SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विशेषा बदत्ति ॥६७०|| हसास प्रयोगः- देहस्य संबन्धिनो ज्ञानादयो गुणा न भवन्त्येव, तस्य मूर्तिमत्त्वात् , चाक्षुषत्वाद् वा, घटवत् । न च द्रव्यरहितो गुणः समस्ति । ततो यो ज्ञानादिगुणानामनुरूपोऽमृतः, अचाक्षुषश्च गुणी, स देहातिरिक्तो जीवो ज्ञातव्यः । आह - ज्ञानादयो न देहस्येति प्रत्यक्षबाधितमिदम् , देह एव ज्ञानादिगुणानां प्रत्यक्षेणैव ग्रहणात् । तदयुक्तम् , अनुमानवाधितत्वादस्य प्रत्यक्षस्य, तथाहिइहेन्द्रियातिरिक्तो विज्ञाता, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् , यो हि यदुपरमेऽपि यदुपलब्धमर्थमनुस्मरति, स तस्मादर्थान्तरं दृष्टः, यथा- पञ्चवातायनोपलब्धार्थानुस्मता देवदत्त इत्यादि वायुभूतिप्रश्ने वक्ष्याम इति ।। १५६२ ।। उपसंजिहीर्षराहइय तुह देसेणायं पच्चक्खो सव्वहा महं जीवो । अविहयनाणतणओ तुह विण्णाणं व पडिवज्जा ॥१५६३॥ इत्येवमुक्तप्रकारेण स्वशरीरे तवापि देशतः प्रत्यक्षोऽयमात्मा, छद्मस्थत्वेन भवतः सर्वस्यापि वस्तुनो देशविषयत्वात् , घटवत् , तथाहि- सर्वमपि स्व-परपर्यायतोऽनन्तपर्यायं वस्तु, छद्मस्थश्च प्रत्यक्षेण साक्षात् तद्देशमेव गृह्णाति । प्रत्यक्षेण च प्रदीपादिप्रकाशेनेव देशतः प्रकाशिता अपि घटादयो व्यवहारतः प्रत्यक्षा उच्यन्त एव । सर्वात्मना च केवलिप्रत्यक्षमेव वस्तु प्रकाशयति । अतो ममापतिहतानन्तज्ञानत्वेन सर्वात्मनापि प्रत्यक्षोऽयं जीवः, यथाऽतीन्द्रियमपि त्वत्संशयविज्ञानमिति पतिपद्यस्वेति ॥१५६३ ।। परशरीरे तर्हि कथम् ? इत्याह ऐवं चिय परदेहेऽणुमाणओ गिण्ह जीवमत्थि ति। अणुवित्ति-निवित्तीओ विन्नाणमयं सरूवे व्व ॥१५६४॥ यथा स्वदेहे, एवं परदेहेऽपि गृहाण जीवमनुमानतः । कथम् ? इत्याह- अस्ति विद्यत इति । कथंभूतं जीवम् ? इत्याहविज्ञानमयं विज्ञानात्मकम् । अनुमानमेव सूचयन्नाह- 'अणुवित्ति-निवित्तीओ सरूवे व त्ति' इदमुक्तं भवति- परशरीरेऽप्यस्ति जीवः, इष्टा-निष्टयोः प्रवृत्ति-निवृत्तिदर्शनात् , यथा स्वरूपे स्वात्मनि, इह यत्रेष्टा-निष्टयोः प्रवृत्ति-निवृत्ती दृश्येते, तत्सात्मक दृष्टम् , यथा स्वशरीरम् , तथा च प्रवृत्ति-निवृत्ती दृश्येते परशरीरे, अतस्तदपि सात्मकम् ; आत्माभावे चेष्टा-निष्टप्रवृत्ति-निवृत्ती न भवतः, यथा घटे, इत्यनुमानात् परशरीरेऽपि जीवसिद्धिः॥ १५६४ ॥ इति तव देशेनार्य प्रत्यक्षः सर्वथा मम जीवः । अविहतज्ञानत्वतस्तव विज्ञानमिव प्रतिपद्यस्य ।। १५६३ ॥ २ एवमेव परदेहेऽनुमानतो गृहाण जीवमस्तीति । अनुवृत्ति-निवृत्तिभ्या विज्ञानमयं स्वरूप इव ॥ १५६४ ॥ ||६७०॥ कासAPE Jan Education Internati For Personal and Private Use Only www.janeltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy