नरो सरंतो विदेसम्मि ॥ १६७१ ॥ इह यो जातिस्मरो जीवः स प्राग्भविकशरीरविगमेऽपि सति न विगत इति प्रतिज्ञा । 'सरणाउ त्ति' स्मरणादिति हेतुः । यथा | बालजातौ बालजन्मनि वृत्तं स्मरतीति बालजातिस्मरणो वृद्ध इति दृष्टान्तः। यथा वा, स्वदेशे मालवकमध्यदेशादौ वृत्तं विदेशेऽपि गतो नरः स्मरन् न विगतः । इदमुक्तं भवति- योऽन्यदेश-कालाद्यनुभूतमर्थ स्मरति सोऽविनष्टो दृष्टः, यथा बालकालानुभूतानामर्थानामनुस्मर्ता वृद्धाद्यवस्थायां देवदत्तः। यस्तु विनष्टो नासौ किश्चिदनुस्मरति, यथा जन्मानन्तरमेवोपरतः। न च पूर्वपूर्वक्षणानुभूतमाहितसंस्कारा उत्तरोत्तरक्षणाः स्मरन्तीति वक्तव्यम् , पूर्व-पूर्वेक्षणानां निरन्वयविनाशेन सर्वथा विनष्टत्वात् , उत्तरोत्तरक्षणानां सर्वथाऽन्यत्वात् । न चान्यानुभूतमन्योऽनुस्मरति, देवदत्तानुभूतस्य यज्ञदत्तानुस्मरणप्रसङ्गादिति ॥ १६७१ ॥ , ततः कर्म-शरीरयोः कतारं करण-कार्यभावात् । प्रतिपद्यस्व तदभ्यधिकं दण्ड-घटयोः कुलालमिव ॥ १६५५॥ २ गाथा १५६७ । ३ पूर्वत्र 'देहस्स स्थि विहाया' इति पाठः । ४ गाथा १५६८ । ५ गाथा १५६९ । ६ गाथा १५७० । ७ घ. ज. 'इत्याह' । • जातिमरो न विगतः स्मरणाद् बाळजातिमण इव । यथा वा स्वदेशवृत्तं नरः सारन् विदेशे ॥ १६01॥ समकर पहर-हर 35A ||७१३ in Education Internationa Forson and Private Use Only Page #116 -------------------------------------------------------------------------- ________________ विशेषा. ॥७१४॥ अथ पराभिप्रायमाशङ्कय प्रतिविधातुमाह अह मन्नसि खणिओ वि हु सुमरइ विन्नाणसंतइगुणाओ। तहवि सरीरादण्णो सिद्धो विण्णाणसंताणो ॥१६७२॥ इदत्तिः। अथैवं मन्यसे त्वम्- क्षणिकोऽपि क्षणभङ्गुरोऽपि जीवः पूर्ववृत्तान्तं स्मरत्येव । कुतः ? इत्याह-विज्ञानानां विज्ञानक्षणानां संततिः संतानस्तस्या गुणस्तत्सामर्थ्यरूपस्तस्मादिति, क्षणसंतानस्यावस्थितत्वात् क्षणनश्वरोऽपि स्मरतीत्यर्थः। अत्रोत्तरमाह- ननु तथाप्येवमपि सति ज्ञानलक्षणसन्तानस्याग्रेतनशरीरसंक्रान्तेर्भवान्तरसद्भावः सिध्यति, सर्वशरीरेभ्यश्च विज्ञानसंतानस्येत्थमर्थान्तरता साधिता भवति, अविच्छिन्न विज्ञानसन्तानात्मकश्चैवं शरीरादर्थान्तरभूत आत्मा सिद्धो भवतीति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितम् ॥ १६७२ ॥ ___ इदानीमिहभवमङ्गीकृत्याह-| अथवा, क्षणिकत्वमभ्युपगम्योक्तम् , अधुना तत् क्षणिकमेव न भवतीत्याह-- न य सव्वहेव खणिअंनाणं पुबोवलइसरणाओ। खणिओ न सरइ भूयं जह जम्माणंतरविनट्ठो॥१६७३॥ न च सर्वथैव क्षणिकं ज्ञानं वक्तुं युज्यते । कथश्चित्तु क्षणिकतां भगवानपीच्छत्येव, इति 'सर्वथैव' इत्युक्तम् । कस्मात् पुनर्ज्ञानं न क्षणिकम् ? इत्याह-पूर्वोपलब्धस्य बालकालाद्यनुभूतस्यार्थस्य वृद्धत्वाद्यवस्थायामपि स्मरणदर्शनात् । न चैतदेकान्तक्षणिकत्वे सत्युपपद्यते । कुतः ? इत्याह- 'खणिओ इत्यादि' यः क्षणिको नायं भूतमतीतं स्मरति, यथा जन्मानन्तरविनष्टः, एकान्तक्षणिक चेष्यते ज्ञानम् , अतः स्मरणाभावप्रसङ्ग इति ॥ १६७३ ॥ क्षणिकज्ञानपक्षे दूषणान्तरमध्याह-- जैस्सेगमेगबंधणमेगंतेण खणियं य विण्णाणं । सव्वखणियविण्णाणं तस्साजुत्तं कदाचिदवि ॥१६७४॥ यस्य वादिनो बौद्धस्य 'एकविज्ञानसंततयः सत्त्वाः' इति वचनादेकमेवासहायं ज्ञानं तस्य 'सर्वमपि वस्तु क्षणिकम्' इत्येवंभूतं विज्ञानं कदाचिदपि न युक्तमिति संबन्धः। इष्यते च सर्वक्षणिकताविज्ञानं सौगतः, 'यत् सत् तत् सर्वे क्षणिकम्' तथा, 'क्षणिकाः १ अथ मन्यसे क्षणिकोऽपि खलु स्मरति विज्ञानसंततिगुणात् । तथापि शरीरादन्यः सिद्धो विज्ञानसंतानः ॥ १६७२ ॥ २ घ. ज. 'कत्वमे'। ||७१४॥ ३ न च सर्वधैव क्षणिकं ज्ञानं पूर्वोपलब्धस्मरणात् । क्षणिको न स्मरति भूतं यथा जन्मानन्तरविनष्टः ॥ १६७३ ॥ ४ यस्यैकमेकबन्धनमेकान्तेन क्षणिकं च विज्ञानम् । सर्वक्षणिक विज्ञानं तस्थायुक्तं कदाचिदपि ॥ १६७४ ॥ काला Jin Education Infoma Forson and Private Us Only www.jainetbrary.org Page #117 -------------------------------------------------------------------------- ________________ विशेषा ० सर्वसंस्काराः' इत्यादिवचनात् । एतच्च क्षणिकता ग्राहकज्ञानस्यैकत्वे न संभवत्येव । यदि हि त्रिलोकीलगतैः सर्वैरपि क्षणिकैः | पदार्थः पुरः स्थित्वा तदेकं विज्ञानं जन्येत तदा तदेतज्जानीयाद् यदुत- 'क्षणिकाः सर्वेऽप्यमी पदार्थाः' इति । न चैवं सर्वैरपि तैस्तज्जन्यते । कुतः ? इत्याह- 'एगबंधणं ति' यस्मादेकमेव प्रतिनियतं बन्धनं निबन्धनमालम्बनं यस्य तदेकवन्धनं ज्ञानम्, अतः कथमशेषवस्तुस्तोमव्यापिनीं क्षणिकतामवबुध्येत ? । अपिच, एकालम्बनत्वेऽपि ययशेषपदार्थविषयाणामपि ज्ञानानां युगपदुत्पत्तिरिष्यते, आत्मा च तदर्थानुस्मर्ता, तदा स्यादशेषपदार्थक्षणिकतापरिज्ञानम् । न चाशेषार्थग्राहकानेकज्ञानानां युगपदुत्पत्तिरिष्यते । ॥७१५।। I Jain Educations Internation किञ्च तदेकमध्ये कार्यविषयमपि च विज्ञानं सर्वपदार्थगतां क्षणिकतामज्ञास्यदेव यद्युत्पश्यनन्तरध्वंसि नाभविष्यत् । अविनाश हि तदवस्थिततयोपविष्टं सदन्यमन्यं चार्थमुत्पत्त्यनन्तरमुपरमन्तं दृष्ट्रा 'सर्वमेवास्मद्वर्जमस्मत्सजातीयवर्ज च वस्तु क्षणिकमेव इत्यवबुध्येत, न चैतदस्ति । कुतः १, इत्याह- 'एगंतेण खणियं चेति' यस्य च बौद्धस्यैकान्तेन क्षणिकं क्षणध्वंस्येव विज्ञानं, न पुनश्चिरावस्थायि तस्य कथं सर्ववस्तुगतक्षणिकतापरिज्ञानं स्यात् ? । तस्मादक्षणिकमेव प्रमातृ ज्ञानमेष्टव्यम् । तच्च गुणत्वादनुरूपं गुणिनमात्मानमन्तरेण न संभवति । अतः सिद्धः शरीराद् व्यतिरिक्त आत्मेति ।। १६७४ ।। उक्तगाथोक्तमेव कञ्चिदर्थं भावयति सविनय चिजम्माणंतरहयं च तं किह णु । नाहिति सुबहुयविष्णाणविसयखयभंगयाईणि ? || १६७५ ॥ यत् स्वविषयमात्रनियतं जन्मानन्तरहतं च प्रमात् विज्ञानं तत्कथं सुबहुविज्ञानविषयगतान् क्षणभङ्ग-निरात्मकत्व सुख-दुःखतादीन् धर्मान् ज्ञास्यति ? न कथञ्चिदित्यर्थः ।। १६७५ ।। अत्र परमतमाशङ्क्य परिहरन्नाह गिहिज्ज सव्वभंगं जइ य मई सविषयाणुमाणाओ । तं पि न जओऽणुमाणं जुत्तं सत्ताइसिडीओ || १६७६ ॥ यदि च परस्यैवंभूता मतिः स्याद् यदुत - एकमपि - एकालम्बनमपि क्षणिकमपि च प्रमातृ विज्ञानं सर्ववस्तुगतक्षणभङ्गं गृह्णीयात् । कुतः ? इत्याह- स्वविषयानुमानात् । एतदुक्तं भवति यस्मादयमस्मद्विषयः क्षणिकः, अहं च क्षणनश्वररूपम्, ततो १ यद् स्वविषयनियतमेव जन्मानन्तरहतं च तत् कथं नु । ज्ञास्यति सुबहुकविज्ञानविषयक्षयभङ्गकादीनि १ ।। १६७५ ॥ २ गृह्णीयात् सर्वभङ्गं यदि च मतिः स्वविषयानुमानात् । तदपि न यतोऽनुमानं युक्तं सत्तादिसिद्धौ ॥ १६७६ ॥ For Personal and Private Use Only बृहद्वृत्तिः। ।।७१५।। Page #118 -------------------------------------------------------------------------- ________________ विशेषा ।।७१६ ।। Jain Education Internatio विज्ञानसाम्यादन्यान्यपि विज्ञानानि क्षणिकानि विषयसाम्याच्चान्येऽपि विषयाः सर्वेऽपि क्षणिकाः, इत्येवं स्वं च विषयाच स्वविषयास्तदनुमानात् सर्वस्यापि वस्तुस्तोमस्य क्षणिकत्वादि गृह्यते । अत्र दूषणमाह- 'तं पीत्यादि' तदपि न युक्तं न घटमानकम् । कुतः १ इत्याह- यतस्तत् स्वविषयानुमानमन्येषां विज्ञानानामन्यविषयाणां च पक्षीकृतानां सत्तादिप्रसिद्धावेव युज्यते । नहि सत्वेनाप्यप्रसिद्धेक्षणिकतादिधर्मः साध्यमानो विभ्राजते । को हि नाम शब्दादिष्वादावेव सच्वेनाप्रतीतेषु कृतकत्वादिनाऽनित्यत्वादिधर्मान् साधयति, 'तत्र पक्षः प्रसिद्ध धर्मी' इत्यादिवचनात् ? । न चेदमेकमेकालम्बनं क्षणिकं च ज्ञानमेतद् वोढुं शक्नोनि यदुत- अन्यज्ञानानि सन्ति, तद्विषयाश्च विद्यन्ते, तेषां च विषयाणां स्वविषयज्ञानजननस्वभावादय एवंभूता धर्माः सन्तीति । एतदपरिज्ञाने च कथमेतेषां क्षणिकतां साधयिष्यति, धर्मिण एवाप्रसिद्धेः १ स्यादेतत् स्वविषयानुमानादेवान्यविज्ञानादिसत्तापि सेत्स्यत्येव, तथाहि - यथाऽहमस्मि तथान्यान्यपि ज्ञानानि सन्ति, यथा च मद्विषयो विद्यते, एवमन्येऽपि ज्ञानविषया विद्यन्त एव; यथा चाहं मद्विषयश्च क्षणिकः एवमन्यज्ञानानि तद्विषयाश्च क्षणिका एवेति, एवं सर्वेषां सत्त्वं क्षणिकता च स्वविषयानुमानादेव सेत्स्यतीति । एतदप्ययुक्तम्, यतः सर्वक्षणिकताग्राहकं ज्ञानं क्षणनश्वरत्वाज्जन्मानन्तरं 'मृत इवाहस्मि, क्षणिकं च' इत्येवमात्मानमपि नावबुध्यते, अन्यपरिज्ञानं तु तस्य दूरोत्सारितमेव । किञ्च तत् स्वविषयमात्रस्यापि क्षणिकतां नावगच्छति, समानकालमेव द्वयोरपि विनष्टत्वात् । यदि हि स्वविषयं विनश्यन्तं दृष्ट्वा तद्गतक्षणिकतां निश्चित्य स्वयं पश्चात् कालान्तरे तद् विनश्येत् तदा स्यात् तस्य स्वविषयक्षणिकताप्रतिपत्तिः, न चैतदस्ति, ज्ञानस्य विषयस्य च निजनिजक्षणं जनयित्वा समानकालमेव विनाशाभ्युपगमात् । न च स्वसंवेदनप्रत्यक्षेण, इन्द्रियप्रत्यक्षेण वा क्षणिकता गृह्यत इति सौगतैरिष्यते, अनुमानगम्यत्वेन तस्यास्तैरभ्युपगमादिति ।। १६७६ ॥ अत्र परस्योत्तरमाशङ्कय निराचिकीर्षुराह वासा उसावि हुवासित्त- वासणिज्जाणं । जुत्ता समेच्च दोण्हं न उ जम्माणंतरहयस्स || १६७७॥ स्यादेतत् पूर्वपूर्वविज्ञानक्षणैरुत्तरोत्तर विज्ञानक्षणानामेवंभूता वासना जन्यते, ययाऽन्यविज्ञान-तद्विषयाणां सच्च-क्षणिकतादीन् धर्मानेककालम्बनं क्षणिकमपि च विज्ञानं जानाति, अतः सर्वक्षणिकताज्ञानं सौगतानां न विरुध्यते । तदप्ययुक्तम्, यतः सापि ३ जानीयाद् वासना तु सापि खलु वासि वासनीययोः । युक्ता समेत्य द्वयोर्न तु जन्मानन्तरहतस्य ॥ १६७७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७१६ ॥ www.janetary.ang Page #119 -------------------------------------------------------------------------- ________________ विशेषा० ॥७१७॥ Jain Educationa Internation वासना वासक चासनीययोर्द्वयोरपि समेत्य संयुज्य विद्यमानयोरेव युक्ता, न तु जन्मानन्तरमेव हतस्य विनष्टस्य । वास्य - वासकयोश्च संयोगेनावस्थाने क्षणिकताहानिप्रसङ्गः । किञ्च, सापि वासना क्षणिका, अक्षणिका वा १ । क्षणिकत्वे कथं तद्वशात् सर्वक्षणिकतापरिज्ञानम् ? | अक्षणिकत्वे तु प्रतिज्ञाहानिरिति ।। १६७७ ।। तदेवं परपक्षं दूषयित्वा सांप्रतं स्वपक्षमुपदिदर्शयिषुरुपसंहरन्नाह बहुविष्णाणप्पभवो जुगवमणेगत्थयाऽहवेगस्स । विष्णाणावत्था वा पडुञ्चवित्तीविघाओ वा ॥ १६७८ ॥ विष्णाणखणविणासे दोसा इच्चादयो पसज्जति । न उठियसंभूयच्चुयविण्णाणमयम्मि जीवम्मि ॥१६७९ ॥ तदेवं विज्ञानस्य प्रतिक्षणं विनाशेऽभ्युपगम्यमाने इत्यादयो दोषाः प्रसजन्ति । के पुनस्ते दोषाः ? इत्याह- 'बहुविष्णाणेत्यादि' इत्येवं संबन्धः । क्षणनश्वरविज्ञानवादिना भुवनत्रयान्तर्वर्तिसर्वार्थग्रहणार्थं युगपदेव बहूनां ज्ञानानां प्रभव उत्पादोऽभ्युपगन्तव्यः, तदाश्रयभूतश्च तद्द्दष्टानामर्थानामनुस्मर्ताऽवस्थित आत्माऽभ्युपगन्तव्यः; अन्यथा 'यत् सत् तत् सबै क्षणिकम् ' ' क्षणिकाः सर्वे संस्काराः' 'निरात्मानः सर्वे भावाः' इत्यादि सर्वक्षणिकतादिविज्ञानं नोपपद्येत, तदभ्युपगमे च स्वमतत्यागप्रसक्तिः । अथवा, क्षणिकं विज्ञानमिच्छतैकस्यापि विज्ञानस्य युगपदनेकार्थना - सर्वभवनान्तर्गतार्थग्राहिताऽभ्युपगन्तव्या येन सर्वक्षणिकतादिविज्ञानमुपपद्यते, न चैतदिव्यते, दृश्यते वा । 'विष्णाणावत्था व त्ति' यदिवा, अवस्थानमवस्था, विज्ञानस्यावस्था विज्ञानावस्थाऽभ्युपगन्तव्या भवति । इदमुक्तं भवति- विज्ञानस्यानल्पकल्पाग्रशोऽवस्थानमेष्टव्यम्, येन तत् सर्वदा समासीनमन्यान्यवस्तुविनश्वरतां वीक्षमाणं सर्वक्षणिकतामवगच्छेदिति सर्व प्रागेवोक्तमेव । एवं चाभ्युपगमे विज्ञान संज्ञामात्रविशिष्ट आत्मैवाभ्युपगतो भवति । अथैतद् बहुविज्ञानप्रभवादिकं नेष्यते, तर्हि प्रतीत्यवृत्तिविधातः प्राप्नोति । इदमत्र हृदयम् - कारण प्रतीत्याश्रित्य कार्यस्य वृत्तिः प्रवृत्तिरुत्पत्तिरिति यावत् न पुनः कारणं कार्यावस्थायां कथञ्चिदप्यन्वेति इत्येवं सौगतैरभ्युपगम्यते । इत्थं चाभ्युपगम्यमानेइतीतस्मरणादिसमस्तव्यवहारोच्छेदमसङ्गः । एवं हि व्यवहारमवृत्तिः स्याद् यद्यतीतानेकसंकेतादिज्ञानाश्रयस्तत्तद्विज्ञानरूपेण परिणामादन्वयी आत्माऽभ्युपगम्यते । तथाभ्युपगमे च सति प्रतीत्यवृत्त्यभ्युगमविघातः स्यादिति । ननु यदि विज्ञानस्य क्षणविनाश १ बहुविज्ञानप्रभवो युगपदनेकार्थताऽथवैकस्य । विज्ञानावस्था वा प्रतीत्यवृत्तिविघातो वा ॥ १६७८ ॥ विज्ञानक्षणविनाशे दोषा इत्यादयः प्रसजन्ति । न तु स्थितसंभूतच्युतविज्ञानमये जीवे ॥ १६७९ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७१७॥ Page #120 -------------------------------------------------------------------------- ________________ EPएते दोषाः प्रसजन्ति, तर्हि कामी दोषा न भवन्ति ? इत्याह- 'न उ ठियेत्यादि' न त्वस्पदधुपगते जीवेऽभ्युपगम्यमान एते दोषाः विशेषा० प्रसजन्ति । कथंभूते जीवे ? स्थितसंभूतच्युतविज्ञानमये- कथश्चिद् द्रव्यरूपतया स्थितम् , कथश्चितूत्तरपर्यायेण संभूतम् , कथञ्चि॥७१८॥ | पुनः पूर्वपर्यायण च्युतं विनष्टं यद् विज्ञानं तन्मय इत्यर्थः । तस्मादमुमेवोत्पाद-व्यय-धौव्ययुक्तं शरीरादर्थान्तरभूतमस्मदभ्युपगतमास्मान समस्तव्यवहारसिद्धये प्रतिपद्यस्वेति ॥ १६७८ ।। १६७९॥ नन्वेवंभूतस्यात्मनः कथंभूतानि ज्ञानानि प्रवर्तन्ते, कस्माच हेतोस्तानि जायन्ते ? इत्याह-- तैस्स विचित्तावरणखओवसमजाई चित्तरूवाई । खणियाणि य कालंतरवित्तीणि य मइविहाणाइं ॥ १६८० ॥ __ मतेमतिज्ञानस्य विधानानि नानाभेदरूपाणि तस्य यथोक्तरूपस्यात्मनः प्रवर्तन्ने । कथंभूतानि ? इन्याह- विचित्रो योऽसौ मतिज्ञानावरणक्षयोपशमस्ततो जातानि, अत एव स्वकारणभूतक्षयोपशमवैचिच्याद् विचित्ररूपाणि । तथा, पर्यायरूपतया क्षणिकानि, द्रव्यरूपतया तु नित्यत्वात् कालान्तरवृत्तीनि । उपलक्षणं च मतिविधानानि, श्रुना-ऽवधि-मनःपर्यायविधानान्यपि यथासंख्यं श्रुता-चधि-मनःपर्यायज्ञानावरणक्षयोपशमवैचित्र्याद् विचित्ररूपाणि यथासंभवं तस्य द्रष्टव्यानि । केवलज्ञानं वेकमेवाविकल्पं केवलज्ञानावरणक्षयादेव द्रष्टव्यमिति ।। १६८०।। एतदेवाह निच्चो संताणो सिं सव्वावरणपरिसंखए जं च । केवलमुदियं केवलभावेणाणंतमविगप्पं ॥ १६८१ ॥ 'सिं ति' एतेषां च मतिज्ञानादिविधानानामविशेषितज्ञानमात्ररूपसंतानो नित्योऽव्यवच्छिन्नरूपः । केवलज्ञानं त्वविकल्प भेदरहितमुदितमाख्यातं भगवद्भिः, यतः सर्वस्यापि निजावरणस्य क्षय एव तदुपजायते । अतोऽविकल्प केवल भावेनानन्त कालावस्थायित्वात् , अनन्तार्थविषयत्वाचानन्तमिति ॥ १६८१ ॥ पुनर्वायुभूतिः संदिहानः माहसो जइ देहादन्नो तो पविसंतो व निस्सरंतो वा। कीस न दीसइ, गोयम ! दुविहाऽणुवलद्धि उसा य ॥१६८२॥ , तस्य विचित्रावरणक्षयोपशमजानि चित्ररूपाणि । क्षणिकानि च कालान्तरवृत्तीनि च मतिविधानानि ॥ १६८० ॥ २ नित्यः सन्तान एषां सर्वावरणपरिसंक्षये यच्च । केवलमुदितं केवलभावेनानम्तमविकल्पम् ॥ १६८१ ॥ ३ स यदि देहादन्यस्ततः प्रविशन् वा निःसरन् वा । कस्माद् न दृश्यते, गौतम ! द्विविधाऽनुपलब्धिस्तु सा च ॥ १६८२ ॥ POOO HO||७१ Jan Education Internati For Personal and Private Use Only www.janmitrary.org Page #121 -------------------------------------------------------------------------- ________________ RSS विशेषा हिट BookOCCIO-OS असओ खरसंगरस व सओ वि दूराइभावओऽभिहिया। सुहुमा-ऽमुत्तत्तणओ कम्माणुगयस्य जीवस्स ॥१६८३॥ यदि नाम शरीरादन्योऽसौ जीवस्ततो घटे चटक इव शरीरे प्रविशन् निःसरन् वा किमिति नोपलभ्यते ? । भगवानाह'गोयमेत्यादि' यतो द्विविधाऽनुपलब्धिरस्ति, अतस्तस्यानुपलब्धेः कारणाद् गौतम ! जीवो न दृश्यते । कथं पुनः साऽनुपलब्धिद्विविधा ? इत्याह-सा चानुपलब्धिरेकाऽसतो भवति, यथा खरशृङ्गस्य । द्वितीया तु सतोऽप्यर्थस्य भवति । कुतः ? इत्याह- दूरा| दिभावादिति, दूरात् सन्नप्यर्थो न दृश्यते, यथा स्वर्गादिः, आदिशब्दात्- अतिसंनिकर्षात् , अतिसौम्यात् , मनोऽनवस्थानात् , इन्द्रियापाटवात् , मतिमान्द्यात् , अशक्यत्वात् , आवरणात्, अभिभवात् , सामान्यात् , अनुपयोगात्; अनुपायात् , विस्मृतेः, दुरागमात् , मोहात् , विदर्शनात् , विकारात् , अक्रियातः, अनधिगमात् , कालविप्रकर्षात् , स्वभावविप्रकर्षाच्चेति । तत्रातिसंनिकर्षात् सन्नप्यों नोपलभ्यते, यथा नेत्रदृषिका पक्ष्मादिः । अतिसौम्यात् परमाण्वादिः । मनोऽनवस्थानात् सतोऽप्यनुपलब्धिर्यथा नष्टचेतसाम् । इन्द्रियापाटवात् किश्चिदधिरादीनाम् । मतिमान्यादनुपलब्धिः सतामपि मूक्ष्मशास्त्रार्थविशेषाणाम् । अशक्यत्वात् स्वकर्ण-कृकाटिका-मस्तक-पृष्ठादीनाम् । आवरणाद् हस्तादिस्थगितलोचनानां कट-कुट्याद्यावृतानां वा । अभिभवात् | प्रमृतसूरतेजसि दिवसे तारकाणाम् । सामान्यात् मूपलक्षितस्यापि माषादेः समानजातीयमाषादिराशिपतितस्याप्रत्यभिज्ञानात् सतोऽप्यनुपलब्धिः। अनुपयोगाद् रूपोपयुक्तस्य शेषविषयाणाम् । अनुपायात् शृङ्गादिभ्यो गोमहिष्यादिपयःपरिमाणजिज्ञासोः । विस्मृतेः पूर्वोपलब्धस्य । दुरागमाद् दुरुपदेशात् तत्पतिरूपकरीतिकादिविप्रलम्भितमतेः कनकादीनां सतामप्यनुपलब्धिः। मोहात् सतामपि | जीवादितत्त्वानाम् । विदर्शनात् सर्वथाऽन्धादीनाम् । वार्धक्यादिविकाराद् बहुशः पूर्वोपलब्धस्य सतोऽपनुपलब्धिः । अक्रियातो | भूखननादिक्रियाऽभावाद् वृक्षमूलादीनामनुपलब्धिः । अनधिगमात् शास्त्राश्रवणात् तदर्थस्य सतोऽप्यनुपलब्धिः । कालविप्रकर्षाद् भूत-भविष्यदृषभदेव-पद्मनाभतीर्थकरादीनामनुपलब्धिः। स्वभावविकर्षाद् नभःपिशादीनामनुपलम्भः । तदेवं सतामप्यर्थानामेकविं. | शतिविधाऽनुपलब्धिः प्रवर्तते । अतोऽस्य कर्मानुगतस्य संसारिणो जीवस्याऽमूर्तत्वाद् नभस इव, कार्मणस्य तु सौक्ष्म्यात् परमाणोरिव सतोऽनुपलब्धिः, नासतः । कथं पुनरेतज्ज्ञायते- नासत आत्मनोऽनुपलब्धिः, किन्तु सतः ? इति चेत् । उच्यते- अनुमानस्तत्सत्वस्य साधितत्वादिति ॥ १६८२ ।। १६८३ ।। असतः खरभङ्गस्येव सतोऽपि दूरादिभावतोऽभिहिता । सूक्ष्मा-ऽमूर्तत्वतः कर्मानुगतस्य जीवस्य ।। १६८३ ॥ ७१९॥ JamEducational Internation Foc Personal and Private Use Only www.jamelbrary.org Page #122 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः । ॥७२०॥ वेदोक्तद्वारेणापि देहव्यतिरिक्तमात्मानं साधयितुमाह... 'देहाणण्णे व जिए जमग्गिहोत्ताई सग्गकामस्स । वेयविहियं विहण्णइ दाणाइफलं च लोयम्मि ॥१६८४॥ शरीरमात्रे जीवे सति गौतम ! यत् स्वर्गकामस्य वेदविहितमग्निहोत्राद्यनुष्ठानं तद् विहन्यते, देहस्य वविनाऽत्रैव भस्मीकर| णात् , जीवाभावे कस्यासौ स्वर्गो भवेत् ? इति भावः । दानादिफलं चानुभवितुरभावात् कस्य भवेत् ? इति ॥१६८४ ॥ विरुद्धवेदपदश्रवणनिबन्धनश्चैष वायुभूतेजीव-शरीरयोर्भेदाभेदविषयः संशयः । अतो वेदपदार्थकथनद्वारेणापि तमपाकुनाह विण्णाणघणाईणं वेयपयाणं तमत्थमविदंतो । देहाणण्णं मन्नसि ताणं च पयाणमयमत्थो ॥ १६८५ ॥ विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरमित्यादिव्याख्या पूर्ववदेव। अत एव प्रागुक्तम्- 'शरीरतया परिणतो भूतसंघा| तोऽयं विद्यमानकर्तृका, आदिमत्पतिनियताकारत्वात् , घटवद्, यश्च तत्कर्ता स तदतिरिक्तो जीवः' इति । भूतातिरिक्तात्मप्रतिपादकानि | च वेदवाक्यानि तवापि प्रतीतान्येव । तद्यथा- "सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो विशुद्धो यं पश्यन्ति धीरा | यतयः संयतात्मानः" इत्यादि । तदेवं सर्वेषामपि वेदवाक्यानां भूतातिरिक्तस्य जीवस्य प्रतिपादकत्वाद् भूतेभ्योऽतिरिक्तं जीवं प्रति| पद्यखेति ॥ १६८५ ॥ एवं भगवता संशयेऽपनीते सति वायुभूतिः किं कृतवान् ? इत्याह'छिन्नम्मि संसयम्मि जिणेणं जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१६८६॥ व्याख्या पूर्ववत् ।। इति द्विचत्वारिंशद्गाथार्थः ॥ १६८६ ॥ ॥ इति तृतीयो गणधरवादः समाप्तः ॥ ७२०॥ १ देहानन्ये वा जीवे यदग्निहोत्रादि स्वर्गकामस्य । बेदविहितं विहन्यते दानादिफलं च लोके ॥ १६८४ ॥ २ विज्ञानघनादीनां वेदपदानां त्वमर्थमविदन् । देहानन्यं मन्यसे तेषां च पदानामयमर्थः ॥ १६८५ ॥ ३ गाथा १६.४। Edita internet For o n Private Use Only स www.jainelbrary.org Page #123 -------------------------------------------------------------------------- ________________ विशेषा. ॥७२॥ अथ चतुर्थस्य व्यक्तगणधरस्य वक्तव्यतामभिधित्सुराह 'ते पव्वइए सोउं वियत्तु आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ १६८७ ॥ बृहदत्तिः। सुगमा ॥ १६८७॥ एवं विचिन्त्य व्यक्तनामा द्विजोपाध्यायः समागतो भगवतः समीपम् । ततो भगवता किं कृतम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्रेण य सवण्णू सव्वदरिसी णं ॥१६८८॥ व्याख्या पूर्ववदिति ॥ १६८८ ॥ आभाष्य भगवता किमुक्तोऽयम् ? इत्याह किं मण्णे अत्थिभूया उदाहु नत्थि त्ति संसओ तुज्झ।वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१६८९॥ पृथिव्य-ऽप्-तेजो-वाय्वा-ऽऽकाशलक्षणानि पञ्च भूतानि, तानि च किं सन्ति, नवा ? इति त्वं मन्यसे । संशयश्च तवायं विरुद्धवेदपदश्रवणनिबन्धनो वर्तते । तानि चामूनि वेदपदानि- "खमोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेयः" इत्यादि, तथा, "द्यावा-पृथिवी" इत्यादि, तथा,"पृथिवी देवता, आपो देवताः" इत्यादि । एतेषां चायमर्थस्तव प्रतिभासते- 'स्वप्नोपमम्-स्वमसदृशम् , वैनिपातोऽवधारणे, सकलम्- अशेषं जगत , इत्येष ब्रह्मविधिः- परमार्थप्रकारः, अञ्जसा-प्रगुणेन न्यायेन, विज्ञेयः- ज्ञातव्यः' इति । तदेवमादीनि वेदपदानि किल भूतनिवपराणि, 'धावा-पृथिवी' इत्यादीनि तु सत्ताप्रतिपादकानि, अतस्तव संशयः । तदेतेषां वेदपदानां त्वमर्थ न जानासि, चशब्दाद् युक्तिहृदयं च न वेत्सि । तेन संशयं कुरुषे । तेषां चायमर्थो वक्ष्यमाणलक्षण इति ।। १६८९॥ अथ भाष्यम्भूएसु तुज्झ संका सुविणय-माओवमाइं होज त्ति । न वियारिजंताई भयंति जं सव्वहा जुत्तिं ॥१६९०॥ N amast ॥७२१॥ राट १ तान् प्रवजितान् श्रुत्वा व्यक्त आगच्छति जिनसकाशम् । बजामि वन्दे वन्दित्वा पर्युपासे ॥ १६८७ ॥ २ गाथा १६०९। ३ किं मन्यसे सन्ति भूतान्युताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १५८९॥ ४ क. ग. 'इत्यादि त'। ५ भूतेषु तव शङ्का स्वप्नक-मायोपमानि भवेयुरिति । न विचार्यमाणानि भजन्ति यत् सर्वथा युक्तिम् ॥१६९०॥६ क.ग. 'हो ति'झ.'हुजं ति' । Jan Education Internation For Personal and Private Use Only www.janeitrary.org Page #124 -------------------------------------------------------------------------- ________________ विशेषा. ॥७२२॥ ENTERTATRIERRIAGEमस्त भूयाइसंसयाओ जीवाइसु का कह त्ति ते बुद्धी । तं सव्वसुण्णसंकी मन्नसि मायोवमं लोयं ॥१६९१॥ आयुष्मन् व्यक्त ! भूतेषु भवतः संदेहः, यतः स्वमोपमानि मायोपमानि चैतानि भवेयुरिति त्वं मन्यसे । यथा हि स्वमे किल कश्चिद् निःस्खोऽपि निजगृहाङ्गणे गजघटा-तुरगनिवह मणि-कनकराश्यादिकमभूतमपि पश्यति, मायायां चेन्द्रजालविलसितरूपायामविद्यमानमपि कनक-मणि-मौक्तिक-रजतभाजना-ऽऽराम-पुष्प-फलादिकं दृश्यते, तथैतान्यपि भूतान्येवंविधान्येवेति मन्यसे, यद् यस्माद् विचार्यमाणान्येतानि सर्वथैव न काश्चिद् युक्ति भजन्ते सहन्ते । भूतेषु च संशये जीव-पुण्य-पापादिषु किल का वार्ता, भूतविकाराधिष्ठानत्वात् तेषाम् ?, इति तव बुद्धिः । तस्मात् सर्वस्यापि भूत-जीवादिवस्तुनस्त्वदभिप्रायेणाभावात् सर्वशून्यताशङ्की त्वं निरवशेषमपि लोकं मायोपमं स्वप्ने-न्द्रजालतुल्यं मन्यस इति ॥ १६९० ॥ १६९१ ॥ युक्ति चात्र व्यक्तचेतोगतां भगवान् व्यक्तीकुर्वजाह-- जह किर न सओ परओ नोभयओ नावि अन्नओ सिद्धी । भावाणमवेक्खाओ वियत्त! जह दीह-हस्साणं॥१६९२॥ व्यक्त ! भवतोऽयमभिप्रायः- यथा किल न स्वतः, न परतः, न चोभयतः, नाप्यन्यतो भावानां सिद्धिः संभाव्यते । कुतः ? इत्याह- अपेक्षात:- कार्यकारणादिभावस्यापेक्षिकत्वादित्यर्थः, इस्व-दीर्घव्यपदेशवत् । तथाहि- यत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम् , कारणेन वा । तत्र कार्य कारणेन क्रियत इति कारणायत्त एव तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं | स्वतः सिद्ध किश्चिदस्ति । तदेवं कार्यादिभावः स्वतो न सिध्यति । यच्च स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न स्वतः कार्यादिभावः, नापि परतः। स्व-परोभयतस्तर्हि तस्य सिद्धिरिति चेत् । तदयुक्तम् , व्यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात् । न हि सिकताकणेषु प्रत्येकमसत् तैलं तत्समुदाये प्रादुर्भवति । अपिच, उभयतः सिद्धिपक्ष इतरेतराश्रयदोषः प्रामोति । यावद्धि कार्य न सिध्यति न तावत्कारणसिद्धिरस्ति, यावच्च कारणं न सिध्यति न तावत् कार्य सिद्धिमासादयति । अत इतरेतराश्रयदोषः। तस्माद् नोभयतोऽपि कार्यादिभावसिद्धिः । नाप्यन्यतः , भूतादिसंशयात् जीवादिषु का कथेति ते बुद्धिः । त्वं सर्वशून्यशङ्की मन्यसे मायोपमं लोकम् ॥ १६९१ ॥ २ यथा किल न स्वतः परतो नोभयतो नाप्यन्यतः सिद्धिः । भावानामपेक्षातो व्यक्त ! यथा दीर्घ इस्वयोः ॥ १६९२ ॥ ७२२॥ in Education Internation Forson and Private Use Only 1. www. brary.org Page #125 -------------------------------------------------------------------------- ________________ विशेषा० ॥७२३॥ Jain Educationa Internation - अनुभवत इत्यर्थः, स्व-परो भयव्यतिरेकेणान्यस्य वस्तुनोऽसच्चेन निर्हेतुकत्वमसङ्गात् । एवं ह्रस्व-दीर्घलक्षणे दृष्टान्तेऽपि 'अपेक्षातः' इत्यस्य ह्रस्व-दीर्घत्वासिद्धिलक्षणेन साध्येनान्वयो भावनीयः । तथाहि प्रदेशिन्या अङ्गुष्ठमपेक्ष्य दीर्घत्वं प्रतीयते, मध्यमां त्वपेक्ष्य ह्रस्वत्वम्, परमार्थेन स्त्रियं स्वतो न ह्रस्वा, नापि दीर्घा । तदेवं न स्वतो ह्रस्व-दीर्घत्वयोः सिद्धिः । ततः परतः, उभयतः, अनुभयतन तत्सिद्ध्यभावो यथोक्तवद् भावनीयः, तदुक्तम् — "न दीर्घेऽस्तीह दीर्घत्वं न हस्खे नापि च द्वये । तस्मादसिद्धं शून्यत्वात् सदित्याख्यायते क हि ? ॥ १ ॥ " " ह्रस्वं प्रतीत्य सिद्धं दीर्घ, दीर्घ प्रतीत्य ह्रस्वमपि । न किंचिदस्ति सिद्धं व्यवहारवशाद् वदन्त्येवम् ॥ १ ॥" | १६०२ ॥ इतव सर्वजगच्छ्रन्यता । कुतः ? इत्याह अत्थित्त- घडेगाणेगया व सव्वेगयाइदोसाओ । सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥ १६९३ ॥ नन्वस्तित्व- घटयोरेकत्वम्, अनेकत्वं वा । यद्येकत्वम्, तर्हि सर्वेकता प्राप्नोति यो योऽस्ति स स घट इत्यस्तित्वे घटस्य प्रवेशात् सर्वस्य घटत्वप्रसङ्गः स्यात्, न पटादि पदार्थान्तरम् । घटो वा सर्वसच्चाव्यतिरेकात् सर्वात्मकः स्यात् ; अथवा, यो घटः स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्टम्, ततोऽन्यत्र सच्चाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैकः स्यात् । सोऽपि वा न भवेत्, व्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्षभूतोऽघट एव नास्ति, तदा किमपेक्षोऽसौ घटः स्यात् ? । इति सर्वशून्यत्वमिति । अथ घट सवयोरन्यत्वमिति द्वितीयो विकल्पः । तर्हि सस्वरहितत्वादसन् घटः, खरविषाणवदिति । अपिच, सतो भावः सचमुच्यते, तस्य च स्वाधारभूतेभ्यो घटादिभ्यः सद्भयोऽन्यत्वेऽसत्त्वमेव स्यात्, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः । तदेवमस्तित्वेन सह घटादीनामेकत्वाऽन्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वैकतादिदोषप्रसङ्गात् सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः, सर्वथैव तेषामभावो वा भवेदित्यर्थः । अपिच, यद् नोत्पद्यते तत्तावद् निर्विवादं खरविषाणवदसदेव इति निवृत्ता तत्कथा | यदप्युत्पत्तिमल्लोकेऽभ्युपगम्यते, तस्यापि जाता-जातादिविकल्पयुक्तिभिरुत्पादो न घटते, इति शून्यतैव युक्तेति ।। १६९३ ॥ एतदेवाह - जया-जायो भयओ न जायमाणं च जायए जम्हा । अणवत्था ऽभावो-भयदोसाओ सुण्णया तम्हा ॥१६९४ ॥ १ अस्तित्व घटेकानेकता या सर्वेकतादिदोषात् । सर्वेऽनभिलाप्या वा शून्या वा सर्वथा भावाः || १६९३ ॥ २ घ. ज. 'तदाह' । ३ जाता-जातोभयतो न जायमानं च जायते यस्मात् । अनवस्था ऽभावो भयदोषात् शून्यता तस्मात् ॥ १६९४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७२३॥ www.jainetbrary.org Page #126 -------------------------------------------------------------------------- ________________ ereta विशेषा. बृहद्वा ७२४॥ PR इह तावद् न जातं जायते, जातत्वादेव, निष्पन्नघटवत् । अथ जातमपि जायते, तीनवस्था, जातत्वाविशेषण पुनःपुनर्जन्मप्रसङ्गात् । अथानातं जायते । तत्रोत्तरमाह- 'अभाव त्ति' सूचकत्वात् सूत्रस्य, तीभावोऽपि खरविषाणलक्षणो जायताम् , अजात त्वाविशेषात् । अथ जाताजातरूपं जायते । तदप्ययुक्तम् । कुतः ? इत्याह- उभयदोषान प्रत्येकोभयपक्षोक्तदोषापत्तेरित्यर्थः । किञ्च, - एतज्जाताजातलक्षणमुभयमस्ति वा, न वा । यद्यस्ति, तर्हि जातमेव तत् , न पुनरुभयम् , तत्र चोक्तो दोषः । अथ नास्ति, तथापि नोभयं तत् , किन्त्वजातमेव, तत्रापि चाभिहितमेव दूषणम् । नापि जायमानं जायते, पूर्वोक्तविकल्पढ्यानतिवृत्तेः, तथाहि- तदपि जायमानमस्ति, नवा ? । यद्यस्ति, तर्हि जातमेव तत् । नास्ति चेत् , तवजातमेव । पक्षद्वयेऽपि चास्मिन्नभिहित एव दोषः । उक्तं च “गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते' ॥ १॥" इत्यादि । यस्मादेवम् , तस्मादनवस्थादिदोषप्रसङ्गेन वस्तूनामुत्पादायोगाजगतः शून्यतैव युक्तेति ॥ १६९४ ।। प्रकारान्तरेणापि वस्तूत्पत्त्ययोगतः शून्यतासाधनार्थमाह-- हेऊ-पच्चयसामग्गि वीसु भावेसु नो व जं कजं । दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ॥१६९५॥ हेतवः- उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतु-प्रत्ययानां या सामग्री तस्या विष्वग् भावेषु पृथगवस्थासु यत् कार्य न दृश्यते, दृश्यते च सामग्रीमयम्- संपूर्णसामग्यवस्थायां पुनदृश्यत इत्यर्थः । एवं च सति कार्यस्य सर्वाभाव एवं युक्त इति शेषः । सर्वाभावे च न सामग्री- नैव सामग्रीसद्भावः प्रामोतीत्यर्थः । ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम्- हेतवश्व प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा? । न तावदेकैकशः, तथाऽनुपलब्धेः । तत एकैकस्मात् कार्यस्याभावात् सामग्यमपि तदभाव एव स्यात् , सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्पत्त्यभावे सामग्रीसद्भावो न पामोति, अनुत्पन्नायाः सामग्य अप्ययोगात् । ततश्च सर्वशून्यतैव जगतः । उक्तं च "हेतु-प्रत्ययसामग्री पृथग् भावेष्वदर्शनात् । तेन ते नाभिलप्या हि भावाः सर्वे स्वभावतः ॥१॥" "लोके यावत् संज्ञा सामग्यामेव दृश्यते यस्मात् । तस्माद् न सन्ति भावा भावे सति नास्ति सामग्री ॥१॥" इत्यादि । अस्य च व्याख्या-पृथग् भावेष्वदर्शनात् 'कार्यस्य' इति शेषः । तेन ते घटादयो भावाः सर्वेऽपि स्वभावतः नागार्जुनकृते मध्यमककारिकानन्धे कारिका १५॥ R २ हेतु-प्रत्ययसामग्री विश्वगू भावेषु नो वा यत् कार्यम् । दृश्यते सामग्रीमयं सर्वाभाव न सामग्री ॥ १६९५ ॥ ३ प. ज. अत्र व्या' । साथससससससाना सर ७२४॥ Forson and Private Use Only Page #127 -------------------------------------------------------------------------- ________________ SoSER स्वरूपतो नाभिलाप्याः, पृथगेकैकावस्थाया कार्यस्यानुत्पादात् , उत्पत्तिमन्तरेण च घटादिसंज्ञाऽप्रवृत्तेः; संज्ञाऽभावे चाभिलप्तुमशक्यविशेषा• त्वादिति । कुतः पुनः पृथगवस्थायां संज्ञाऽप्रवृत्तिः? इत्याह-'लोके यावदित्यादि' लोके यावत् संज्ञा 'घटोऽयम्' इत्यादिसंज्ञाप्रवृत्तिः, ER तावत् संपूर्ण कार्य संपूर्णसामग्रयामेव यस्माद् दृश्यते, पृथगभावे च सामग्रयामप्यभावात् सिकतातैलवद् न सन्त्येव भावाः, भावासत्त्वे च कुतः सामग्रीसद्भावः । इति ॥ १६९५॥ प्रकारान्तरेणापि शून्यतासिद्ध्यर्थमाह परभागादरिसणओ सव्वाराभागसुहमयाओ य । उभयाणुवलंभाओ सव्वाणुवलडिओ सुण्णं ॥ १६९६ ॥ इह यत् तावददृश्यं तदसदेव, अनुपलम्भात , खरविषाणवदिति निवृत्ता तद्वार्ता । दृश्यस्यापि च स्तम्भ-कुम्भ-कुड्यादेः पर-मध्यभागयोरसत्त्वमेव, अर्वाग्भागान्तरितत्वेन तयोरप्यदर्शनात , आराद्भागस्यापि च सावयवत्वात् पुनरन्यः खल्वाराद्भागः, तस्याप्यन्य: पुनस्तस्याप्यन्य इत्येवं तावत् , यावत् सर्वारातीयभागस्य, परमाणुपतरमात्रत्वेनातिसौक्ष्म्यात्, पूर्वेषां चाराद्भागानामन्यस्यान्येनान्तरितत्वेनानुपलब्धेः । ततश्चोक्तन्यायेन परभागसरातीयभागलक्षणोभयभागानुपलम्भात् सर्वस्यापि वस्तुजातस्यानुपलब्धेः शून्य जगदिति । उक्तं च-- "यावद् दृश्यं परस्तावद् भागः स च न दृश्यते । तेन ते नाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ १॥" तदेवमुक्तयुक्त्या सर्वस्यापि भूतादेरभावः पामोति, श्रूयते च श्रुतौ भूतादिसद्भावोऽपीति संशयः । इति पूर्वपक्षः ॥ १६९६ ॥ अथ भगवान् प्रतिविधानमाह-- मा कुरु वियत्त ! संसयमसइ न संसयसमुब्भवो जुत्तो । खकुसुम-खरसिंगेसु व, जुत्तो सो थाणु-पुरिसेसु ॥१६९७॥ आयुष्मन् व्यक्त ! मा कृथाः संशयं- मा भूताभाव बुध्यस्व, यतोऽसति भूतकदम्बके संशयः खकुसुम-खरविषाणयोरिव न युक्तः, अपि त्वभावनिश्चय एव स्यात् । सत्स्वेव च भूतेषु स्थाणु-पुरुषादिष्विव संशयो युक्तः । यदि पुनरसत्यपि वस्तुनि संदेहः स्यात् | तदाऽविशेषेण खरविषाणादिष्वपि स्यादिति भावः ॥ १६९७ ॥ , परभागादर्शनतः साराजागसीदम्याच । उभयानुपलम्भात् सर्वानुपलब्धितः शून्यम् ॥ १९॥ २ मा कुरु व्यक्त ! संशयमसति न संशयसमुद्भवो युक्तः । खकुसुम-खरशृङ्योरिव, युक्तः स स्थाणु-पुरुषयोः ॥ १६९०॥ ७२५॥ For Personal and Present Page #128 -------------------------------------------------------------------------- ________________ विशेषा० ॥७२६॥ Jan Education Internatio एतदेव भावयति को वा विसेसहेऊ सव्वाभावे वि थाणु-पुरिसेसु । संका न खपुप्फाइसु विवज्जओ वा कहं न भवे ? || १६९८ || को वात्रविशेषहेतुरुच्यतां यत्- सर्वाभावे सर्वशून्यतायामविशिष्टायामपि स्थाण्वादिषु संशयो भवति, न खपुष्पादिषु ? । ननु विशेषहेत्वभावादविशेषेण सर्वत्र संशयोऽस्तु, नियामकाभावाद् । विपर्ययो वा भवेत् खपुष्पादिषु संशयः स्याद् न स्थाण्वादिष्विति भावः ।। १६९८ ॥ अपि च, पेच्चक्खओ णुमाणादागमओ वा पसिद्धिरत्थाणं । सव्वष्पमाणविसयाभावे किह संसओ जुत्तो ? ॥ १६९९ ॥ यदा हि प्रमाणैरर्थानां प्रसिद्धिर्जाता भवेत् तदा कथञ्चित् कचिद् वस्तुनि संशयो युज्येत । यदा च सर्वेषां प्रमाणानां सर्वेषां च तद्विषयाणामभावस्तदा कथं संशयोऽस्तु, संशयस्य ज्ञातृ - ज्ञेयाद्यर्थसामग्रीजन्यत्वात् । सर्वशून्यत्वे च तदभावाद् न संशयोद्भूतिः, निर्मूलत्वादिति भावः ।। १६९९ ।। एतदेव समर्थयति — जं संसयाद नाणपज्जया तं च नेयसंबद्धं । सव्वन्नेयाभावे न संसओ तेण ते जुत्तो ॥ १७०० ॥ यस्मात् संशय-विपर्ययाऽनध्यवसाय निर्णया विज्ञानपर्ययाः, तच्च ज्ञेयनिबन्धनमेव, सर्वशून्यतायां न ज्ञेयमस्ति तस्माद् न तत्र संशयो युक्तः । सति च संशयेऽनुमानसिद्धा एव भावाः ।। १७०० ।। कथम् ? इत्याह सैंति च्चिय ते भावा संसयओ सोम्म ! थाणु- पुरिस व्व । अह दिहंतमसिद्धं मण्णसि नणु संसयाभावो ॥ १७०१ ॥ १ को वा विशेषहेतुः सर्वाभावेऽपि स्थाणु-पुरुषयोः । शङ्का न खपुष्पादिषु विपर्ययो वा कथं न भवेत् ? ।। १६९८ ॥ २ प्रत्यक्षतोऽनुमानादागमतो वा प्रसिद्धिरर्थानाम् । सर्वप्रमाणविषयाभावे कथं संशयो युक्तः १ ॥ १६९९ ॥ ३ यत् संशयादयो ज्ञानपर्ययास्तच्च ज्ञेयसंबद्धम् । सर्वज्ञेयाभावे न संशयस्तेन ते युक्तः ॥ १७०० ॥ ४ सन्त्येव ते भावाः संशयतः सौम्य ! स्थाणु-पुरुषाविव । अथ दृष्टान्तमसिद्धं मन्यसे ननु संशयाभावः ॥ १७०१ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥७२६॥ www.janelibrary.org Page #129 -------------------------------------------------------------------------- ________________ विशेषा० ॥७२७॥ Jain Educationa Internatio सौम्य ! सन्ति भवतोsपि भावाः, संशयसमुत्थानात्, इह यत् संशथ्यते तदस्ति, यथा स्थाणु-पुरुषौ यच्चासद् न तत् संशय्यते, यथा खपुष्प- खरविषाणे । अथ स्थाणु-पुरुषलक्षणं दृष्टान्तमसिद्धं मन्यसे त्वम्, सर्वेषामपि स्थाणु- पुरुषादिभावानामविशेषेणैवासत्त्वाभ्युपगमात् । तदयुक्तम्, यतो ननु सर्वभावासच्चे संशयाभाव एव स्यात् इत्युक्तमेवेति ।। १७०१ ॥ अथ परमतमाशङ्कय परिहरन्नाह- सव्वाभावे विमई संदेहो सिमिणए व्व, नो तं च । जं सरणाइनिमित्तो सिंमिणो न उ सव्वहाभावो ॥ १७०२ ॥ स्यान्मतिः परस्य - सर्वाभावेऽपि स्वप्ने दृष्टः संशयः, यथा किल कश्चित् पामरो निजगृहाङ्गणे 'किमयं द्विपेन्द्रो महीधो वा ?" इति संशेते; न च तत् तत्र किञ्चिदप्यस्ति, एवमन्यत्र सर्वभावाभावेऽपि संशयो भविष्यति । तच्च न, यद् यस्मात् स्वमेऽपि पूर्वदृष्टानुभूतस्मरणादिनिमित्तः संदेहः, न तु सर्वथा भावाभावेऽसौ क्वापि प्रवर्तते । अन्यथा हि यत् षष्ठभूतादिकं क्वचिदपि नास्ति तत्रापि संशयः स्यात्, विशेषाभावादिति । ननु किं स्वप्नोऽपि निमित्तमन्तरेण न प्रवर्तते । एवमेतत् ।। १७०२ ।। कानि पुनस्तन्निमित्तानि ? इत्याह अणु-दि- चिंतिय-सुय-पयइवियार देवया ऽणूया । सिमिणस्स निमित्ताई पुण्णं पात्रं च नाभावो ॥ १७०३॥ स्नान-भोजन- विलेपनादिकमन्यदाऽनुभूतं स्वमे दृश्यते इत्यनुभूतोऽर्थः स्वमस्य निमित्तम् । अथवा, करि तुरगादिकोऽन्यदा दृष्टोऽर्थस्तन्निमित्तम् । विचिन्तितश्च प्रियतमालाभादिः । श्रुतश्च स्वर्ग-नरकादिः । तथा, वात-पित्तादिजनितः प्रकृतिविकारः स्वमस्य निमित्तम् । तथा, अनुकूला प्रतिकूला वा देवता तन्निमित्तम् । तथा, अनूपः सजलप्रदेशः । तथा, पुण्यमिष्टस्वमस्य निमित्तम्, पापं चानिष्टस्य तस्य निमित्तम्, न पुनर्वस्त्वभावः । किञ्च, स्वमोऽपि तावद् भाव एव । ततस्तस्यापि सच्चे कथं 'शून्यं जगत्' इति भवता प्रतिज्ञायते १ ।। १७०३ ॥ कथं पुनः स्वमस्य भावत्वम् १ इत्याह- १ सर्वाभावेऽपि मतिः संदेहः स्वशक इव, नो तच्च यत् स्मरणादिनिमित्तः स्वतो न तु सर्वथाऽभावः ॥ १७०२ ।। २ अनुभूत दृष्ट चिन्तित श्रुत-प्रकृतिविकार देवता-अनूपाः । स्वमस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १७०३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७२७॥ www.janibrary.org. Page #130 -------------------------------------------------------------------------- ________________ विशेषा० ॥७२८॥ Jain Education Internatio 'विण्णाणमयत्तणओ घडविण्णाणं व सुमिणओ भावो । अहवा विहियनिमित्तो घडो व्व नेमित्तियत्ताओ॥ १७०४ ॥ भावः स्वन इति प्रतिज्ञा | विज्ञानमयत्वादिति हेतुः । घटविज्ञानवदिति दृष्टान्तः अथवा, भावः स्वः, नैमित्तिकत्वात्निमित्तैर्निष्पन्नो नैमित्तिकस्तद्भावस्तत्त्वं तस्मादित्यर्थः, घटवदिति । कथं पुनः स्वप्नो नैमित्तिकः ? इत्याह- यतो विहितनिमित्तः, विहितानि - 'अणुहूय-दिट्ठ-चिंतिय' इत्यादिना प्रतिपादितानि निमित्तानि यस्यासौ विहितनिमित्त इति ।। १७०४ ॥ सर्वशून्यतायां चेष्यमाणायां स्वनाऽस्वमादिव्यवहाराभावप्रसङ्ग एवेति दर्शयन्नाह - सैव्वाभावे च कओ सुमिणोऽसुमिणो ति सच्चमलियं ति । गंधव्त्रपुरं पाडलिपुत्तं तत्थो वयारो ति ? ॥१७०५॥ कज्जं ति कारणं ति य सज्झमिणं साहणं ति कत्त त्ति । वत्ता वयणं वच्चं परपक्खोऽयं सपक्खोऽयं ? ॥ १७०६ ॥ किं वेह थिर-दवो-सिण-चलया-रूवित्तणाई निययाई । सद्दादओ य गज्झा सोचाइयाइं गहणाई ? || १७०७|| समया विवज्जओ वा सव्वागहणं व किं न सुण्णम्मि । किं सुण्णया व सम्मं सग्गहो किं व मिच्छत्तं ? ॥ १७०८॥ किह स-परो भयबुद्धी कहं च तेसिं परोप्परमसिद्धी । अह परमईए भण्णइ स परमइविसेसणं कत्तो ? ॥ १७०९|| सर्वाभावे च सर्वशून्यतायां चाभ्युपगम्यमानायां 'स्वप्नोऽयम्' 'अस्वमोऽयम्' इति कुतः - किंकृतोऽयं विशेषः १ इत्यर्थः । तथा, सत्यमिदम्, अलीकं वा तथा, गन्धर्वपुरमेतत् पाटलीपुत्रादि चेदम्; तथा, 'तत्थो वयारो त्ति' अयं तथ्यो निरुपचरितो मुख्यश्चतुष्पदविशेषः सिंहः, अयं त्वौपचारिको मनुष्यविशेषो माणवकः तथा कार्यमिदं घटादि, कारणं चेदं मृत्पिण्डादि, तथा, साध्यमिदमनित्यत्वादि. साधनं कृतकत्वादि, कर्ता घटादेः कुलालादिः तथा, अयं वक्ता वादी, वचनं चेदं व्यवयवं पञ्चावयवं १ विज्ञानमयत्वतो घटविज्ञानमिव स्वमको भावः अथवा विहितनिमित्तो घट इव नैमित्तिकत्वात् ॥ १७०४ ॥ २ गाथा १७०३ । २ सर्वाभावे च कुतः स्वप्नोऽस्वम इति सत्यमलीकमिति । गन्धर्वपुरं पाटलिपुत्रं तथ्य उपचार इति ? ॥ १७०५ ॥ कार्यमिति कारणमिति च साध्यमिदं साधनमिति कर्तेति । वक्ता वचनं वाच्यं परपक्षोऽयं स्वपक्षोऽयम् ? ॥ १७०६ ॥ किं वेह स्थिर-द्रवो-रण- चलता-रूपित्वानि नियतानि । शब्दादयश्च ग्राह्याः श्रोत्रादिकानि प्राह्माणि ? ॥ १७०७ ॥ समता विपर्ययो वा सर्वाग्रहणं वा किं न शून्ये । किं शून्यता वा सम्यक् सद्ग्रहः किं वा मिध्यात्वम् ? ॥ १७०८ ॥ कथं स्व-परो भयबुद्धिः कथं च तेषां परस्परमसिद्धिः । अथ परमत्या भण्यते स्व-परमतिविशेषणं कुठः ? ॥ १७०९ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७२८|| Page #131 -------------------------------------------------------------------------- ________________ विशेषा. ॥७२९॥ वृहद्वतिः । वा, इदं च वाच्यमभिधेयमस्य शब्दसंदर्भस्य तथा, अयं स्वपक्षः, अयं च परपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते । 'कि वेह थिरेत्यादि' पृथिव्याः स्थिरत्वम् , अपां द्रवत्वम् , बरुष्णत्वम् वायोश्चलत्वम् , आकाशस्यारूपित्वमित्यादयो नियताः सर्वदेवैकस्वभावाः विशेषाः सर्वशून्यतायां कुतो गम्यन्ते । तथा, शब्दादयो ग्राह्या एव, इन्द्रियाणि च श्रोत्रादीनि ग्राहकापेवेति कुतो नियमसिद्धिः। 'समयेत्यादि' ननु सर्वशून्यतायां स्वमा-ऽस्वम सत्या-ऽलीकादीनां विशेषनिवन्धनाभावात् समतैव कस्माद् न भवति-यादृशः स्वमः, अस्वमोऽपि तादृश एव; यादृशश्चास्वमः, स्वमोऽपि तादृश एवेत्यादि । अथवा, विपर्ययः कुतो न भवति-यः स्वमः सोऽस्वमः, यस्त्वस्वमः स स्वम इत्यादि । यदिवा, सर्वेषामपि स्वमा-ऽस्वमादीनां सर्वथाशून्यत्वेऽग्रहणमेव कस्माद् न भवति । भ्रान्तिवशादेव स्वप्ना-ऽस्वमादिग्रहणमिति चेत् । तदयुक्तम्- देश-काल-स्वभावादिनयत्येन तद्ग्राहकज्ञानोत्पत्तेः । किञ्च, इयं भ्रान्तिः किं विद्यते, नवा ? । यदि विद्यते, त_भ्युपगमविरोधः। अथ न विद्यते, तर्हि भ्रान्तेरसत्वाभावग्राहकज्ञानस्य निर्धान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः शून्यतेति । अथवा, अन्यत् पृच्छामो भवन्तम्- ननु सर्वशून्यत्वे शून्यतैव सम्यक्त्वं सतां भावानां ग्रहणं सद्ग्रहः, भावसत्त्वग्रहणं पुनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः । यदुक्तम्- 'न स्वतो भावानां सिद्धिः' इत्यादिः तत्मतिविधानार्थमाह- 'किह स-परो-भयेत्यादि' ननु कथं इस्व-दीर्घो-भयविषये 'इदं हस्वम्' 'इदं दीर्घम्' 'एतत्तु तदुभयम्' इत्येवंभूता स्व-परो-भयबुद्धिर्युगपदाश्रीयते भवता, कथं च तेषां इस्व-दीर्घो-भयानां परस्परमसिद्धिरुपुष्यते ?- पूर्वापरविरुद्धत्वाद् नैतद् वक्तुं युज्यत इत्यर्थः । अयमत्र भावार्थः- न खल्वापेक्षिकमेव वस्तूनां सत्त्वम् , किन्तु स्वविषयज्ञानजननाद्यर्थक्रियाकारित्वमपि । ततश्च इख-दीर्घो-भयान्यात्मविषयं चेज्ज्ञानं जनयन्ति, तदा सन्त्येव तानि, कथं तेपामसिद्धिः । यदप्युक्तम्- 'मध्यमाङ्गुलिमपेक्ष्य प्रदेशिन्यां इस्वत्वमसदेवोच्यते' इत्यादि तदप्ययुक्तम् , यतो यदि मध्ममामपेक्ष्य प्रदशियां स्वतः सर्वथाऽसत्यामपि इस्वत्वं भवति, तदा विशेषाभावात् खरविषाणेऽपि तद् भवेत् , अतिदीर्येष्विन्द्रयष्ट्यादिधपि च तत् स्यात् । अथवा, प्रदेशिन्याः स्वापेक्षया स्वात्मन्यपि इस्वत्वं स्यात् , सर्वत्रासत्त्वाविशेषात् न चैवम् । तस्मात् स्वतः सत्यामेव प्रदेशिन्यां वस्तुतो. ऽनन्तधर्मात्मकत्वात् तत्तत्सहकारिसंनिधौ तत्तद्रूपाभिव्यक्तेस्तत्तज्ज्ञानमुत्पद्यते, न पुनरसत्यामेव तस्यामपेक्षामात्रत एव इस्वज्ञानमुपजायते । एवं दीर्घो-भयादिष्वपि वाच्यम् । 1 ज. 'सद्भाव'। २ क. म. 'रुयुज्यते' । ७२ Jain Education Informatie For and Private Page #132 -------------------------------------------------------------------------- ________________ विशेषा ० ॥७३० ॥ Jan Education Internatio अथ 'इदं स्त्रम् ' ' इदं दीर्घम्' 'एतच्चोभयम्' इत्यादिस्व-परो भयबुद्धिः परमत्या- पराभ्युपगमेनोच्यते, न पुनः स्वतः सिद्धं स्वविषयज्ञानजनकं ह्रस्वादिकं किञ्चिदस्ति, अतो न कश्चित् पूर्वापरविरोध इत्यत्राह - ननु सर्वशून्यत्वे 'इदं स्वमतम्' 'एतच्च परमतम् ' इत्येतदपि स्व-परभावेन विशेषणं कुतः ?- न कुतश्चिदित्यर्थः, स्त्र-परभावेऽपि 'समया विवज्जओं वा' इत्याद्येवावर्तत इति भावः । स्वपरभावाद्यभ्युपगमे च शून्यत्वाभ्युपगमहानिरिति ।। १७०५ || १७०६ ।। १७०७ ।। १७०८ ।। १७०९ ।। अपिच, कमेण वा ते विष्णाणं होज दीह-हस्सेसु । जइ जुगवं कावेक्खा कमेण पुव्वम्मि काऽवेक्खा ? ॥ १७१० ॥ इमविणा वाजं बालस्सेह तस्स काऽवेक्खा । तुल्लेसु व काऽवेक्खा परोप्परं लोयणदुगे व्व १ ॥ १७११॥ ननु मध्यमा- प्रदेशिन्यादिदीर्घ-हस्वयोस्तवाभिप्रायेण स्वाकारप्रतिभासि ज्ञानं किं युगपदेव भवेत् क्रमेण वा ? | यदि युगपत्, तर्हि परानपेक्ष द्वयोरपि युगपदेव स्वप्रतिभासिनि ज्ञाने प्रतिभासात् कस्य किल काऽपेक्षा ? । अथ क्रमेण तदापि पूर्वमेव स्वप्रतिभासिना ज्ञानेन परानपेक्षमेव ह्रस्वस्य प्रदेशिन्यादेर्गृहीतत्वादुत्तरस्मिन् मध्यमादिके दीर्घे काऽपेक्षा ? । तस्माच्चक्षुरादिसामग्रीसद्भावे परानपेक्षमेव स्वकीयविविक्तरूपेण सर्वभावानां स्वज्ञाने प्रतिभासात् स्वत एव सिद्धिः । अथवा, बालस्य तत्क्षणमेव जातस्य शिशोर्यदिह नयनोन्मेपानन्तरमेवादौ विज्ञानम्, तत् किमपेक्ष्य प्रादुरस्ति १ । यदिवा, ये न इस्वे नापि दीर्घे, किन्तु परस्परं तुल्ये एव वस्तुनी, तयोर्युगपदेव स्वप्रतिभासिना ज्ञानेन गृह्यमाणयोः काऽन्योन्यापेक्षा ?- न काचित् यथा तुल्यस्य लोचनयुग्मस्य । तस्मादङ्गुल्यादिपदार्थानां नान्यापेक्षमेव रूपम्, किन्तु स्वप्रतिभासवता ज्ञानेनान्यनिरपेक्षा एव ते स्वरूपतोऽपि गृह्यन्ते । उत्तरकालं तु तत्तद्रूपजिज्ञासायां तत्तत्प्रतिपक्षस्मरणादिसहकारिकारणान्तरवशाद् दीर्घ-हस्वादिव्यपदेशाः प्रवर्तन्ते इति स्वतः सिद्धा एव सन्ति भावा इति ॥ १७१० ।।१७११॥ अपिच, किं हस्साओ दीहे दीहाओ चैव किं न दीहम्मि । कीस व न खपुप्फाउ किं न खपुष्फे खपुष्फाओ ? ॥ १७१२ ॥ हन्त ! यदि सर्वशून्यता, ततः किमिति ह्रस्वादेव प्रदेशिनीप्रभृतिद्रव्याद् दीर्घे मध्यमादिद्रव्ये दीर्घज्ञानाभिधानव्यवहारः १ युगपत् क्रमेण वा ते विज्ञानं भवेद् दीर्घ ह्रस्वयोः । यदि युगपत् काऽपेक्षा क्रमेण पूर्वस्मिन् काऽपेक्षा ? ॥ १७१० ॥ आदिमविज्ञानं वा यद् बालस्येह तस्य काऽपेक्षा । तुल्ययोर्वा काऽपेक्षा परस्परं लोचनद्विक इव ॥ १७११ ॥ २ किं स्वाद् दीर्घे दीर्घादेव किं न दीर्घे । कस्माद् वा न खपुष्पात् किं न खपुच्चे खपुष्पात् १ ॥ १७१२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७३० ॥ www.janeibrary.org Page #133 -------------------------------------------------------------------------- ________________ विशेषा 11७३१॥ | प्रवर्तते- दीर्घापेक्ष एव दीपेन ज्ञानाभिधानेन व्यवहारः किं न प्रवर्तते, असञ्चाविशेषात् । इति भावः । एवं 'किं दीहाओ हस्से ।। हस्साउ चेव किं न हस्सम्मि' इत्येतदपि द्रष्टव्यम् । तथा, किमिति वा न खपुष्पाद् दीर्घ इस्त्रे वा तज्ज्ञानाभिधानव्यवहृतिर्विधीयते । बदत्तिः। तथा, असत्त्वाविशेषत एव किमिति खपुष्पात् खपुष्प एव इस्व-दीर्घज्ञानादिव्यवहारो न प्रवर्तते । न चैवम् , तस्मात् सन्त्येव भावाः, न तु शून्यता जगत इति ॥ १७१२ ॥ अपिच, 'किंवाऽविक्खाए चिय होज मई वा सभाव एवायं । सो भावो ति सभावो वंझापुत्ते न सो जुत्तो ॥१७१३॥ अथवा, सर्वस्याप्यसत्त्वे इखादेदीर्घायपेक्षयापि किं कर्तव्यम् , शून्यताप्रतिकूलत्वात् तस्याः, घटायर्थसत्त्ववत् । अथ परस्य मतिर्भवेत् - स्वभावादेवापेक्षयैव हस्व-दीर्घादिव्यवहारः प्रवर्तते । न च स्वभावः पर्यनुयोगमर्हति; तथा चोक्तम्- “अग्निदहति नाकाशं कोत्र पर्यनुयुज्यताम् ?" इति । हन्त ! इत्थमपि हतोऽसि, यत खो भावः खभावस्ततः स्व-परभावाभ्युपगमात् शून्यताभ्युपगमहानिः । न च बन्ध्यापुत्रकल्पानामर्थानां स्वभावपरिकल्पना युक्तेति । भवतु वाऽपेक्षा, तथापि शून्यताऽसिद्धिः ।। १७१३ ॥ कुतः इत्याहहोज्जावेक्खाओ वा विण्णाणं वाभिहाणमेत्तं वा । दीहं तिवहस्सं ति व न उ सत्ता सेसधम्मा वा॥ ॥१७१४॥ अथवा, स्वतः सिद्ध वस्तुन्यपेक्षातो भवेत् । किम् ? इत्याह-विज्ञानमभिधानमात्रं वा । केनोल्लेखेन ? इत्याह- 'दीर्घम्' इति वा 'इस्खम्' इति वेति । किं पुनर्न भवेत् ? इत्याह-नवन्यापेक्षया वस्तूनां सत्ता भवति, नाप्यापेक्षिकहस्व-दीर्घत्वादिधर्मेभ्यः शेषा रूप-रसादयो धर्मा अन्यापेक्षया सिद्धयन्तिं । उत्पद्यन्ते च वस्तुसत्ताग्राहकाणि, रूपादिधर्मग्राहकाणि च ज्ञानानि । अतोऽन्यापेक्षाभावतः कथं स्वतः सिद्धस्य वस्तुसत्तादेरभावः, तत्सद्भावे च कथं शून्यता जगतः' इति ॥ १७१४ ॥ कथं पुनः सत्तादयोऽन्यापेक्षाः ? इत्याह-- OISODE ॥७३१॥ , किंवापेक्षयैव भवेत् मतिर्वा स्वभाव एवायम् । स्वो भाव इति स्वभावो वन्ध्यापुत्रे न स युक्तः ॥ १३॥ २ भवेदपेक्षातो वा विज्ञानं वाभिधानमात्रं वा । दीर्घमिति वा हस्वमिति वा न तु सत्ता शेषधर्मा वा ॥ 1010॥ Forondateur Page #134 -------------------------------------------------------------------------- ________________ विशेषा ० ॥७३२॥ Jain Educatora Interna हरा हस्ताभावे सव्वविणासो हवेज्ज दीहस्स । न य सो, तम्हा सत्तादयोऽणविक्खा घडाईणं ॥ १७१५॥ इतरथा - यदि घटादीनां सत्तादयोऽप्यन्यापेक्षा भवेयुः, तदा हस्वाभावे ह्रस्वस्य सर्वविनाशे दीर्घस्यापि वस्तुनः सर्वविनाशः स्यात्, ह्रस्वसत्तापेक्षित्वाद् दीर्घसत्तादीनाम् । न चैवमसौ दीर्घस्य सर्वविनाशो दृश्यते । तस्मात् निश्चीयते सन्त्यन्यानपेक्षा एव घटादीनां सत्ता-रूपादयो धर्माः, तत्सच्वे चापास्ता शून्यतेति ।। १७१५ ॥ यदुक्तम्- 'न स्वतः, नापि परतो नापि चोभयतो भावानां सिद्धिः, अपेक्षातः' इत्यादि । अत्र 'अपेक्षातः' इति विरुद्ध हेतुः, विपक्ष एव सत्त्वादिति दर्शयन्नाह - वि अविक्खाऽविक्खणमविक्ख गोऽविक्खणिज्जमणविक्ख । सा न मया सव्वेसु वि संतेसु न सुन्नया नाम ॥ १७१६ ॥ याsपीयं खादेर्दीर्घाद्यपेक्षा साऽप्यपेक्षणं क्रियारूपम् ; तथा, अपेक्षकं कर्तारम्, अपेक्षणीयं च कर्म, अनपेक्ष्य न मता- न विदुषां सम्पता । ततः किम् ? इत्याह- एतेषु चापेक्षणा-पेक्षकाऽपेक्षणीयेषु सर्वेषु वस्तुषु सत्सु न काचित् शून्यता नाम । अतोऽपेक्षकादिलक्षणे विपक्ष एवापेक्षालक्षणस्य हेतोर्हतत्वाद् विरुद्धत्वमिति ।। १७१६ ।। _ तस्मात् स्वतः, परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतः निश्श्यतस्तु स्वतः सिद्धा एव सर्वे भावा इति दर्शयति* किंचि सओ तह परओ तदुभयओ किंचि निश्चसिद्धं पि । जलओ घडओ पुरिसो तहं ववहारओ नेयं ॥ १७१७॥ निच्छयओ पुण बाहिरनिमित्तमेत्तोवओगओ सव्वं । होइ सओ जमभावो न सिज्झइ निमित्तभावे वि ॥ १७१८ ॥ इह किञ्चित् स्वत एव सिद्ध्यति, यथा कर्तृनिरपेक्षस्तत्कारणद्रव्यसंघातविशिष्टपरिणामरूपो जलदः । किञ्चित्तु परतः, यथा कुलालकको घटः । किञ्चिदुभयतः यथा माता - पितृभ्यां स्वकृतकर्मतश्च पुरुषः । किञ्चिद् नित्यसिद्धमेव यथाऽऽकाशम् । एतच्च व्यवहारनयापेक्षया द्रष्टव्यम् । निश्चयतस्तु बाह्यं निमित्तमात्रमेवाश्रित्य सर्व वस्तु स्वत एव सिध्यति, यद् यस्माद् बाह्यनिमित्तसद्भा १ इतरथा इस्वाभावे सर्वविनाशो भवेद् दर्घिस्य । न च सः तस्मात् सत्तादयोऽनपेक्षा घटादीनाम् || १७१५॥ २ याऽप्यपेक्षाsपेक्षणमपेक्षकोऽपेक्षणीयमनपेक्ष्य । सा न मता सर्वेष्वपि सत्सु न शून्यता नाम ॥ १७१६ ॥ ३ किञ्चित् स्वतस्तथा परतस्तदुभयतः किञ्चिद् नित्यसिद्धमपि । जलदो घटकः पुरुषस्तथा व्यवहारतो ज्ञेयम् ॥ ११७ ॥ नियतः पुनर्वहिर्निमित्तमात्रोपयोगतः सर्वम् भवति स्वतो यदभावो न सिध्यति निमित्तभावेऽपि ॥ १७१८॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७३२॥ Page #135 -------------------------------------------------------------------------- ________________ विशेषा ER वेऽपि खरविषाणादिरूपोऽभावः कदाचिदपि न सिध्यति । उभयनयमतं च सम्यक्त्वमिति ।। १७१७ ॥ १७१८ ।। अथ यदुक्तम्- 'अस्थित्त-घडेगाणेगया व' इत्यादि, तत् प्रतिविधातुमाह॥७३॥ अत्थित्त-घडेगाणेगया य पज्जायमेतचिंतेयं । अत्थि घडे पडिवन्ने, इहरा सा किं न खरसिंगे ? ॥१७१९॥ . इह 'अस्ति घटो न तु नास्ति' इत्येवं प्रतिपन्ने सति तदनन्तरमेवास्तित्व-घटयोः 'किमेकता, अनेकता वा ?' इत्यादिना घटास्तित्वयोरेकत्वा-ऽनेकत्वलक्षणपर्यायमात्रचिन्तैव भवता कृता भवति, न तु तयोरभावः सिध्यति । अन्यथा ह्यभावरूपाविशेषाद् यथा घटा-ऽस्तित्वयोः, एवं खरविषाण-वन्ध्यापुत्रयोरप्येकत्वा-ऽनेकत्वचिन्ता भवतः किं न प्रवर्तते ? इति ॥ १७१९ ॥ किञ्च, यथा घटा-ऽस्तित्वयोरेकत्वाऽनेकत्वविकल्पौ त्वं विधत्से, तथा घट-शून्यतयोरपि तौ विधातुं शक्यते । कथम् ? इत्याह-- घड-सुन्नयन्नयाए वि सुन्नया का घडाहिया सोम्म !। एगत्ते घडओ चिय न सुण्णया नाम घडधम्मो॥१७२०॥ ननु घट-शून्यतयोरप्यन्यता, अनन्यता वा ?। यद्यन्यता, तर्हि 'सुन्नया का घडाहिया सोम्म ! त्ति' सौम्य व्यक्त ! शून्यता व का घटाधिका नाम ?- ननु घटमात्रमेव पश्यामः, न पुनः क्वचित् शून्यता घटादधिका समीक्ष्यते । अथानन्यता, तथापि सति घटशून्यत्वयोरेकत्वे घट एवासौ युज्यते, प्रत्यक्षत एवोपलभ्यमानत्वात् , न तु शून्यत्वं नाम कश्चित् तद्धर्मः, सर्वप्रमाणैरनुपलब्धे- 1 रिति ॥ १७२० ॥ अपिच, "विण्णाण-वयण-वाईणमेगया तो तदत्थिया सिद्धा। अण्णत्ते अण्णाणी निव्वयणो वा कहं वाई?॥१७२१॥ 'शून्यं सर्वमेव विश्वत्रयम्' इत्येवंभूतं यद् विज्ञानं वचनं च, तेन सह शून्यवादिनो भवत एकत्वम् , अनेकत्वं वा ? । यद्यक-न त्वम् , ततस्तदस्तिता वस्त्वस्तिता सिद्धेति कुतः शून्यता, वृक्षत्व-शिंशपात्वयोरिवैकत्वस्य वस्तुत्वात् । अन्यत्वे तु विज्ञान-वचनयोरज्ञानी निर्वचनश्च वादी कथं शून्यतां साधयेत् , शिलासंघातवत् ? इति ॥ १७२१ ॥ गाथा १६९३। २ अस्तित्व-घटकानेकता वा पर्यायमानचिन्तेयम् । अस्ति घटे प्रतिपन्ने, इतरथा सा किं न खरले ॥ १७१९॥ । घ. ज. 'घटसत्त्वयो'। |७३३॥ . घट-शून्यताम्यतायामपि शून्यता का घटाधिका सौम्य !। एकत्वे घटक एवं न शून्यता नाम घटधर्मः ॥१७२०॥ ५ विज्ञान-वचन-वादिनोरेकता ततस्तदस्तिता सिद्धा । अन्यत्वेऽज्ञानी निर्वचनो वा कथं वादी! ॥ १७२१॥ For Personal and Use Only Page #136 -------------------------------------------------------------------------- ________________ बृहदत्तिः । बार यच्च घट-सत्चयोरेकत्वविकल्पेऽभ्यधायि- 'यो घटः स एवास्तीति घटमात्रेऽस्तित्वस्य प्रवेशाद् घट एवास्ति, यदिवा, प्रतिविशेषा. पक्षाभावात् सोऽपि नास्ति' इति, तत्राह॥७३॥ धेडसत्ता घडधम्मो तत्तोऽणण्णो पडाइओ भिण्णो । अत्थि त्ति तेण भणिए को घड एवेति नियमोऽयं? ॥१७२२॥ घटास्तित्वलक्षणा घटसत्ता घटस्य धर्मः, स च ततो घटादनन्योऽभिन्नः, पटादिभ्यस्तु सर्वेभ्योऽपि भिन्नः । तेन ततो 'घटोऽस्ति' 8 इति भणिते 'घट एव' इति 'घट एवास्ति' इति कोऽयं नियमः ?-निजनिजसत्तायाः पटादिष्वपि भावात् तेऽपि सन्त्येवेति भावः ॥१७२२॥ तथा, अस्मिन्नेव घटा-ऽस्तित्वयोरेकत्वविकल्पे यदुक्तम्- 'यो योऽस्ति स स घट इति सर्वस्य घटत्वप्रसङ्गः, घटस्य वा सर्ववस्त्वात्मकत्वम्' इति । तदपि सर्व 'घटसत्ता घटधर्मः' इत्यादिनैव परिहृतम् , अत एवाह जंवा जदत्थितं तं घडो त्ति सव्वघडयापसंगो को। भणिए घडोत्थि व कहं सव्वत्थित्तावरोहो त्ति ? ॥१७२३॥ यद् वा मोक्तम्- 'यद् यदस्ति तत्तत् सर्व घटः' इति, तत्र कोऽयं सर्वघटतामसङ्गः । तथा, 'यो घटः स एवास्ति' इत्यप्युक्ते | कथं सर्वास्तित्वावरोध:- कथं घटस्य सर्वात्मकत्वम् ? इत्यर्थः । यदा हि घटसत्ता घट एवास्ति नान्यत्र, तदा 'यत्र यत्र घटास्तित्वं तत्र तत्र घटः' इति न कश्चित् सर्वेषां घटताप्रसङ्गः, तथा, 'घटसत्त्वेन घट एवास्ति' इत्येतस्मिन्नप्युक्ते न किञ्चिद् घटस्य सर्वात्मकत्वं प्रतीयत इति भावः ॥ १७२३ ॥ तदेवं प्रस्तुतं परपक्षमपाकृत्य स्वपक्षस्य भावार्थमाह-- अत्थि त्ति तेण भणिए घडोऽघडो वा घडो उ अत्थेव । चूओऽचूओ व दुमो चूओ उ जहा दुमो नियमा॥१७२४॥ येन कारणेन घटसत्ता घटधर्मत्वाद् घट एवास्ति पटादिभ्यस्तु भिन्ना, तेन तस्मात् 'अस्ति' इत्युक्ते घटः, अघटो वा-पटादिर्गम्यते, निजनिजसत्वस्य सर्वेषु पटादिष्वपि भावात् । 'घडो उ अत्थेव त्ति' घट इति तु पोक्तेऽस्त्येवेति गम्यते, निजसत्त्वस्य निय , घटसत्ता घटधर्मस्ततोऽनन्यः पटादितो भिन्नः । अस्तीति तेन भणिते को घट एवेति नियमोऽयम् ? ॥ १७२२ ॥ २ यद्वा बदस्ति तत्तद् घट इति सर्वघटताप्रसङ्गः कः । भणिते घटोऽस्ति वा कथं सर्वास्तित्वावरोध इति । ॥ १७२५ ॥ । मस्तीति तेन भणिते घटोऽघटो वा घटस्त्वस्त्येव । चूतोऽचूतो वा हुमश्चूतस्तु यथा हुमो नियमात् ॥ १.२५ ॥ ॥७३४॥ Page #137 -------------------------------------------------------------------------- ________________ विशेषा ० ॥७३५॥ Jain Educationa Internati मेन घटे सद्भावात् । अत्र यथासंख्यमुदाहरणद्वयम् । यथा 'द्रुमः' इत्युक्ते चूतः, अचूतो वा निम्बादिर्गम्यते, द्रुमत्वस्य सर्वत्र भावात् । 'चूत:' इति तु निगदिते द्रुम एव गम्यते, अद्रुपस्य चूतत्वायोगादिति ।। १७२४ ॥ यदुक्तम् - यदेतज्जातं न जायते, नाप्यजातम्, न च जाताजातम्, नापि जायमानम्' इत्यादि, तत्रोत्तरमाह-'किं तं जायं ति मई जाया जाओ भयं पि जदजायं । अह जायं पि न जायं किं न खपुष्फे वियारोऽयं ॥ १७२५॥ प्रष्टव्योऽत्र देवानांप्रियः, कथय- किं तद् वस्तु जातमिति प्रतिपद्यते तव मतिः, यज्जाता जातो भयादिप्रकारैरजातं साध्यतेयस्य जाताजातादिप्रकारैर्जन्म त्वया निषिध्यत इत्यर्थः । यदि हि जातं किमपि वस्तु तव सिद्धं तर्हि तत्सच्खेनैव प्रतिहता शून्यता, अतः 'किं तज्जातं जायते ? किं तदजातं जायते ? किं तज्जाताजातं जायते ?' इत्यादयः शून्यतासिद्ध्यर्थमुपन्यस्यमाना निरर्थका एव विकल्पा इति प्रच्छकाभिप्रायः । अथ तदपि जातं जाताजातादिविकल्पाश्रयभूतं जातत्वेन भवतो न सिद्धम्, किन्त्वजातमेव तत्, ननु स्ववचनविरुद्धमिदं जातमप्यजातमिति । किञ्च, जातस्यासच्चे निराश्रयत्वाज्जाताजातादिविकल्पा निरर्थका एव । अथैतदाश्रयभूते जाताख्ये वस्तुन्यसिद्धेऽपि 'न जातं जायते' इत्यादिविकल्पविचारः प्रवर्तते तर्हि खपुष्पेऽप्यसौ किं न विधीयते, असत्त्वाविशेषेण 'समया विवज्जओ वा' इत्यादिव्यक्तदोषप्रसङ्गात् ? । न च वक्तव्यं परेषां सिद्धं जातमुररीकृत्य विकल्पा विधीयन्ते, स्व-परभावाभ्युपगमे शून्यताहानिरिति ॥ १७२५ ।। अपि च, जैइ सव्वहा न जायं किं जम्माणंतरं तदुवलम्भो । पुव्वं वाऽणुवलंभो पुणो वि कालंतरहयस्स ? ॥१७२६ ॥ यदि सर्वैरपि प्रकारैर्घटादि कार्य न जातमिति शून्यवादिना प्रतिपाद्यते, तर्हि मृत्पिण्डाद्यवस्थायामनुपलब्धं कुलालादिसामग्रीनिर्वर्तितजन्मानन्तरं किमिति तस्मात् तदुपलभ्यते ? । पूर्व वा जन्मतः किमिति तस्यानुपलम्भः १ । पुनरपि च कालान्तरे लगुडादिना हतस्य किमिति तस्यानुपलम्भ: ? । अजातस्य गगननलिनस्येव सर्वदैव घटादेरनुपलम्भ एव स्यात्, यस्तु कदाचिदुपलम्भः, कदाचित्तु नोपलम्भः, असौ जातस्यैवोपपद्यत इति भावः ।। १७२६ ।। १ किं तज्जातमिति मतिर्जाता ऽजातो भयमपि यद्यजातम् । अथ जातमपि न जातं किं न खपुष्पे विचारोऽयम् ॥ १७२५ ॥ २ गाथा १७०८ ॥ ३ यदि सर्वथा न जातं किं जन्मानन्तरं तदुपलम्भः । पूर्व वाऽनुपलम्भः पुनरपि कालान्तरहतस्य ? ॥ १७३६ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।७३५ ।। www.janelibrary.org Page #138 -------------------------------------------------------------------------- ________________ विशेषा० ॥७३६॥ | Jan Education Interna किश्व, जह सव्वा न जायं जायं सुण्णवयणं तहा भावा । अह जायं पि न जायं पयासिया सुण्णया केण ॥१७२७|| ' शून्यं सर्व जगत् ' इत्येवंभूतं यच्छून्यताविषयं विज्ञानं वचनं च तद् यथा जाता-जातादिप्रकारैः सर्वथा जातमप्यजातमपि सत् केनापि प्रकारेण तावज्जातम्, तथा भावा अपि घट-पटादयो जाता एव्या इत्यतो न शून्यं जगत् । अथ शून्यताविज्ञान-वचनद्वयं जातमप्यजातमिष्यते, तर्हि तद्विज्ञान-वचनाभ्यां विना केनासौ शून्यता प्रकाशिता, १- न केनचिदिति शून्यतानुपपत्तिरिति ॥ १७२७॥ यदप्युक्तम्- 'न जातं जायते नाप्यजातम्' इत्यादि, तदप्ययुक्तम्, यतो विवक्षया सर्वेरपि प्रकारैर्यथासंभवं वस्तु जायते, किञ्चित्तु सर्वथा न जायते इति दर्शयति जाय जायमजायं जायाजायमह जायमाणं च । कज्जमिह विवक्खाए न जायए सव्वा किंचि ॥ १७२८ ॥ रूवित्ति जाइ जाओ कुंभो संठाणओ पुणरजाओ । जायाजाओ दोहि वि तस्समयं जायमाणो ति ॥ १७२९॥ पुव्यकओ उ घडतया परपज्जाएहिं तदुभएहिं च । जायंतो य पडतया न जायए सव्वहा कुंभो ॥ १७३० ॥ वोमाइ निच्चजायं न जायए तेण सव्वहा सोम्म ! । इय दव्वतया सव्वं भवणिज्जं पज्जवगईए ॥ १७३१ ॥ इह कार्य घटादिकं विवक्षया किमपि जातं जायते किञ्चिदजातम्, किञ्चिज्जाताजातम्, किश्चिज्जायमानम्, किश्चित्तु सर्वथा न जायत इति । अथ यथाक्रममुदाहरणानि - 'ख्वीत्यादि' रूपितया घटो जातो जायते, मृद्रूपतायाः प्रागपि भावात्, तद्रूपतया जात एव घट जायत इत्यर्थः । संस्थानतयाऽऽकारविशेषेण पुनः स एवाजातो जायते, मृत्पिण्डाद्यवस्थायामाकारस्यासंभवात् । मृद्रूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातो जायते, तदनर्थान्तरभूतत्वाद् घटस्य । तथा, अतीतानागतकालयोर्विनष्टा १ यथा सर्वधा न जातं जातं शून्यवचनं तथा भावाः । अथ जातमपि न जातं प्रकाशिता शून्यता केन ? | १७२७ ॥ २ जायते जातमजातं जाताजातमथ जायमानं च कार्यमिह विवक्षया न जायते सर्वथा किञ्चित् ।। १७२८ ॥ रूपीति जायते जातः कुम्भः संस्थानतः पुनरजातः। जाताजातो द्वाभ्यामपि तत्समयं जायमान इति ॥ १७२९ ॥ पूर्वकृतस्तु घटतया परपर्यायैस्तदुभयैश्च । जायमानश्च पटतया न जायते सर्वधा कुम्भः ॥ १७३० || व्योमादि नित्यजातं न जायते तेन सर्वथा सौम्य ! इति द्रव्यतया सर्व भजनीयं पर्यवगत्या ॥ १७३१ ॥ For Personal and Private Use Only वृहद्वृत्तिः । ॥७३६ ॥ www.janeibrary.org Page #139 -------------------------------------------------------------------------- ________________ विशेषा० ॥७३७॥ Jain Education Internati नुत्पन्नत्वात् क्रियानुपपत्तेर्वर्तमानसमय एव क्रियासद्भावात् तत्समयं वर्तमानसमयं जायमानो जायते । किश्चित्तु सर्वथा जाता-जाता - दिप्रकारैर्न जायते । किं पुनस्तत् ? इत्याह- 'पुव्त्रकओ उ इत्यादि' पूर्वकृतस्तु पूर्वनिष्पन्नो घटो घटतया जाता-जातादिविकल्पानां मध्यादेकेनापि प्रकारेण न जायते, पूर्वमेव जातत्वात् । किं घटतयैव न जायते । न, इत्याह- 'परपज्जाएहिं ति' तथा, पटादिगतैः परपर्यायैश्च घटो न जायते, स्त्रपर्यायाणां पूर्वमेव जातत्वात्, परपर्यायैश्च कदाचित् कस्याप्यभवनात् । स्व-परपर्यायैः पूर्वकृतघटो न जायते, जाता-जातपट- खरविषाणवदिति भावः । तथा, जायमानोऽपि वर्तमानक्रियाक्षणसमये पटतया घटो न जायते, पररूपतया कस्याप्यभवनात् । किं पूर्वकृतो घट एवेत्थं न जायते, आहोस्विदन्यदपि किश्चिद् न जायते ? इत्याह- 'वोमाईत्यादि' न केवलं पूर्वकृतो घटो घटतया न जायते, तथा व्योमादि च तेन कारणेन सौम्य ! सर्वथा जातादिभिः सर्वैरपि प्रकारैर्न जायते, येन किम् ? इत्याह- येन नित्यजातं सर्वदाऽवस्थितम्, हेतुद्वारेण विशेषणमिदम्, नित्यजातत्वाद् न जायत इत्यर्थः । उक्तस्यैवार्थस्योपसंहारव्याजेन तात्पर्यमुपदर्शयन्नाह - 'इयेत्यादि' इत्युक्तप्रकारेण सर्वमपि घट-पट व्योमादिकं वस्तु द्रव्यतया द्रव्यरूपेण 'न जायते' इतीहापि संबध्यते, तद्रूपतया सदावस्थितत्वादिति भावः । पर्यायगत्या पर्यायचिन्तया पुनः सर्वे भजनीयं विकल्पनीयम् - पूर्वजातं घटादिकं रूपादिभिः स्वपर्यायैरपि न जायते, पूर्वजातत्वादेव, अजातं तु तत् स्वपर्यायैर्जायते, परपर्यायैस्तु किञ्चिदपि न जायते, इत्येवं पर्यायचिन्तायां भजना । एतच प्रायो दर्शितमेवेति ।। १७२८ ।। १७२९ ।। १७३० ।। १७३१ ॥ अथ यदुक्तम्- 'सर्व सामग्री मयं दृश्यते, सर्वाभावे च कुतः सामग्री ?' तत्र प्रतिविधानमाह 'दीसइ सामग्गिमयं सव्वमिह त्थि न य सा, नणु विरुद्धं । घेप्पइ व न पच्चक्खं किं कच्छपरोमसामग्गी ? ।। १७३२ ॥ इह यदुक्तम्– 'सर्वमपि कार्य सामग्रयात्मकं दृश्यते, सर्वाभावे च नास्ति सामग्री' इति । तदेतद् विरुद्धमेव, प्रस्तुतार्थप्रतिपादकत्वात्, वचोजनककण्ठौ-ए-ताल्वादिसामग्रचाः प्रत्यक्षत एवोपलब्धेः । अथ ब्रूषे- अविद्योपप्लवादविद्यमानमपि दृश्यते, यत उक्तम्“काम-स्वप्न-भयो-न्मादैरविद्योपप्लवात् तथा । पश्यन्त्यसन्तमप्यर्थं जनः केशेन्दुकादिवत् ॥ १ ॥” इति । यद्येवम्, तर्ह्यसत्रे सामान्येऽपि कच्छपरोमजनकसामग्री किमिति प्रत्यक्षत एवं नोपलभ्यते ?, समता विपर्ययो वा कथं न स्यादिति वाच्यम् इति ॥ १७३२ ॥ 1 दृश्यते सामग्रीमयं सर्वमिहास्ति न च सा, ननु विरुद्धम् । गृह्यते वा न प्रत्यक्षं किं कच्छपरोमसामग्री ? ॥ १७३२ ॥ ९३ For Personal and Private Use Only) बृहद्वृत्तिः । ॥७३७॥ Page #140 -------------------------------------------------------------------------- ________________ विशेषा० ॥७३८ ॥ Jain Educationa Internationa किश्च सामग्गिमओ वत्ता वयणं चत्थि जइ तो कओ सुण्णं । अह नत्थि केण भणिअं वयणाभावे सुयं केण १ ॥ १७३३ ॥ बृहद्वृत्तिः । सामग्री- उर:- शिरः कण्ठौष्ठ तालु-जिह्वादिसमुदायात्मिका तन्मयः सामन्यात्मको वक्ता, तद्वचनं चास्ति नवा ? । यद्यस्ति, तर्हि कुतो जगच्छ्रन्यत्वम्, तद्वक्तृ-वचनसत्त्वेनैव व्यभिचारात् ? । अथ तद्वक्तृ-वचने न स्तः, तर्हि वक्तु वचनाभावे केन भणितं शून्यं जगत् (१- न केनचित् । सर्वशून्यत्वे च प्रतिपाद्यस्याप्यभावात् केन तच्छ्रन्यवचः श्रुतम् १ इति ।। १७३३ ।। अत्र पराभिप्रायमाशङ्कय परिहरन्नाह - जेणं चैव नवत्ता वयणं वा तो न संति वयणिज्जा । भावा तो सुण्णमिदं वयणमिदं सच्चमलियं वा ? ॥ १७३४॥ इसचं नाभावो अहालियं न प्पमाणमेयं ति । अब्भुवगयं ति व मई नाभावे जुत्तमेयं ति ॥ १७३५॥ येनैव न वक्ता, नापि च वचनम्, ततस्तेनैव न सन्ति वचनीया भावा इति, अतः शून्यमिदं जगदिति । अत्रोच्यते - यदेतद् वक्तृवचन-वचनीयानां भावानामभावप्रतिपादकं वचनं तत् सत्यमलीकं वा ? | यदि सत्यम्, तर्ह्यस्यैव सत्यवचनस्य सद्भावाद् नाभावः सर्वभावानाम् । अथालीकमिदं वचनम्, तर्ह्यप्रमाणमेतत्, अतो नातः शून्यतासिद्धिः । अथ यथा तथा वाभ्युपगतमस्माभिः शून्यताप्रतिपादकं वचनम्, अतोऽस्मद्वचनप्रामाण्यात् शून्यतासिद्धिरिति तव मतिः । नैवम्, यतः 'सत्यम्, अलीकं वा त्वयेदमभ्युपगतम् ?” इत्यादि पुनस्तदेवावर्तते । किञ्च, अभ्युपगन्ता, अभ्युपगमः, अभ्युपगमनीयं वेत्येतत्रयस्य सद्भावेऽभ्युपगमोऽप्येष भवतो युज्यते, न च सर्वभावानामभावे एतत्रयं युक्तमिति ।। १७३४ ।। १७३५ ।। अपि च, * सिकयासु किं न तेल्लं सामग्गीउ तिलेसु वि किमत्थि ? । किंव न सव्वं सिज्झइ सामग्गीउ खपुष्फाणं ? ॥ १७३६ ॥ १ सामग्रीयो वक्ता वचनं चास्ति यदि ततः कुतः शून्यम् । अथ नास्ति केन भणितं वचनाभावे श्रुतं केन ? ॥ १७३३ ॥ २ येनैव न वक्ता वचनं वा ततो न सन्ति वचनीयाः । भावास्ततः शून्यमिदं वचनमिदं सत्यमलोकं वा ? ॥ १७३४ ॥ यदि सत्यं नाभावोऽथालीकं न प्रमाणमेतदिति। अभ्युपगतमिति वा मतिर्नाभावे युक्तमेतदिति ॥ १७३५ ॥ ३ सिकतासु किं न तैलं सामग्रीत स्तिलेष्वपि किमस्ति ? किंवा न सर्व सिध्यति सामग्रीतो खपुष्पानाम् ? ॥ १७३६ ॥ For Personal and Private Use Only ॥७३८ ॥ Page #141 -------------------------------------------------------------------------- ________________ विशेषा. ॥७३९॥ सर्वभावानामसत्त्वे सर्वोऽपि प्रतिनियतो लोकव्यवहारः समुच्छिद्यते, तथाहि- भावाभावस्य सर्वत्राविशिष्टत्वात् किमिति सिकताकणसामग्रीतस्तैलं न भवति, तिलादिसामग्य वा तत् किमस्ति । किं वा खपुष्पसामग्रीतः सर्वमपि कार्यजातं न सिध्यति। न चैवम् , तस्मात् प्रतिनियतकार्यकारणभावदर्शनाद् नाभावसामग्रीतः किमप्युत्पद्यते, किन्तु यथास्वभावसामग्रीतः, तथा च सति न शून्यं जगदिति ॥ १७३६ ॥ किञ्च, सव्वं सामग्गिमयं नेगंतोऽयं जओऽणुरपएसो। अह सो वि सप्पएसो जत्थावत्था स परमाणू॥ १७३७ ॥ सर्व सामग्रीमयं सामग्रीजन्यं वस्त्वित्ययमपि नैकान्तः, यतो घणुकादयः स्कन्धाः सप्रदेशत्वाद् द्यादिपरमाणुजन्यत्वाद् भवन्तु सामग्रीजन्याः, परमाणुः पुनरप्रदेश इति न केनचिजन्यते, इति कथमसौ सामग्रीजन्यः स्यात् ? । अस्ति चासौ, कार्यलिङ्गगम्यत्वात् । उक्तं च "मूर्तेरणुरप्रदेशः कारणमन्त्यं भवेत् तथा नित्यः । एकरस-वर्ण-गन्धो द्विस्पर्शः कालिङ्गश्च ॥ १॥" अथायमपि सप्रदेशः, तीतत्पदेशोऽणुर्भविष्यति, तस्यापि सप्रदेशत्वे तत्पदेशोऽणुरित्येवं तावत् , यावद् यत्र कचिद् निष्पदेशतया भवबुद्धेरवस्थानं भविष्यति, स एव परमाणुः, तेनापि च सामग्रीजन्यत्वस्य व्यभिचार इति ॥ १७३७ ।। न सन्त्येव ते परमाणवः, सामग्रीजन्यत्वाभावादित्याशङ्कयाह दीसइ सामग्गिमयं न याणवो संति नणु विरुद्धमिदं। किं वाणूणमभावे निप्फण्णमिणं खपुप्फेहिं ? ॥१७३८॥लि 'सामग्रीमयं सर्व दृश्यते' इति भवतैव मागुक्तम् , 'अणवश्च न सन्ति' इत्यधुना ब्रूषे, ननु विरुद्धमिदम् , यथा 'सर्वमप्यनृतं वचनम्' इति ब्रुवतः स्ववचनविरोधः, तथाऽत्रापीत्यर्थः । यदेव हि सामग्रीमयं किमपि दृश्यते भवता, तदेवाणुसंघातात्मकम् , अतः खवचनेनैव प्रतिपादितत्वात् कथमणवो न सन्ति ? इति भावः। किश्च, अणुनामभाव इदं सर्वमपि घटादि कार्यजातं किं खपुष्पैनि OH७३९। १ सर्व सामग्रीमयं नैकान्तोऽयं यतोऽणुरप्रदेशः । अथ सोऽपि सप्रदेशो यत्रावस्था स परमाणुः ॥ १७३७॥ २ दृश्यते सामग्रीमयं न चाणवः सन्ति ननु विरुदमिदम् । किं बाऽणूनामभावे निष्पमिदं खपुष्पैः ॥ १७३८ ॥ हालसर Jan Education interna Forson and Private Use Only www.jainelbrary.org Page #142 -------------------------------------------------------------------------- ________________ पमम् , परमाण्वभाव तज्जनकमृत्पिण्डादिसामग्यभावात् । इति भावः। तस्माद् यस्मात् सामग्रीमयं दृश्यत इति प्रतिपद्यते भवता, ' बृहद्वत्तिः । विशेषातदेव परमाणव इति ॥ १७३८ ॥ यदुक्तम्- 'परभागादरिसणओ सब्वाराभागसुहमयाओ य' इत्यादि, तत्र प्रतिविधानमाह॥७४०॥ देसस्साराभागोघेप्पइ न य सो त्ति नणु विरुद्धमिणं। सव्वाभावे विन सो घेप्पइ किं खरविसाणस्स ? ॥१७३९॥ यदुक्तम्- 'दृश्यस्यापि वस्तुनः परभागस्तावद् न दृश्यते, आराद्भागस्तु गृह्यते, परं सोऽप्यन्यान्यपरभागकल्पनया पागुक्तयुक्तितो नास्ति' इति । ननु विरुद्धमिदम्-'गृह्यतेऽसौ, न च समस्ति' इति । सर्वाभावाद् भ्रान्त्याऽसौ गृह्यत इति चेत् । तदयुक्तम् , यतः सर्वाभावे तुल्येऽपि किमिति खरविषाणस्य संबन्धी आराद्भागो न गृह्यते । । समता विपर्ययो वा कथं न भवति? इति ॥ १७३९ ॥ किन, पैरभागाादरिसणओ नाराभागो वि किमणुमाणं ति। आराभागग्गहणे किं व न परभागसंसिद्धी? ॥१७४०॥ 'परभागमात्रादर्शनादाराद्भागोऽपि नास्ति' इत्यत्र किमनुमानं भवतः । एतदुक्तं भवति- यत् प्रत्यक्षेण सकललोकप्रसिद्ध सदग्नेरौष्ण्यमिव कथमनुमानेन बाध्यते। आराद्भागस्य ह्यापेक्षिकत्वात् तदन्यथानुपपत्तेः परभागानुमानं तावदद्यापि युज्यते । यस्तु परभागादर्शनमात्रेणैव तनिहवः, सोऽसंबद्ध एव, सत्स्वपि देशादिविप्रकृष्टेषु मेरु-पिशाचादिष्वदर्शनसंभवात् । तस्माद् न परभागादर्शनमात्रेणाराद्भागोऽपत्रोतव्यः । किश्च, आराद्भागग्रहणे परभागानुमानं युज्येतापीति भाष्यकारोऽप्याह- 'आरामागेत्यादि' आराद्भागग्रहणे कथं न परभागसंसिद्धिः? अपि तु तत्संसिद्धिरेव, तथाहि-दृश्यवस्तुनः परभागोऽस्ति, तत्संबन्धिभूतस्याराद्भागस्य ग्रहणात् , इह यत्संबन्धिभूतो भागो गृह्यते तत् समस्ति, यथा नभसः पूर्वभागे गृहीते तत्संबन्ध्यपरभागः, गृह्यते च घटादेराराद्भागः, अतस्तत्संबन्धिभूतः परभागोऽप्यस्ति । यच्चोक्तम्- 'आराद्भागस्याऽप्यन्य आराद्भागः कल्पनीयः, तस्याप्यन्य इत्यादि तावत् , यावत् सर्वारातीयभागः' इति । अत्रापि परभागस्यासत्त्वे सर्वारातीयभागपरिकल्पनमनुपपन्नमेव स्यात् । तस्मादस्ति परभाग इति ॥ १७४०॥ ROH |७४०॥ १ गाथा १६९६ । २ देशस्याराभागो गृह्यते न च स इति ननु विरुद्धमिदम् । सर्वाभावेऽपि न स गृह्यते किं खरविषाणस्य ? ॥ १७३९॥ ३ ज.'स्तु दृश्यते । परभागादर्शनतो नारागागोऽपि किमनुमानमिति । आराशागग्रहणे किं वा न परभागसंसिद्धिः ॥ 10.॥ नम : BE Jan Education Internationa l For Pessoal and Private Use Only AVAaww.jainelterary.airy Page #143 -------------------------------------------------------------------------- ________________ विशेषा ॥७४२॥ अपि च, सव्वाभावे वि कओ आरा-पर-मझभागनाणत्तं । अह परमईए भण्णइ स-परमइविसेसणं कत्तो? ॥१७४१॥ चार७४||बृहदत्तिः। आर-पर-मज्झभागा पडिवण्णा जइ न सुण्णया नाम । अप्पडिवण्णेसु वि का विगप्पणा खरविसाणस्स ? सव्वोभावे वाराभागो किं दीसए न परभागो । सव्वागहणं व न किं किं वा न विवजओ होइ ? ॥१७४३॥ तिस्रोऽपि प्रतीतार्था एवेति ॥ १७४१ ॥ १७४२ ॥ १७४३ ॥ किच, यदि परभागादर्शनाद् भावानामसत्त्वं प्रतिपाद्यते, तर्हि स्फटिकादीनां तन्न स्यादिति दर्शयन्नाह-- पैरभागदरिसणं वा फलिहाईणं ति ते धुवं संति । जइवा ते वि न संता परभागादरिसणमहेऊ ॥१७४४॥ सव्वादरिसणउ च्चिय न भण्णइ कीस, भणइ तन्नाम । पुव्वब्भुवगयहाणी पच्चक्खविरोहओचेव॥ १७४५॥ ननु येषां स्फटिका-ऽभ्रपटलादीनां भावानां परभागदर्शनमस्ति ते तावद् धुर्व सन्त्येव, इति 'परभागादर्शनात' इत्यनेन हेतुना सर्वभावानामसत्त्वं न सिध्यति । अथ स्फटिकादयोऽपि न सन्ति तर्हि 'परभागादर्शनात्' इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्त्वस्यासाधकत्वात् । अतोऽव्यापकममुं हेतुं परित्यज्य 'सर्वादर्शनाद् न सन्ति भावाः' इत्ययमेव व्यापको हेतुः कस्माद् न भण्यते ? | 'भणइ तमाम त्ति' अत्र पर उत्तरं भणति । किम् ? इत्याह- तन्नामास्तु 'सर्वादर्शनात्' इति-अयं हेतुस्तहिं भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयितव्या, सा च 'सर्वादर्शनात्' इत्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणास्माकम् ? इति भावः । अथ मूरिराह| 'पुव्वेत्यादि' नन्विदानीं 'सर्वादर्शनात्' इति ब्रुवतो भवतः 'परभागादरिसणओ' इति पूर्वाभ्युपगतस्य हानिः प्रामोति । किञ्च, ग्राम S सरासर । सर्वाभावेऽपि कुत आरात्-पर-मध्यभागनानात्वम् । अथ परमत्या भण्यते स्व-परमतिविशेषणं कुतः ॥ १७४१॥ भारात्-पर-मध्यभागाः प्रतिपन्ना यदि न शून्यता नाम । अप्रतिपनेवपि का विकल्पना खरविषाणस्य ? ॥ १७४२ ॥ सर्वाभावे वाराद्भागः किं दृश्यते न परभागः । सर्वाग्रहणं च न किं किं वा न विपर्ययो भवति ।। १७४३ ॥ २ परभागदर्शनं वा स्फटिकादीनामिति ते धुर्व सन्ति । यदिवा तेऽपि न सन्तः परभागादर्शनमहेतुः ॥ १७४४ ॥ सर्वादर्शनत एव न भण्यते कस्मात् , भणति तमाम । पूर्वाभ्युपगतहानिः प्रत्यक्षविरोधतश्चैव ॥ 10४५ ॥ ३ गाथा १६५६ । FR||७४१॥ For Pes e ry Page #144 -------------------------------------------------------------------------- ________________ विशेषा. HRISTOबापर बृहदत्तिः । ७४२॥ नगर-सरित्-समुद्र-घट-पटादीनां प्रत्यक्षेणैव दर्शनात् सौदर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः। ततः प्रत्यक्षविरोधतश्च 'सर्वादर्शनात्' इत्येतदयुक्तमिति । अत्र कश्चिदाह- ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात् सर्वथा निवृत्तो हेतुरिष्यत एव, यथा 'अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात्' इति न ह्यनित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः, विद्युद्-घन-कुसुमादिभिर्व्यभिचारात् । तद्वदिहापि यद्यपि सर्वेष्वपि भावेषु परभागादर्शनं नास्ति, यथापि बहुषु तावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग् हेतुर्भविष्यति । तदयुक्तम् , यतस्तत्र 'यदनित्यं न भवति तत् प्रयत्नानन्तरीयकमपि न भवति, यथाऽऽकाशम्' इत्येवं व्यतिरेकः सिध्यतिः इह तु यत्र शून्यता नास्ति, किं तर्हि ? वस्तुनः सत्त्वम् , परभागादर्शनमपि तत्र नास्ति, किन्तु परभागदर्शनम् , यथा क, इति भवतः सर्वासद्वादिनो व्यतिरेकः कचिदपि न सिध्यति, अतोऽहेतुरेवायमिति ॥ १७४४ ॥ १७४५ ॥ अत्र पराभिप्रायमाशय परिहरबाह-- नत्थि पर-मज्झभागा अपच्चक्खत्तओ मई होजा । नणु अक्ख-त्थावत्ती अपञ्चक्खत्तहाणी वा ॥१७४६॥ अथ स्यान्मतिः-पर-मध्यभागी न स्तः, अप्रत्यक्षत्वात् , खरविषाणवत् । तदसत्त्वे च तदपेक्षया निर्दिश्यमान आराद्भागोऽपि नास्ति, अतः सर्वशून्यतेत्यभिप्रायः। तदयुक्तम् , यतः 'अक्षमक्षमिन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षोऽर्थः, न प्रत्यक्षोप्रत्यक्षः, तद्भावोऽप्रत्यक्षत्वम् , तस्मादप्रत्यक्षत्वात्' इत्युच्यमाने नन्वक्षाणामर्थस्य चाऽऽपत्तिः सत्ता प्रामोति, तदापत्तौ च शून्यताभ्युपगमहानिः। शून्यतार्या वाऽप्रत्यक्षत्वलक्षणस्य हेतोहोनिः, अक्षा-ऽर्थानामभावे प्रत्यक्षा-ऽप्रत्यक्षव्यपदेशानुपपत्तेरिति भावः ॥१७४६॥ ___ अपि च, 'अप्रत्यक्षत्वात्' इत्यनैकान्तिको हेतुरिति दर्शयन्नाहअस्थि अपच्चक्खं पि हु जह भवओ संसयाइविन्नाणं । अह नत्थि सुण्णया का कास व केणोवलद्धा वा?॥१७४७॥ __नन्वप्रत्यक्षमप्यस्ति किश्चिद् वस्तु, यथा भवतः संशयादिविज्ञानमन्येषामप्रत्यक्षमप्यस्ति, ततो यथैतत् , तथा पर-मध्यभागावप्रत्यक्षौ भविष्यत इत्यनैकान्तिको हेतुः। अथ भवत्संशयादिविज्ञानमपि नास्ति, तर्हि का नाम शून्यता ?, कस्य वाऽसौ ?, न स्तः पर-मध्यभागावप्रत्यक्षवतो मतिभवेत् । नन्वक्षा-र्थापत्तिरप्रत्यक्षस्वहानिर्वा ॥ १७४६ ॥ २ अस्त्यप्रत्यक्षमपि खलु यथा भवतः संशयादिविज्ञानम् । अथ नास्ति शून्यता का फस्य वा केनोपलब्धा बा ? ॥१७४७॥ ||७४२॥ an Education Internat Forsonal and Private Use Only www.janelbrary.org Page #145 -------------------------------------------------------------------------- ________________ बृहदत्तिः । केन वोपलब्धा ? । भवत एवेह तत्र किल संशयः, स चेद् नास्ति, तर्हि कस्यान्यस्य ग्राम-नगरादिसवे विप्रतिपत्तिः ? इति भावः॥१७४७॥ विशेषा तदेवं युक्तिभिः शून्यतामपाकृत्य भगवान् व्यक्त शिक्षयन्नाह||७४३॥ पैच्चक्खेसु न जुत्तो तुह भूमि-जला-ऽनलेसु संदेहो । अनिला-ऽऽगासेसु भवे सोऽवि न जुत्तोऽणुमाणाओ॥१७४८॥ तस्माद् भूमि-जल-वद्विषु प्रत्यक्षेषु तव सौम्य ! संशयो न युक्तः, यथा स्वस्वरूपे । तथा, अनिलोऽपि प्रत्यक्ष एव, गुणप्रत्यक्षत्वात् , घटवत् , ततस्तत्रापि न संशयो युक्तः। भवतु वा, अनिला-55काशयोरप्रत्यक्षत्वेन संशयः, तथाऽप्यसौ न युक्तः, अनुमानसिद्धत्वात् तयोरिति ॥ १७४८ ॥ तत्रानिलविषयं तावदनुमानमाह-- __ अत्थि अदिस्सापाइयफरिसणाईणं गुणी गुणत्तणओ । रुवस्स घडो व्व गुणी जो तसिं सोऽनिलो नाम ॥१७४९॥5 य एतेऽदृश्येन केनाप्यापादिता जनिताः स्पर्शादयस्ते विद्यमानगुणिनः, गुणत्वात् , आदिशब्दाच्छब्द-स्वास्थ्य-कम्पा गृह्यन्ते, एतेऽपि हि वायुप्रभवाद् वायुगुणा एव, इह ये गुणास्ते विद्यमानगुणिनो दृष्टाः, यथा घट-रूपादयः, यश्चैषां स्पर्श-शब्द-स्वास्थ्यकम्पानां गुणी स वायुः, तस्मादस्त्यसाविति ।। १७४९ ।। __ आकाशसाधकमनुमानमाह अत्थि वसुहाइभाणं तोयस्स घडो व्व मुत्तिमत्ताओ। जं भूयाणं भाणं तं वोमं वत्त ! सुव्वत्तं ॥ १७५० ॥ अस्ति वसुधा-जला-ऽनल-वायूनां भाजनमाधारः, मूर्तिमत्त्वात् , तोयस्य घटवत् . यच्च तेषां भाजनं, तदायुष्मन् व्यक्त ! सुव्यक्तं व्योमेति । यदि च साध्यैकदेशतां दृष्टान्तस्य कश्चित् प्रेरयति, तदेत्थं प्रयोगः- विद्यमानभाजना पृथिवी, मूर्तत्वात् , तोयवत् । ES तथा, आपः, तेजोवत् ; तेजश्च, वायुवत् ; वायुश्च, पृथिवीवदिति ॥ १७५० ॥ तदेवं पञ्चापि भूतानि प्रसाध्योपसंहरबाह प्रत्यक्षेषु न युक्तस्तव भूमि-जला-ऽनलेषु संदेहः । अनिला-ऽऽकाशयोर्भवेत् सोऽपि न युक्तोऽनुमानात् ॥ १७४८ ॥ २ अस्त्याश्यापादितस्पर्शनादीनां गुणी गुणत्वतः । रूपस्य घट इव गुणी यस्तेषां सोऽनिलो नाम ॥ १७४९ ॥ ३ अस्ति वसुधाविभाजनं तोषस्य घट इव मूर्तिमत्त्वात् । यद् भूतानां भाजनं तद् व्योम व्यक्त ! सुव्यक्तम् ।। १७५०॥ ||७४३॥ Jan Education interna For Personal and Private Use Only BHwww.jaineltrary.org Page #146 -------------------------------------------------------------------------- ________________ वृहद्वतिः । एवं पच्चक्खाइपमाणसिद्धाई सोम्म ! पडिवज्ज । जीव-सरीराहारोवओगधम्माइं भूयाइं ॥ १७५१ ॥ विशेषा. तदेवं सौम्य ! प्रत्यक्षादिप्रमाणसिद्धानि प्रतिपद्यस्व पञ्च भूतानि, जीव-शरीरा-ऽऽधाराद्युपयोगधर्मकानि चैतानीति ॥१७५१।। ॥७४४॥ अशस्त्रोपहतानि च पृथिव्य-ऽप्-तेजो-वायुलक्षणानि चत्वारि भूतानि सचेतनानि, अतः पराभिप्रायमाशङ्कय तेषां सचेतनत्वं सिसाधयिषुराह किह सजीवाइं मई तल्लिङ्गाओऽनिलावसाणाई। वोमं विमुत्तिभावादाधारो चेव न सजीवं ॥ १७५२ ॥ कथं पुनः सह जीवेन वर्तन्त इति सजीवानि भूतानि ? इति परस्य मतिः स्यात् । अत्रोच्यते- तस्य जीवस्य लिङ्गं तल्लिङ्ग तस्मात् तदुपलब्धेरित्यर्थः, सचेतनान्यनिलावसानानि चत्वारि भूतानि । व्योम- आकाशं पुनर्विगतमूर्तिभावमाधार एव, न तु R. सजीवमिति ॥ १७५२ ॥ 'तल्लिङ्गात्' इत्युक्तम् , तत्र पृथिव्याः सजीवत्वे किं लिङ्गम् ? इत्याह जम्म-जरा-जीवण-मरण-रोहणा-हार-दोहला-मयओ। रोग-तिगिच्छाईहि य नारि व्व सचेयणा तरवो ॥१७५३॥ 'सचेतनास्तरवः' इति प्रतिज्ञा । 'जन्म-जरा-जीवन-मरण-क्षतसंरोहणा-ऽऽहार-दौहृदा-ऽऽमय-तचिकित्सादिसद्भावात्' इति हेतुः । | 'नारीवत्' इति दृष्टान्तः । आह-नन्वनैकान्तिकोऽयम् , अचेतनेष्वपि जन्मादिव्यपदेशदर्शनात् ; तथाहि- 'जातं तद् दधि' इति व्यपदिश्यते, न चैतत् सचेतनम् । तथा, 'जीवितं विषम् ' 'मृतं कुसुम्भकम्' इत्यादि । अत्रोच्यते- वनस्पती सर्वाण्यपि सचेतनलिगानि जन्मादीन्युपलभ्यन्ते, अतो मनुष्येष्विव तानि तेषु निरुपचरितानि, दध्यादौ तु प्रतिनियत एव कश्चिजातादिव्यपदेशो में दृश्यते, स चौपचारिक एव- जातमिव जातं दधि, मृतमिव मृतं कुसुम्भकमित्यादि ॥ १७५३ ॥ वनस्पतेरेव सचेतनत्वसाधने हेत्वन्तराण्यप्याह ||७४४॥ १ एवं प्रत्यक्षादिप्रमाणसिद्धानि सीम्य ! प्रतिपचस्व । जीव-शरीराधारोपयोगधर्माणि भूतानि ।। १७५१ ।। २ कथं सजीवानि भतिस्तल्लिकादनिलावसानानि । व्योम विमूर्तिभावादाधार एव न सजीवम् ॥ १७५२ ॥ जन्म-जरा-जीवन-मरण-रोहणा-हार-दीडदा-5ऽमयतः । रोग-चिकित्सादिभिश्च नीरीव सचेतनास्तरवः ॥ १.५३ ॥ For Prisen Page #147 -------------------------------------------------------------------------- ________________ विशेषा ० ॥७४५॥ Jain Educationa Internationa 'छिक्कपरोइया छिक्कमेत्तसंकोयओ कुलिंगो व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥१७५४॥ सम्मादओ य साव-प्पबोह-संकोयणाइओऽभिमया । बउलादओ य सद्दाइविसयकालोवलंभाओ ॥ १७५५ ॥ सचेतनाः स्पृष्टप्ररीदिकादयो वनस्पतयः स्पृष्टमात्रसंकोचात् कुलिङ्गः कीटादिस्तद्वत् । तथा, सचेतना वल्ल्यादयः, स्वरक्षार्थ वृत्ति-वृक्ष-वरण्डकाद्याश्रयं प्रति संचरणात् । तथा, शम्यादयश्चेतनत्वेनाभिमताः, स्वाप-प्रबोध- संकोचादिमत्त्वात्, देवदत्तवत् । तथा, सचेतना बकुला शोक- कुरुवक-विरहक-चम्पक-तिलकादयः शब्दादिविषयकालोपलम्भात् - शब्द-रूप-गन्ध-रस-स्पर्शविषयाणां काले प्रस्ताव उपभोगस्य यथासंख्यमुपलम्भादित्यर्थः, यज्ञदत्तवदिति । एवं पूर्वमपि दौहृदादिलिङ्गेषु कूष्माण्डी- बीजपूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति ।। १७५४ ।। १७५५ ।। अथ सामान्येन तरूणां, पृथ्वीविशेषाणां च विद्रुमादीनां सचेतनत्वसाधनायाह- * मंसंकुरो व्व सामाणजाइरूवंकुरोवलंभाओ । तरुगण-विद्दुम लवणो वलादओ सासयावत्था || १७५६ ॥ तरुगणः, तथा विद्रुम-लवणो- पलादयश्च स्वाश्रयावस्था स्वजन्मस्थानगताः सन्तश्चेतनाः, छिन्नानामप्यमीषां पुनस्तत्स्थान एव समानजातीयाङ्करोत्थानात्, अशमांसाङ्कुरवत् । आह- ननु पृथिव्यादिभूतानामिह सचेतनत्वं साधयितुमारब्धम्, ततः पृथिव्या एवादौ तत् साधयितुं युक्तम्, तस्या एवादावुपन्यासात्, तत्किमिति 'जम्म-जरा- जीवण-' इत्यादिना तरूणामेवादौ तत् साधितम् पश्चात् विद्रुम- लवणोपलादीनामिति । सत्यम्, किन्तु पृथ्वीविकारतया पृथ्वीभूत एव तरूणामन्तर्भावो लोकप्रसिद्धः, सुव्यक्तचैतन्यलिङ्गाश्व यथा तरवो न तथा लवणो-पल-जलादय इति तेषामेवादौ चैतन्यं साधितमिति ।। १७५६ ।। अधोदकस्य सचेतनत्वं साधयितुमाह- भूमिक्खयसाभावियसंभवओ ददुरो व्व जलमुत्तं । अहवा मच्छो व सभाववोमसंभूयपायाओ ॥ १७५७ ॥ ९४ १ स्पृष्टप्ररोदिकाः स्पृष्टमात्र संकोचतः कुलिङ्ग इव । आश्रयसंचाराद् व्यक्त ! वल्लवितानानि ।। १७५४ ॥ शम्यादयश्च स्वाप-प्रबोध-संकोचनादितोऽभिमताः । बकुलादयश्च शब्दादिविषयकालोपलम्भात् ॥ १७५५ ।। २ ज. 'रोहिका' । ४ गाथा १७५३ । ३ मांसाकर इव समानजातिरूपाङ्कुरोपलम्भात् । तरुगण-विद्रुम-लवणो-पलादयः स्वाश्रयावस्थाः ॥ १७५६ ॥ ५ भूमिक्षतस्वाभाविकसंभवतो दर्दुर इव जलमुक्तम् । अथवा मत्स्य इव स्वभावव्योमसंभूतपातात् ।। १७५७ ॥ For Personal and Private Use Only बृहद्वृत्तिः। 1108411 Page #148 -------------------------------------------------------------------------- ________________ विशेषा० ॥७४६ ॥ Jain Educations Internatio भौममम्भः सचेतनमुक्तम्, क्षतभूमिसजातीय स्वाभाविकस्य तस्य संभवात्, दर्दुरवत् । अथवा, सचेतनमन्तरिक्षमम्भः, अभ्रादिविकारस्वभावसंभूतपातात्, मत्स्यवदिति ।। १७५७ ॥ तेजोऽनिलावधिकृत्याह - अपरप्पेरियतिरिया नियमियदिग्गमणओऽणिलोगो व्व । अनलो आहाराओ विद्धि-विगारोवलम्भाओ ॥ १७५८ ॥ सात्मको वायुः, अपरप्रेरिततिर्यगनियमित दिग्गमनात्, गोवत् । यथा, सात्मकं तेजः, आहारोपादानात्, तट्टद्धौ विकारविशेषोपलम्भाच्च, नरवत् | गाथाबन्धानुलोम्याच्च व्यत्ययेनोपन्यास इति ।। १७५८ ।। तदेवं पृथिव्यादीनां प्रत्येकं सचेतनत्वं प्रसाध्येदानीं सर्वेषां सामान्येन तत् साधयन्नाह तेणवोऽणभाइविगारमुत्तजाइत्तओऽणिलंताई । सत्थासत्थहयाओ निज्जीव-सजीवरूवाओ ॥ १७५९ ॥ पृथिव्याद्यनिलान्तानि चत्वारि भूतानि जीवनिर्वर्तितास्तदाधारभूतास्तनव इति प्रतिज्ञा, अभ्रादिविकारादन्यत्वे सति मूर्तजातित्वात्, गवादिशरीरवत् । अभ्रादिविकारस्तु विस्रसापरिणतपुद्गलसंघातरूपत्वेनाचेतनत्वाद् वर्जितः । ताथ पृथिव्यादितनवः | शस्त्रापहता निर्जीवाः, अशस्त्रोपहतास्तु सजीवा वर्ण- गन्ध-रसादिलक्षणतः समवसेया इति ।। १७५९ ॥ प्रकारान्तरेणापि पृथिव्याद्येकेन्द्रियाणां जीवत्वं साधयितुमाह "सिज्यंति सोम्म ! बहुसो जीवा नवसत्तसंभवो नवि य । परिमिय देसो लोगो न संति चेगिंदिया जेसिं ॥१७६० ॥ सिं भवच्छित्त पावइ नेट्ठाय सा जओ तेण । सिद्धमणंता जीवा भूयाहारा य तेऽवस्सं ॥। १७६१ ॥ सिध्यन्ति मुक्तिं यान्ति तावदजस्रं बहुशो जीवाः, न च नवसच्चोत्पादः केनापीष्यते, परिमितदेशश्च लोकः, ततस्तदाधाराः स्थूलाः स्तोका एव जीवा घटन्ते । एवं च सति येषां मतेन वनस्पत्यादय एकेन्द्रिया जीवा न सन्ति तेषां भवस्य संसारस्य व्यवच्छित्तिः १ अपरप्रेरिततिर्यगनियमितदिग्गमनतोऽनिलो गौरिव । अनल आहाराद् वृद्धि-विकारोपलम्भात् ।। १७५८ ।। २ तनवोऽनादिविकारमूर्तजातित्वतोऽनिलान्तानि । शस्त्राऽशखहता निर्जीव सजीवरूपाः ।। १७५९ ॥ ३ सिध्यन्ति सौम्य ! बहुशो जीवा नवसश्वसंभवो नापि च। परिमितदेशो लोको न सन्ति चैकेन्द्रियां येषाम् ।। १७६० ॥ तेषां भवविच्छितिः प्राप्नाति नेष्टा च सा यतस्तेन । सिद्धमनन्ता जीवा भूताधाराश्च तेऽवश्यम् ।। १७६१ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥७४६ ॥ dwww.janvelibrary.org Page #149 -------------------------------------------------------------------------- ________________ विशेषा ० ॥७४७॥ Jain Educationis Internation प्राप्नोति । न चासौ कस्यापि तीर्थान्तरीयस्येष्टा यतः तेन तस्मात् कारणात् सिद्धं सच्चानामानन्त्यम् । ते च संसारित्वादवश्यं भूताधाराः शरीरिण एवेत्यर्थः । न च वनस्पत्यादीनन्तरेणान्यत् तेषां शरीरमुपपद्यते । निवेद्यन्तां वा यच्छरीरास्ते, अभ्युपगम्यतां वा वनपत्यादीनां सात्मकत्वमिति भावः ।। १७६० ।। १७६१ ।। अथ प्रेरकमाशङ्कय परिहारमाह महिंसाभावो जीवघणं ति न य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघणं ति तो हिंसा || १७६२ || नन्वेवं सति लोकस्यातीवपृथिव्यादिजीव घनत्वादहिंसाऽभावः संयतैरप्यहिंसाव्रतमित्थं निर्वाहयितुमशक्यमिति भावः । तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः - 'शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृता ऽकारितादिपरिभोगेन निर्वत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेणैव हिंसा संभवतीति । १७६२ ॥ आह- ननु जीवाकुले लोकेऽवश्यमेव जीवघातः संभाव्यते, जीवांश्च घ्नन् कथं हिंसको न स्यात् ? इत्याह ने य घायउ त्ति हिंसो नाघायंतो त्ति निच्छियमहिंसो । न विरलजीयमहिंसो न य जीवघणं ति तो हिंसो ॥१७६३ ॥ अहणतो व हंसो ट्टत्तणओ मओ अहिमरो व्व । बाहिंतो न वि हिंसो सुद्धत्तणओ जहा विज्जो ॥१७६४॥ हु न हि 'घातकः' इत्येतावता हिंस्रः, न चानन्नपि निश्श्यनयमतेनाहिंस्रः, नापि 'विरलजीवम्' इत्येतावन्मात्रेणा हिंस्रः, न चापि 'जीवनम्' इत्येतावता च हिंस्र इति । किं तर्हि ? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाघमानोsपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः, इति घन्नप्यासः, अघ्नन्नपि च हिंस्र उक्तः ।। १७६३ ।। १७६४ ।। स इह कथंभूतो ग्राह्यः १ इत्याह पंचसमिओ तिगुतो नाणी अविहिंसओ न विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ।। १७६५ ।। १ एवमहिंसाऽभावो जीवधनमिति न च तद् यतोऽभिहितम् । शस्त्रोपहतमजीवं न च जीवचनमिति ततो हिंसा ॥१७६२ ॥ २ न च घातक इति हिंस्रो नाप्ननिति निश्चितमहिंस्रः । न विरलजीवमहिंस्रो न च जीवचनमिति ततो हिंस्रः ॥ १७६३ ॥ अम्नन्नपि खलु हिंस्रो दुष्टत्वतो मतोऽभिमर इव । बाधमाना नापि हिंस्रः शुद्धत्वतो यथा वैद्यः || १७६४ ।। ३ पञ्चसमितस्त्रिगुप्त ज्ञान्यविहिंसको न विपरतिः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥। १७६५ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥७४७॥ www.tainelibrary.bra Page #150 -------------------------------------------------------------------------- ________________ विशेषा० ||७४८ ।। Jain Educationa Internationa पञ्चभिः समितिभिः समितः, तिसृभिर्गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप- तद्रक्षा क्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः, तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामत्वात् । बाह्यजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन संपत्तिर्भवतु मा भूद् वा 'स' तस्य साध्वादेः, हिंसकत्वे तस्या अनैकान्तिकत्वादिति ।। १७६५ ।। कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह सुभो जो परिणामोसा हिंसा सो उ बाहिरनिमित्तं । को वि अवेक्वेज नवा जम्हाऽणेगंतियं बज्झं ॥ १७६६ ॥ यस्मादिह निश्रयंनयतो योऽशुभपरिणामः स एव 'हिंसा' इत्याख्यायते । स च वाह्यासत्वातिपातक्रियालक्षणं निमित्तं कोsप्यपेक्षते, कोsपि पुनस्तन्निरपेक्षोऽपि भवेत्, यथा तन्दुलमत्स्यादीनाम्; तस्मादनैकान्तिकमेव बाह्यनिमित्तम्, तत्सद्भावेऽप्यहिंसकत्वात्, तदभावेऽपि च हिंसकत्वादिति ।। १७६६ ।। नन्वेवं तर्हि वाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? । उच्यते कश्चिद् भवति, कश्चित्तु न । कथम् १ इत्याह-परिणामऊ जीवाबाहो ति तो मयं हिंसा । जस्स उन सो निमित्तं सतो वि न तस्स सा हिंसा || १७६७॥ ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुः, अथवा, अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवावाधो जीवघातः, स एव 'हिंसा' इति मतं तीर्थकर गणधराणाम् । यस्य तु जीवावाधस्य सोऽशुभपरिणामो न निमित्तं स जीवावाधः सन्नपि तस्य साधोन हिंसेति ।। १७६७ ॥ अमुमेवार्थे दृष्टान्तेन द्रढयन्नाह - दादओ रइफला न वीयमोहस्स भावसुद्धीओ । जह, तह जीवाबाहो न सुद्धमणसो विहिंसाए || १७६८ ॥ १ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोऽप्यपेक्षेत नवा यस्मादनैकान्तिकं वाह्यम् ॥ १७६६ ॥ २ घ. ज. 'यतो' । ३ अशुभपरिणाम हेतु जवाबाध इति ततो मत हिंसा यस्य तु न स निमित्तं सन्नपि न तस्य सा हिंसा ॥। १७६७ ॥ ४ शब्दादयो रतिफला न वीतमोहस्य भावशुद्धेः । यथा, तथा जीबाबाधो न शुद्धमनसोऽपि हिंसाये ॥ १७६८ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७४८|| www.jainetbrary.org Page #151 -------------------------------------------------------------------------- ________________ विशेषा ||७४९॥ यथेह वीतराग-द्वेष-मोहस्य भगवत इष्टाः शब्द-रूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते तथा शुद्धपरिणामस्य यत्नवतः साधोः सचोपघातोऽपि न हिंसाय संपद्यते । ततोऽशुभपरिणामजनकत्वे बाह्यं निमित्तमनैकान्तिकमेवेति । तस्माद् व्यक्त! सन्ति पञ्च भूतानि, चेतनानि चाधानि चत्वारि, इत्येतत् प्रतीहीति स्थितम् । यच्च "खमोपमं वै सकलम्" इत्यादि । तत्रापि यस्तव चेतसि वतते नासावर्थः, किन्तु भवभयोद्विग्नाना भव्यसत्त्वानां धन-कनक-पुत्र-कलत्रायसारतामात्रप्रतिपादनं तेन विधीयते, येन ते तदास्था परित्यज्य मुक्तये प्रवर्तन्ते, न पुनस्तत्र भूताभावः प्रतिपाद्यते । इति मुश्च संशयम , प्रतिपद्यस्व भूतास्तित्वमिति ।। १७६८।' ततो व्यपगतसंदेहोऽसौ संवेगमागतो व्यक्तः किं कृतवान् ? इत्याह 'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ॥१७६९॥ व्याख्यानं पूर्ववत् ॥ इति व्यशीतिगाथार्थः ।। १७६९ ।। ॥ इति चतुर्थो गणधरवादः समाप्तः ॥ अथ पञ्चमगणधरवक्तव्यतामभिधित्सुराह ते पव्वइए सोउं सुहुम आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥ १७७० ॥ व्याख्या पूर्ववत् , नवरं सुधर्मनामा द्विजोपाध्यायोत्र वक्तव्यः ॥ १७७० ।। आगतस्य तस्य भगवता किं कृतम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१७७१॥ व्याख्या पूर्ववदिति ।। १७७१ ।। आभाष्य किमुक्तोऽसौ ? इत्याह "किं मन्ने जारिसोइहभवम्मि सो तारिसो परभवे वि । वेयपयाण य अत्थं न याणसी तेसिमोअत्थो॥१७७२॥ १ गाथा १६०४ । २ तान् प्रबजितान् श्रुत्वा सुधर्माऽऽगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १७७० ॥ ३ गाथा १६०९। ४ किं मन्यसे यादश इहभवे स तादृशः परभवेऽपि । वेदपदानां चार्थ न जानासि तपामयमर्थः ॥ १७७२ ॥ ७४९॥ Jan Education Intera For Personal and Private Use Only www.janeibrary.org Page #152 -------------------------------------------------------------------------- ________________ विशेषा. ||७५०॥ त्वमेवं मन्यसे- यो मनुष्यादिर्यादृश इहभवे स तादृशः परभवेऽपि । नन्वयमनुचितस्ते संशयः, यतोऽसौ विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि चामूनि वेदपदानि- "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादि, तथा, "शृगाले वै एष जायते यः सपुरीषो दह्यते" इत्यादि । एषां च वेदपदानाममुमर्थ मन्यसे त्वम्- 'पुरुषो मृतः सन् परभवे पुरुषत्वमेवाश्नुते प्रामोति, तथा, पशवो गवादयः पशुत्वमेवेत्यादि, अमूनि किल भवान्तरगतजन्तुसादृश्यप्रतिपादकानि; तथा, 'शृगालो वै" इत्यादीनि तु वैसदृश्यख्यापकानि' इति । अतस्तव संशयः । अयं चायुक्त एव, यतोऽमीषां वेदपदानां नायमर्थः, किन्तु वक्ष्यमाणलक्षण इति ।। १७७२ ॥ अत्र भाष्यम् कारणसरिसं कजं बीयरसेवङ्करो त्ति मण्णतो । इहभवसरिसं सव्वं जमवेसि परे वि तमजुत्तं ॥१७७३॥ सुधर्माण प्रति भगवानुवाच- 'इह कारणानुरूपमेव कार्यं भवति, यथा यवबीजानुरूपो यवाङ्करः, इहभवकारणं चान्यजन्म, ततस्तेनापीहभवसदृशेन भवितव्यम्' इत्येवं मन्यमानस्त्वं यदिहभवसदृशं सर्वं पुरुषादिकं परभवेऽप्यषि, तदयुक्तमेवेति ॥ १७७३ ।। कुतः ? इत्याह जाइ सरो सिंगाओ भूतणओ सासवाणुलित्ताओ । संजायइ गोलोमा-ऽविलोमसंजोगओ दुव्वा ॥१७७४॥ इति रुक्खायुवेदे जोणिविहाणे य विसरिसेहिंतो । दीसइ जम्हा जम्मं सुहम्म ! तो नायमगंतो ॥१७७५॥ ततः 'कारणानुरूपं कार्यम्' इति सुधर्मन् ! नायमेकान्तः, यतः शृङ्गादपि शरो जायते, तस्मादेव च सर्षपानुलिप्ताद् भूतृणकः शष्यसंघातो जायते; तथा, गोलोमा-विलोमाभ्यां दूर्वा प्रभवति, इत्येवं वृक्षायुर्वेद विलक्षणानेकद्रव्यसंयोगजन्मानो वनस्पतयो दृश्यन्ते । तथा, योनिविधाने च योनिमाभृते विसदृशानेकद्रव्यसंयोगयोनयः सर्प-सिंहादिप्राणिनो मणयो हेमादयश्च पदार्था नानारूपाः समुपलभ्यन्ते । अतः केयं कार्यस्य कारणानुरूपता? इति ।। १७७४ ॥ १७७५ ।। अथवा, यत एव कारणानुरूपं कार्यम् , अत एव भवान्तरे विचित्ररूपता जन्तूनाम् , इति दर्शयति , कारणसदृशं कार्य बीजस्येवाकुर इति मन्यमानः । इहभवसदृशं सर्वं यदवषि परस्मिन्नपि तदयुक्तम् ॥ १७७३ ।। २ जायते शरः भाद् भूतृणकः सर्पपानुलिप्तात् । संजायते गोलोमा-विलोमसंयोगतो दूर्वा ॥ १७७४ ॥ इति वृक्षायुर्वेद योनिविधाने च विसहशेभ्यः । दृश्यते यस्साजन्म सुधर्मन् ! ततो नायमेकान्तः ॥ १७७५ ॥ RE HTTERTATE ७५०॥ PICHAR For ons van Page #153 -------------------------------------------------------------------------- ________________ मरा R विशेषा. बृहदत्तिः । ॥७५१॥ मालयसम्म का अहवा जउ च्चिय बीयाणुरूवजम्मं मयं तओ चेव । जीवं गिण्ह भवाओ भवंतरे चित्तपरिणामं ॥ १७७६ ।। जेण भवंकुरबीयं कम्मं चित्तं च तं जओऽभिहियं । हेउविचित्तत्तणओ भवंकुरविचित्तया तेणं ॥१७७७॥ जइ पडिवन्नं कम्मं हेउविचित्तत्तओ विचित्तं च।तो तप्फलं वि चित्तं पवज्ज संसारिणो सोम्म !॥१७७८॥ व्याख्या- अथवा, यत एव बीजानुरूपं कारणानुगुणं कार्याणां जन्म मतम् , तत एवेह भवाद् भवान्तरे जीवं गृहाण प्रतिपद्यस्व । कथंभूतम् ? जाति-कुल-बलै-श्वर्य-रूपादिविचित्रपरिणामम् । यदि नाम बीजानुरूपं जन्म, तथापि कथं भवान्तरे विचित्रता जीवानाम् ?, इत्याह-'जेण भवंकुरेत्यादि' येन यस्माद् नारक-तिर्यगादिरूपेण भवनं भवः स एवाकुर इवाङ्कुरस्तस्य बीजमिह कर्मैवावसे यम् , तच्च मिथ्यात्वा-ऽविरत्यादिहेतुवैचिच्याद् विचित्रं यस्माद् मयाभिहितम्, तस्मात् तज्जन्यस्य भवाङ्करस्यापि जात्यादिभेदेन विचित्रता । ततो यदि त्वया कर्म प्रतिपन्नम् , हेतुवैचित्र्याच यदि तद्वैचित्र्यमभ्युपगतम् , ततः संसारिणो जीवस्य तत्फलमपि नारक-तिर्यङ्-मनुष्या-ऽमररूपेण भवनरूपं सौम्य ! विचित्ररूपं प्रतिपद्यस्वेति ।। १७७६ ॥ १७७७ ।। १७७८ ॥ अत्र प्रमाणमुपरचयन्नाह चित्तं संसारित्तं विचित्तकम्मफलभावओ हेऊ। इह चित्तं चित्ताणं कम्माण फलं व लोगम्मि ॥१७७९॥ चित्र संसारिजीवानां नारकादिरूपेण संसारित्वमिति प्रतिज्ञा । विचित्रस्य कर्मणः फलरूपत्वादिति हेतुः । इह यद् विचित्रहेतुकं. तद् विचित्रमुपलभ्यते, यथेह विचित्राणां कृषि-वाणिज्यादिकर्मणां फलं लोक इति । तदेवं कर्मवैचिच्याद् भववैचित्र्ये प्रमाणमुक्तम् ॥१७७९॥ अथ कर्मणो वैचित्र्ये प्रमाणमाहचित्ता कम्मपरिणई पोग्गलपरिणामओजहा बज्झा । कम्माण चित्तया पुण तद्धे उविचित्तभावाओ॥१७८०॥ , अथवा यत एव बीजानुरूपजन्म मतं तत एव । जीवं गृहाण भवाद् भवान्तरे चित्रपरिणामम् ॥ १७७६ ॥ येन भवाकुरबीजं कर्म चित्रं च तद् यतोऽभिहितम् । हेतुविचित्रत्वतो भवाङ्करविचिन्नता तेन ॥ १७७७ ॥ यदि प्रतिपनं कर्म हेतुविचित्रत्वतो विचित्रं च । ततस्तत्फलमपि चित्रं प्रपद्यस्व संसारिणः सौम्य ! ॥ १७७८ ॥ २ घ. ज. 'नुगतं का'। ३ चित्र संसारित्वं विचित्रकर्मफलभावतो हेतोः । इह चित्रं चित्राणां कर्मणां फलमिव लोके ॥ १७७९ ॥ चित्रा कर्मपरिणतिः पुजलपरिणामतो यथा बाझा । कर्मणां चित्रता पुनस्तद्धेतुविचित्रभावात् ।। १७८०॥ ७५१॥ कामासाहाराबासकार JainEducatioria.Intematic For Personal and Private Use Only www.jainelbrary.ary Page #154 -------------------------------------------------------------------------- ________________ विशेषा. बृहवात्तिः। ॥७५२॥ इह विचित्रा कर्मपरिणतिः, पुद्गलपरिणामात्मकत्वात् , इह यत्पुद्गलपरिणामात्मकं तद् विचित्रपरिणतिरूपं दृश्यते, यथा बाह्योऽभ्रादिविकारः, पृथिव्यादिविकारो वा, यत्तु विचित्रपरिणतिरूपं न भवति तत् पुद्गलपरिणामात्मकमपि न भवति, यथाऽऽकाशम् , या पुनः पुद्गलपरिणामसाम्येऽपि कर्मणामावरणादिभेदेन विशेषतो विचित्रता सा तद्धतुवैचित्र्यादवगन्तव्या, विचित्राश्च मिथ्यात्वादयः प्रदेष-निववादयश्च कर्महेतव इति ।। १७८० ।। अथ पराभ्युपगमेनैव परभवे जीवानां वैसदृश्यं साधयन्नाह-- अहवा इहभवसरिसो परलोगो वि जइ सम्मओ तेणं । कम्मफलं पि इहभवसरिसं पडिवज्ज परलोए॥१७८१॥ किं भणियमिह मणुया नाणागइकम्मकारिणो संति । जइ ते तप्फलभाजो परे वि तो सरिसया जुत्ता॥१७८२॥ व्याख्या- अथवा, यदीहभवसदृशः परलोकोऽपि संमतो भवतः, 'तेणं ति' ततः कर्मफलमपि परलोक इहभवसदृशमिहत्यविचित्रशुभा-ऽशुभक्रियानुरूपं विचित्रं प्रतिपद्यस्खेति । एवं मुकुलितं प्रतिपाद्यैतदेव भावयति- 'किं भणियमित्यादि' किमेतावता प्रतिपादितं भवति । इह तावद् मनुष्या नानागतिहेतुविचित्रक्रियानुष्ठायिनः सन्तीति प्रत्यक्षत एव लक्ष्यन्ते । ततो यदि ते परलोके तत्तक्रियाफलभाज इष्यन्ते, ततो यथेहत्यक्रियाणामसदृशता, तथा परलोकगतजन्तूनामपि सैव युक्ता, ननु योऽत्र यादृशः स परत्रापि तादृश एव भवति ॥ १७८१ ॥ १७८२ ॥ अत्र पराभिप्रायमाशङ्कय परिहरन्नाह-- अह इह सफलं कम्मं न परे तो सबहान सरिसत्तं । अकयागम-कयनासा कम्माभावोऽहवा पत्तो॥१७८३॥ कम्माभावे य कओ भवंतरं, सरिसया व तदभावे । निक्कारणओ य भवो जइ तो नासो वि तह चेव ॥१७८४॥ अथैवं ब्रूषे- इह सफलं कर्मेति- इहभवसंबन्ध्येव कृष्यादिक्रियारूपं कर्म सफलम् , न तु पारभविकदानादिक्रियारूपं कर्म । , अधवेहभवसदृशः परलोकोऽपि यदि संमतस्तेन । कर्मफलमपीहभवसदृशं प्रतिपद्यस्व परलोके ॥ १७४१॥ किं भणितमिह मनुजा नानागतिकर्मकारिणः सन्ति । यदि ते तत्फलभाजः परस्मिन्नपि ततः सदृशता युक्ता ॥ १७८२ ॥ २ अथेह सफलं कर्म न परसिंशतः सर्वथा न सदृशत्वम् । अकृतागम कृतनाशौ कर्माभावोऽथवा प्राप्तः ॥ १७८३ ॥ कर्माभावे च कुतो भवान्तरं, सदृशता वा तदभावे । निष्कारणकश्च भवो यदि ततो नाशोऽपि तथैव ॥ १७४४ ॥ ॥७५२॥ Jan Education interna Foco and Private Use Only www.jainelbrary.org Page #155 -------------------------------------------------------------------------- ________________ विशेषा ॥७५३।। ततश्च तत्फलाभावाद् न परलोके जन्तुवैसदृश्यम् । अत्रोत्तरमाह- 'तो सम्बहा न सरिसत्तं ति' तत एवं सति यत् तवाभिप्रेतं तत् । सर्वथा परभचे जीवानां सदृशत्वं न स्यात् । तद्धि कर्मणा जन्यते, तच्च नास्ति, पारभविकक्रियाणां त्वया निष्फलत्वाभ्युपगमात् , बृहदत्तिः तनिष्फलत्वे च कर्माभावात् । अथ कर्माभावेऽपि भवेत् सादृश्यम् , ताकृतस्यैव तस्य निर्हेतुकस्याऽऽगमः प्राप्नोति, कृतस्य च दानहिंसादिक्रियाफलरूपस्य कर्मणो नाशः प्रसजति । अथवा, मूलत एवं कर्मणामभावः प्राप्तः-दान-हिंसादिक्रियाणां निष्फलत्वाभ्युपगमाद् मूलत एवं कर्मणो बन्धोऽपि न स्यादिति भावः । ततः किम् ? इत्याह- कर्माभावे च कारणाभावात् कुतो भवान्तरम् , तदभावे च दूरोत्सारितमेव सादृश्यम् । अथ कर्माभावेऽपि भव इष्यते, तर्हि निष्कारण एवासौ स्यात् । यदि चैवमयमिष्येत, ततो नाशोऽपि तस्य भवस्य निष्कारण एव स्यात् , अतो व्यर्थस्तपो-नियमाद्यनुष्ठानप्रयासः । निष्कारणे च भवेऽभ्युपगम्यमाने वैसदृश्यमपि जीवानां निकारणं किं नेष्यते, विशेषाभावात् ? इति ॥ १७८३ ।। १७८४ ।। अथ प्रेरकमाशय परिहरनाह कैम्माभावे वि मई को दोसो होज्ज जइ सभावोऽयं । जह कारणाणुरूवं घडाइ कज्जं सहावेणं ॥ १७८५॥ अथ परस्यैवंभूता मतिः स्याद् यदुत- कर्माभावेऽपि यदि भवसद्भावरूपः स्वभाव एवायं भवेत् तर्हि को दोषः स्यात् ?-- विनापि कर्म यदि स्वभावादेव भवः स्यात् तर्हि किं दूषणं भवेत् - न किश्चिदित्यर्थः । दृष्टान्तमाह- यथा कर्म विनापि मृत्पिण्डादिकारणानुरूपं घटादि कार्य स्वस्वभावेनैवोत्पद्यमानं दृश्यते, तथा सदृशप्राणिजन्मपरम्परारूपो भवोऽपि स्वभावादेव भविष्यति । अत्रोच्यते| ननु घटोऽपि न स्वभावत एव जायते, कठ-करणाद्यपेक्षित्वात् तस्य । ततश्चेहापि कर्तुरात्मनः पारभविकस्य च शरीरादिकार्यस्य करणं संभाव्यते, तच्च कर्तृ-कार्याभ्यां भिन्नं लोकेऽपि दृश्यते, कुलाल-घटाभ्यां चक्रादिवत् , यच्चेहात्मनः शरीरादि कार्य कुर्वतः करणं तत् कर्मेति प्रतिपद्यख । स्यादेतत् , घटादेः प्रत्यक्षसिद्धत्वाद् भवन्तु कुलालादयः कर्तारः, शरीरादि कार्य त्वभ्रादिविकारवत् स्वभावतोऽपि भविष्यति, ततो न कर्मसिद्धिः । तदयुक्तम् , यतो न स्वाभाविकं शरीरादि, आदिमत्पतिनियताकारत्वात्, घटवदिति । किञ्च, 'कारणानुरूपमेव कार्यम्' इत्येवं यत् परभवे सादृश्यं त्वयाऽभ्युपगम्यते, तदपि खभाववादिनस्तवाभ्रादिविकारदृष्टान्ते परिहीयते, अभ्रादिविकारस्य स्वकारणभूतपुद्गलद्रव्यादतिविलक्षणत्वादिति ॥ १७८५ ॥ १ क. ग. 'मिष्यते'। २ प.ज. 'रकामाद्द'। ३ काभावेऽपि मतिः को दोषो भवेद् यदि स्वभावोऽयम् । यथा कारणानुरूपं घटादि कार्य स्वभावेन ॥ १७८५ ॥ ४ ज.'र्तृकार' । ७५३॥ Ford PU Only न www.janelibrary.org Page #156 -------------------------------------------------------------------------- ________________ अपिच, विशेषा होज सहावो वत्थु निकारणया व वत्थुधम्मो वा ?। जइ वत्थु णत्थि तओऽणुवलद्धीओ खपुप्फ व ॥१७८६॥ ॥७५४|| अच्चतमणुवलद्धो वि अह तओ अत्थि नत्थेि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्स वि स एव॥१७८७॥ कम्मस्स वाभिहाणं होज्ज सहावो त्ति होउ को दोसो । निच्चं व सो सभावो सरिसो एत्थं च को हेऊ ? ॥१७८८॥ एतद् गाथात्रयमपि प्रायः प्रागेव व्याख्यातार्थम् , नवरं 'निच्छ' इत्यादि तृतीयगाथोत्तरार्धम् । इदमत्र हृदयम्- स स्वभावो नित्यं सदृश एव त्वयाऽभ्युपगन्तव्यः, भवान्तरे सदृशस्यैव मनुष्यादिभवस्य जननात , तस्य च स्वभावस्य नित्यं सदृशत्वे को हेतुः? TO न कश्चिदित्यभिप्रायः । स्वभावत एवायं स्वभावः सदृश इति चेत् । ननु भवविसदृशतायामप्येतद् वक्तुं शक्यत एवेति ॥१७८६-८८॥ किश्च, सो मुत्तोऽमुत्तो वा जइ मुत्तो तो न सव्वहा सरिसो। परिणामओ पयं पिव न देहहेऊ जइ अमुत्तो ॥१७८९॥ उवगरणाभावाओ न य हवइ सुहम्म! सो अमुत्तो वि । कजस्स मुत्तिमत्ता सुहसंवित्तादिओ चेव ॥१७९०॥ व्याख्या- स स्वभावो मूर्तः, अमूर्तो वा । यदि मूर्तः, तर्हि कर्मणा सह तस्य को विशेषः १- संज्ञान्तरमात्रविशिष्टकमैवे| स्थमुक्तं स्यादिति। न चासौ सर्वदैव सर्वथा सदृशो युज्यते, परिणामित्वात् , दुग्धादिवत् । अथवा, मूर्तत्वादेवाभ्रादिविकारवदिति । अथामूर्तोऽसौ खभावः, तर्हि नैष देहादीनामारम्भकः, अनुपकरणत्वात् , दण्डादिविकलकुलालवत् , अमूर्तत्वादेव वा, आकाशवत् । 'न य हवइ सुहम्म ! सो अमुत्तो वि त्ति' किश्च, सुधर्मन् ! इतोऽपि स स्वभावोऽमूर्तो न युक्तः, शरीरादेस्तत्कार्यस्य मूर्तिमत्वात् । न ह्यमूर्तस्य नभस , भवेत् स्वभावो वस्तु निष्कारणता वा वस्तुधर्मो वा । यदि वस्तु नास्ति सकोऽनुपलब्धः खपुष्पमिव ॥ १७८६ ॥ अत्यन्तमनुपलब्धोऽप्यथ सकोऽस्ति नास्ति किं कर्म । हेतुर्वा तदस्तित्वे यो ननु कर्मणोऽपि स एव ॥ १७८७ ॥ कर्मणो वाभिधानं भवेत् स्वभाव इति भवतु को दोषः । नित्यं वा स स्वभावः सरशोऽन्न च को हेतुः ॥ १७८८ ॥ २ क.ग.'स्थि तो क' । AN७५४॥ | " स मूर्ती मूर्ती वा यदि मूर्तस्ततो न सर्वथा सदृशः । परिणामतः पय इव न देह हेतुर्यद्यमूर्तः ॥ १७४९ ॥ उपकरणाभावाद् न च भवति सुधर्मन् ! सोऽमूर्तोऽपि । कार्यस्य मूर्तिमश्चात् सुखसंविस्यादितचैव ॥ १७९.॥ EPARAMITAसकर Jai Education interna For Personal and Private Use Only www.jaineltrary.org Page #157 -------------------------------------------------------------------------- ________________ राजाराम Oceae इव मृत कार्यमुपजायते । तथा, सुख-संवित्त्यादेश्च नायममूर्तः । इदमुक्तं भवति- कर्म तावद् भवता नेष्यते, स्वभाववादित्वात् । ततश्च विशेषा. शरीरादीनि, सुख-दुःखसंवित्यादीनि च स्वभावस्यैव कार्याण्येष्टव्यानि, तस्य चामूर्तत्वे नेतान्युपपद्यन्ते । ततो यथा द्वितीयगणधरवादे कार्यस्य मूर्तत्वात् , सुखसंविच्यादेश्च कर्मणो मूर्तत्वं साधितम् , तथेह स्वभावस्यापि तत् साधनीयम् । तथा च प्रागुक्तम्॥७५५॥ 'आह नणु मुत्तमेवं मुत्तं चिय कज्जमुत्तिमत्ताओ । इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥१॥ तह सुहसंवित्तीओ संबंधे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ २ ॥ इति ॥१७८९।।१७९०॥ अथ निष्कारणता स्वभाव इति द्वितीयविकल्पमधिकृत्याह-- अहवाऽकारणउ च्चिय सभावओ तो विसरिसया कत्तो। किमकारणओ न भवे विसरिसया किं व विच्छित्ती?॥१७९१॥ अथ स्वभावत एव भवोत्पत्तिरित्यत्र 'अकारणत एव' इत्ययमर्थोऽभिप्रेतः, 'तो वित्ति' तथापि हन्त ! परभवे सदृशता - कुतः। कोऽभिप्रायः ? इत्याह- यथाऽकारणतः सदृशता भवति, तथा किमित्यकारणत एव विसदृशता न स्यात् । अकस्माच्चाकाB रणतो भवविच्छित्तिः कस्माद् न स्यात् ।। अकस्माच भवन् खरविषाणादिरपि भवेत् , शरीरादीनां चाकारणतो भवतामभ्रादीनामिव प्रतिनियताकारत्वादिरूपता न स्यात् । तस्माद् नाकारणता स्वभाव इति ॥ १७९१॥ अथ वस्तुधर्मोऽसाविति तृतीयविकल्पमाश्रित्याह-- अहव सहावो धम्मो वत्थुस्स, न सो वि सरिसओ निच्चं । उप्पाय-द्विइ-भंगा चित्ता जं वत्थुपज्जाया ॥१७९२|| _ अथ वस्तुनो धर्मः स्वभावः, सोऽपि सर्वदैव सदृशो न घटते, इति कथं सर्वदैव शरीरादीनां सदृशता जनयेत् । कथं पुनरस्य सदैव सदृशता न घटते ? इत्याह- 'उप्पायेत्यादि' यद् यस्मादुत्पाद-स्थिति-भङ्गादयश्चित्रा वस्तुपर्यायाः, न च ते सदैवाऽवस्थितसादृश्याः, नीलादीनां वस्तुधर्माणां प्रत्यक्षत एवान्यान्यरूपतया परिणतिदर्शनात् । किश्च, वस्तुधर्मोऽसौ भवत्स्वभाव आत्मधर्मो वा स्यात, १ प. ज. 'खस'। २ गाथा १६२५, १६२६ । ३ अथवाऽकारणत एव स्वभावतस्ततोऽपि सदशता कुतः । किमकारणतो न भवेद् विसदृशता किंवा विच्छित्तिः ॥ ११॥ A ४ अधवा स्वभावो धर्मों वस्तुनः, न सोऽपि सदृशको नित्यम् । उत्पाद-स्थिति-भजाबिना पद् वस्तुपर्यायाः ॥ १७९२ ॥ ७५५|| Page #158 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः ॥७५६॥ पुद्गलधर्मो वा ? । यद्यात्मधर्मः, तर्हि नासौ शरीरादीनां कारणम् , अमूर्तत्वात् , आकाशादिवत् । अथ पुद्गलधर्मः, तईि कमैवासी, कर्मणोऽपि हि पुद्गलास्तिकायधर्मत्वेनास्माभिरभ्युपगतत्वादिति ॥१७९२।। किञ्च, कम्मस्स वि परिणामो सुहम्म ! धम्मो स पोग्गलमयस्स। हेऊ चित्तो जगओ होइ सहावो त्ति को दोसो ?॥१७९३॥ सुधर्मन् ! असौ वस्तुधर्मो भवत्स्वभावो धर्मो भवतु, को दोषः ?-न कश्चित् , युक्तियुक्तत्वात् । किंविशिष्टो धर्मः ? इत्याहपरिणामः । कस्य । कर्मणः । कथंभूतस्य । पुद्गलमयस्य । कथंभूतो यः कर्मपरिणामः ? इत्याह-हेतुः । कस्य ?। जगतः- जगद्वचित्र्यस्य । तदेवं कर्मलक्षणस्य वस्तुनः कर्मपरिणामरूपो धर्मो भवति स्वभावः, नात्र काचिद् दोषापत्तिः । अस्माकमपि समतोऽयमर्थः, केवलं सर्वदा सदृशोऽसौ न भवति, किन्तु चित्रो मिथ्यात्वादिहेतुवैचित्र्याद् विचित्रो विविधस्वभावः । अतो न तस्मात् परभत्रे सादृश्यमेव, किन्तु विचित्ररूपतेति ॥ १७९३ ॥ यदिवा, किमनेनाव्यापकेन, मिथ्यारूपेण चैकान्तवादेन ? । सर्वव्यापकम् , अवितथरूपं चानेकान्तवादमेव दर्शयन्नाहअहवा सव्वं धत्थु पइक्खणं चिय सुहम्म ! धम्मेहिं । संभवइ वेइ केहि वि केहि वि तदवत्थमचंतं ॥१७९४॥ तं अप्पणो वि सरिसं न पुव्वधम्मेहिं पच्छिमिल्लाणं । सयलस्स तिहुअणस्स च सरिसं सामण्णधम्महि ॥१७९५॥ व्याख्या- अथवा, सुधर्मन् ! किमेक एव परभवः ?, सर्वमेव हि घट-पटादिकं भुवनान्तर्गतं वस्तु कैश्चित् पूर्वपर्यायैः समाना-ऽसमानपर्यायः प्रतिक्षणमुत्पद्यते, कैश्चित् पुनरुत्तरपर्यायैः समाना-समानपर्यायैर्येति व्युपरमति, कैश्चित्तु तदवस्थमेवास्ते । ततश्चैवं सति तद्वस्त्वात्मनोऽपि पूर्वपूर्वधमैरुत्तरोत्तरधर्माणां न सदृशम् , किं पुनरन्यवस्तूनाम् ?; सामान्यधर्मेस्तु सर्वस्यापि त्रिभुवनस्य समानम् , किं पुनरेकस्यैव निजपूर्वजन्मनः ? इति ॥ १७९४ ॥ १७९५ ॥ ___ततः किं स्थितम् ? इत्याह कर्मणोऽपि परिणामः सुधर्मन् ! धर्मः स पुद्गलमयस्य । हेतुश्चित्रो जगतो भवति स्वभाव इति को दोषः ।। १७९३ ॥ २ अथवा सर्व वस्तु प्रतिक्षणमेव सुधर्मन् ! धर्मैः । संभवति व्येति कैरपि कैरपि तदवस्थमत्यन्तम् ॥ १७९४ ॥ वदात्मनोऽपि सरशं न पूर्वधर्मः पाश्चात्यानाम् । सकलस्य त्रिभुवनस्य च सदृशं सामान्यधमैंः ।। १७९५ ॥ ॥७५६। Jain Education Internat Forson and Private Use Only ISAN Page #159 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । ॥७५७|| को सव्वहेव सरिसो असरिसो वा इहभवे परभवे वा ? सरिसासरिसं सव्वं निच्चानिच्चाइरूवं च ॥१७९६॥ को ह्यर्थोऽर्थान्तरैरात्मना वा सहेहभवेऽपि सर्वथा सदृशोऽसदृशो वा, किं पुनः परभवे । तस्मात् सर्वमपि वस्तु सर्वेणापि सह समाना-ऽसमानरूपमेवेहभवेऽपि, इति कुतः परभवे सादृश्यमेव प्रतिज्ञायते भवता ? इति भावः। तथा, सर्वमपि नित्या-अनित्याधनन्तधर्मात्मकमिति ॥ १७९६ ॥ अमुमेवार्थ दृष्टान्तेन प्रतिपादयितुमाहजेह नियएहिं वि सरिसोन जुवा भुवि बाल-वुड्ढधम्मेहिं । जगओ वि समोसत्ताइएहिं तह परभवे जीवो॥१७९७॥ यथेह युवा निजैरप्यतीता-ऽनागाल-वृद्धत्वादिपर्यायैरात्मनोऽपि सर्वथा न समानः, सत्तादिभिस्तु सामान्यपर्यायैर्जगति न केनचिद् न समानः, तथायमपि जीवः परलोकं गतः सर्वेणापि सह समाना-ऽसमानरूप एव, इति कुतः सर्वथा सादृश्यम् ? इति ॥ १७९७॥ एतदेव दृष्टान्तेन भावयति मणुओ देवीभूओ सरिसो सत्ताइएहिं जगओ वि । देवाईहि विसरिसो निच्चानिच्चो वि एमेव ॥१७९८॥ मनुष्यो मृत्वा देवत्वमापन्नो जगत्त्रयस्यापि सत्तादिभिः पर्यायैः सदृशः, देवत्वादिभिस्तु विसदृशः, इति नैकान्तेन कापि सदृशता । तथा, द्रव्यतयाऽसौ नित्यः, पर्यायतया त्वनित्य इत्याद्यपि वक्तव्यम् । अत्राह- नन्वस्माभिरपि नैकान्तेन परभवे सादृश्यमभ्युपगम्यते, किन्तु समानजात्यन्वयमात्रमेवेष्यते, पुरुषादिमतः पुरुषादिरेव भवतीति । एतदप्ययुक्तम् , कर्मजनितो हि परभव इति साधितम् । तच्च मिथ्यात्वादिविचित्र हेतुजन्यत्वाद् विचित्रमेवेति, अतस्तजन्यः परभवो विचित्र एव युज्यते, न तु समानजात्यन्वयः सिध्यतीति ।। १७९८ ॥ ,कः सर्वथैव सरशोऽसरशो वेहभवे परभवे वा ! । सदशासदृशं सर्वं नित्यानित्यादिरूपं च ॥ १७९६ ॥ २ यथा निजकैरपि सदशो न युवा भुवि वाल-वृद्धधमैंः । जगतोऽपि समः सत्तादिकैस्तथा परभवे जीवः ॥ १७९७ ॥ । मनुजो देवीभूतः सदशः सत्तादिकैर्जगतोऽपि । देव स्वादिभिर्विसहमो नित्यानित्योऽप्येवमेव ॥ १.९८ ॥ ८॥७५७|| Jai Education Internat For Personal and Private Use Only AW ww.jaineltrary.org Page #160 -------------------------------------------------------------------------- ________________ विशेषा० ॥७५८ ।। Jain Educationa Internation किञ्च, उक्करिसा ऽवक्करिसा न समाणाए वि जेण जाईए । सरिसग्गाहे जम्हा दाणाइफलं विहा तम्हा ॥ १७९९ ॥ सदृशग्रहे समानजातीयताग्रहे सति समानायामपि जातौ येन यस्मादीश्वर-दरिद्र कुलीना-कुलीनादिरूपेणोत्कर्षा ऽपकर्षो न घटां प्राञ्चतः। यो हि यादृश इहभवे, स यदि परभवेऽपि तादृश एव, तर्हि य इह भवे ईश्वरः स परभवेऽपि तादृश एव, एवं दरिद्रादिष्वपि वाच्यम् । तत भवात् परभवे सर्वप्रकारैरप्युत्कर्षापकर्षो न स्याताम्, किन्त्वेकान्तसदृशत्वे भवेत् । 'तम्ह त्ति' तस्माद् मोक्तव्योऽयं सादृश्यग्रह इति मक्रमाद् द्रष्टव्यम् । अथेत्थमाचक्षीथाः- मा भूतामुत्कर्षापकर्षो का नो हानिः ? इत्याह- 'जम्हा दाणाइफलं विह त्ति' चकारस्य गम्यमानत्वाद् यस्माच्चेत्थं परत्रोत्कर्षा ऽपकर्षयोरभावे दानादिफलं वृथा संपद्यते । लोको हि परत्र देवादिसमृद्धिमाप्त्याऽऽत्मन उत्कर्षार्थ दानादिप्रवृत्तिं विदधाति । यदि चोक्तयुक्त्योत्कर्षायभावाद् दरिद्रो दान- तपस्-तीर्थावगाहनाद्यपि कृत्वाऽमुत्र दरिद्र एव स्यात्, तहिं क तद्दानादिफलम् ? इत्यपार्थिका दानादौ प्रवृत्तिः, तस्माद् न विधेयः सादृश्यग्रह इति ।। १७९९ । अपिच, एतस्मिन् सादृश्यग्रहे वेदपदानामप्यप्रामाण्यमापद्यत इति दर्शयन्नाह - जं च सिगालो वइ एस जायए वेयविहियमिच्चाइं । सग्गीयं जं च फलं तमसंबद्ध सरिसयाए । १८०० ॥ यच्च "शृगालो वै एष जायते यः सपुरीषो दह्यते" इत्यादि वेदविहितं तदपि परभवसदृशताग्रहेऽसंबद्धमेव स्यात्, पुरुषादेरमुत्र शृगालतयानुपपत्तेः, तथा, यदपि " अग्निहोत्रं जुहुयात् स्वर्गकामः" तथा " अग्निष्टोमेन यमराज्यमभिजयति" इत्यादिकं स्वर्गीयफलसूचकत्वात् स्वर्गीयं फलं तदप्यसंबद्धं भवेत्, मनुष्यस्य त्वदभिप्रायेण देवत्वानुपपत्तेरिति । "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादीनां च वेदपदानामयमर्थ:- कोऽपि पुरुषः खल्विह जन्मनि प्रकृत्या भद्रको विनीतः सानुक्रोशोऽमत्सरश्च मनुष्यनाम-गोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्नुते, न तु नियमेन सर्व एव अन्यस्यान्यकर्मवशगस्यान्यथाप्युत्पत्तेः । एवं पशवोऽपि केचिद् मायादिदोषवशात् पशुनाम गोत्रे कर्मणी बद्ध्वा परभवे पशवो जायन्ते, न तु सर्वेऽपि, नियमेन कर्मापेक्षित्वाज्जीवगतेरिति । तदेवं तस्यापि च्छिन्नः संशयः ॥ १८०० ॥ १ उत्कर्षापकर्षो न समानायामपि येन जातौ । सदृशग्रहे यस्माद् दानादिफलं वृथा तस्मात् ॥ १७९९ ॥ १ यच शृगालो वै एष जायते वेदविहितमित्यादि । स्वर्गीयं यच फलं तदसंबद्धं सदृशतायाम् ॥ १८५० For Personal and Private Use Only बृहद्वृत्तिः । ।।७५८ ।। www.jainellbrary.org Page #161 -------------------------------------------------------------------------- ________________ विशेषा ७५९॥ ततः किम् ? इत्याह'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥१८.१बहत्तिः। गाथा सव्याख्यानापि पूर्ववत् ।। इति द्वात्रिंशद्गाथार्थः ॥१८०१॥ ॥ इति पञ्चमो गणधरवादः समाप्तः ॥ अथ षष्ठगणधरवक्तव्यतां विभणिषुराहते पव्वइए सोउं मंडिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ १८०२॥ व्याख्या पूर्ववत् , नवर मण्डिको नाम षष्ठो द्विजोपाध्यायः श्रीमज्जिनसकाशमागच्छतीति ॥ १८०२॥ ततः किम् ? इत्याहआभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सब्वण्णू सव्वदरिसी णं ॥ १८०३ ॥ व्याख्या पूर्ववदिति ॥ १८०३ ।। नाम-गोत्राभ्यामाभाष्य ततः किमुक्तः ? इत्याहकि मन्ने बंध-मोक्खा संति न संति त्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१८०४॥ मण्डिक ! त्वमित्थं मन्यसे-किं बन्ध-मोक्षौ स्तो नवा ? इति । अयं चानुचितस्तव संशयः, विरुद्धवेदपदश्रुतिनिबन्धनत्वात् , तथाहि-" स एप विगुणो विभुने बध्यते संसरति वा, न मुच्यते मोचयति वा, नवा एष बाह्यपभ्यन्तरं वा वेद" इत्यादीनि वेदपदानि तथा, "न ह वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः" इत्यादीनि च । एतेषां चार्थ त्वं न जानासि, यतोऽयमेतदर्थस्तव चेतसि वर्तते, तद्यथा-स एषः- अधिकृतो जन्तुः, विगुणः- सत्त्व-रजस्-तमोगुण| रहितः, विभुः- सर्वगतः, न बध्यते- पुण्य-पापाभ्यां न युज्यत इत्यर्थः, संसरति वा 'न' इत्यनुवर्तते, न मुच्यते-न कर्मणा वियुज्यते, ||७५९॥ १ गाथा १६०४। २ तान् प्रव्रजितान् श्रुत्वा मण्डिक आगच्छति जिनसकाशम् । प्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १८०२ ॥ ३ गाथा १६०९। ४ किं मन्यसे बन्ध-मोक्षी स्तोन स्त इति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ।। १८०४ ॥ Horroजामा SERIOR For Personal and Private Use Only Page #162 -------------------------------------------------------------------------- ________________ विशेषा० ॥७६०॥ बन्धस्यैवाभावात्; मोचयति वा नान्यम्, इत्यनेनाकर्तृकत्वमाह; नवा एष बाह्यम्- आत्मभिन्नं महदहङ्कारादि, अभ्यन्तरं - निजस्वरूपमेव, वेद - विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्वा चेतनत्वात् । ततश्चामूनि किल बन्ध-मोक्षाभावप्रतिपादकानि । तथा, न ह वै नैवेत्यर्थः सशरीरस्य प्रिया-प्रिययोर पहतिरस्तीति- बाह्या-ऽऽध्यात्मिकानादिशरीरसंतानयुक्तत्वात् सुख-दुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तं- अमूर्तमित्यर्थः, प्रिया-प्रिये न स्पृशतः, तत्कारणभूतस्य कर्मणोऽभावादित्यर्थः । अमूनि च बन्धमोक्षाभिधायकानीति । अतः संशयः । तत्र “ स एष विगुणो विभुः" इत्यादीनां नायमर्थः किन्त्वयं वक्ष्यमाणलक्षण इति ॥ १८०४ || अत्र भाष्यम् – 'तं मन्नसि जइ बंधो जोगो जीवस्स कम्मुणा समयं । पुव्वं पच्छा जीवो कम्मं व समं व ते होज्जा १ ॥ १८०५ ॥ 'वेयपयाण य' इत्यत्र चशब्दाद् युक्तिं च त्वं न जानाति । कुतः ? यस्मादायुष्मन् मण्डिक! त्वमेवं मन्यसे- जीवस्य बन्धो यदि कर्मणा समकं सार्धं योगः संयोगोऽभिप्रेतः स खल्वादिमान्, आदिरहितो षा ? । यद्यादिमान् ततः किं पूर्व जीवः प्रसूयेत पश्चात् कर्म, पूर्व वा कर्म पश्चाज्जीवः प्रसूयेत, समं वा युगपद् वा तौ द्वावपि प्रसूयेयाताम् ? इति पक्षत्रयमिति ।। १८०५ ॥ अत्राद्यपक्षस्य दूषणमाह - fe youtऊओ खरसंगं वायसंभवो जुत्तो । निक्कारणजायरस य निक्कारणउ च्चिय विणासो ॥ १८०६ ॥ 'पूर्व जीवः पश्चात्कर्म' इत्येतदयुक्तम्, यतो न कर्मणः पूर्व 'खरसंगं वायसंभवो जुत्तो' खरशृङ्गस्येवात्मनः संभवो युक्तः, अहेतुकत्वात् इह यदहेतुकं तद् न जायते, यथा खरशृङ्गम् यश्च जायते तद् निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्यादिति ।। १८०६ ।। अमेव विकल्पं दूषयितुमाह - अहवाऽणाइ च्चिय सो निक्कारणओ न कम्मजोगो से । अह निक्कारणओ सो, मुक्कस्स वि होहिइ स भुज्जो ॥ १८०७ ॥ १ त्वं मन्यसे यदि बन्धो योगो जीवस्य कर्मणा समकम् । पूर्व पश्चाज्जीवः कर्म वा समं वा ते भवेताम् ? ॥ १८०५ ॥ २ न हि पूर्वमहेतोः खरशृङ्गमिवात्मसंभवो युक्तः । निष्कारणजातस्य च निष्कारणक एव विनाशः ॥ १८०६ ॥ ३ अथवाऽनादिरेव स निष्कारणको न कर्मयोगस्तस्य । अथ निष्कारणः सः, मुक्तस्यापि भविष्यति स भूयः ॥ १८०७ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥७६०/ www.jainelibrary.ing Page #163 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा ॥७६१॥ अथ चेत् कर्मणः पूर्वमात्माऽनादिकालसिद्ध एव, इति किं तस्य सहेतुक-निर्हेतुकचिन्तया ? इति । अत्रोच्यते- 'निकारणओ इत्यादि' यद्येवम् , ततः 'से' तस्य जीवस्य कर्मयोगः कर्मवन्धो न प्राप्नोति, अकारणत्वात् , नभस इव । अथ निष्कारणोऽप्यसौभवति, तर्हि मुक्तस्यापि भूयः स भविष्यति, निष्कारणत्वाविशेषात् , ततश्च मुक्तावप्यनाश्वास इति ॥ १८०७॥ यदिवा, होज स निच्चमुक्को बंधाभावम्मि को व से मोक्खो ?। न हि मुक्कव्ववएसो बंधाभावे मओ नभसो ॥१८०८॥ अथवा, कर्मयोगाभावाद् नित्यमुक्त एवासौ भवेत् । यदिवा, बन्धाभावे कः किल तस्य मोक्षव्यपदेशः? । न ह्यबद्धस्य नभसः कस्यापि मुक्तव्यपदेशो मतः, बन्धपूर्वकत्वाद् मोक्षस्य । तस्माद् न 'पूर्व जीवः पश्चात् कर्म' इति प्रथमविकल्प इति ॥ १८०८ ॥ अथ 'पूर्व कर्म पश्चाज्जीवः, युगपद् वा द्वावपि' इति पक्षद्वयस्य प्रतिविधानमाहने य कम्मस्स वि पुव्वं कत्तुरभावे समुब्भवो जुत्तो । निक्कारणओ सो वि य तह जुगवुप्पत्तिभावे य ॥१८०९॥ न हि कत्ता कजं ति य जुगवुप्पत्तीए जीव-कम्माणं । जुत्तो ववएसोऽयं जह लोए गोविसाणाणं ॥१८१०॥ न च जीवात् पाक् कर्मणोऽपि समुद्भवो युक्तः, कर्तुर्जीवस्य तदानीमभावात् , अक्रियमाणस्य च कर्मत्वायोगात् , निष्कारणश्वेत्थमसौ कर्मसमुद्भवः स्यात् , ततोऽकारणजातस्याकारणत एव विनाशोऽपि स्यादिति । तथा, युगपदुत्पत्तिभावे च 'प्रत्येकपक्षोक्ता दोषाः वाच्याः" इति शेषः-निर्हेतुकत्वात् प्रत्येकवदुभयस्यापि समुदितस्यानुत्पत्तिरित्यादि । न च युगपदुत्पन्नयोर्जीव-कर्मणोः कर्तृ-कर्मभावो युज्यत इत्येतदेवाह- 'न हीत्यादि' न हि युगपदुत्पन्नयोर्जीव-कर्मणोः 'अयं जीवः कर्ता' 'इदं वा ज्ञानावरणादिपुद्गलनिकुरम्बं कर्य' इति व्यपदेशो युज्यते, यथा लोके सव्ये-तरगोविषाणयोरिति ॥ १८०९ ॥ १८१० ।। द्वितीय मूलविकल्पमधिकृत्याह , भवेत् स नित्यमुक्तो बन्धाभावे को वा तस्य मोक्षः। न हि मुक्तव्यपदेशो बन्धाभावे मतो नभसः ॥ १८०८ ॥ २ न च कर्मणोऽपि पूर्व कर्तुरभावे समुद्भवो युक्तः । निष्कारणकः सोऽपि च तथा युगपदुत्पत्तिभावे च ॥ १८०९ ॥ नहि कर्ता कार्यमिति च युगपदुत्पची जीव-कर्मणोः । युक्तो व्यपदेशोऽयं यथा लोके गोविषाणयोः ॥ 161.॥ 21 I७३ ASTRA Jan Education Internation Foron and Private Use Only Page #164 -------------------------------------------------------------------------- ________________ विशेषा० ॥७६२॥ 'होजाणाईओ वा संबंधो तह विन घडए मोक्खो । जोऽणाई सोऽणंतो जीव-नहाणं व संबंधो ॥१८११॥ स्यादेतत् , अनादिरेव जीव-कर्मणोः संबन्धः संयोगः । ननु तथापि मोक्षो न घटते, यस्माद् योऽनादिः संयोगः सोऽनन्तो वृहद्वत्तिः । दृष्टः, यथा जीव-नभसोः । न ह्याकाशेन सह जीवस्य कदाचिदपि संयोगो निवर्तते । एवं कर्मणापि सहासौ न निवर्तेत, तथाच सति मुक्त्यभावप्रसङ्ग इति ॥ १८११ ।। उपसंहरन्नाह--- | इय जुत्तीए न घटइ सुव्वइ य सुईसु बंध-मोक्खा त्ति । तेण तुह संसओऽयं न य कजोऽयं जहा सुणसु ॥१८१२॥ इत्येवं युक्तयुक्त्या बन्धो मोक्षश्च न घटते, श्रूयते च श्रुतिषु वेदवाक्येष्वसौ । ततस्तव संशयोऽयम् । यथा चार्य न कार्यस्तथा शृणु सौम्य ! इति । उक्तः पूर्वपक्षः ।। १८१२ ॥ अत्र प्रतिविधीयते- तत्र यत् तावदुक्तम्- 'कि पूर्व जीवः पश्चात् कर्म, उत व्यत्ययः?" इत्यादि । तत् सर्वमयुक्तम् । कुतः ? इत्याह संताणोऽणाईओ परोप्परं हेउन्हेउभावाओ । देहस्स य कम्मस्स य मंडिय ! बीयं-कुराणं व ॥१८१३॥ शरीर-कर्मणोरनादिः संतान इति प्रतिज्ञा, परस्परं हेतु-हेतुमद्भावात् , बीजाङ्कुरवदिति । ततश्च 'किं पूर्व जीवः पश्चात् कर्म ?' इत्यादि प्लवत एव, अनादित्वात् तत्संतानस्येति ।। १८१३ ॥ एतदेव कर्मसंतानस्यानादित्वं साधयन्नाहअत्थि स देहो जो कम्मकारणं जो य कजमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्णस्स ॥१८१४॥ अस्ति स कश्चिद् देहो योऽग्रेतनस्य कर्मणः कारणम् , यश्चान्यस्यातीतस्य कर्मणः कार्यम् । तथा, कर्मापि समस्ति । किंवि , भवेदनादिको वा संबन्धस्तथापि न घटते मोक्षः । योऽनादिः सोऽनन्तो जीव-नभसोरिव संबन्धः॥१८११॥ २ क.ग. 'मुक्ताभा'। ३ इति युक्त्या न घटते श्रूयते च श्रुतिषु बन्ध-मोक्षाविति । तेन तव संशयोऽयं न च कार्योऽयं यथा शृणु ॥ १४१२ ॥ ४ घ.ज.स.'मोक्यो त्ति' PRIMEn ५ क.ग. 'सुणेसु'। संतानोऽनादिकः परस्परं हेतु-हेतुमद्भावात् । देहस्य च कर्मणश्च मण्डिक ! बीजा-गुरबोरिव ॥ १८१३ ॥ ७ ज.'दि पूर्ववदेव, अ'। ८ अस्ति स देहो यः कर्मकारणं यश्च कार्यमन्यस्य । कर्म च देहकारणमस्ति च यत् कार्यमन्यस्य ॥ १८१४ ॥ O कास For and Prive Onty Page #165 -------------------------------------------------------------------------- ________________ विशेषा० ॥७६३॥ Jain Educationa Internationa शिष्टम् १ इत्याह- यदग्रेतनस्य देहस्य कारणम्, यच्चान्यस्यातीतस्य देहस्य कार्यमिति । एवमनादौ संसारे न कचिद् विश्राम्यति, अतोऽनादिर्देह-कर्मसंतान इति । आह-- ननु बन्ध-मोक्षाविह साधयितुं प्रस्तुतौ ततः कर्मसंतानस्यानादित्वसाधनमसंबद्धमिव लक्ष्यते । तदयुक्तम्, अभिप्रायापरिज्ञानात्, न कृतं कर्म संभवति 'क्रियत इति कर्म' इति व्युत्पत्तेः यच्च तस्य करणमसावेव बन्ध इति कथं न तत्सिद्धिः १ ॥ १८१४ ।। ननु यदि क्रियत इति कर्मोच्यते, तर्हि कोऽस्य देहस्य च कर्ता १, इत्याह कत्ता जीवो कम्मरस करणओ जह घडस्स घडकारो । एवं चिय देहस्स वि कम्मकरणसंभवाउ ति ॥ १८१५ ।। कर्ता चात्र कर्मणो जीवः, करणसमेतत्वात् दण्डादिकरणयुक्तकुलालवद् घटस्य करणं चेह जीवस्य कर्म निर्वर्तयतः शरीरमवगन्तव्यम् | एवं देहस्याप्यात्मैव कर्ता, कर्मरूपं करणं कर्मकरणं तत्संभवात् तद्युक्तत्वात्, दण्डादिकरणसमेत कुलालवदिति॥१८१५।। अथात्र मे परिहारं चाह मं करणमसिद्धं व ते मई कज्जओ तयं सिद्धं । किरियाफलओ य पुणो पडिवज्ज तमग्गिभूइ व्व ॥ १८१६ ॥ स्यादेतत्, अतीन्द्रियत्वेनासिद्धत्वात् कर्मणः करणत्वमसिद्धम् । तदयुक्तम्, यतः कार्यतः कार्यद्वारेण तत् सिद्धमेव, तथाहिविद्यमान करणं शरीरादि, कृतकत्वात्, घटादिवत् यच्चास्य करणं तत् कर्मैव तस्मादस्त्येव तत् । अथवा, विद्यमानकरणमेवात्मशरीरलक्षणं द्वयम्, कर्तृ-कार्यरूपत्वात्, कुलाल-घटादिवत् । यच्च कर्तुरात्मनः शरीरमुत्पादयतः करणं तत् कर्मेति कथं न तत्सिद्धिः । तथा, फलवत्यो दानादिक्रियाः, चेतनारब्धक्रियारूपत्वात्, कृष्यादिक्रियावत् यच्च तासां फलं तत् कर्म । इत्यग्निभूतिरिव त्वमपि प्रतिपद्यवेति ।। १८१६ ॥ चोक्तम्- 'योऽनादिः संयोगः सोऽनन्तो दृष्टः' इत्यादि । तत्राह - जैं संताणोऽणाई तेणाणतोऽवि णायमेगंतो । दीसइ संतो वि जओ कत्थइ बीर्य-कुराईणं ॥ १८१७ ॥ १ कर्ता जीवः कर्मणः करणतो यथा घटस्य घटकारः । एवमेव देहस्यापि कर्मकरणसंभवादिति ॥ १८१५ ॥ २ कर्म करणमसिद्धं वा तव मतिः कार्यंतस्तत् सिद्धम् । क्रियाफलतश्च पुनः प्रतिपद्यस्व तदग्निभूतिरिव ॥ १८१६ ॥ ३ यत् संतानोऽनादिस्तेनानन्तोऽपि नायमेकान्तः । दृश्यते सन्नपि यतः कुत्रापि बीजा ऽङ्कुरादीनाम् ॥ १८१७ ॥ For Personal and Private Use Only बृहद्वतिः । ॥७६३॥ Page #166 -------------------------------------------------------------------------- ________________ विशेषा० ॥७६४॥ Jain Education Internation 'यद् यस्माज्जीव- कर्मसंयोगसंतानोऽनादिस्तेन तस्मादनन्तोऽपि' इति नायमेकान्तः, यतोऽनादिरपि संयुक्तयोर्वस्तुनोः संतानः सान्तोऽपि कचिद् दृश्यते, यथा बीजाङ्कुरादीनां संतान इति ।। १८१७ ।। तथाहि- अण्णयरमणिव्वत्तियकज्जं बीयं- कुराण जं विहयं । तत्थ हओ संताणो कुक्कुडि-अंडाइयाणं च ॥ १८१८ ॥ जह वह कंचणो-वलसंजोगोऽणाइसंतइगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीव-कम्माणं ॥ १८१९ ॥ बीजा-रयोर्मध्येऽन्यतरदनिर्वर्तितकार्यमेव यद् विहतं व्यवच्छिन्नं तत्रानयोर्हतो व्यवच्छिन्नः संतानः । एवं कुक्कुट्यऽण्डयोः, पिता-पुत्रयोरपि च वक्तव्यम् । यथा वा काश्चनो- पलयोरनादिकालमवृत्तसंतानभावगतोऽपि संयोगः सोपायमनितापाद्युपायाद् व्यवच्छियते, तथा जीव- कर्मणोरपि संयोगोऽनादिसंतानगतोऽपि तपः- संयमाद्युपायाद् व्यवच्छिद्यते इति न मोक्षाभाव इति ।। १८१८ ।। १८१९ ॥ अत्र परस्य प्रश्नमुपन्यस्योत्तरमाह - तौ किं जीव-नहाण व अह जोगो कंचणो-वलाणं व १ । जीवरस य कम्मरस य भण्णइ दुविहो वि न विरुद्धो ॥ १८२०॥ पढमोऽभव्वाणं चिय भव्वाणं कंचणो वलाणं व । जीवत्ते सामण्णे भव्वोऽभव्यो त्ति को भेओ १ ॥ १८२१ ॥ आह- जीवस्य कर्मणश्च योऽयं परस्परं योगः सोऽनादिः सन् किं जीव-नभसोरिवानन्तः, अथ काञ्चनो- पलयोरिव सान्तोऽपि स्यात् १, उभयथापि दर्शनात् किमत्र प्रतिपद्यामहे । भण्यतेऽत्रोत्तरम् - द्विधाऽप्ययमविरुद्धः, तत्र प्रथमोऽनाद्यनन्तरूपोऽभव्यानां द्रष्टव्यः । यस्तु काञ्चनो-पलयोरिवानादिः सान्तोऽसौ भव्यानां विज्ञेयः । आह- ननु जीवत्वसाम्येऽपि 'अयं भव्यः' 'अयं चाभव्यः' इति किंकृतोऽयं विशेष: ? । न च वक्तव्यम् - यथा जीवस्वे समानेऽपि नारक तिर्यगादयो विशेषास्तथा भव्या-भव्यत्वविशेषोऽपि १ अन्यतरदनिर्वर्तितकार्य बीजा-रयोर्यद् विहतम् । तत्र हतः संतानः कुक्कुट्यः ऽण्डादिकानां च ॥ १८१८ ॥ २ घ. ज. 'योरन्य' । यथा वह काञ्चनो-पलसंयोगोऽनादिसंततिगतोऽपि व्यवच्छिद्यते सोपायं तथा योगो जीव-कर्मणोः ॥ १८१९ ॥ ३ ततः किं जीव-नभसोरिवाथ योगः काञ्चनो-पलयोरिव ? जीवस्य च कर्मणश्च भण्यते द्विविधोऽपि न विरुद्धः ॥ १८२० ॥ प्रथमोऽभव्यानामेव भव्यानां काञ्चनो- पलयोरिव। जीवत्वे सामान्ये भव्योऽभव्य इति को भेदः ? ॥ १८२१ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥७६४॥ www.jaincibrary.org. Page #167 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वतिः । PHOTOHAGRA ॥७६५॥ भविष्यतीति, यतः कर्मजनिता एव नारकादिविशेषाः, न तु स्वाभाविकाः। भव्या भव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु, को निवारयिता, न चैवमिति ॥ १८२० ॥ १८२१ ।। एतदेवाह होउ जइ कम्मकओ न विरोहो नारगाइभेउ ब्व। भणह य भवा-ऽभब्वा सभावओ तेण संदेहो ॥१८२२॥ भवतु वा यदि कर्मकृतोऽयं भन्या-ऽभव्यत्वविशेषो जीवानामिष्यते, नात्र कश्चिद् विरोधः, नारकादिभेदवत् , न चैतदस्ति, यतो 'भव्या ऽभव्याः स्वभावत एव जीवा न तु कर्मतः' इति यूयं भणथ, तेनास्माकं संदेह इति ।। १८२२ ॥ परेणैवमुक्ते सत्याह देव्वाइत्ते तुल्ले जीव-नहाणं सभावओ भेओ । जीवा-ऽजीवाइगओ जह, तह भब्वे-यरविसेसो ॥ १८२३ ॥ यथा जीव-नभसोर्द्रव्यत्व-सत्त्व-प्रमेयत्व-ज्ञयत्वादौ तुल्येऽपि जीवा-जीवत्व-चेतना-चेतनत्वादिस्वभावतो भेदः, तथा जीवानामपि जीवत्वसाम्येऽपि यदि भव्या-ऽभव्यकृतो विशेषः स्यात् , तर्हि को दोषः ? इति ।। १८२३ ॥ इत्थं संबोधितो भव्यत्वादिविशेषमभ्युपगम्य दूषणान्तरमाह एवं पि भव्वभावो जीवत्तं पिव सभावजाईओ। पावइ निच्चो तम्मि य तदवत्थे नत्थि निव्वाणं ॥ १८२४ ॥ नन्वेवमपि भव्यभावो नित्योऽविनाशी प्रामोति, स्वभावजातीयत्वात्- स्वाभाविकत्वात् , जीवत्ववत् । भवत्वेवमिति चेत् । तदयुक्तम् , यतस्तस्मिन् भव्यभावे तदवस्थे नित्यावस्थायिनि नास्ति निर्वाणम् , "सिद्धो न भन्यो नाप्यभव्यः" इति वचनादिति ॥१८२४॥ नैवम् , कुतः ? इत्याहजह घडपुव्वाभावोऽणाइसहावो वि सनिहणो एवं । जइ भव्वत्ताभावो भवेज्ज किरियाए को दोसो ? ॥१८२५॥ T १ भवतु यदि कर्मकृतो न विरोधी नारकादिभेद इव । भणय च भव्या-ऽभव्यान् स्वभावतस्तेन संदेहः ॥ १८२२ ॥ २ व्यादित्वे तुल्ये जीव-नभसोः स्वभावतो भेदः । जीवा-उजीवादिगतो यथा, तथा भव्ये-तरविशेषः ॥ १८२३ ॥ ३ एवमपि भव्यभावो जीवत्वमिव स्वभावजातीयः । प्राप्नोति नित्यस्तस्मिंश्च तदवस्थे नास्ति निर्वाणम् ॥ १८२४ ॥ • यथा घटपूर्वाभावोऽनादिस्वभावोऽपि सनिधन एवम् । यदि भव्यत्वाभावो भवेत् क्रियया को दोषः ॥ १८२५ ॥ For Peso Use Page #168 -------------------------------------------------------------------------- ________________ विशेषा. दृत्तिः। ॥७६६॥ करना PROPERRRRC यथा घटस्य प्रागभावोऽनादिस्वभावजातीयोऽपि घटोत्पत्तौ सनिधनो विनश्वरो दृष्टः, एवं यदि भव्यत्वस्यापि ज्ञान-तपःसचिवचरणक्रियोपायतोऽभावः स्यात् , तर्हि को दोषः संपद्यते - न कश्चिदिति ॥ १८२५ ॥ आक्षेप-परिहारौ पाहअणुदाहरणमभावो खरसंगं पिव मई न त जम्हा । भावो च्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ॥ १८२६ ॥ स्याद् मतिः परस्य- नन्वनुदाहरणमसौ प्रागभावः, अभावरूपतयैवावस्तुत्वात् , खरविषाणवत् । तन्न, यस्माद् भाव एवासौ घटमागभावः, तत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपः, केवलं घटानुत्पत्तिमात्रेण विशिष्ट इति ॥ १८२६ ॥ भवतु तर्हि घटमागभाववद् भव्यत्वस्य विनाशः, केवलमित्थं सति दोषान्तरं प्रसजति । किम् ? इत्याह__ ऐवं भव्वुच्छेओ कोट्ठागारस्स वा अवचउ त्ति । तं नाणंतत्तणओऽणागयकालं-बराणं व ॥ १८२७ ॥ नन्वेवं सति भव्योच्छेदः- भव्यजीवैः संसारः शून्यः प्राप्नोति, अपचयात् । कस्य यथा समुच्छेदः? इत्याह- स्तोकस्तोकाकूप्यमाणधान्यस्य धान्यभृतकोष्ठागारस्य । इदमुक्तं भवति- कालस्यानन्त्यात् षण्मासपर्यन्ते चावश्यमेकस्य भव्यस्य जीवस्य सिद्धिगमनात् क्रमेणापचीयमानस्य धान्यकोष्ठागारस्येव सर्वस्यापि भव्यराशेरुच्छेदः प्रामोतीति । अत्रोत्तरमाह- तदेतद् न, अनन्तत्वाद् भव्यराशेः, अनागतकाला-ऽऽकाशवदिति । इह यद् बृहदनन्तकेनानन्तं, तत् स्तोक-स्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्याऽपचीयमानोऽप्यनागतकालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानः सर्वनभःप्रदेशराशिर्वा । इति न भव्योच्छेदः॥१८२७॥ कुतः इत्याहजं चातीता-ऽणागयकाला तुल्ला जओ य संसिद्धो । एक्को अणंतभागो भव्वाणमईयकालेणं ॥१८२८॥ , अनुदाहरणमभावः खरमिव मतिर्न तद् यस्मात् । भाव एव स विशिष्टः कुम्भानुत्पत्तिमात्रेण ॥ १८२६ ॥ २ एवं भव्योच्छेदः कोष्ठागारस्येवापचय इति । तद् नानन्तत्वतोऽनागतकाला-ऽम्बरयोरिव ॥ १८२७ ॥ ३ पचातीता-नागतकाली तुल्यौ यतश्च संसिद्धः । एकोऽनन्तभागो भव्यानामतीतकालेन ॥ १८२८ ॥ वापर PROHI ॥७६६॥ Forsonal and Private Use Only Page #169 -------------------------------------------------------------------------- ________________ विशेषा० ॥७६७॥ Jain Education Internati ऐस्सेण तत्तिउच्चिय जुत्तो जं तो वि सव्वभव्वाणं । जुत्तो न समुच्छेओ होज्ज मई कहमिणं सिद्धं ? || १८२९ ॥ भव्वाणमणत चणमणंतभागो व किह व मुक्को सिं । कालादओ व मंडिय ! मह वयणाओ व पडिवज्ज ॥ १८३०॥ व्याख्या - यस्माच्चातीता ऽनागतकालौ तुल्यावेव, यतश्वातीतनापि कालेनैक एव निगोदानन्ततमो भागोऽयापि भव्यानां सिद्धः, एष्यतापि भविष्यत्कालेन तावन्मात्र एव भव्यानन्तभागः सिद्धिं गच्छन् युक्तो घटमानकः, न हीनाधिकः, भविष्यतोऽपि कालस्यातीततुल्यत्वात् । तत एवमपि सति न सर्वभव्यानामुच्छेदो युक्तः, सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमन संभवोपदर्शनात् । अथ परस्य मतिर्भवेत् तत् कथमिदं सिद्धं यदुत - अनन्ता भव्याः, तदनन्तभागथ सर्वेणैव कालेन सेत्स्यतीति ? | अत्रोच्यते - काला-ssकाशादय इवानन्तास्तावद् भव्याः, तदनन्तभागस्य च मुक्तिगमनात्, काला-ssकाशयोरिव न सर्वेषामुच्छेद इति प्रतिपद्यस्व मद्वचनाद् वा मण्डिक ! सर्वमेतत् श्रद्धेहीति ।। १८२८ ।। १८२९ ।। १८३० ।। कथं पुनस्त्वद्वचनात् सर्वमेतत् सत्यतया प्रतिपद्यामहे ? इत्याशङ्कयाह- संभूयमिणं गिहसु मह वयणाओऽवसेसवयणं व । सव्वण्णुताइओ वा जाणयमज्झत्थवयणं व ॥ १८३१ ॥ मसि हि सव्वष्णू सव्वेसिं सव्वसंसयच्छेया । दिहंताभावम्मि विपुच्छउ जो संसओ जस्स ॥ १८३२ ॥ व्याख्या - सद्भूतमिदमनन्तरोक्तं सर्वमपीति गृहाण त्वम् मद्वचनत्वात् यथा त्वत्संशयादिविषयमवशेषं मद्वचनम्, सर्वज्ञत्वादित्यादिभ्यो वा हेतुभ्यः, आदिशब्दाद् वीतरागत्वादिपरिग्रहः, ज्ञायकमध्यस्थवचनवदित्ययमत्र दृष्टान्त इति । अथैवं मन्यसे -- कथमिव सर्वज्ञस्त्वम् ? । अत्रोच्यते - सर्वेषां सर्वसंशयच्छेदात् । अन्यस्य सर्वसंशयच्छेत्तुः कस्याप्यदर्शनात् कोऽत्र दृष्टान्तः ? - न कश्चिदिति । अत्रोच्यते किमत्र दृष्टान्तान्वेषणेन १ । तदभावेऽपि हि यो यस्य संशयः स तं सर्वमपि पृच्छतु, येन स्वप्रत्ययसिद्ध एव मयि सर्वज्ञत्वनिश्चयो भवतीति ।। १८३१ ।। १८३२ ।। १ एष्यता तावानेव युक्तो यत् ततोऽपि सर्वभव्यानाम्। युक्तो न समुच्छेदो भवेद् मतिः कथमिदं सिद्धम् ? ॥ १८२९ ॥ भव्यानामनन्तत्वमनन्तभागो वा कथं वा मुक्त एषाम् ? कालादय इव मण्डिक ! मम वचनाद् वा प्रतिपचस्व ॥ १८३० ॥ २ सद्भूतमिदं गृहाण मद्वचनादवशेषवचनमिव । सर्वज्ञतादितो वा ज्ञायकमध्यस्थवचनमिव ॥ १८३१ ॥ मन्यसे कथं सर्वज्ञः सर्वेषां सर्वसंशयच्छेदात् । दृष्टान्ताभावेऽपि पृच्छतु यः संशयो यस्य ॥ १८३२ ॥ For Personal and Private Use Only बृहद्वतिः । ॥७६७॥ www.janetary.ing Page #170 -------------------------------------------------------------------------- ________________ विशेषा. ॥७६८॥ अत्र प्रेरकः प्राहभव्वा वि न सिज्झिस्संति केइ कालेण जइ वि सव्वेण । नणु ते वि अभव्व च्चिय किंवा भव्बत्तणं तेसिं ?॥१८३३॥ ननु भव्या अपि सन्तो यदि सर्वेणापि कालेन सर्वेऽपि न सेत्स्यन्ति, तर्हि येषां सिद्धिर्न भविष्यति, अभव्या एव ते किं न व्यपदिश्यन्ते ? केन वा विशेषेण तेषां भव्यत्वम् ? इति निवेद्यतामिति ॥ १८३३ ।। अत्रोत्तरमाहभैण्णइ भव्वोजाग्गोन य जोग्गत्तेण सिज्झए सव्वो। जह जोग्गम्मि विदलिए सव्वम्मिन कीरए पडिमा ॥१८३४॥ भण्यतेऽत्रोत्तरम् । किम् ? इत्याह- भव्योऽत्र सिद्धिगमनयोग्योऽभिप्रेतः, न तु यः सिद्धिगतिं यास्यत्येव, न च योग्यतमस्तीत्येतावतैव सर्वः सिध्यति, किन्तु सिद्धिगमनसामग्रीसंभवे सति । दृष्टान्तमाह- यथा हेम मणि-पाषाण-चन्दन-काष्ठादिके योग्येऽपि प्रतिमाहेऽपि दलिके न सर्वस्मिन् प्रतिमा विधीयते, किन्तु यत्रैव तनिष्पत्तियोग्या सामग्री संभवति तत्रैवासौ क्रियते । न च तदसंभवमात्रेण प्रतिमाविषयेऽयोग्यता भवति । नियमश्वेह नैवं विधीयते यदुत-प्रतिमायोग्य वस्तुनि प्रतिमा भवत्येवेति, किन्तु यदा तदा वा तद्योग्य एव सा भवति, नान्यत्रेतिएवमिहापि न 'भव्यः' इत्येतावन्मात्रेणैव सर्वः सिध्यति, किन्तु सामग्रीसंपत्ती, न च तदसंपत्तावपि तस्याभव्यता भवति, किन्तु यदा तदा वा भव्यस्यैव मुक्ति भव्यस्येति ॥ १८३४ ॥ दृष्टान्तान्तरमाहजह वा स एव पासाण-कणगजोगो विओगजोग्गो वि।न विजुज्जइ सव्वो च्चिय स विजुज्जइ जस्स संपत्ती ॥१८३५॥ किं पुण जा संपत्ती सा जोग्गरसेव न उ अजोग्गस्स। तह जो मोक्खो नियमा सो भव्याणं न इयरेसिं ॥ १८३६ ॥ व्याख्या- यथा वा स एव पूर्वोक्तः सुवर्णपाषाण-कनकयोर्योगो वियोगयोग्यतान्वितोऽपि सर्वो न वियुज्यते, किन्तु स एव SION . भव्या अपि न सेत्स्यन्ति केऽपि कालेन यद्यपि सर्वेण । ननु तेऽप्यभव्या एवं किंवा मध्यावं तेषाम् ॥ १८३३ ॥ २ भण्यते भन्यो योग्यो न च योग्यत्वेन सिध्यति सर्वः । यथा योग्येऽपि दलिक सर्वस्मिन् न क्रियते प्रतिमा ॥ १८३४ । ३ यथा वा स एव पाषाण-कनकयोगो वियोगयोग्योऽपि । न वियुज्यते सर्व एव स वियुज्यते यस्य संप्राप्तिः ॥ १८३५॥ किं पुन्या संप्राप्तिः पा योग्यस्यैव न त्वयोग्यस्य । तथा यो मोक्षो नियमात् स भव्यानां नेतरेषाम् ॥ १८३६ ॥ ||७६८॥ Jan Education Internatio FOR P and Private Use Only www.jaineibrary.org Page #171 -------------------------------------------------------------------------- ________________ विशेषा० ॥७६९॥ Jain Education Internation वियुज्यते, यस्य वियोगसामग्रीसंप्राप्तिरिति । किं पुनः १ एतद् भुजमुत्क्षिप्य ब्रूमः - या वियोगसामग्री प्राप्तिः सा वियोगस्यैव सुवर्णोपलस्य भवति, न तु तदयोग्यस्य, तथा तेनैव प्रकारेण यः सर्वकर्मक्षयलक्षणो मोक्षः स नियमाद् भन्यानामेव भवति, नेतरेषामभाव्यानामिति भव्या-भव्ययोर्विशेष इति ।। १८३५ ।। १८३६ ।। अथ प्रकारान्तरेणाक्षेप परिहारौ प्राह- haगाइमचणाओ मोक्खो निचो न होइ कुंभो व्व । नो पद्धंसाभावो भुवि तद्धम्मा वि जं निच्चो ॥ १८३७ ॥ अणुदाहरणमभावो एसो वि मई न तं जओ नियओ । कुंभविणासविसिडो भावो च्चिय पोग्गलमओ य॥१८३८॥ व्याख्या - ननु मोक्षो नित्यो न भवति किन्त्वनित्यो विनाशी, कृतकत्वात् ; आदिशब्दात् प्रयत्नानन्तरीयकत्वाऽऽदिमत्वादिपरिग्रहः । कुम्भवदिति दृष्टान्तः । अत्रोच्यते - अनैकान्तिकता हेतूनाम्, विपक्षेऽपि गमनात्, यस्मादिह घटादिप्रध्वंसाभावः कृंतकादिस्वभावोst नित्य एव तदनित्यत्वे घटादेस्तद्रूपतयैवोन्मज्जनप्रसङ्गादिति । अथैवं परस्य मतिः- न केवलं पूर्वोक्तः प्रागभावः किन्त्वेषोऽपि प्रध्वंसाभावोऽभावत्वेनावस्तुत्वादनुदाहरणमेव । तदेतद् न, यतो यस्माद् नियतो निश्चितः कुम्भविनाशविशेषेण विशिष्ट: पुद्गलात्मको भाव एवायमपि प्रध्वंसाभावः । अतो युक्तमेतदुदाहरणमिति । एतच्च मोक्षस्य कृतकत्वमभ्युपगम्योक्तम् || १८३७ ।। १८३८ ।। यदिवा, न भवत्येव कृतको मोक्ष इति दर्शयन्नाह- किं वेगंतेण कथं पोग्गलमेत्तविलयम्मि जीवस्स । किं निव्वत्तियमहियं नभसो घडमेत्तविलयम्मि ? || १८३९ || किमिह पुद्गलमात्रविलये सँति समस्त कर्मगलपरिशाटसमये जीवस्यात्मनः स्वतचे वृत्तिमादधत एकान्तेन कृतं विहितम्, येन कृतको मोक्षः स्यात् ? । एतदुक्तं भवति इहात्म-कर्मपुङ्गलवियोगो मोक्षोऽभिप्रेतः । तत्र तपः- संयममभावतो जीवात् कर्मणि पृथग् जायमाने किमात्मनः क्रियते, येन कृतकत्वादनित्यत्वं मोक्षस्य प्रतिपाद्यते । अथ स एवात्म-कर्मवियोगः क्रियमाणत्वात् कृतकः, ततोऽनित्य इत्याशङ्कयाह- 'किं निव्वत्तियमित्यादि' मुद्गरादिना घटमात्रस्य विनाशे सति किं नाम नभसोऽभ्यधिकं निर्वर्तितम् ? - ९७ १ कृतकादिमत्त्वाद् मोक्षो नित्यो न भवति कुम्भ इव । नो प्रध्वंसाभावो भुवि तद्धर्मापि यद् नित्यः ॥ १८३७ ॥ अनुदाहरणमभाव एषोऽपि मतिनं तद् यतो नियतः । कुम्भविनाशविशिष्टो भाव एव पुद्गलमयश्च ।। १८३८ ॥ २ ज. 'शविशि' । ३ किं वैकान्तेन कृतं पुलमात्रविलये जीवस्य । किं निर्वर्तितमधिकं नभसो घटमात्रविलये ? || १८३९ ॥ ४घ.ज. 'सम' । For Personal and Private Use Only बृहद्वचिः । ॥७६९ ॥ Page #172 -------------------------------------------------------------------------- ________________ DU ॥७७०॥ न किञ्चिदित्यर्थः । एवमिहापि कर्मा सति कि जावस्याधिकं कृतम् , येन तदेकाकितारूपस्य मोक्षस्य कृतकत्वेनानित्यत्वं विशेषा. | स्यात् । स एव कर्मणो विनाशो घटविनाशवत् क्रियमाणत्वात् कृतकः, ततः सर्वकर्मक्षयलक्षणो मोक्षोऽनित्य इति चेत् । तदयुक्तम् , यतो यथाऽयमेव घटविनाशो यः केवलाकाशसद्भावो न पुनस्ततो विभिन्नोऽसौ, न चाकाशस्य किमप्यधिक क्रियते, तस्य सदाचस्थितत्वेन नित्यत्वात् , एवमिहाप्ययमेव कर्मणो विनाशो यः केवलात्मसद्भावः, न त्वात्मनो विभिन्नोऽसौ, न चात्मनः किश्चिदधिक विधीयते, तस्यापि नभोवद् नित्यत्वात् । तस्माद् न मोक्षस्य कृतकत्वमनित्यत्वं वा । कथश्चिच्चानित्यत्वे सिद्धसाध्यतैव, द्रव्य-पर्यायोभयरूपतया सर्वस्यापि वस्तुनो नित्यानित्यरूपत्वादिति ।। १८३९ ।। आह- ननु कर्मपुद्गला ये निर्जीर्य जीवन परित्यक्तास्ते लोकमेवाभिव्याप्य तिष्ठन्ति, न पुनस्तद्वहिः कापि गच्छन्ति, जीवोऽपि च लोकमध्य एव तिष्ठति । ततश्च यथा घटवियुक्तस्याप्याकाशस्य तत्कपालपुद्गलसंयोगस्तदवस्थ एव, एवं कर्मवियुक्तस्याप्यात्मनो निर्जीर्णतत्पुद्गलसंयोगः समस्त्येव, इति कथं पुनरपि न तस्य तद्वन्धः ? इत्याशङ्कयाह-- 'सोऽणवराहो व्व पुणो न बज्झए बंधकारणाभावा । जोगा य बंधहेऊ न य ते तस्सासरीरो त्ति ॥१८४०॥ स मुक्तो जीवः पुनरपि न बध्यते, बन्धकारणाभावात् , अनपराधपुरुषवत् , मनो-वाक्-काययोगादयश्च बन्धहेतबोऽभिधीयन्ते, न च ते मुक्तस्य सन्ति, शरीराद्यभावात् । न च कर्मवर्गणागतपुद्गलमात्रसंयोगमात्ररूपोत्र बन्धोऽधिक्रियते, अतिप्रसङ्गादिदोषाघ्रातत्वात् , किन्तु मिथ्यात्वादितहेतुनिबन्धन इति ।। १८४० ॥ आह- नन्वयं मुक्तात्मा सौगतानामिव भवतामप्यभिप्रायेण पुनरपि भवे प्रादुर्भवति, नवा ? इत्याशङ्कयाहन पुणो तस्स पसूई बीयाभावादिहंकुरस्सेव । बीयं च तस्स कम्मं न य तस्स तयं तओ निच्चो ॥१८४१॥ न तस्य मुक्तस्य पुनरपि भवप्रमूतिरुपजायते, बीजाभावात्- कारणस्यासत्त्वात् , यथाऽङ्करस्य तदभावाद् न प्रमूतिः । वीज चास्य कमवावगन्तव्यम् , तच मुक्तस्य नास्त्येव, ततः पुनरावृश्यभावाद् नित्योऽसाविति ॥ १८४१ ॥ इत्यश्च नित्यो मुक्तः । कुतः ? इत्याह HD||७७०॥ १ सोऽनपराध इव पुनर्न बध्यते बन्धकारणाभावात् । योगाश्च बन्धहेतवो न च ते तस्याशरीर इति ॥ १८४०॥ २ क.ग.झ. 'जोगो य'। IR३ क.ग.स.'य सो त'। न पुनस्तस्य प्रसूति/जाभावादिहाङ्करस्येव । बीजं च तस्य कर्म न च तस्प तत् ततो नित्यः ।। १८४१ ॥ ५क.ग. "तिजा' । शकुमार मारामाराम STO Jan Education Internati For Personal and Private Use Only www.jaineltrary.ory Page #173 -------------------------------------------------------------------------- ________________ बृहद विशेषा ॥७७१॥ देव्यामुत्तत्तणओ नहं व निच्चो मओ स दव्वतया । सव्वगयत्तावत्ती मइ त्ति तं नाणुमाणाओ ॥१८४२॥ स मुक्तात्मा नित्य इति प्रतिज्ञा । 'दब्वामुत्तत्तणउ त्ति' द्रव्यत्वे सत्यमूर्तत्वादिति हेतुः । 'दव्वतय त्ति' यथा द्रव्यत्वे सत्य- मूर्त नभ इति दृष्टान्तः । अथैवंभूता मतिः परस्य स्यात्- अनन हेतुना सर्वगतत्वापत्तिरप्यात्मनः सिध्यति; तथाहि- सर्वगत आत्मा, द्रव्यत्वे सत्यमूर्तत्वात् , नभोवत् । ततश्च धर्मविशेषविपरीतसाधनाद् विरुद्धोऽयम् । तदेतद् न । कुतः । अनुपानात्- अनुमानवाधितत्वात् सर्वगतत्वस्येत्यर्थः; तथाहि- असर्वगत आत्मा, कर्तृत्वात् , कुलालवत् । न च कर्तृत्वमसिद्धम् , भोक्तृत्व द्रष्टुत्वाद्यनुपप| तेरिति ।। १८४२ ॥ _ यदि वा, किमनेनैकान्तिकेन नित्यत्वग्रहेण ?, एकान्तानित्यत्ववादिनिराकरणार्थमेव ह्येवमभिहितम् , परमार्थतस्तु सर्वमेव | वस्तु जैनानां भवन-भङ्ग-स्थित्यात्मकमेवेति दर्शयन्नाह कोवा निच्चग्गाहो सव्वं चिय वि भव-भंग-हिइमइयं । पज्जायंतरमेत्तप्पणादनिच्चाइववएसो ॥ १८४३ ॥ गतार्था, नवरं पर्यायान्तरमावस्यार्पणं प्रधानभावेन विवक्षणं तस्मादनित्यादिव्यपदेशः, तथाहि- घटः पूर्वेण मृत्पिण्डपर्यायेण विनश्यति, घटपर्यायतया पुनरुत्पद्यते, मृदूपतया त्ववतिष्ठते । ततश्च यो विनष्टरूपतादिपर्यायो यदार्पितः प्रधानभूतो विवक्ष्यते, तदा - तेनानित्यत्वादिव्यपदेशः। एवमसावपि मुक्तः संसारितया विनष्टः, सिद्धतयोत्पन्नः, जीवत्व-सोपयोगत्वादिभिस्त्ववतिष्ठते, तथा, प्रथमसमयसिद्धतया विनश्यति, द्विसमयसिद्धतयोत्पद्यते, द्रव्यत्व-जीवत्वादिभिस्त्ववतिष्ठते । ततोऽर्पितपर्यायेणानित्यत्वादिव्यपदेश इति ।। १८४३॥ मुक्तस्यावस्थानक्षेत्रनिरूपणार्थमाह मुत्तस्स कोऽवगासो सोम्म ! तिलोगसिहरं, गई किह से ?। कम्मलहुया तहागइपरिणामाईहिं भणियमिदं॥१८४४॥ 'मुक्तस्य क्षीणसमस्तकर्मणो जीवस्य कोऽवकाशः कावस्थानम्, इति पृष्टे सत्याह-सौम्य ! त्रिलोकशिखरं, लोकान्त इत्यर्थः। १ च्यामूर्तत्वतो नभ इव नित्यो मतः स द्रव्यतया । सर्वगतत्वापत्तिमंतिरिति तद् नानुमानात् ॥१८५२॥ २ प. ज. धर्मिवि' । ३ को वा नित्यग्रहः सर्वमेवापि भव-भङ्ग-स्थितिमयम् । पर्यायान्तरमात्रार्पणादनित्यादिव्यपदेशः ॥ १८५३ ।। • मुक्तस्य कोऽवकाशः स त्रिलोकाश खरं, गतिः कथं तस्य ? । कमलघुता तथागतिपरिणामादिभिर्भणितमिदम् ।। १८४४ ॥ ॥७७१२॥ JainEducational Internation For Personal and Private Use Only www.jaineltrary.org Page #174 -------------------------------------------------------------------------- ________________ बृहद विशेषा मपि तसा यथा हिम सति लाया चेष्टा, ततो ॥७७२॥ ननु कथं 'से' तस्याकर्मणो जीवस्यैतावद् दूरमितो गतिः प्रवर्तते ?, । कर्मनिवन्धना हि जीवानां सर्वापि चेष्टा, ततो विहायोगत्यादिकर्माभावेऽपि गतिचेष्टायामतिप्रसङ्गः पामोति' । अत्रोच्यते- 'कम्मलहुय त्ति' कर्मापगमे सति लाघवात् समयमेकं तद्गतिप्रवृत्तिरित्यर्थः, तथागतिपरिणामात्- कर्मक्षये सिद्धत्ववदपूर्वगतिपरिणामलाभादित्यर्थः, यथा हि समस्तकर्मक्षयादपूर्व सिद्धत्वपरिणामं जीवः समासा. दयति, तथा_गतिपरिणाममपीति भावः । आदिशब्दादपरमपि तद्गतिकारणं समयभणितमिदमवगन्तव्यम् , तद्यथा 'लाउ य एरंडफले अग्गी धूमो य इसु धणुविमुक्को । गइ पुव्वपओगेणं एवं सिद्धाण वि गई उ ॥ १॥ १८४४ ॥ अथान्यत् प्रर्यमाशय परिहरति "किं सक्किरियमरूवं मंडिय! भुवि चेयणं च किमरूवं ?।जह से विसेसधम्मो चेयन्नं तह मया किरिया ॥१८४५॥ आह- नन्वाकाश-कालादयोऽमूर्ता निष्क्रिया एव प्रसिद्धाः, तत् किं नाम त्वयाऽरूपममूर्त सद् वस्तु सक्रियं दृष्ट, येन मुक्तात्मनः सक्रियत्वमभ्युपगम्यते ?- ननु निष्क्रिय एव मुक्तात्मा पामोति, अमृतत्वात , आकाशवदिति भावः । अत्रोच्यते--- मण्डिक! त्वमप्येतत् कथय,- भुवि किमरूपं सद्वस्तु चेतन वीक्षितम् , येन मुक्तात्मा चेतनोऽभ्युपगम्यते ?- अमूर्तत्वादचेतन एवायं मामोति, आकाशवदिति । तस्माद् यथा 'से' तस्य जीवस्यारूपेभ्य आकाशादिभ्यस्तद्रूपत्वे समानेऽन्योऽपि चैतन्यलक्षणो विशेषधर्मः समस्ति, तथा क्रियापि मता,- सक्रियत्वमपि विषेषधर्मोऽस्तु, को विरोधः ? इति भावः ।। १८४५ ॥ यच्चोक्तम्- 'निष्क्रियो मुक्तात्मा, अमूर्तत्वात् तदनैकान्तिकमेव, प्रतिबन्धाभावादित्याह-। अथवा, मुक्ता-ऽमुक्तविशेषमपहाय सामान्येनात्मनः सक्रियत्वं साधयन्नाह--- __कत्ताइत्तणओ वा सक्किरिओऽयं मओ कुलालो व्व । देहप्फंदणओ वा पच्चक्खं जंतपुरिसो व्व ॥ १८४६ ॥ ____ अथवा, सक्रियोऽयमात्मा, कर्तृत्वात् , कुलालवत् । आदिशब्दाद् 'भोक्तृत्वात्' इत्यादि वाच्यम् । अथवा, सक्रिय आत्मा, प्रत्यक्षत एव देहपरिस्पन्ददर्शनात , यन्त्रपुरुषवदिति ।। १८४६ ॥ १ घ. अ. 'ति क'। २ अलाबु चैरण्डफलमग्निधूमश्चेषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेणवं सिद्धानामपि गतिस्तु ॥ १॥ ३ घ, ज, 'धूमे य' । ४ घ.ज. 'मुके ग'। ५ किं सक्रियमरूपं मण्डिक ! भुवि चेतनं च किमरूपम् ? । यथा तस्य विशेषधर्मश्चैतन्यं तथा मता क्रिया ॥ १८४५ ।। ६ कादित्वतो वा सक्रियोऽयं मतः कुलाल इव । देहस्पन्दनतो वा प्रत्यक्ष यन्त्रपुरुष इव ।। १८४६ ।। ||७७२।। Educ a tion For Personal and Private Use Only AMw iaty Page #175 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । पराशङ्का प्रतिविधानं चाह-- विशेषा 'देहप्फंदणहेऊ होज्ज पयत्तो त्ति सो वि नाकिरिए । होजादिट्ठो व मई तदरूवत्ते नणु समाणं ॥१८४७॥ रूवित्तम्मि स देहो वच्चो तप्कंदणे पुणो हेऊ । पइनिययपरिप्फंदणमचेयणाणं न वि य जुत्तं ॥ १८४८ ॥ ॥७७३॥ अथवं ब्रूषे- देहपरिस्पन्दहेतुरात्मनः प्रयत्नो न तु क्रिया, अतो नात्मनः सक्रियत्वसिद्धिरित्यभिप्रायः । अत्रोत्तरमाह-- सोऽपि प्रयत्नो नभसीवाक्रिय आत्मनि न संभवति, अतः सक्रिय एवासौ । अमूर्तस्य च प्रयत्नस्य देहपरिस्पन्दहेतुत्वे कोऽन्यो हेतुरिति वाच्यम् ? । अन्यहेतुनिरपेक्षः स्वत एवायं परिस्पन्दहेतुरिति चेत् । यद्येवम् , आत्मापि तद्धतुर्भविष्यति, किमन्तर्गडुना प्रयत्नेन ? । अथादृष्टः कोऽपि देहपरिस्पन्दहेतुः, न त्वात्मा, निष्क्रियत्वात् । ननु सोऽप्यदृष्टः किं मूर्तः, अमूतों वा?। यद्यमूर्तः, तात्मापि देहपरिस्पन्दहेतुः किं नेष्यते, अमूर्तत्वाविशेषात् ? । अथ मूर्तिमानदृष्टः, तर्हि स कार्मणशरीरलक्षणो देह एव, नान्यः संभवति । तस्यापि च बहिदृश्यदेहपरिस्पन्दहेतुतया व्याप्रियमाणस्य परिस्पन्दो द्रष्टव्यः, तस्य चान्यो हेतुर्वाच्यः, तस्यापि चान्यः, तस्यापि चान्य इत्यनवस्था । अथ स्वभावादेवादृष्टस्य कार्मणदेहस्य परिस्पन्दः प्रवर्तते, तर्हि बहिदृश्यस्यापि देहस्य तत एव तत्पत्तिर्भविष्यति, किमदृष्टकार्मणदेह परिकल्पनेन ? । अस्त्वेवमिति चेत् । तदयुक्तम् , अचेतनानामेवंभूतप्रतिनियतविशिष्टपरिस्पन्दनस्य स्वाभाविकत्वानुपपत्तेः, "नित्यं 6 सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इत्यादिदोषप्रसङ्गात् । तस्मात् कर्मविशिष्ट आत्मैव प्रतिनियतदेहपरिस्पन्दनहेतुत्वेन व्याप्रियत Ro इति सक्रियोऽसाविति ॥ १८४७ ॥ १८४८ ॥ भवतु तर्हि भवस्थस्य सकर्मणो जीवस्य क्रिया, मुक्तस्य तु कथमसौ ?, इत्याशङ्कय परिहरन्नाह होउ किरिया भवत्थस्स कम्मरहियस्स किंनिमित्तासा? नणु तग्गइपरिणामा जह सिद्धत्तं तहा सा वि ॥१८४९॥ पूर्वार्धनाक्षेपः, पश्चार्थेन तु परिहारः, प्राग् व्याख्यातार्थ एवेति ॥ १८४९ ॥ अपरस्त्वाह--- , देहस्पन्दनहेतुर्भवत् प्रयत्न इति सोऽपि नाकिये । भवेददृष्टो वा मतिसदरूपत्वे ननु समानम् ॥ १८५७ ॥ रूपिरचे स देहो वाच्यस्तत्पन्दने पुनर्हेतुः । प्रतिनियतपरिस्पन्दनमचेतनाना नापि च युक्तम् ॥ १८५८ ॥ २ भवतु क्रिया भवस्थस्य कर्मरहितस्प किंनिमित्ता सा' । ननु तद्गतिपरिणामाद् यथा सिद्धत्वं तथा सापि ॥ १८४९ ॥ 2A ७७३॥ JamEducationainteman For Personal and Private Use Only Page #176 -------------------------------------------------------------------------- ________________ विशेषा० ॥७७४ ॥ Jain Educationa Internationa 'किं सिद्धालय परओ, धम्म विरहाओ । सो गइउवग्गहकरो लोगम्मि जमत्थि नालोए ॥१८५० ॥ यद्युक्तन्यायेन मुक्तस्य गतिक्रियया सक्रियत्वमिष्यते, तर्हि सिद्धालयात् सिद्धावस्थितिक्षेत्रात् परतोऽलोकेऽपि म तस्य गतिर्न प्रवर्तते । अत्रोच्यते - परतो धर्मास्तिकाय विरहात् । तद्विरहोऽपि कुतः ? इत्याह- यद् यस्मादसौ धर्मास्तिकायो लोक एव समस्ति, नालोके | मा भूदसावलोके, किं तेन प्रस्तुतानुपयोगिना कर्तव्यम्, तद्विरहेऽपि भवतु मुक्तस्य तत्र गतिः, नियमाभावात् ? । तदयुक्तम्, यतो जीवानां पुद्गलानां च गतेर्गमनस्योपग्रह उपष्टम्भस्तत्कारी स एव धर्मास्तिकायो नान्यः, ततस्तस्यालोकेऽभावात् कथं लोकात् परतोऽलोकेऽपि मुक्तात्मनां गतिः प्रवर्तते ? इति ।। १८५० ।। कथं पुनरेतदवसीयते यदुत - लोकादन्योऽप्यलोकपदार्थः कश्चिदस्ति ? इत्याशङ्क्याह लोगस्स त्थि विवक्खो सुद्धत्तणओ घडस्स अघडो व्व । स घडाइ च्चिय मई न निसेहाओ तदणुरुवो ॥ १८५१॥ अस्ति लोकस्य विपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वात् इह यद् व्युत्पत्तिमता शुद्धपदेनाभिधीयते तस्य विपक्षो दृष्टः, यथा घटाघटः, यश्च लोकस्य विपक्षः सोऽलोकः । अथ स्यान्मतिः - 'न लोकोऽलोकः' इति यो लोकस्य विपक्ष: स घटादिपदार्थानामन्यतम एव भविष्यति, किमिह वस्त्वन्तर परिकल्पनया ? । तदेतद् न, पर्युदासनत्रा निषेधाद् निषेध्यस्यैवानुरूपोऽत्र विपक्षोऽन्वेषणीयः, 'न लोकोऽलोकः' इत्यत्र च लोको निषेध्यः, स चाकाशविशेषः, अतोऽलोकेनापि तदनुरूपेण भवितव्यम्, यथा 'इहापण्डितः ' इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव पुरुषविशेषो गम्यते, नाचेतनो घटादिः, एवमिहापि लोकानुरूप एवालोको मन्तव्यः । उक्तं च“नञ्युक्तमिवयुक्तं वा यद्धि कार्य विधीयते । तुल्याधिकरणेऽन्यस्मिँल्लोकेऽप्यर्थगतिस्तथा ॥ १ ॥" “नञ्-इवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” । तस्माल्लोकविपक्षत्वादस्त्यलोक इति ।। १८५१ ।। अथालोकास्तित्वादेव धर्मा-धर्मास्तिकाय साधयन्नाह - म्हा धम्मा-धम्मा लोयपरिच्छेयकारिणो जुत्ता । इहरागासे तु लोगोऽलोगो त्ति को भेओ ? ॥ १८५२॥ १ किं सिद्धालयपरतो न गतिः, धर्मास्तिकायविरहात् । स गत्युपग्रहकरो लोके यदस्ति नालोके ॥ १८५० ॥ २ लोकस्यास्ति विपक्षः शुद्धत्यतो घटस्याघट इव । स घटादिरेव मतिर्न निषेधात् तदनुरूपः ॥ १८५१ ॥ ३ तस्मादु धर्मा-धर्मौ लोकपरिच्छेदकारिणौ युक्तौ । इतरथाकाशे तुल्ये लोकोऽलोक इति को भेदः १ ॥ १८५२ ॥ For Personal and Private Use Only बृहद्वत्तिः ॥७७४ ॥ Page #177 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः। ॥७७५|| DNDARA लोगविभागाभावे पडिघायाभावओऽणवत्थाओ। संववहाराभावो संबंधाभावओ होजा ॥ १८५३ ।। यस्मादुक्तप्रकारेणास्त्यलोकः, तस्मादलोकास्तित्वादेवावश्यं लोकपरिच्छेदकारिभ्यां धर्मा-ऽधर्मास्तिकायाभ्यां भवितव्यम् अन्यथाऽऽकाशे सामान्ये सति 'अयं लोकः' 'अयं चालोकः' इति किंकृतोऽयं विशेषः स्यात् । तस्माद् यत्र क्षेत्रे धर्मा-ऽधर्मास्तिकायौ वर्तेते, तल्लोकः, शेषं त्वलोक इति लोका-ऽलोकव्यवस्थाकारिणौ धर्मा-ऽधर्मास्ति कायौ विद्यते इति । 'लोगेत्यादि' यदि हि धर्माऽधर्माभ्यां लोकविभागो न स्यात् , ततो लोकविभागाभावेऽविशिष्ट एव सर्वस्मिन्नप्याकाशे गतिपरिणतानां जीवानां पुद्गलानां च प्रतिघाताभावेन तद्गत्यवस्थानाभावादलोकेऽपि गमनात् , तस्य चानन्तत्वात् तेषां परस्परं संवन्धो न स्यात् । ततश्चौदारिकादिकार्मणवर्गणापर्यन्तःद्गलकृतो जीवानां बन्ध-मोक्ष-सुख-दुःख-भवसंसरणादिव्यवहारो न स्यात् । जीवस्य च जीवेन सहान्योन्यमीलनाभावात् तत्कृतोऽनुपग्रहो-पघातादिव्यवहारो न स्यादिति ॥ १८५२ ॥ १८५३ ॥ __ततः किम् ? इत्याह'निरगुग्गहत्तणाओ न गई परओ जलादिव झसस्स । जो गमणाणुग्गहिया सो धम्मो लोगपरिमाणो ॥१८५४॥ ततो लोकात् परतोऽलोके जीव-पुद्गलानां न गतिः, निरनुग्रहत्वात्- तत्र गत्यनुग्रहकर्तुरभावादित्यर्थः, यथा जलात् परतो झषस्य मत्स्यस्य गतिन भवति, उपग्राहकाभावादिति । यश्चात्र जीव-पुद्गलगतेरनुग्रहकर्ता, स लोकपरिमाणो धर्मास्तिकाय इति ॥१८५४॥ तत्र प्रयोगमाह अत्थि परिमाणकारी लोगस्स पमेयभावओऽवस्सं । नाणं पिव नेयस्सालोगत्थित्ते य सोऽवस्सं ॥ १८५५।। अस्ति लोकस्य परिमाणकारी, प्रमेयत्वात् , ज्ञानमिव ज्ञेयस्य । अथवा, जीवाः पुद्गलाच लोकोऽभिधीयते, ततोऽस्ति तत्परिमाणकारी, प्रमेयत्वात् , यथा शाल्यादीनां प्रस्थः, यश्चेह परिमाता स धर्मास्तिकायः, स चावश्यमलोकस्यास्तित्व एव युज्यते, नान्यथा, आकाशस्य सर्वत्राविशिष्टत्वात् । तस्माल्लोकाग्रे सिद्धस्यावस्थानमिति प्रस्तुतम् ।। १८५५ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थातः । संव्यवहाराभावः संबन्धाभावतो भवेत् ॥ १८५३ ॥ २ निरनुग्रहत्वाद् न गतिः परतो जलादिव झषस्य । यो गमनानुग्रहीता स धर्मो लोकपरिमाणः ॥ १८५४ ॥ । अस्ति परिमाणकारी कोस्य प्रमेषभावतोऽहम् । ज्ञानमिव ज्ञेयस्यालोकास्तित्वे च सोऽवश्यम् ॥ १८५५ ॥ TaTolarorasoo GAONDHADAR ७७५|| Jan Education internations For Person and Private Use Only ROMww.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ विशेषा. ॥७७६॥ अथ प्रकारान्तरेणाक्षेप-परिहारौ पाह पैयणं पसत्तमेवं थाणाओ तं च नो जओ छट्ठी । इह कत्तिलक्खणेयं कत्तुरणत्यंतरं थाणं ॥ १८५६ ॥ वृहद्वृत्तिः । ननु ‘स्थीयतेऽस्मिन्निति स्थानम्' इत्यधिकरणसाधनोऽयं शब्दः । ततश्च सिद्धस्य स्थानं सिद्धस्थानमिति समासः । ततश्चैवं सति सिद्धस्य पतनं प्रसक्तम् , स्थानात , पर्वत-पादपायग्रस्थितदेवदत्तस्येव, फलस्येव वा । यस्य किल कापि पर्वतादाववस्थानं, तस्य कदाचित् कस्यापि पतनमपि दृश्यते; अतः सिद्धस्यापि तत् कदाचित् प्रामोतीति भावः। तच्च न, यतः 'सिद्धस्य स्थानम्' इतीयं कतरि षष्ठी । ततश्च 'सिद्धस्य स्थानम्' इति कोऽर्थः ?- सिद्धस्तिष्ठति, न तु तदर्थान्तरभूतं स्थानमस्तीति ॥१८५६ ॥ अथवा, नेहनिच्चत्तणओ वा थाणविणासपयणं न जुत्तं से । तह कम्माभावाओ पुणकियाभावओ वा वि ॥ १८५७ ॥ ER अर्थान्तरत्वेऽपि स्थानस्य न पतनं सिद्धस्य, यतोऽस्यार्थान्तरं स्थानं नभ एव, तस्य च नित्यत्वाद् विनाशो न युक्तः, तदभावे च कुतः पतनं मुक्तस्य । कर्म चात्मनः पतनादिक्रियाकारणम् , मुक्तस्य च कर्माभावात् कुतः पतनक्रिया ?। या च समयमेकयस्थाप्यूर्व गतिक्रिया, तस्याः कारणं 'लाउ य एरंडफले' इत्यादिना दर्शितमेव । पुनःक्रिया च मुक्तस्य नास्ति, कारणाभावात् । निजप्रयत्नप्रेरणा-ऽऽकर्षण-विकर्षण-गुरुत्वादयो हि पतनकारणम् , तत्संभवश्च मुक्तस्य नास्ति, हेतोरभावात् , इति कुतोऽस्य पतनम् ? इति । १८५७॥621 किश्च, 'स्थानात् पतनम् ' इत्यनैकान्तिकमेवेति दर्शयति___ निच्चथाणाओ वा वोमाईणं पडणं पसज्जेज्जा । अह न मयमणगंतो थाणाओऽवस्स पडणं ति ॥१८५८॥ ननु च 'स्थानात् पतनम्' इति स्ववचनविरुद्धमिदम् , अस्थानादेव पतनस्य युज्यमानत्वात् । अथ स्थानादपि पतनमिष्यते, तर्हि नित्यमेव स्थानाद् व्योमादीनां पतनं प्रसज्येत । अथ न तत् तेषां मतम् , तर्हि 'स्थानात् पतनम्' इत्यनैकान्तिकमेवेति ॥१८५८॥ __ अथान्येन प्रकारेण प्रेर्यमाशङ्कय परिहरनाह १ पतनं प्रसक्तमेवं स्थानात् तच्च नो यतः षष्टी । इह कर्नुलक्षणेयं कर्तुरनन्तरं स्थानम् ॥ १८५६।। २ नभोनिस्यत्वतो वा स्थानविनाशपतनं न युक्तं तस्य । तथा कर्माभावात् पुनःक्रियाभावतो वापि ॥ १४५०॥ । पृ. ७७२ । ४ नित्यस्थानाद् वा व्योमादीनां पतनं प्रसज्येत । अथ न मतमनेकान्तः स्थानावश्यं पतनमिति ॥ १८५८ ॥ ७७६॥ Page #179 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । भवओ सिद्धो त्ति मई तेणाइमसिद्धसंभवो जुत्तो । कालाणाइत्तणओ पढमसरीरं व तदजुत्तं ॥ १८५९ ॥ अथ स्याद् मतिः परस्य- यतो भवात् संसारात् सर्वोऽपि मुक्तात्मा सिद्धस्तेन ततः सर्वेषामपि सिद्धानामादिमत्त्वादवश्यमेव केनाप्यादिसिद्धेन भवितव्यम् । तदयुक्तम् , यतो यथा सर्वाण्यपि शरीराणि, अहोरात्राणि च सर्वाण्यादियुक्तान्येव, अथ च कालस्यानादित्वाद् नाद्यशरीरम् , आद्याहोरात्रं वा किमपि ज्ञायते, तथा कालस्यानादित्वात् सिद्धोऽपि नाद्यः प्रतीयत इति ।। १८५९ ॥ अथान्यदपि प्रेय परिहारं चाह-- परिमियदेसेऽणता किह माया मुत्तिविरहियत्ताओ। नियम्मि व नाणोई दिट्ठीओ वेगरूवम्मि ॥ १८६० ॥ आह- परिमितदेशमेव सिद्धिक्षेत्रम् , तत्र कथमनादिकालवर्तिनोऽनन्ताः सिद्धा मान्ति ? । अत्रोत्तरमाह- अमूर्तत्वात् सिद्धाः परिमितेऽपि क्षेोऽनन्तास्तिष्ठन्ति, यथा प्रतिद्रव्यमेवानन्तानि सिद्धानां संवन्धीनि केवलज्ञान-केवलदर्शनानि संपतन्ति, दृष्टयो वा यकस्यामपि नर्तक्यां सहस्रशः प्रपतन्ति, परिमितेऽपि वाऽपवरकादिक्षेत्रे बढ्योऽपि प्रदीपप्रभा मान्ति; एवमिहामूर्ताः सिद्धा कथं परिमितक्षेत्रेऽनन्ता न मास्यन्ति, मूर्तानामपि प्रदीपप्रभादीनां बहूनामेकत्रावस्थानं दृश्यते, किमुताऽमूर्तानाम् ? इति भावः ॥ १८६० ॥ तदेवं युक्तिभिः सप्रसङ्गो बन्ध-मोक्षौ व्यवस्थाप्य वेदवाक्यद्वारेणापि तद्वयवस्थामाह--- नै ह वई ससरीरस्स प्पिया-ऽप्पियावहतिरेवमाईणं । वेयपयाणं च तुमं न सदत्थं मुणसि तो संका॥१८६१॥ तुह बंधे मोक्खम्मि य, सा य न कज्जा जओ फुडो चेव । ससरीरे-यरभावो नणु जो सो बंध मोक्खो त्ति॥१७६२ ।। व्याख्या-"न हि वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-Sप्रिये न स्पृशतः" इत्यादीनां च वेदपदानां सदर्थ त्वं न मुणसि । ततो बन्धे मोक्षे च तव सौम्य ! शङ्का, सा च न कार्या, यतो ननु यः सशरीरे-तरभावः स स्फुट एव बन्धो मोक्षश्चेति कथं शङ्का युज्यते । एतदुक्तं भवति-'सशरीरस्य' इत्यनेन वाह्या-ऽऽध्यात्मिकानादिशरीरसंतानस्वरूपो बन्धः प्रोक्तः, तथा, अशरीरं वा , भवतः सिद्ध इति मतिस्तेनादिमसिद्धसंभवो युक्तः । कालानादित्वतः प्रथमशरीरमिव तदयुक्तम् ॥१८५९॥ २ परिमितदेशेऽनन्ताः कथं माता मूर्तिविरहितस्वात् । निजके वा ज्ञानादयो दृष्टयो वैकरूपे ॥ १८६० ॥ ३ घ.ज. 'णाई दि। ४ नहवे सशरीरस्य प्रिया-ऽप्रिययोरपहतिरेवमादीनाम् । वेदपदानां च त्वं न सदर्थ मुणसि ततः शङ्का ॥ १८६१॥ तव बन्धे मोक्षे च, सा च न कार्या यतः स्फुट एव । सशरीरे-तरभावो ननु यः स बन्धो मोक्ष इति ।। १८६२॥ ५ क.घ.ज. 'इ सरी' । ॥७७७॥ Jain Education internation Foco and Private Use Only Melwwwjainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ REE विशेषा. ॥७७८॥ वसन्तम्' इत्यनेन त्वशेषशरीरापगमस्वभावो मोक्षः प्रतिपादितः । तथा, “स एष विगुणो विभुर्न बध्यते" इत्यादीन्यपि पदानि । | संसारिजीवस्य बन्ध-मोक्षाभावप्रतिपादकानि त्वं मन्यसे । तच्चायुक्तम् , मुक्तजीवविषयत्वात् तेषाम् । मुक्तस्य च बन्धाद्यभावेऽविपतिपत्तिरेवेति । तदेवं भगवता छिन्नस्तस्य संशयः।। १८६१ ॥ १८६२ ॥ ततः किम् ? इत्याह'छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ अडुट्ठिहि सह खंडियसएहिं॥१८६ व्याख्या पूर्ववत , नवरमर्धचतुर्थैः शिष्यशतैः सह प्रबजितोऽयम् ॥ इति द्वाषष्टिगाथार्थः ।। १८६३ ।। ॥ इति षष्ठगणधरवादः समाप्तः॥ diDOICICRORRORIODONCEROICORING मामकारक सरकार प्रसार कार अथ सप्तमगणधरवक्तव्यतामभिधित्सुराहते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१८६४॥ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसी णं ॥१८६५॥ गाथाद्वयमपि प्रकटार्थम् ।। १८६४ ॥ १८६५ ॥ आभाष्य ततः किमुक्तः ? इत्याह"किं मण्णे अत्थि देवा उयाहु न त्थि त्ति संसओ तुज्झ ।वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१८६६॥ हे आयुष्मन् मौर्य ! त्वमेवं मन्यसे- किं देवाः सन्ति, नवेति, उभयथापि वेदपदश्रवणात् । तथाहि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इत्यादिः तथा, "अपाम सोमं अमृता अभूम अगमन् ज्योतिरविदाम देवान् , किं नूनमस्मात् तृण छिन्ने संशये जिनेन जरा-मरणविनमुक्तेन । स श्रमणः प्रवजितोऽर्धचतुर्थैः सह खण्डिकशतैः ॥ १८६३ ॥ २ तान् प्रवजितान् श्रुत्वा मौर्य आगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १८६४ ॥ ३ गाथा १६०९। ४ किं मन्यसे सन्ति देवा उताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १८६६ ॥ ७७८॥ NGS Jan Education Intematic FOC Pasonal and Private Use Only Adwww.janeibrary.org Page #181 -------------------------------------------------------------------------- ________________ विशेषा० ॥७७९ ।। Jain Education Internationa दरातिः किमु मूर्तिममृतमर्त्यस्य" इत्यादि ; तथा “को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण कुबेरादीन् " इत्यादि । एतेषां च वेदपदानामयमर्थस्तव बुद्धौ प्रतिभासते, यथा- स एष यज्ञ एव दुरितवारणक्षमत्वादायुधं प्रहरणं यस्यासौ यज्ञायुधी, यजमानोऽञ्जसाप्रगुणेन न्यायेन, स्वर्गलोकं गच्छति, इति देवसत्ताप्रतिपत्तिः । तथा, अपाम- पीतवन्तः, सोमं लतारसम्, अमृताः- अमरणधर्माण:, अभूम - भूताः स्मः, अगमन्- गताः, ज्योतिः - स्वर्गम्, अविदाम देवान्- देवत्वं प्राप्ताः स्मः, किं नूनमस्मादूर्ध्वं तृणवत् करिष्यति कोsit : इत्याह- अरातिः - व्याधिः, तथा, किमु प्रने, मूर्ति- जराम्, अमृतमर्त्यस्येति- अमृतत्वं प्राप्तस्य मर्त्यस्य पुरुषस्येत्यर्थः, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति जरा-व्याधयः ? इति भावः । अत्रापि देवसत्ताप्रतिपत्तिः । “को जानाति मायोपमान् " इत्यादीनि तु देवाभावप्रतिपादकानि । अतस्तव संशयः । अयुक्तश्चायम्, यतोऽमीषां वेदपदानामर्थं त्वं न जानासि चशब्दाद् युक्तिं च न वेत्सि । एतेषां हि वेदपदानां नायमर्थो यस्तवाभिप्रेतः किन्त्वयम् वक्ष्यमाणलक्षण इति ।। १८६६ । अत्र भाष्यम् - तं मन्नसि नेरइया परतंता दुक्खसंपउत्ता य । न तरंतीहागंतुं सद्धेया सुव्वमाणा वि ॥ १८६७ ॥ सच्छंदयारिणो पुण देवा दिव्वप्पभावजुत्ता य । जं न कयाइ वि दरिसणमुर्वेति तो संसओ तेसु || १८६८ ॥ मौर्य ! त्वमेवं मन्यसे - नारकाः स्वकृतपापनरकपालादिपरतन्त्राः पराधीनवृत्तयोऽतीव दुःखसंघातविह्वलाश्च न शक्नुवन्त्यत्रागन्तुम्, अतः प्रत्यक्षीकरणोपायाभावात् श्रूयमाणा अपि श्रद्धेया भवन्तु । देवास्तु स्वच्छन्दचारिणो दिव्यप्रभावयुक्ताश्च तथापि यस्माद् न कदाचिद् दर्शनपथमवतरन्ति श्रूयन्ते च श्रुति स्मृत्यादिषु, अतस्तेषु शङ्केति ।। १८६७ ।। १८६८ ॥ अत्रोत्तरमाह माकुरु संसयमे सुदूरमणुयाइ भिन्नजाईए । पेच्छसु पञ्चक्खं चिय चउव्विहे देवसंघाए ॥ १८६९ ॥ मौर्यपुत्र ! देवेषु मा संशयं कार्षीस्त्वम्, एतानेव हि सुदूरमत्यर्थ मनुजादिभ्यो भिन्नजातीयान् दिव्याभरण-विलेपन-वसन १ त्वं मन्यसे नैरयिकाः परतन्त्रा दुःखसंप्रयुक्ताश्च । न शक्नुवन्तीहाऽसान्तुं श्रद्धेयाः श्रूयमाणा अपि ॥ १८६७ ॥ स्वच्छन्दचारिणः पुनर्देवा दिव्यप्रभावयुक्ताश्च यन्न कदाचिदपि दर्शनमुपयन्ति ततः संशयस्तेषु ॥ १८६८ ॥ २ मा कुरु संशयमेतान् सुदूरमनुजादिभिन्नजातीयान् । प्रेक्षस्त्र प्रत्यक्षमेव चतुर्विधातू देवसङ्घातान् ॥ १८६९ ॥ For Personal and Private Use Only बृहद्वत्तिः । ।।७७९ ॥ Page #182 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । सुमनोमालालड्कृतान् भवनपति-प्यन्तर-ज्योतिष्क-वैमानिक-लक्षणांश्चतुर्विधदेवसंघातान् मम वन्दनाथमिहेव समवसरणागतान् विशेषा०प्रत्यक्षत एव पश्यति ॥ १८६९ ॥ अथैतदर्शनान पूर्व य आसीत् संशयः, स युक्तोऽभवत् । नैवम् । कुतः ? इत्याह--- ७८०॥ 'पुव्वं पि न संदेहो जुत्तो जं जोइसा सपच्चक्खं । दीसंति तक्कया वि य उवघाया-ऽणुग्गहा जगओ ॥१८७०॥ इह समवसरणागतदेवदर्शनात् पूर्वमपि तवान्येषां च संशयो न युक्तः, यद् यमाचन्द्रा-ऽऽदित्यादिज्योतिष्कास्त्वया सर्वेणापि च लोकेन स्वप्रत्यक्षत एव सर्वथा दृश्यन्ते । अतो देशतः प्रत्यक्षत्वात् कथं समस्तापरास्तित्वशङ्का । किञ्च, सन्त्येव देवाः, लोकस्य तत्कृतानुग्रहो-पघातदर्शनात् । तथाहि- दृश्यन्त कचित् केचित् त्रिदशाः, कस्यापि किञ्चिद्विभवपदानादिनाऽनुग्रहम् , तत्महरणादिना चोपघातं कुर्वन्तः । ततो राजादिवत् कथमेते न सन्ति ? इति ।। १८७० ॥ पुनरपि परमाशङ्कय ज्योतिष्कदेवास्तित्वं साधयन्नाहआलयमेत्तं च मई पुरं व तव्वासिणो तह वि सिद्धा । जे ते देव त्ति मया न य निलया निच्चपरिसुण्णा॥१८७१॥ अथैवंभूता मतिः परस्य भवेत्- आलया एचालयमा चन्द्रादिविमानानि, न तु देवाः, तत् कथं ज्योतिष्कदेवानां प्रत्यक्षत्वमभिधीयते । किं तद् यथाऽऽलयमात्रम् ? इत्याह- 'पुरं ति' यथा पुरं शून्यं लोकानामालयमात्रं स्थानमात्रं, न तु तत्र लोकाः सन्नि, एवं चन्द्रादिविमानान्यप्यालयमात्रमेव, न तु तत्र देवाः केचित् तिष्ठन्ति, अतः कथं तेषां प्रत्यक्षत्वम् ? । अत्रोत्तरमाह- तथापि तद्वासिन आलयवासिनः सामर्थ्याद् ये सिद्धास्ते देवा इति मताः संमताः । यो ह्यालयः स सर्वोऽपि तन्निवासिनाधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना देवदत्ताधधिष्ठिता वसन्तपुराद्यालयाः, आलयाश्च ज्योतिष्कविमानानि, अत आलयत्वान्यथानुपपत्तेयें तन्निवासिनः सिद्धास्ते देवा इति मताः । आह-ननु कथं ते देवाः सिध्यन्ति । यादृशा हि प्रत्यक्षेण देवदत्तादयो दृश्यन्ते तेऽपि तादृशा एव स्युरिति । तदयुक्तम् , विशिष्टा हि देवदत्ताद्यालयेभ्यश्चन्द्राद्यालया इति, अतस्तन्निवासिनोऽपि विशिष्टाः सिध्यन्ति, ते च देवदत्तादिविलक्षणा देवा इति । अपरस्त्वाह- ननु 'आलयत्वात्' इत्ययं हेतुस्तन्निवासिजनसाधनेऽनैकान्तिकः, शून्यालयद्यभिचारात् । अत्रोत्तरमाह- 'न य , पूर्वमपि न संदेहो युक्तो यज् ज्योतिष्काः स्वप्रत्यक्षम् । दृश्यन्ते तत्कृता अपि चोपघाता-उनुग्रहा जगतः ।। १८७० ॥ २ प. ज. 'न्द्रादिग्यो' । ३ आलयमात्रं च मतिः पुरमिव तहासिनस्तथापि सिद्धाः । ये ते देवा इति मता न च निलया नित्यपरिशून्याः ॥ १८ ॥ म गर ||७८०॥ For Pesand Private Use Only T ww.jaineltrary.org Page #183 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । ॥७८२॥ निलयेत्यादि' न च निलया आलया नित्यमेव शून्या भवन्ति । अयमभिप्रायः- ये केचिदालयास्ते प्राग , इदानी, एष्यति वा कालेऽवश्यमेव तन्निवासिभिरधिष्ठिता एव भवन्ति, न तु नित्यमेव परिशून्याः । ततो यदा तदा वा चन्द्राद्यालयनिवासिनो देवाः सिध्यन्तीति ॥ १८७१ ॥ पुनरप्यत्र पराभिप्रायमाशक्य परिहारमाह को जाणइ व किमेयं ति होज्ज निस्संसयं विमाणाई । रयणमयनभोगमणादिह जह विज्जाहराईणं ॥ १८७२ ॥ यदिवा, एवंभूता मतिः परस्य भवेद् यदुत- चन्द्राद्यालयत्वेन यद् गीयते भवद्भिस्तदिदं को जानाति किश्चिद् भवेत् , किं सूर्योऽग्निमयो गोला, चन्द्रस्त्वम्बुमयः स्वभावतः स्वच्छः, आहोस्विदेवंभूता एवैते भास्वररत्नमया गोलका ज्योतिष्कविमानानि ?, अतः कथमेतेषामालयत्वसिद्धिः । अत्र प्रतिविधानमाह-निःसंशयं विमानान्येतानि, रत्नपयत्वे सति नभोगमनात् , पुष्पकादिविद्याधरतप:सिद्धविमानवदिति । अभ्रविकार-पवनादिव्यवच्छेदार्थ रत्नमयत्वविशेषणमिति ॥ १८७२ ।। __अपरमपि पराभिमायमाशङ्वय परिहरनाह-- होज्ज मई माएयं तहा वि तक्कारिणो सुरा जे ते । न य मायाइविगारा पुरं व निच्चोवलम्भाओ ॥ १८७३ ॥ अथ परस्य मतिभवेत्- नैते चन्द्रादिविमानान्यालयाः, किन्तु मायेयं मायाविना केनापि प्रयुक्ता । अत्रोच्यते- मायात्वममीषामासेद्धम् , वामात्रेणैव भवताऽभिधानात् । तथाप्यभ्युगम्योच्यते- ये तत्कारिणस्तथाविधमायाप्रयोक्तारस्ते सुराः सिद्धा एव, मनुष्यादीनां तथाविधवैक्रियकरणादर्शनात् । अभ्युपगम्य च मायात्वममीषामभिहितम् । न चैते मायादिविकाराः, नित्योपलम्भात् , सर्वेण सर्वदा दृश्यमानत्वादित्यर्थः, प्रसिद्धपाटलिपुत्रादिपुरवदिति । माये-न्द्रजाल कृतानि हि वस्तूनि न नित्यमुपलभ्यन्त इति नित्यविशेषणोपादानमिति ॥ १८७३ ॥ प्रकारान्तरेणापि देवास्तित्वं साधयन्नाहजैइ नारगा पवन्ना पगिट्ठपावफलभोइणो तेणं । सुबहुगपुण्णफलभुजो पवज्जियव्वा सुरगणा वि ॥१८७४॥ , को जानाति वा किमेतदिति भवेद् निस्संशयं विमानानि । रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् ॥ १८७२ ॥ २ भवेद् मतिमायेयं तथापि तत्कारिणः सुरा ये ते । न च मायादिविकाराः पुरमिव नित्योपलम्भात् ॥ १८७३ ॥ । यदि नारकाः प्रपन्नाः प्रकृष्पापफलभोगिनस्तेन । सुबहुकपुण्यफलभुजः प्रपत्तव्याः सुरगणा अपि ॥ १८७४ ॥ 11७८१॥ Page #184 -------------------------------------------------------------------------- ________________ विशेषाः ॥७८२॥ PARASIRAT इह स्वकृतमकृष्टपापफलभोगिनस्तावत् कचिद् नारकाः प्रतिपत्तव्यास्ते च यदि प्रपन्नाः, 'तेणं ति' तर्हि तेनैव प्रकारेण स्वोपार्जितसुष्ठुबहुकपुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः । अत्राह- नन्विहैवातिदुःखितनरास्तिर्यश्चश्वातिदुःखिताः प्रकृष्टपापफल-बृहद्वत्तिः । भुजो भविष्यन्ति, तथा, मनुष्या एवातिसुखिताः प्रकृष्टपुण्यफलभुजो भविष्यन्ति, किमदृष्टनारक-देवपरिकल्पनया ? इति । तदयुक्तम् , प्रकृष्टपापफलभुजां सर्वप्रकारेणापि दुःखेन भवितव्यम् , न चातिदुःखितानामपि नर-तिरश्चां सर्वप्रकारं दुःखं दृश्यते, सुखदपवनाऽऽलोकादिसुखस्य सर्वेषामपि दर्शनात् । प्रकृष्टपुण्यफलभुजामपि सर्वप्रकारेणापि सुखेन भवितव्यम् , न चेहातिसुखितानामपि नराणां सर्वप्रकारं सुखमवलोक्यते, पूतिदेहोद्भवस्य रोग-जरादिप्रभवस्य च दुःखस्य तेषामपि सद्भावात् । तस्मात् प्रकृष्टपापनिबन्धनसर्वेषकारदुःखदिनो नारकाः, प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनो देवाश्चाभ्युपगन्तव्या एवेति ॥ १८७४ ॥ ननु यदि देवाः सन्ति, तर्हि स्वच्छन्दचारिणोऽपि किमित्यत्र ते कदाचिदपि नागच्छन्ति ? इत्याह संकेतदिव्वपिम्मा विसयपसत्ताऽसमत्तकत्तव्वा । अणहीणमणुयकज्जा नरभवमसुभं न एंति सुरा ॥१८७५॥ नागच्छन्तीह सदैव सुरगणाः, संक्रान्तदिव्यप्रेमत्वात् , विषयप्रसक्तत्वात् , प्रकृष्टरूपादिगुणकामिनीप्रसक्तरम्यदेशान्तरगतपुरुषवत् । तथा, असमाप्तकर्तव्यत्वात् , बहुकर्तव्यताप्रसाधननियुक्तविनीतपुरुषवत् । तथा, अनधीनं मनुजानां कार्य येषां तेऽनधीनमनुजकार्याः, तद्भावस्तत्त्वं तस्माद् नेहागच्छन्ति सुराः, अनभिमतगेहादौ निःसङ्गयतिवदिति । तथा, अशुभत्वाद् नरभवस्य तद्गन्धा-8 सहिष्णुतया नेहागच्छन्ति देवाः, स्वपरित्यक्तकडेवरवदिति ।। १८७५ ॥ ___ तत् किं सर्वथा तंत्र नागच्छन्ति ? । नैवम् । अत एवाहनेवरि जिणजम्म-दिक्खा-केवल-निव्वाणमहनिओगेणं । भत्तीए सोम्म ! संसयविच्छेयत्थं व एजहण्हा ॥१८७६॥ पुव्वाणुरागओ वा समयनिबंधा तवोगुणाओ वा । नरगणपीडा-ऽणुग्गह-कंदप्पाईहिं वा केइ ॥ १८७७ ॥ , संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ता असमाप्तकर्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नागच्छन्ति सुराः ॥ १८७५ ॥ २ नवरं जिनजन्म-दीक्षा केवल-निर्वाणमहनियोगेन । भक्त्या सौम्य ! संशयविच्छेदार्थ पैयुरिहाहाय ॥ १८७६ ॥ पूर्वानुरागतो वा समयनिवन्धात् तपोगुणाद् वा । नरगणपीडा-ऽनुग्रह-कन्दादिभिर्वा केचित् ॥ १८७७॥ ॥७८२।। Jan Education Internation For Personal and Private Use Only ARww.janelbrary.org Page #185 -------------------------------------------------------------------------- ________________ विशेषा० ॥७८३॥ नवरं जिनजन्म-दीक्षा-केवल-निर्वाणमहोत्सवनियोगेन तत्कर्तव्यतानियमेनेह देवा आगच्छेयुः । तत्र सौम्य ! केचिदिन्द्रादयो । निजभक्त्या समागच्छन्ति, केचित् तु तदनुवृत्त्या, अन्ये संशयव्यवच्छेदार्थम् , अपरे तु पूर्वभविकपुत्र-मित्राद्यनुरागात् । समयनिबन्धः- प्रतिबोधादिनिमित्तः संकेतनिश्चयः, तस्माच्च केचिद् देवा इहागच्छन्ति । अन्ये तु महासत्त्वसाध्वादितपोगुणसमाकृष्टाः, केचित्तु । | पूर्ववैरिकनरगणपीडार्थम् , अपरे तु पूर्वसुहृत्-पुत्राद्यनुग्रहार्थम् , केचित्तु देवाः कन्दर्पादिभिरिहागच्छन्ति । आदिशब्दात् साध्वादिपरीक्षाहेतोरिति द्रष्टव्यमिति । तदेवं निरूपितं देवानामत्रागमनकारणम् , अनागमनकारणं च ।। १८७६ ॥१८७७॥ ____ अथ देवसिद्धावन्यदपि कारणमाह जाइस्सरकहणाओ कासइ पच्चक्खदरिसणाओ य । विजा-मंतो-वायणसिद्धीओ गहविगाराओ ॥१८७८॥ उक्किट्ठपुण्णसंचयफलभावाओऽभिहाणसिद्धीओ । सव्वागमसिद्धीउ य संति देव त्ति सद्धेयं ॥ १८७९ ॥ 'सन्ति देवा इत्येतत् श्रद्धेयम्' इति प्रतिज्ञा, जातिस्मरणप्रत्ययितपुरुषेण कथनात् , नानादेशविचारिप्रत्ययितपुरुषावलोकितकथितविचित्रबृहद्देवकुलादिवस्तुवत् ; तथा, कस्यापि तपःप्रभृतिगुणयुक्तस्य प्रत्यक्षदर्शनप्रवृत्तेश्च- केनचित् प्रत्यक्षप्रमाणेनोपलम्भादित्यर्थः, दूरविप्रकृष्टनगरादिवत् , तथा, विद्या-मन्त्रोपयाचनेभ्यः कार्यसिद्धेः, प्रसादफलानुमितराजादिवत् ; तथा, 'गहविगाराउ त्ति' अत्र प्रयोगः- ग्रहाधिष्ठितपुरुषदेहो जीवव्यतिरिक्तादृश्यवस्त्वधिष्ठातृकः, पुरुषासंभाव्यविकारवत्क्रियादर्शनात् , संचरिष्णुयन्त्रव्यतिरिक्तमध्यप्रविष्टादृश्यमानपुरुषाधिष्ठितयन्त्रवत् ; तथा, तपो-दानादिक्रियासमुपार्जितोत्कृष्टपुण्यसंभारफलसद्भावात् , उत्कृष्टपापप्राग्भारफलसद्भावनिश्चितनारकवत, एतच प्रागेव भावितम् । तथा, 'देवाः' इति यदभिधानं ततोऽपि च देवानां सिद्धिः । एतच्चानन्तरगाथायां व्यक्तीकरिष्यते । तथा, सर्वे च त आगमाश्च सर्वागमास्तेष्वविप्रतिपत्त्या सिद्धत्वाच सन्ति देवा इति ॥१८७८॥१८७९।। यदुक्तम्- 'अभिहाणसिद्धीउ त्ति' तद् भावयन्नाह देव त्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मई मणुउ च्चिय देवो गुण-रिद्धिसंपण्णो ॥१८८०॥ ७८३॥ जातिस्मरकथनात् कस्यचित् प्रत्यक्षदर्शनाच्च । विद्या-मन्त्रोपयाचनसिनेमेहविकारात् ॥ १८७८ ॥ उत्कृष्टपुण्यसंचयफलभावादभिधानसिद्धेः । सर्वांगमसिद्धेश्च सन्ति देवा इति श्रद्धेयम् ॥ १४७९ ॥ २देवा इति सार्थकमिदं शुद्धत्वतो घटाभिधानमिव । अथवा मतिर्मनुज एवं देवो गुण-विसंपनः ॥ १८८०॥ Jan Education Internati For Personal and Private Use Only www.janeitrary.org Page #186 -------------------------------------------------------------------------- ________________ बृहदा ॥७८४॥ 'तं न जउ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तच्चत्थसीह सिद्धे माणवसीहोवयारो ब्व ॥१८८१॥ विशेषा० 'देवाः' इत्येतत् पदं सार्थकं व्युत्पत्तिमच्छुद्धपदत्वात् , घटादिवत् । तत्र दीव्यन्तीति देवा इति व्युत्पत्तिमत्त्वम् , समास तद्धितरहितत्वेन च शुद्धत्वम् । भावना चात्र प्रागुक्तैव । अथ परस्य मतिर्भवेत्- ननु मनुष्य एवेह दृश्यमानो देवो भविष्यति, किपदृष्टदेवकल्पनया। किं सर्वोऽपि मनुष्यो देवः । इति । न, इत्याह- गुणसंपन्नो गणधरादिः, ऋद्धिसंपन्नश्चक्रवत्यादिः । अत्रोच्यते तदेतद् न, यस्मात् तथ्ये मुख्ये वस्तुनि कचित् सिद्धे सत्यन्यत्रोपचारतस्तत्सिद्धिर्मता, यथा मुख्ये यथार्थे सिंहेऽन्यत्र सिद्धे ततो Fol माणवके सिंहोपचारः सिध्यति, एवमिहापि यदि मुख्या देवाः कचित् सिद्धा भवेयुः, तदा राजादेर्देवोपचारो युज्यते, नान्यथेति | ॥ १८८० ॥१८८१ ॥ देवाभावे चाग्निहोत्रक्रियाणां वैफल्यमिति दर्शयन्नाह देवाभावे विफलं जमग्गिहोत्ताइयाण किरियाणं । सग्गीयं जन्नाण य दाणाइफलं च तदजुत्तं ॥१८८२॥ 'वा' इत्यथवा, इदं दूषणम्- देवाभावेऽभ्युपगम्यमाने यदग्निहोत्रादिक्रियाणाम् “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादिना स्वर्गीय फलमुक्तम् , तथा, यज्ञानां च यत् फलमभिहितं, दानादिफलं च यत् समस्तलोके प्रसिद्धम् , तत् सर्वमयुक्तं प्रामोति । स्वर्गो ह्येतेषां फलमुक्तम् , स्वर्गिणां चाभावे कुतः स्वर्गः? इति । “स एष यज्ञायुधी" इत्यादीनि च वेदवाक्यानि देवास्तित्वप्रतिपादनपराणि वर्तन्ते । अतः किं तान् न प्रतिपद्यसे । यद्यपि “को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण कुवरादीन्" इत्यादि वाक्यम् , तदपि न देवनास्तित्वाभिधायकम् , किन्तु सुराणामपि मायोपमत्वाभिधानेन शेषद्धिसमुदायानां सुतरामनित्यत्वप्रतिपादकं बोद्धव्यम् । अन्यथा हि देवास्तित्वप्रतिपादकवाक्यानि, श्रुतिमन्त्रपदैरिन्द्रादीनामाहानं चानर्थकं स्यात् ॥ १८८२ ॥ एतदेवाहजम-सोम-सूर-सुरगुरु-सारजाईणि जयइ जण्णेहिं । मंतावाहणमेव य इंदाईणं विहा सव्वं ॥ १८८३ ॥ १ तद् न यतस्तथ्यार्थे सिद्ध उपचारतो मता सिद्धिः। तथ्यार्थसिंहे सिद्ध माणवसिंहोपचार इव ॥ १८ ॥ २ देवाभावे विफलं यदग्निहोत्रादिकानां क्रियाणाम् । स्वर्गीय यज्ञानां च दानादिफलं च तदयुक्तम् ॥ १८८२ ॥ ३ यम-सोम-सूर-सुरगुरु स्वाराज्यादीनि जयति यज्ञैः । मन्त्राानमेव चन्द्रादीनां वृथा सर्वम् ॥ १८ ॥ ७८४॥ JanEducational Intemat Foron and Private Use Only www.janeibrary.org Page #187 -------------------------------------------------------------------------- ________________ विशेषा. ॥७८५॥ 'जमित्यादि' पूर्वार्धस्यायमर्थः- उक्थषोडशिप्रभृतिक्रतुभिर्यथाश्रुति “यम-सोम-सूर्य-सुरगुरु-स्वाराज्यानि जयति" इत्यादीनि देवास्तित्वसूचकानि वेदवाक्यानि देवाभावे वृथैव स्युः । इह चोक्थषोडशिप्रभृतयो यज्ञविशेषा मन्तव्याः । सयूपो यज्ञ एव हि क्रतुरुच्यते, यूपरहितस्तु दानादिक्रियायुक्तो यज्ञ इति । स्वः- स्वर्गः, तत्र राज्यानि जयति- उपार्जयतीत्यर्थ इति । तथा, मन्त्रैरिन्द्रादीनामाहानं देवास्तित्व एवोपपद्यते, अन्यथा वृथैव स्यात् । इन्द्रादीनां मन्त्रपदैराहानमेवमवगन्तव्यम्- “इन्द्र ! आगच्छ मेधातिथे मेपवृषण" इत्यादि । तस्माद् युक्तितो वेदवाक्येभ्यश्च 'सन्ति देवाः' इति स्थितम् । तदेवं छिन्नो मौर्यपुत्रस्य भगवता संशयः ॥१८८३॥ ततः किं कृतवानसौ ? इत्याह'छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ अडुडोहि सह खंडियसएहि ॥१८८४॥ व्याख्या पूर्ववत् । इत्येकविंशतिगाथार्थः ।। १८८४ ।। ॥इति सप्तमो गणधरवादः समाप्तः ॥ अष्टमगणधरवक्तव्यतामाह ते पव्वइए सोउं अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१८८५॥ व्याख्या तथैव, नवरमकम्पितनामा द्विजोपाध्यायोत्र वक्तव्यः॥ १८८५ ।। ततः किम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तण य सब्वण्णू सव्वदरिसी णं ॥१८८६॥ व्याख्याता तथैवेति ॥ १८८६ ॥ नाम-गोत्राभ्यामाभाष्य ततोऽसौ भगवता किमुक्तः ? इत्याह *किं मण्णे नेरइया अस्थि नत्थि त्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ १८८७ ॥ १ गाथा १८६३ । २ तान् प्रजाजितान् श्रुत्वाऽकम्पित आगच्छति जिनसकाशम् । बजामि वन्दे वन्दित्वा पर्युपासे ॥ १८८५॥ ३ गाथा १६०९। ४ किं मन्यसे नैरयिकाः सन्ति न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १८॥ ॥७८५ Jan Education inte Forson and Private Us Only www.jaineibrary.org Page #188 -------------------------------------------------------------------------- ________________ विशेषा० ॥७८६ ॥ Jain Educations Internation किं नारकाः सन्ति, नवा ? इति त्वं मन्यसे । अयं च तव संशयो विरुद्ध वेदपदश्रवणनिबन्धनः तथाहि - "नारको वै एष जायते यः शूद्रान्नमश्नाति" इत्यादि - एष ब्राह्मणो नारको जायते यः शूद्रान्नमश्नातीत्यर्थः, इत्यादीनि वाक्यानि नारक सत्ताप्रतिपाद का नि; "न ह वै प्रेत्य नारकाः सन्ति" इत्यादीनि तु नारकाभावप्रतिपादकानि । तत्रैषां वेदपदानामर्थं चशब्दाद् युक्तिहृदयं च त्वं न जानासि, यत एतेषामयं वक्ष्यमाणोऽर्थ इति ।। १८८७ ॥ अत्र भाष्यम् - तं मन्नसि पञ्चक्खा देवा चंदादओ तहन्ने वि । विज्जा - मंतोवायणफलाइ सिद्धीए गम्मंति ॥ १८८८॥ जे पुण सुइमेत्तफला नेरइय त्ति किह ते गहेयव्या । सक्खमणुमाणओ वाऽणुवलंभा भिन्नजाईया ? ॥१८८९ ॥ हे आयुष्मन्नकम्पित ! त्वमेवं मन्यसे - देवास्तावच्चन्द्रादयः प्रत्यक्षप्रमाणसिद्धा एव, अन्ये त्वमत्यक्षा अपि विद्या मन्त्रोपयाचितकादिफलसिद्धयाऽनुमानतो गम्यन्ते ये पुनः 'नारकाः' इत्यभिधानमात्ररूपा श्रुतिरेव फलं येषां न पुनस्तदभिधायकशब्दव्यतिरिक्तोऽर्थः ते साक्षात् अनुमानतो वाऽनुपलभ्यमानत्वेन तिर्यग्-नरा-मरेभ्यः सर्वथा भिन्नजातीयाः कथं 'सन्ति' इति ग्रहीतव्याः, खरविषाणवत् । इति ।। १८८८ ।। १८८९ ।। अथ भगवानुत्तरमाह- मैह पच्चक्खत्तणओ जीवाई य व्व नारए गिण्ह । किं जं सपच्चक्खं तं पच्चक्खं नवरि इक्कं ? || १८९० || जं कासइ पच्चक्खं पञ्चक्खं तं पि घेप्पए लोए । जह सीहाइदरिसणं सिद्धं न य सव्वपच्चक्खं ॥ १८९१ ॥ हे आयुष्मन्नकम्पित ! 'साक्षादनुपलभ्यमानत्वात्' इत्यसिद्धो हेतुः, यतोऽहं केवलप्रत्यक्षेण साक्षादेव पश्यामि नारकान् ततो मत्प्रत्यक्षत्वात् 'सन्ति' इति गृहाण प्रतिपद्यस्व नारकान् जीवा-जीवादिपदार्थवत् । अथैवं मन्यसे - ममाप्रत्यक्षत्वात् कथमेतान् त्वं मन्यसे प्रत्यक्षा देवाश्चन्द्रादयस्तथान्येऽपि । विद्या मन्त्रोपायन फलादिसिद्धेर्गम्यन्ते ॥ १८८८ ॥ ये पुनः श्रुतिमात्रफला नैरयिका इति कथं ते ग्रहीतव्याः साक्षादनुमानतो वाऽनुपलम्भाद् भिन्नजातीयाः १ ॥१८८९ ॥ २ घ. ज. 'अत्र भ' ३ मम प्रत्यक्षत्वतो जीवादींश्रेव नरकान् गृहाण । किं यत् स्वप्रत्यक्षं तत् प्रत्यक्षं नवरमेकम् ? ॥ १८९० ॥ यत् कस्यचित्प्रत्यक्षं प्रत्यक्षं तदपि गृह्यते लोके । यथा सिंहादिदर्शनं सिद्धं न च सर्वप्रत्यक्षम् ॥ १८९१ ॥ ४ प. ज. झ. 'रि एक' । For Personal and Private Use Only बृहद्वृत्तिः । |||७८६|| Page #189 -------------------------------------------------------------------------- ________________ Sta गृह्णामि ? । ननु दुरभिप्रायोऽयम् , यतः किं यत् खस्यात्मनः प्रत्यक्षं तदेवैकं नवरं प्रत्यक्षमुच्यते ? इति काका नेयम् । ननु यदपि । विशेषा. कस्यचित् प्रत्ययितपुरुषस्यान्यस्य प्रत्यक्षं तदपि 'प्रत्यक्षम्' इति गृह्यते व्यवहियते लोके; तथाहि- सिंह-सरभ-हंसादिदर्शनं सिद्धं । प्रसिद्ध लोके, न च सिंहादयः सर्वजनप्रत्यक्षाः, देश-काल ग्राम-नगर-सरित्-समुद्रादयश्च न सर्वेऽपि भवतः प्रत्यक्षाः, अथ चान्यस्यापि ॥७८७॥ | प्रत्यक्षास्ते प्रत्यक्षतया व्यवह्रियमाणा दृश्यन्ते । अतो मत्प्रत्यक्षा नारकाः किमिति प्रत्यक्षतया न व्यवहियन्ते ? इति ॥१८९०॥१८९१॥ ___ अथाभिप्रायान्तरमाशङ्कय परिहरन्नाह अहवा जमिंदियाणं पच्चक्खं किं तदेव पच्चक्खं ?। उवयारमेत्तओ तं पच्चक्खमणिंदियं तत्थं ॥१८९२॥ अथवा, किं यदिन्द्रियाणां प्रत्यक्षं तदेव प्रत्यक्षमिष्यते भवता, मदीयं तु प्रत्यक्षं नाभ्युपगम्यते, अतीन्द्रियत्वात् ? । ननु महानयं विपर्यासः, यस्मादुपचारमात्रत एव तदिन्द्रियप्रत्यक्षं प्रत्यक्षतया व्यवहियते- यथाऽनुमाने बाह्यधूमादिलिङ्गद्वारेण बाह्यमग्न्यादि वस्तु ज्ञायते, नैवमत्र, तत उपचारात् प्रत्यक्षमिव प्रत्यक्षमुच्यते । परमार्थतस्तु- इदमपि परोक्षमेव, यतोऽक्षो जीवः, स चानुमानवदत्रापि वस्तु साक्षाद् न पश्यति, किन्त्विन्द्रियद्वारेणैव, ततोऽतीन्द्रियमेव तथ्यं प्रत्यक्षमवगन्तव्यम् , तत्र जीवेन साक्षादेव वस्तुन उपलम्भादिति ॥ १८९२ ॥ अत्राह- नन्विन्द्रियमत्यक्षे यद्यपि जीवः साक्षाद् वस्तु न जानाति, तथापीन्द्रियाणि साक्षात् तज्ज्ञास्यन्ति, ततश्चेन्द्रियाणां ERA प्रत्यक्षमिन्द्रियप्रत्यक्षं भविष्यति, इत्याशङ्कयाह मुत्ताइभावओ नोवलडिमंतिदियाई कुंभो व्व । उवलंभद्दाराणि ताई जीवो तदुवलद्दा ॥ १८९३ ॥ नोपलब्धिमन्तीन्द्रियाणि- न वस्तुज्ञायकानीत्यर्थः, पुद्गलसंघातरूपत्वेन मूर्तत्वात् , आदिशब्दादचेतनत्वात् , कुम्भवत् । नवरमुपलम्भस्य श्रोत्रादिज्ञानस्य द्वाराणि भवन्त्यमूनि, गवाक्षवत् , तत्सापेक्षस्यैव क्षयोपशमस्य प्रबोधात् । जीव एव च तदुपलब्धा वस्तूपलब्धा ॥१८९३ ॥ जीवस्य, इन्द्रियाणां चाभेद एवेति चेत् । नैवम् । कुतः? इत्याह C७.७॥ , अथवा यदिन्द्रियाणां प्रत्यक्षं किं तदेव प्रत्यक्षम् ? । उपचारमात्रतस्तत् प्रत्यक्षमनिन्द्रिय तथ्यम् ॥ १८९२ ॥ २ मूतांदिभावतो नोपलब्धिमन्तीन्द्रियाणि कुम्भ इव । उपलम्भद्वाराणि तानि जीवस्तदुपलब्धा ॥ १८९५ ॥ POS Sarosa For Personal and Private Use Only Jam Education International www.janelbrary.org Page #190 -------------------------------------------------------------------------- ________________ विशेषा० ७८८|| Jain Educationa International दुरमे विसरणओ तव्वावारे वि नोवलंभाओ । इंदियभिन्नो नाया पंचगवक्खोवला वा ॥ १८९४ ॥ इन्द्रियेभ्यो भिन्नो ‘नाय त्ति' ज्ञाता जी तदुपरमेऽपीन्द्रियोपरमेऽपि तद्द्द्वारोपलब्धार्थानुस्मरणात्, तद्व्यापारेऽपीन्द्रियव्यापारेऽप्यन्यमनस्कतायामनुपलम्भात्; यथा पञ्चभिर्गवाक्षैरुपलब्धा वस्तूपलम्भकस्तेभ्यो भिन्न इति ।। १८९४ ॥ अथेन्द्रियप्रत्यक्षमतीन्द्रियप्रत्यक्षाद् बहु पश्यति । तदयुक्तम् । कुतः १ इत्याह- जो पुण अणिदिउ च्चिय जीवो सव्वप्पिहाणविगमाओ । सो सुबहुयं वियाणइ अवणीयघरो जहा दट्ठा ।। १८९५॥ यः पुनरनिन्द्रिय एव केवलज्ञानसंपन्नो जीवः स इन्द्रियज्ञानवतो जीवात् सुबहु विजानातीति प्रतिज्ञा, सर्वपिधानविगमात् - सर्वावरणक्षयादित्यर्थः, यथा पञ्चगवाक्षगृहस्थित पुरुषात् सर्वथाऽपनीतगृहः सर्वत एवाssकाशीकृतप्रदेशे स्थितो द्रष्टा पुरुष इति ।। १८९५ ।। अपिच, इन्द्रियजं ज्ञानं न भवत्येव प्रत्यक्षम् । कुतः १ इत्याह- न हि पच्चक्खं धम्मंतरेण तद्धम्ममेत्तगहणाओ । कयगत्तओ व सिद्धी कुंभाणिच्चत्तमेत्तस्स || १८९६ ॥ न भवति प्रत्यक्षम् 'इन्द्रियजं ज्ञानम्' इति प्रक्रमाल्लभ्यते । चक्षुरादीन्द्रियस्य रूपादिपरिच्छेदशक्तिविशेषरूपेण धर्मान्तरेण हेतुभूतेन तस्यानन्तधर्मात्मकस्य वस्तुनो यद् रूपादिकमेकं धर्ममात्रं तस्य ग्रहणादिति हेतुः । किं तद् यथा न प्रत्यक्षम् ? इत्याह- यथा कृतकत्वाद् घटानित्यत्वमात्रसिद्धिलक्षणमनुमानमित्येष दृष्टान्तः । इह च यथा परस्मात् साध्यसिद्धौ नानुमानं प्रत्यक्षम् तथेन्द्रियजमपि विज्ञानमित्येतावान् भावार्थ इति ।। १८९६ ।। प्रकारान्तरेणापीन्द्रियजज्ञानस्याप्रत्यक्षतां साधयन्नाह- व्वोवलद्धसंबंधसरणओ वानलो व्व धूमाओ । अव निमित्तंतरओ निमित्तमक्खस्स करणाई ॥ १८९७॥ १ तदुपरमेऽपि स्मरणतस्तद्व्यापारेऽपि नोपलम्भात् । इन्द्रियभितो ज्ञाता पञ्चगवाक्षोपलब्धेव ।। १८९४ ॥ २ यः पुनरनिन्द्रिय एव जविः सर्वपिधानविगमात् । स सुबहुकं विजानात्यवनीतगृहो यथा दृष्टा ।। १८९५ ।। ३ न हि प्रत्यक्षं धर्मान्तरेण तद्धर्ममात्रग्रहणात् । कृतकत्वत इव सिद्धिः कुम्भानित्यत्वमात्रस्य ।। १८९६ ॥ ४ पूर्वोपलब्धसंबन्धस्मरणतो वाऽनल इव धूमात् । अथवा निमित्तान्तरतो निमित्तमक्षस्य करणानि ॥ १८९७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । 1122611 Page #191 -------------------------------------------------------------------------- ________________ विशेषा. ॥७८९॥ 'वा' इत्यथवा, न प्रत्यक्षमिन्द्रियजं ज्ञानमिति सैव प्रतिज्ञा, पूर्वोपलब्धश्चासौ संबन्धश्च पूर्वोपलब्धसंबन्धस्तत्स्मरणाज्जायमानत्वात् , धूमादनलज्ञानवत् । तथाहि- 'घटोऽयं, पूर्वसंकेतकाल एवंभूत एव पदार्थे प्रत्ययिताभिज्ञपुरुषाद् घटसंकेतस्य मया गृहीतत्वात इति पूर्वोपलब्धसंबन्धस्मरणादेव सर्वस्यापि घटादिग्राहकमिन्द्रियज्ञानमुपजायते; अन्यथा नालिकेरद्वापाद्यायातस्याप्यविशेषेणतत् स्यात् । अभ्यास-पाटवादिभ्यश्चाशुकारितयेन्द्रियज्ञानप्रवृत्तेः सर्वतद् न लक्ष्यत इति । अथवा, प्रत्यक्षमिन्द्रियजं ज्ञानम् , पूर्वप्रतिपादितव्युत्पक्याऽक्षस्य जीवस्य स्वव्यतिरिक्तनिमित्तविशेषाज्जायमानत्वात् , धूमादग्निज्ञानवत् । स्वव्यतिरिक्तानि च निमित्तान्यक्षस्य जीवस्य करणानीन्द्रियाणि मन्तव्यानि । यच्च प्रत्यक्षं न तज्जीवस्य निमित्तान्तराज्जायते, किन्तु जीवस्तत्र साक्षादेव ज्ञेयं पश्यति, यथाऽवधिमनःपर्याय-केवलज्ञानेष्विति ।। १८९७ ॥ अत एवाह 'केवल-मणो-हिरहियस्स सव्वमणुमाणमेत्तयं जम्हा । नारगसब्भावम्मि य तदत्थि जं तेण ते संति ॥१८९८॥ केवल-मनःपर्याया-ऽवधिज्ञानरहितस्य प्रमातुः संबन्धि सर्वमपि ज्ञानं यस्मादनुपानमात्रमेव, परोक्षार्थविषयत्वात् । केवलादिज्ञानत्रयं तु वस्तुसाक्षात्कारित्वात् प्रत्यक्षम् । तदेवमनुमानं प्रत्यक्षं च यस्माद् नारकसद्भावे साध्ये विद्यत एव, तेन ते नारकाः सन्तीति प्रतिपद्यस्व । तत्र प्रत्यक्षं मदीयमेव केवलज्ञानम् ।। १८९८ ।। अनुमानं त्विदम्पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेस व्व। सन्ति धुवं तेऽभिमया नेरइया, अह मई होजा ॥१८९९।। अच्चत्थदुक्खिया जे तिरिय-नरा नारगति तेऽभिमया। तं न जओ सुरसोक्खप्पगरिससरिसं नतंदुक्खं ॥१९००॥ प्रकृष्टस्य पापफलस्य भोगिनः केचिद् ध्रुवं सन्ति, 'कम्मउ त्ति' कर्मफलत्वात् तस्येत्यर्थः, अवशेषवदिति- यथा जघन्यमध्यमपापफलभोगिनः शेषास्तिर्यङ्-नरा विद्यन्त इत्यर्थ इति दृष्टान्तः । 'तेऽभिपया नेरइय त्ति' ये प्रकृष्टपापफलभोगिनस्ते 'नारकाः , केवल-मनो-बधिरहितस्य सर्वमनुम्ममात्रकं यस्मात् । नरकसद्भावे च तदस्ति यत् तेन ते सन्ति ।।१८९८॥ २ पापफलस्य प्रष्टस्य भोगिनः कर्मतोऽवशेष इव । सन्ति ध्रुवं तेऽभिमता नैरयिकाः, अथ मतिर्भवेत् ॥१८९९ ॥ अत्यधंदुःखिता ये तिर्यग्-नरा नारका इति तेऽभिमताः । तद् न यतः सुरसौख्यप्रकर्षसदर्श न तद् दुःखम् ॥ १९.०॥ 11७८९॥ For Personal and Oy Page #192 -------------------------------------------------------------------------- ________________ विशेषा० ॥७९० ॥ Jain Education internationa इत्यभिमताः । अथ परस्यैवंभूता मतिर्भवेत् अत्यर्थं दुःखिता ये तिर्यग्- मनुष्यास्त एवोत्कृष्टपापफलभोगित्वाद् नारकव्यपदेशभाजो भविष्यन्ति, किमदृष्टनारककल्पनया ? इति । तदेतद् न, यतोऽतिदुःखितानामपि तिर्यग्-मनुष्याणां यद् दुःखं तदमरसौख्यप्रकर्षसदृश प्रकर्षवद् न भवति । इदमुक्तं भवति- येषामुत्कृष्टपापफलभोगस्तेषां संभवद्भिः सर्वैरपि प्रकारैर्दुःखेन भवितव्यम्, न चैवमतिदुःखि तानामपि तिर्यगादीनां दृश्यते, आलोक-तरुच्छाया-शीतपवन-सरित् सरः- कूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात्- छेदनभेदन - पाचन- दहन-दम्भन-वज्र-कण्टक शिलास्फालनादिभिश्व नरकप्रसिद्धैः प्रकारैर्दुःखस्यादर्शनात्, इत्यादि प्रागुक्तानुसारेण स्वयमेवाभ्यूह्य वाच्यमिति । आगमार्थश्चायमवगन्तव्य इति । " सततमनुबद्धमुक्तं दुःखं नरकेषु तीत्रपरिणामम्। तिर्यक्षूष्ण-भय-क्षुत्तृडादिदुःखं सुखं चाल्पम् ॥ १ ॥ सुख-दुःखे मनुजानां मनः शरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥ २ ॥' इति ।। १८९९ ।। १९०० ॥ प्रागनेकशोऽभिहितानुमानतोऽपि नारकान् साधयितुमाह- सच्चं चेदमकंपिय ! मह वयणाओऽवसेसवयणं व । सव्वण्णुत्तणओ वा अणुमयसव्वष्णुवयणं व ॥ १९०१ ॥ 'नारकाः सन्ति' इति सत्यमकम्पित ! इदम् मद्वचनत्वात्, यथाऽवशेषं त्वत्संशयादिविषयं मद्वचनम् । अथवा, 'सर्वज्ञवचनत्वात्' इत्येव हेतुर्वक्तव्यः, त्वदनुमतमनु- जैमिन्यादिसर्वज्ञवचनवदिति । १९०१ ॥ अपिच, -राग-दोस- मोहाभावाओ सच्चमणइवाई च । सव्वं चिय मे वयणं जाणयमज्झत्थवयणं व ॥१९०२॥ मागनेकधा व्याख्यातेयम् ॥। १९०२ ॥ अकम्पिताभिप्रायमाशङ्कयात्मनि सर्वज्ञतादिसाधनाय भगवानाह - १ सत्यं चेदमकम्पित ! मम वचनादव शेषवचनमिव । सर्वशत्वतो वाऽनुमतसर्वज्ञवचनमिव ॥ १९०१ ॥ २ गाथा १५७८ । For Personal and Private Use Only बृहद्वृत्तिः । ॥७९० ॥ www.jaineibrary.org Page #193 -------------------------------------------------------------------------- ________________ SE विशेषा. ॥७९१॥ 'किह सव्वण्णु त्ति मई पच्चक्खं सव्वसंसयच्छेया । भय-रोग-दोसरहिओ तल्लिंगाभावओ सोम्म!॥१९०३॥ इयमपि व्याख्यातार्था । यदपि “नह वै प्रेत्य नारकाः सन्ति" इत्यादौ नारकाभावः शङ्कयते भवता, तदप्ययुक्तम् , यतोऽयमत्राभिप्रायो मन्तव्यः- न खलु प्रेत्य परलोके मेळदिवच्छाश्चताः केचनाप्यवस्थिता नारकाः सन्ति, किन्तु य इहोत्कृष्टं पापमर्जयति, स इतो गत्वा प्रेत्य नारको भवति, अतः केनापि तत्पापं न विधेयं येन प्रेत्य नारकैर्भूयते । तदेवं छिन्नस्तत्संशयो भगवता ॥१९०३। ततः किं कृतवानसौ ? इत्याह छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खंडियसएहिं ॥१९०४॥ सुबोधा ।। इति विंशतिगाथार्थः ॥ १९०४ ॥ ॥ इत्यष्टमो गणधरवादः समाप्तः ॥ अथ नवमगणधरवक्तव्यतामभिधित्सुराहते पव्वइए सोउं अयलभाया आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१९०५॥ गतार्था, नवरमचलभ्राता द्विजोपाध्यायो नवमो गणधर इति ॥ १९०५॥ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसी णं ॥१९०६॥ तथैव ॥ १९०६॥ आभाष्य ततः किमुक्तम् ? इत्याह*किं मण्णे पुण्ण-पावं अत्थि नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥१९०७॥ १ कथं सर्वज्ञ इति मतिः प्रत्यक्ष सर्वसंशयच्छेदात् । भय-रोग-दोषरहितस्तलिङ्गाभावतः सौम्य ! ॥ १९०३ ।। २ छिने संशये जिनेन जरा मरणविप्रमुक्तेन । स श्रमणः प्रवजितस्त्रिभिस्तु सह खण्डिकशतैः ॥ १९०४ ॥ ३ तान् प्रबजितान् श्रुत्वाऽचलभ्राताऽगच्छति जिनसकाशम् । व्रजामि वन्दे बन्दित्वा पर्युपासे ॥ १९०५ ॥ ४ गाथा १६.९। ५ किं मन्यसे पुण्य पापे स्तो न स्त इति संशयस्तव । वेदपदानां चाथै न जानासि तेषामयमयः ॥ १९०७ ॥ ७९१॥ Jan Education Internation FOC Parman and Present P H Page #194 -------------------------------------------------------------------------- ________________ elelalticolelola विशेषा ॥७९२॥ हे आयुष्मन्नचलभ्रातः ! त्वमेवं मन्यसे-किं पुण्य-पापे स्तो नवा ? इति । अयं चानुचितः संशयः, यस्माद् विरुद्धवेदपदनिवन्धनो विरुद्धदर्शनथुतिनिवन्धनश्च तव वर्तते । तत्र वेदपदानि तावत- “पुरुष एवेदं निं सर्वम्-" इत्यादि यथा द्वितीयगणधर तथा वाच्यानि । तेषां चार्थ त्वं न जानासीत्याद्यपि तथैव व्याख्येयमिति ॥ १९०७ ॥ अत्र भाष्यकारः पूर्वपक्षं प्रपञ्चयन्नाह मण्णसि पुण्णं पावं साहारणमहब दो विभिन्नाई। होज न वा कम्मं चिय सभावओ भवपवंचोऽयं॥१९०८॥ . इह केषाश्चित् तीथिकानामयं प्रवादः- 'पुण्यमेवैकमस्ति न पापम्' । अन्ये त्वाहुः- 'पापमेवैकमस्ति न तु पुण्यम्' । अपरे तु । वदन्ति- 'उभयमप्यन्योन्यानुविद्धस्वरूपं मेचकमणिकल्पं संमिश्रसुख-दुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्तु' इति । अन्ये तु प्रतिपादयन्ति-स्वतन्त्रमुभयं विविक्तसुख-दुःखकारणं 'होज्ज त्ति' भवेदिति । अन्ये पुनराहुः- 'मूलतः कमैव नास्ति, खभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्चः'। अतस्त्वमप्येतान् पश्च विकल्पान् मन्यसे । एतेषां च विकल्पानां परस्परविरुद्धत्वात् संशयदो. लामारूढोऽसि त्वमिति ।। १९०८ ॥ ननु येषां पुण्यमेवैकमस्ति, न तु पापम् , तन्मते कथं कस्यापि दुःखोपपत्तिः ? इत्याह पुण्णुक्करिस्से सुभया तरतमजोगावगरिसओ हाणी । तस्सेव खए मोक्खो पत्थाहारोवमाणाओ॥ १९०९॥ पुनातीति पुण्यं तस्योत्कर्षलेशतो लेशतश्च वृद्धौ शुभता भवति, सुखस्यापि क्रमशो वृद्धिर्भवति तावत् , यावदुत्कृष्टं स्वर्गसुखमित्यर्थः । तस्यैव पुण्यस्य तर-तमयोगापकर्षतो हानिः सुखस्य- दुःखं भवति । इदमुक्तं भवति- यथा यथा पुण्यमपचीयते तथा तथा जीवानां क्रमेण दुःखमुत्पद्यते, यावत् सर्वप्रकर्षप्राप्तं नरकदुःखम् । तस्यैव च पुण्यस्य सर्वथा क्षये मोक्ष इति । एतच्च सर्व पथ्याहारोपमानाद् भावनीयम् । तथाहि- यथा पथ्याहारस्य क्रमेण वृद्धावारोग्यवृद्धिस्तथा पुण्यवृद्धौ सुखवृद्धिः, यथा च पथ्याहारस्य क्रमेण परिहारे सरोगता भवति, एवं पुण्यापचये दुःखोत्पत्तिः सर्वथा पथ्याहारपरिहारे च मरणवत् पुण्यक्षये मोक्ष इति ॥ १९०९ ॥ केवलपापाभ्युपगमे सुखसंभवः कथम् ? इत्याह ॥७९२॥ १ मन्यसे पुग्यं पापं साधारणमधवा द्वे अपि भिन्ने । भवेद् न वा मैंव खभावतो भवप्रपञ्चोऽयम् ॥ १९०८ ॥ २ पुण्योत्कर्षे शुभता तरतमयोगापकर्षतो हानिः । तस्यैव क्षये मोक्षः पध्याहारोपमानात् ॥ १९०९ ॥ Jan Education Internation For and Prive Only Page #195 -------------------------------------------------------------------------- ________________ इत्तिः । पावुक्करिसेऽहमया तरतमजोगावगरिसओ सुभया । तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ ॥१९१०॥ विशेषा इहापथ्याहारोपमानाद् वैपरीत्येन भावना कार्या । तथाहि- यथा क्रमेणापथ्यवृद्धौ रागवृद्धिः, तथा पशियत्यात्मानं मलिनव- तीति पापं, तस्य वृद्धौ मुखवृद्धिरूपाऽधमता मन्तव्या-क्रमेण दुःखं वर्धते, यावदुत्कृष्टं नारकदुःखम् । यथा चापथ्यत्यागात् क्रमेणारोग्यवृद्धिः, तथा क्रमेण पापस्यापकर्षात् सुखस्य वृद्धिः, यावदुत्कृष्टं सुरसौख्यम् । यथा चापथ्याहारस्य सर्वथा परित्यागात् परमारोग्यमुपजायते, एवं सर्वपापक्षये मोक्ष इति ॥ १९१०॥ ____ अथ साधारणं पुण्यपापाख्यमेकमेव संकीर्ण वस्त्विति तृतीयविकल्पं भावयन्नाहसाहारणवण्णादि व अह साहारणमहेगमत्ताए । उक्चरिसा-वगरिसओ तस्सेव य पुण्णपावक्खा ॥१९११॥ 'अह साहारणमिति' अथ साधारण संकीर्णपुण्यपापाख्यं वस्तु भाव्यत इत्यर्थः । कथंभूतं पुनरिदमवगन्तव्यम् ? इत्याह'साहारणवण्णादि व त्ति' यथा साधारणं तुल्यं हरितालगुलिकादीनामन्यतरन्मीलितं वर्णकद्वयम् ; आदिशब्दाद् यथा मेचकमणिः, | नरसिंहादिर्वा, तथेदमपि पुण्यपापाख्यं संकीर्णमेकं वस्त्वित्यर्थः । ननु यद्येकं वस्त्विदम् , तर्हि पुण्यं पापं चेति परस्परविरोधिवस्तुविषयमाख्याद्वयं कथं लभते ? इत्याह- 'अहेगमत्ताए इत्यादि' अथ तस्यैवैकस्य संकीर्णपुण्यपापाख्यस्य वस्तुन एकया पुण्यमात्रया एकेन पुण्यांशेनेत्यर्थः, उत्कर्षतो वृद्धौ सत्यां पुण्याख्या प्रवर्तते; एकया तु पापमात्रया- एकेन पापांशेनेत्यर्थः, उत्कर्षतो वृद्धौ सत्यां Foपापाख्या प्रवर्तते । अपकर्षेऽपि पुण्यांशस्य पापाख्या प्रवर्तते, पापांशस्य त्वपकर्षे पुण्याख्या प्रवर्तत इति ।। १९१० ॥ १९११ ॥ चतुर्थ पश्चमं च विकल्पमधिकृत्याहएवं चिय दो भिन्नाइं होज, होज व सभावओ चेव । भवसंभूई, भण्णइन सभावाओ जओऽभिमओ॥१९१२॥ होज्ज सभावो वत्थु निक्कारणया व वत्थुधम्मो वा । जउ वत्थु णत्थि तओऽणुवलडीओ खपुष्पं व ॥१९१३॥ एवमेव केषाश्चिद् मतेन द्वे अपि भिन्ने स्वतन्त्र स्यातां पुण्य-पापे, तत्कार्यभूतयोः सुख-दुःखयोर्योगपद्येनानुभवाभावात् । , पापोत्कर्षेऽधमता तरतमयोगापकर्षतः शुभता । तस्यैव क्षये मोक्षोऽपथ्यभक्तोपमानात् ॥ १९१० ॥ २ साधारणवर्णादीवाथ साधारणमर्थकमात्रया । उत्कर्षा-ऽपकर्षतस्तस्यैव च पुण्यपापाण्या ॥ ११ ॥ ३ एवमेव हे भिन्ने भवेतां, भवेद् वा स्वभावत एव । भवसंभूतिः, भण्यते न स्वभावाद् यतोऽभिमतः ॥ १९१२ ॥ ४ गाथा १७८६ । DireeRadia भ७९३॥ (ORSH For Personal and Private Use Only Page #196 -------------------------------------------------------------------------- ________________ विशेषा. ॥७९४॥ सब हद्दति ससस अतोऽनेनैव भिन्नकार्यदर्शनेन तत्कारणभूतयोः पुण्य-पापयोभिन्नताऽनुमीयत इति । 'होज वेत्यादि' अथवा स्वभावत एव विनापि पुण्य-पापाभ्यां भवसंभूति:- भववैचित्र्यस्य संभवः कैश्चिदिष्यते । तदेवं दर्शिताः पञ्चापि पुण्य-पापविषया विकल्पाः । एतैश्च । भ्रमितमनोभिः संशयो न कर्तव्यः, एकस्यैव चतुर्थविकल्पस्यादेयत्वात् , शेषाणां चानादयेत्वात् । अत एवं प्रत्यासचिन्यायमङ्गीकृत्य पञ्चमविकल्पं तावद् दूषयितुमाह- 'भण्णईत्यादि' भण्यतेवोत्तरम्- न स्वभावतो भवसंभूतिः, यतः स्वभावो वस्तुरूपो वाभिमतो भवेदिति द्वितीयगाथायां संबन्धः, निष्कारणता वा, वस्तुधर्मो वा स्वभावोऽभिमतो भवेत् ? इति त्रयो विकल्पाः । तत्र यदि वस्तुरूपोऽयमिति प्रथमो विकल्पः, तर्हि तकोऽसौ स्वभावो नास्ति, अनुपलम्भात् , खपुष्पवदिति ॥ १९१२ ॥ १९१३ ॥ अथानुपलभ्यमानोऽप्यस्त्यसावित्याशक्याहअच्चतमणुवलडो वि अह तओ अत्थि नत्थि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्स वि स एव ॥१९१४॥ कैम्मस्स वाभिहाणं होज्ज सभावोत्ति होउ को दोसो ?। पइनिययागाराओ न य सो कत्ता घडस्सेव ॥ १९१५॥ मुत्तो अमुत्तो व तओ जइ मुत्तोतोऽभिहाणओ भिन्नो । कम्मत्तिसहावोत्ति य जइ वाऽमुत्तोन कत्ता तो॥१९१६॥ देहाणं वोमं पिव, जुत्ता कज्जाइओ य मुत्तिमया । अह सो निक्कारणया तो खरसिंगादओ होतु ॥१९१७॥ अह वत्थुणो स धम्मो परिणामो तो स कम्म-जीवाणं । पुन्ने-यराभिहाणो कारण-कज्जाणुमेओ सो ॥१९१८॥ किरियाणं कारणओ देहाईणं च कजभावाओ। कम्मं मदभिहियं ति य पडिवज तमग्गिभूइ व्व ॥१९१९॥ तं चिय देहाईणं किरियाणं पिय सुभा-ऽसुभत्ताओ । पडिवज्ज पुण्णपावं सहावओ भिन्नजाईयं ॥१९२०॥ २ कर्मणो वाभिधानं भवेत् स्वभाव इति भवतु को दोषः । प्रतिनियताकाराद् न च स कती घटस्येव ॥ १९१५ ॥ मूर्तोऽमूर्ती वा सको यदि मूर्तस्ततोऽभिधानतो भिन्नः । कर्मेति स्वभाव इति च यदि वाऽभूर्तो न कर्ता ततः ॥ १९१६ ॥ देहाना ब्योमेव, युक्ता कार्यादितच मूर्तिमत्ता । अथ स निष्कारणता ततः खरऋङ्गादयो भवन्तु ॥ १९१०॥ अथ वस्तुनः स धर्मः परिणामस्ततः स कम-जीवयोः । पुण्ये-तराभिधानः कारण-कार्यानुमेयः सः ॥१९१८ ॥ क्रियाणां कारणतो देहादीनां च कार्यभावात् । कर्म मदभिहितमिति च प्रतिपद्यस्व त्वमग्निभृतिरिव ।। १९१९ ॥ तदेव देहादीनां क्रियाणामपि च शुभाशुभत्वात् । प्रतिपद्यस्व पुण्य-पापे स्वभावतो भिखजातीये ॥ १९२० ।। ॥७९४॥ duona intem Forson and Private Use Only ww.janeibrary.org Page #197 -------------------------------------------------------------------------- ________________ ॥७९५॥ एताश्च गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव, सुगमाश्च । नवरं 'कारण-कज्जाणुमेओ सो त्ति' स च जीव-कर्मणोः पुण्य-पापाभिधानः परिणामः कारणेन कार्येण चाऽनुमीयते-कारणानुमानात् कार्यानुमानाच्च गम्यत इत्यर्थः । एतदेवानुमानद्वयमाह'किरियाणं कारणओ इत्यादि' दानादिक्रियाणां हिंसादिक्रियाणां च कारणत्वात् कारणरूपत्वादस्ति तत्फलभूतस्तत्कार्यरूपपुण्य-पापात्मको जीव-कर्मपरिणामः, यथा कृष्यादिक्रियाणां शालि-यव-गोधूमादिकम् । उक्तं च-- "समासु तुल्यं विषमासु तुल्यं सतीष्वसच्चाप्यसतीषु सच्च । फलं क्रियास्वित्यथ यन्निमित्तं तद् देहिनां सोऽस्ति नु कोऽपि धर्मः ॥ १॥" एतत् कारणानुमानम् । 'देहाईणमित्यादि' देहादीनां कारणमस्ति, कार्यरूपत्वात् तेषाम् , यथा घटस्य मृद्-दण्ड-चक्र-चीवरादिसामग्रीकलितः कुलालः । न च वक्तव्यम्- दृष्ट एव माता-पित्रादिकस्तेषां हेतुः, दृष्टहेतुसाम्येऽपि सुरूपे-तरादिभावेन देहादीनां वैचित्र्यदर्शनात् , तस्य चादृष्टकर्माख्यहेतुमन्तरेणाभावात् । अत एव पुण्य-पापभेदेन कर्मणो द्वैविध्यम् , शुभदेहादीनां पुण्यकार्यत्वात् , इतरेषां तु पापफलत्वात् । उक्तं च " इह दृष्टहेत्वसंभविकार्यविशेषात् कुलालयत्न इव । हेत्वन्तरमनुमेयं तत् कर्म शुभा-ऽशुभं कर्तुः ॥ १॥" एतत् कार्यानुमानम् । तथा, मदभिहितमिति च कृत्वाऽग्निभूतिवत् त्वमपि कर्म प्रतिपद्यस्व, सर्वज्ञवचनप्रामाण्यादित्यर्थः । तदपि पुण्य-पापविभागेन विभक्तं प्रतिपद्यस्व, देहादीनां तत्कार्याणां क्रियाणां च तत्कारणभूतानां शुभा-ऽशुभत्वेन तद्वविध्यदर्शनादिति ॥ १९१४ ॥ १९१५॥ १९१६ ॥ १९१७ ॥ १९१८ ॥ १९१९ ॥ १९२० ।। पुनरपि पुण्य-पापयोः साधनाय प्रमाणमाह सुह-दुक्खाणं कारणमणुरूवं कज्जभावओऽवस्सं । परमाणवो घडस्स व कारणमिह पुण्ण-पावाइं ॥१९२१॥ अस्त्यवश्यं सुख-दुःखयोरनुरूपं कारणम् ..कार्यत्वात् तयोः, यच्चह कार्यं तस्यानुरूपं कारणं भवत्येव, यथा घटस्य परमाणवः, तच्च तयोरिहानुरूप कारणं सुखस्य पुण्यं, दुःखस्य तु पापमिति ॥१९२१॥ प्रेरकः पाह , सुख-दुःखयोः कारणमनुरूपं कार्यभावतोऽवश्यम् । परमाणवो घटस्येव कारणमिह पुण्य-पापे ॥ १९२१ ॥ ७९५|| For Person and Private Use Only Siww.jainelibrary.orm Page #198 -------------------------------------------------------------------------- ________________ विशेषा० ।।७९६ ।। Jain Educationa Internation सुह- दुक्खकारणं जइ कम्मं कज्जरस तदणुरूवं च । पत्तमरूवं तं पि हु अह रूविं नाणुरूवं तो ॥ १९२२ ॥ ननु यदि सुख-दुःखयोः पुण्य-पापात्मकं कर्म कारणम्, तच्च यदि कार्यस्य सुख-दुःखरूपस्यानुरूपं सदृशमिष्यते, तर्हि सुखदुःखयोरात्मपरिणामत्वेनारूपत्वात् तदपि पुण्य प्राप्रात्मकं कर्म तदनुरूपतया रूपं प्राप्नोति । अथ रूपवत्, तर्हि नानुरूपं तत् मूर्तत्वेन विलक्षणत्वादिति ||१९२२ ॥ अत्रोत्तरमाह नेहि सव्वहाणुरूवं भिन्नं वा कारणं, अह मयं ते । किं कज्ज-कारणत्तणमहवा वत्थुत्तणं तस्स ? ॥ १९२३ ॥ न हि सर्वथा कार्यानुरूपं कारणमिष्यते, येन सुख-दुःखवत् कर्मणोऽप्यरूपत्वं प्रेर्यते । नाप्येकान्तेन सर्वधर्मैः कारणं कार्याद् भिन्नमेष्टव्यम् | ‘अह मयं ते त्ति' अथ ते तवैतद् मतम् - एकान्तेन सर्वैरपि धर्मैः कारणं कार्यानुरूपमेव, भिन्नं वाऽनुरूपमेवेति तर्हि सर्वथाऽनुरूपत्व एकस्य कारणत्वेऽपरस्यापि कारणत्वात्, एकस्य च कार्यत्वेऽन्यस्यापि कार्यत्वात् किं तयोः कार्य-कारणत्वम् ?- न किञ्चित् द्वयोरपि कारणत्वात्, कार्यत्वाद् वेति । अथैकान्तभेदेऽभ्युपगम्यमाने कार्यस्य वस्तुत्वे किं नाम तस्य कारणस्य वस्तुत्वम् ? - न किञ्चित्, द्वयोरपि वस्तुत्वे सर्वथा भेदहानिप्रसङ्गादिति । तस्माद् नैकान्तेनानुरूपता, अननुरूपता वा कार्य-कारणयोः || १९२३ ॥ किं तर्हि ?, सैवं तुला जइ तो कज्जाणुरुवया केयं ? । जं सोम्म ! सपज्जाओ कज्जं परपज्जओ सेसो ॥ १९२४ ॥ न केवलं कार्य-कारणे एव तुल्या- तुल्यरूपे, किन्तु सकलमपि त्रिभुवनान्तर्गतं वस्तु परस्परं तुल्या- तुल्यरूपमेव, न पुनः किञ्चित् कस्याप्येकान्तेन तुल्यमतुल्यं वा । लब्धावकाशः परः प्राह - 'जईत्यादि' यद्येवम्, ततः केयं कार्यानुरूपता कारणस्य विशेषतो - ऽन्विष्यते, येनोच्यते- 'मुँह- दुक्खाणं कारणमणुरूवं' इत्यादि । यदि हि किञ्चिदेकान्तेनानुरूपं स्यात् तदेत्थं वक्तुं युज्यते, यदा त्वेकान्ततो न किश्चिदनुरूपम्, नाप्यननुरूपम्; किन्तु सर्वे सर्वेण तुल्या-तुल्यरूपमेव, तदा किमनेन विशेषणेन । अत्रोच्यते- 'ज १ सुख-दुःखकारणं यदि कर्म कार्यस्य तदनुरूपं च प्राप्तमरूपं तदपि खल्वध रूपि नानुरूपं ततः । १९२२ ॥ २ नहि सर्वधानुरूपं भिन्नं वा कारणं, अथ मतं ते । किं कार्य-कारणत्वमथवा वस्तुत्वं तस्य ? ।। १९२३ । ३ सर्व तुल्या-तुल्यं यदि ततः कार्यानुरूपता केयम् ? यत् सौम्य ! स्वपर्यांयः कार्यं परपर्ययः शेषः ॥ १९२४ ॥ For Personal and Private Use Only ४ गाथा १९३० बृहद्वतिः । ॥७९६ ॥ Page #199 -------------------------------------------------------------------------- ________________ विशेषा. ॥७९७|| व-पुण्यसंयोग से प्रति विवक्षितं कारणवपर्यायः, तस्मात् कारण समित्यादि' सौम्य ! तुल्या-तुल्यत्वे सर्वगतेऽपि यद् यस्मात् कारणस्य कार्य स्वपर्यायः, तस्मात् कारणं कार्यस्येहानुरूपयुच्यते, शेषस्त्वकार्य रूपः सर्वोऽपि पदार्थः कारणस्य परपर्यायः, इति तं प्रति विवक्षितं कारणमसमानरूपमभिधीयते । आह-ननु कथं प्रस्तुते सुख-दुःखे कारणस्य वपर्यायः । उच्यते-जीव-पुण्यसंयोगः सुखस्य कारणम् , तस्य च सुखं पर्याय एव, दुःखस्यापि जीव-पापसंयोगः कारणम् , अतस्तस्यापि दुःखं पर्याय एव, यथा च सुखं शुभं, कल्याणं, शिवमित्यादीन् व्यपदेशाँल्लभते तथा तत्कारणभूतं पुण्यस्कन्धद्रव्यमपि यथा च दुःखमशुभम् , अकल्याणम् , अशिवमित्यादिसंज्ञाः प्राप्नोति तथा तत्कारणभूतं पापद्रव्यमपि, इति विशेषतोऽत्र पुण्य-पापे सुख दुःखयोरनुरूपकारणत्वेनोक्ते इति ॥ १९२४ ॥ अथ परः प्रेर्य चिकीर्षुस्तदवकाशहेतोः पृच्छति-- 'किं जह मुत्तममुत्तस्स कारणं तह सुहाईणं कम्मं । दिलु सुहाइकारणमन्नाइ जहेह तह कम्मं ? ॥ १९२५ ॥ किं यथा मूर्त नीलादिकममूर्तस्य स्वप्रतिभासिज्ञानस्य कारणं हेतुस्तथा सुख-दुःखयोः पुण्य पापात्मकं कर्मापि मूर्तमेव सत् कारणम् , यथा प्रत्यक्षत एव दृष्टमन्नादिकम् । आदिशब्दात् सक्-चन्दना-ऽङ्गना-हि-विष-कण्टकादिकमिह सुख-दुःखयोर्मूत सत् । | कारणं तद्वत् कर्मापि तयोरिति भावार्थः । ॥ १९२५ ॥ ततः किम् ? इति चेत् । उच्यते-- होउ तयं चिय किं कम्मणा, नजं तुल्लसाहणाणं पि । फलभेदओ सोऽवस्सं सकारणो कारणं कम्मं ॥१९२६॥ ननु तदेव दृष्टमन्नादिकं वस्तु तर्हि सुखादेः कारणमस्तु, किमदृष्टेन तेन कर्मणा परिकल्पितेन, अतिप्रसङ्गान् ? । तदेतद् न, यद् यस्मात् तुल्यान्यन्नादीनि साधनानि येषां ते तुल्यसाधनाः पुरुषास्तेषामपि फले सुख-दुःखलक्षणे कार्यभेदः फलभेदो | महान् दृश्यते, तुल्येऽप्यन्नादिके भुक्ते कस्याप्याबादः, अन्यस्य तु रोगाद्युत्पत्तिदृश्यत इत्यर्थः। यश्चेत्थं तुल्यान्नादिसाधनानामपि फलभेदः, सोऽवश्यमेव सकारणः, निष्कारणत्वे नित्यं सत्त्वा-ऽसत्त्वप्रसङ्गात् । यच्च तत्कारणं तददृष्टं कम, इति न तत्कल्पनाऽऽनयेमिति ।। १९२६ ॥ ॥७९७|| , किं यथा मूर्तममूर्तस्य कारणं तथा सुखादीनां कर्म । दृष्टं सुखादिकारणमन्नादि यथेह तथा कर्म । ।। १९२५ ।। २ भवतु तदेव किं कर्मणा, न यत् तुल्यसाधनानामपि । फलभेदतः सोऽवश्यं सकारणः कारणं कर्म ॥ १९२६ ।। in Education Internationa Forsonal and Private Use Only A w w.jainetbrary.org Page #200 -------------------------------------------------------------------------- ________________ विशेष ॥७९८॥ मूर्त च तत् कर्म । कुतः ? इत्याह ऐत्तो च्चिय तं मुत्तं मुत्तबलाहाणओ जहा कुंभो । देहाइकजमुत्ताइओ व्व भणिए पुणो भणइ ॥ १९२७ ॥ यत एव तुल्यसाधनानां कर्मनिबन्धनः फलभेदः, अत एवोच्यते-मृत कर्म, मूर्तस्य देहादेवलाधानकारित्वात् , कुम्भवत् , यथा निमित्तमात्रभावित्वेन घटो देहादीनां बलमाधत्ते, एवं कर्मापि, अतो मूर्तमित्यर्थः। अथवा, मूर्त कर्म, मूर्तेन सक्-चन्दना-ऽङ्गनादिना तस्योपचयलक्षणस्य बलस्याधीयमानत्वात् , कुम्भवत्- यथा मूर्तत्वेन तैलादिना वलस्याधीयमानत्वात् कुम्भो मूर्तः, एवं स्रक्चन्दनादिनोपचीयमानत्वात् कर्मापि मूर्तमिति भावः। यदिवा, मूर्त कर्म, देहादेस्तत्कार्यस्य मूर्तत्वात् , परमाणुवत्- यथा घटादेस्तकार्यस्य मूर्तस्य दर्शनात् परमाणवो मूर्ताः, एवं देहादेस्तत्कार्यस्य मूर्तस्य दर्शनात् कर्मापि मूर्तमित्यर्थः । एवं भणिते पुनर्भणति परः ।। किम् ? इत्याह तो किं देहाईणं मुत्तत्तणओ तयं हवइ मुत्तं । अह सुह-दुक्खाईणं कारणभावादरूवं ति ? ॥ १९२८ ॥ ततः किं देहादीनां कर्मकार्याणां मूर्तानां दर्शनात् तत् कर्म मूर्त भवतु, आहोस्वित् सुख-दुःख-क्रोध-मानादीनां जीवपरिणामभूतानां तत्कार्याणाममूर्तानां दर्शनात् तत् कारणभावनामूर्तमस्तु कर्म ? इत्येवं मूर्तत्वा-ऽमूर्तत्वाभ्यामुभयथापि तत्कार्यदर्शनात् किं मूर्तम् , अमूर्त वा कर्म भवतु ? इति निवेद्यतामिति ॥ १९२८ ॥ एवं प्रेरकेणोक्ते सत्याहनै सुहाईणं हेऊ कम्मं चिय किन्तु ताण जीवो वि । होइ समवाइकारणमियरं कम्म ति को दोसो ? ॥१९२९॥ सुखादीनां कमैंव केवलं कारणं न भवति, किन्तु जीवोऽपि तेषां समवायि कारणं भवति, कर्म पुनरितरदसमवायि कारणं भवतीति को दोषः १ । इदमुक्तं भवति-सुखादेरमूर्तत्वेन समवायिकारणस्य जीवस्यामूर्तत्वमस्त्येव, असमवायिकारणस्य तु कर्मणः सुखाद्यमूर्तत्वेनामूर्तत्वं न भवतीत्यपीति न दोष इति ।। १९२९ ।। एतस्मादेव तद् मूर्त मूर्तवलाधानतो यथा कुम्भः । देहादिकार्यमूर्तादित इव भाणिते पुनर्भणति ।। १९२७ ।। २ ततः किं देहादीनां मूर्तत्वतस्तद् भवति मूर्तम् । अथ सुख-दुःखादीनां कारणभावादरूपमिति ? ॥ १९२८ ।। ३ न सुखादीनां हेतुः कमैंव किन्तु तेषां जीवोऽपि । भवति समवायिकारणमितरत् कर्मेति को दोषः ।। १९२९ ।। ॥७९॥ Educantata For Pessoal and Private Use Only Page #201 -------------------------------------------------------------------------- ________________ विशेषा. ॥७९९॥ . तदेवमुक्तमर्थमुपसंहरन् केवलपुण्यलक्षणं प्रथमविकल्प दपयितुमाहइय रूवित्ते सुह-दुक्खकारणत्ते य कम्मुणो सिद्धे । पुण्णावगरिसमेत्तेण दुक्खबहुलत्तणमजुत्तं ॥ १९३० ॥ इत्येवं पश्चमविकल्पोपन्यस्तस्वभाववादनिरासेन पुण्य-पापात्मकस्य कर्मणः सुख-दुःखकारणत्वे रूपित्वे च सिद्धे पुण्यापकर्षमा-18 त्रेण यद् दुःखबहुलत्वं प्रथमविकल्पोपन्यासे प्रोक्तं तदयुक्तमिति ॥ १९३० ।। कुतोऽयुक्तम् ? इत्याह कैम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूईओ। सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा ॥१९३२|| तद् दुःखबहुलत्वं पुण्यापकर्षजनितं न भवति, किन्तु स्वानुरूपकर्मप्रकर्षजनितम् , प्रकर्षानुभूतित्वात्- वेदनाप्रकर्षानुभवरूपत्वादिति हेतुः, यथा सौख्यप्रकर्षानुभूतिः स्वानुरूपकर्मप्रकर्षमभवेति दृष्टान्तः ॥ १९३१ ॥ उपपत्त्यन्तरमाह तेह बज्झसाहणप्पगरिसंगभावादिहण्णहा न तयं । विवरीयबज्झसाहणबलप्पगरिसं अवेक्खेजा ॥१९३२॥ 'तथा' इत्युपपत्यन्तरार्थः, । इह देहिनां दुःखबहुलत्वं केवलपुण्यापकर्षमात्रजनितं न भवति । कुतः १ इत्यत्र हेतुमाह- बाह्यानि यान्यनिष्टाहारादीनि साधनानि तेषां यस्तदनुरूपः प्रकर्षस्तस्याङ्गभावात् कारणभावादिति । विपर्यये बाधकमाह- 'इहेत्यादि' तद् दुःखमन्यथा यदि पुण्यापकर्षमात्रजन्यं भवेत् तदा पुण्यसंपाद्येष्टाहारापचयमात्रादेव भवेत् , न तु पापोपचयसंपाद्यानिष्टाहारादिरूपविपरीतबाह्यसाधनानां यद् बलं सामर्थ्य तस्य खानुरूपो यः प्रकर्षस्तमपेक्षेत । इदमत्र हृदयम्- यदि पुण्यापकर्षमात्रजन्यं दुःखं भवेत् , तदा पुण्योदयमाप्येष्टाहारादिसाधनापकर्षमात्रादेव भवेत् , न चैतदस्ति, इष्टविपरीतानिष्टाहारादिसाधनप्रकर्षसामर्थ्यादेव तद्भावादिति ॥ १९३२ ॥ अपिच, *देहो नावचयकओ पुण्णुक्करिसे व मुत्तिमत्ताओ। होज वस हीणतरओ कहमसुभयरो महल्लो य ? ॥१९३३॥ इति रूपिरवे सुख-दुःखकारणत्वे च कर्मणः सिद्धे । पुण्यापकर्षमात्रेण दुःखबहुलत्वमयुक्तम् ।। १९३० ।। २ कर्मप्रकर्षजनितं तदवश्वं प्रकर्षानुभूतेः । सौख्यप्रकर्षभूतिर्यथा पुण्यप्रकर्षप्रभवा ॥ १९३१ ॥ ३ तथा बाह्यसाधनप्रकर्षाङ्गभावादिहान्यथा न तत् । विपरीतवाससाधनबलप्रकर्षमपेक्षेत ॥ १९३२ ॥ ४ देहो नापचयकृतः पुण्योत्कर्ष इव मूर्तिमत्त्वात् । भवेद् वा स हीनतरकः कथमचभतरो महाब' ॥ १९५३ ॥ 9 Falo ७९९॥ For Personal and Provate Use One Page #202 -------------------------------------------------------------------------- ________________ बदत्तिः। दुखितहस्त्यादिदेहः केवलपुण्यापचयमात्रकृतो न भवति, मूर्तिमत्त्वात् , यथा पुण्योत्कर्षे तजन्योऽनुत्तरसुर-चक्रवत्यादिदेहा, विशेषा. यश्च पुण्यापचयमात्रजन्यः स मूर्तिमानपि न भवति, यथा न कोऽपि, यदि च पुण्यापचयमात्रेण देहो जन्येत, तदा हीनतरः शुभ // 800|| एव च स्यात्, कथं महान् , अशुभतरश्च भवेत् , महतो महापुण्योपचयजन्यत्वात् , अशुभस्य चाशुभकर्मनित्यत्वात् ? / पुण्येन पुनर णीयसापि शुम एक देहो जन्येत, न तु दुःखितः / अणीयसापि हि सुवर्णलवेनाणीयानपि सौवर्ण एव घटो भवति न तु मार्तिकः, KA ताम्रादिति / 1939 ___ अथ केवलपापपक्षं संकीर्णपुण्यपापपक्षं च षयितुमाह ऐवं चिय विवरीयं जोएजा सव्वपावपक्खे वि / न य साहारणरूवं कम्मं तकारणाभावा // 1934 // 'सर्व पापमेवास्ति, न तु पुण्यम् , पापापचयमात्रजन्यत्वात् सुखस्य' इत्येतस्मिन्नपि पक्षे एवमेव- केवलपुण्यवादोक्तदुषणाद् विपरीतगत्या सर्व योजयेत् / यद्यथा- पापापकर्षमात्रजनितं सुखं न भवति, पापस्याल्पीयसोऽपि दुःखजनकत्वात् / न ह्यणीयानपि विषलवः स्वास्थ्यहेतुर्भवति / तस्मात् पुण्यजनितमेवाल्पमपि सुखमित्यादि स्वबुद्ध्याऽभ्यूह्य वाच्यम् / इति पृथग दुःखयोः कारणभूते खतन्त्रे पुण्य-पापे एष्टव्ये / अत एव साधारणे अपि संकीर्णे पुण्य-पापे नैष्टव्ये / कुतः ? इत्याह- 'न येत्यादि' न च साधारणस्पर संकीर्णस्वभावं पुण्य-पापात्मकमेकं कर्मास्ति, तस्यैवंभूतस्य कर्मणः कारणाभावात् / अत्र प्रयोगः- नास्ति संकीर्णोभयरूपं कम,/ | असंभाव्यमानैवंविधकारणत्वात् , वन्ध्यापुत्रवदिति // 1934 // हेतोरसिद्धतां परिहरनाहकैम्म जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि। होज न उ उभयरूवो कम्मं पितओ तयणुरूवं // 19 // 5 // मिथ्यात्वा-विरति-प्रमाद-कषाययोगा बन्धहेतव इति पर्यन्ते योगाभिधानात् सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावाद / योगानामेव बन्धहेतुत्वमिति कर्म योगनिमित्तमुच्यते / स च मनो-वाक्-कायात्मको योग एकस्मिन् समये शुभोऽशुभो वा भवेत, न तूभयरूपः, अतः कारणानुरूपत्वात् कार्यस्य कर्मापि तदनुरूपं शुभं पुण्यरूपं बध्यते, अशुभं वा पापरूपं बध्यते, न तु संकीर्णस्वभावमुभयरूपमेकदेव बध्यत इति / / 1935 / / / , एवमेव विपरीत योजयेत् सर्वपापपक्षेऽपि / न च साधारणरूपं कर्म तरकारणाभावात् // 1934 // 2 कर्म योगनिमित्तं शुभोऽशुभो वा स एकसमये / भवेद् न तूभयरूपः कोऽपि ततस्तदनुरूपम् // 1935 // Foreesame and Private use only