________________
विशेषा
CERITA
HICO
अह अन्नो तो एवं गुणिनो न घडादओ वि पञ्चक्खा । गुणमेत्तग्गहणाओ जीवम्मि कउवियारोऽयं ? ॥१५६०॥
ननु भवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यते, अनर्थान्तरभूतो वा । यदि नाम सोऽनन्यस्तेभ्योऽनर्थान्तरभूतः, तर्हि ज्ञानादिगुणग्रहणमात्रादेव गुणी जीवः प्रत्यक्षेण गृहयत इति सिद्धमेव । प्रयोगः- यो यस्मादनन्तरं स तद्ग्रहणे गृह्यत एव, यथा वाससि रागः, गुणेभ्योऽनर्थान्तरं च गुणी, तस्माद् गुणग्राहकप्रत्यक्षेण सोऽपि गृह्यत एवेति । अथ गुणेभ्योऽन्योऽर्थान्तरभूत एवं गुणी । तत एवं सति घटादयोऽपि गुणिनो न प्रत्यक्षाः, तदर्थान्तरभूतस्य रूपादिगुणमात्रस्यैव ग्रहणात् । इह यद् यस्मादर्थान्तरभूतं तद्ग्रहणेऽपि नेतरस्य ग्रहणम् , यथा घटे गृहीते पटस्य, अर्थान्तरभूताश्च गुणिनो गुणा इष्यन्ते, अतो गुणग्रहणेऽपि न गुणिग्रहणम् । अतो घटादीनामपि समानेऽग्रहणदोषे कोऽयं नाम भवतः केवलजीचे विचारो नास्तित्वविवक्षा, येनोच्यते- 'पंचक्खं जं ने धिप्पड़ घडोब इत्यादि । अथ द्रव्यविरहिताः केऽपि न सन्त्येव गुणाः, इत्यतस्तद्ग्रहणद्वारण गृह्यन्त एव घटादयः । नन्वेतदात्मन्यपि समानमेव । किञ्च, गुणिनो गुणानामर्थान्तरत्वेऽभ्युपगम्यमाने गुणी भवतु, मा भूद् वा प्रत्यक्षः, तथापि ज्ञानादिगुणेभ्यः पृथगात्मा गुणी त्वदभ्युपगमेनापि सिध्यत्येवेति ॥ १५५९ ॥ १५६० ॥
अत्र पराभिप्रायमाशङ्कमानः प्राह
अह मन्नसि अत्थि गुणी न य देहत्थंतरं तओ किंतु । देहे नाणाइगुणा सो च्चिय तेसिं गुणी जुत्तो ॥१५६१॥
अथ मन्यसे- अस्त्येव ज्ञानादिगुणानां गुणी, नैव तं प्रत्याचक्ष्महे, एतत्तु नाभ्युपच्छामो यत्- 'देहादर्थान्तरं तकोऽसौ' इति, किन्तु देह एव ज्ञानादयो गुणाः समुपलभ्यन्ते, अतः स एव तेषां गुणी युक्तः, यथा रूपादीनां घटः, प्रयोगः-देहगुणा एव ज्ञानादयः, तत्रैवोपलभ्यमानत्वात् , गौर-कृश-स्थूलतादिवदिति ॥ १५६१ ।।
अत्रोत्तरमाह
नौणादओ न देहस्स मुत्तिमत्ताइओ घडस्सेव । तम्हा नाणाइगुणा जस्स स देहाहिओ जीवो ॥१५६२॥ १ भथान्यस्तत एवं गुणिनो न घटादयोऽपि प्रत्यक्षाः । गुणमात्रग्रहणाजीवे कुतो विचारोऽयम् ॥१५६०॥ २ गाथा १५४९ । ३ क.ग.घ.ज.'न दीसइ घ' । . अथ मन्यसेऽस्ति गुणी न च देहाान्तरं सकः । किन्तु देहे ज्ञानादिगुणाः स एव तेषां गुणी युक्तः ॥ १५६१ ॥ ५ ज्ञानादयो न देहस्व मूर्तिमवादितो घटस्येव । तस्माज्ज्ञानादिगुणा यस्य स देहाधिको जीवः ॥ १५६२ ॥
HAMARETTERSबनाना
बनाया
॥६६९॥
For e
en