________________
यदि संशयी जीव एवादौ नास्ति, तर्हि 'अस्मि नास्मि' इति संशयः कस्य भवतु । संशयो हि विज्ञानाख्यो गुण एव, विशेषानच गुणिनमन्तरेण गुणः संभवति । देहोत्र गुणीति चेत् । न, देहस्य मूर्तत्वाजडत्वाच, ज्ञानस्य चामूर्तत्वाद् बोधरूपत्वाच । वहात्तिः।
न चाननुरूपाणां गुणगुणिभावो युज्यते, आकाश-रूपादीनामपि तद्भावापच्याऽतिप्रसङ्गप्राप्तेः । 'संसइए वेत्यादि' वेत्यथवा, संशयिते । ॥६६८॥ स्वरूपे गौतम ! किमसंशयं शेषं भवेत् ? । इदमुक्तं भवति- 'किमस्मि नास्म्यहम्' इत्येवं यः स्वरूपेऽपि संशेते-आत्मनिश्चयोऽपि यस्य
नास्तीत्यर्थः, तस्य शेषं कर्मबन्ध-मोक्षादिकं घट-पटादिकं च किमसंशयमसंदिग्धं स्यात् ? न किञ्चित् , सर्वसंशय एव तस्य स्यादि| त्यर्थः, आत्मास्तित्वनिश्चयमूलो हि शेषवस्तुनिश्चय इति भावः । अहंप्रत्ययग्राह्यं च प्रत्यक्षमात्मानं नि वानस्य 'अश्रावणः शब्दः' इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासः, तथा, वक्ष्यमाणात्मास्तित्वानुमानसद्भावाद् 'नित्यः शब्दः' इत्यादिवदनुमानविरुद्धोऽपि । तथा, 'अहमस्मि संशयी' इति प्रागभ्युपगम्योत्तरत्र 'नास्मि' इति प्रतिजानानस्य, सांख्यस्याऽनित्यः कर्ता, अचेतन आत्मेत्यादिवदभ्यु-| पगमविरोधः । बाल-गोपालाङ्गनादिप्रसिद्धं चात्मानं निराकुर्वतः 'अचन्द्रः शशी' इत्यादिवल्लोकविरोधः । 'अहं नाई वा' इति गदतो 'माता मे बन्ध्या' इत्यादिवत् स्ववचनव्याहतिः । एवं च प्रत्यक्षादिबाधितेऽस्मिन् पक्षेऽपक्षधर्मतया हेतुरप्यसिद्धः । हिमवत्पलपरिमाणादौ पिशाचादौ च प्रमाणपञ्चकाभावस्य प्रवृत्तेरनैकान्तिकोऽपि, वक्ष्यमाणानुमानप्रमाणसिद्धे चात्मनि विपक्ष एव वृत्तेविरुद्धश्चेति।।१५५७॥
प्रकारान्तरेणाप्यात्मनः प्रत्यक्षसिद्धतामाह
गुणपच्चक्खत्तणओ गुणी वि जीवो घडोव्व पच्चक्खो । घडओ विघेप्पइ गुणी गुणमेत्तग्गहणओ जम्हा॥१५५८॥
प्रत्यक्ष एवं गुणी जीवः, स्मृति-जिज्ञासा-चिकीर्षा-जिगमिषा-संशीत्यादिज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षसिद्धत्वात् , इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टः, यथा घटः, प्रत्यक्षगुणश्च जीवः, तस्मात् प्रत्यक्षः, यथा घटोऽपि गुणी रूपादि
गुणप्रत्यक्षत्वादेव प्रत्यक्षः, तद्वद् विज्ञानादिगुणप्रत्यक्षत्वादात्मापीति । आह- अनैकान्तिकोऽयम् , यस्मादाकाशगुणः शब्दः प्रत्यक्षोऽस्ति, BRUन पुनराकाशमिति । तदयुक्तम् , यतो नाकाशगुणः शब्दः, किन्तु पुद्गलगुणः, ऐन्द्रियकत्वात् , रूपादिवदिति ॥ १५५८ ।।
गुणानां प्रत्यक्षत्वे गुणिनस्तद्रूपतायां किमायातम् ? इति चेत् । उच्यतेअन्नोऽणन्नो व गुणी होज गुणेहिं, जइ नाम सोऽणन्नो । ननुगुणमेत्तग्गहणे घेप्पइ जीवो गुणी सक्खं ॥१५५९॥
६६८॥ १.ग. 'अस्ति नास्ति'। २ गुणप्रत्यक्षत्वतो गुण्यपि जीवो घट इव प्रत्यक्षः । घटकोऽपि गृह्यते गुणी गुणमात्रग्रहणतो यस्मात् ॥ १५५८ ॥
३ अन्योऽनन्यो वा गुणी भवेद् गुणैः, यदि नाम सोऽनन्यः । ननु गुणमात्रग्रहणे गृह्यते जीवो गुणी साक्षात् ॥ १५५९ ।।
For Personal and Private Use Only