________________
हत्तिः ।
अत्र परमतमाशङ्कयोत्तरमाहविशेषा
जं च न लिंगेहिं समं मन्नसि लिंगी जओ पुरा गहिओ। संगं ससेण व समं न लिंगओ तोऽणुमेओ सो॥१५६५॥ ॥६७१।।
सोऽणेगंतो जम्हा लिंगेहिं समं न दिट्ठपुव्वो वि । गहलिंगदरिसणाओ गहोऽणुमेओ सरीरम्म ॥१५६६॥
यच्च 'न य जीवलिंगसंबंधदरिसणमभू' इत्यादिपूर्वोक्तपूर्वपक्षानुसारण मन्यसे त्वम् । किम् ? इत्याह- ततो न लिङ्गतो लिङ्गादनुमेयोऽसौ जीवः । यतः, किम् ? इत्याह- यतो न खलु लिङ्गः कश्चिदपि समं लिङ्गी जीवः कापि केनापि पुरा पूर्व गृहीतः । | किंवदित्याह-शृङ्गमिव शशकेन समम् । ततो लिङ्ग-लिङ्गिनोः पूर्व संबन्धाग्रहणाद् न लिङ्गाजीचोऽनुमीयते । इति यद् मन्यसे त्वं तत्र प्रतिविधीयते- सोऽनेकान्तः, यस्माल्लिङ्गः सममदृष्टपूर्वोऽपि ग्रहो देवयोनिविशेषः, शरीरे हसन-गान-रोदन-कर-चरण-भूविक्षेपादिविकृतग्रहलिङ्गदर्शनादनुमीयत इति बालानामपि प्रतीतमेवेति ॥ १५६५ ॥ १५६६ ॥
अनुमानान्तरमप्यात्मसाधकमाह--
देहस्स स्थि विहाया पइनिययागारओ घडस्सेव । अक्खाणं च करणओ दंडाईणं कुलालो ब्व ॥१५६७॥ देहस्यास्ति विधाता कर्तेति प्रतिज्ञा, आदिमत्प्रतिनियताकारत्वात् , घटवत् , यत् पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽभ्रविकारः, यश्च देहस्य कर्ता स जीवः । प्रतिनियताकारत्वं मेर्वादीनामप्यस्ति, न च तेषां कश्चिद विधाता, इति । तैरनैकान्तिको हेतुः स्यात् , अतोऽनुक्तमप्यादिमत्त्वविशेषणं द्रष्टव्यमिति । तथा, अक्षाणामिन्द्रियाणामस्ति 'अधिष्ठाता' त्यध्याहारः,
करणत्वात् , यथा चक्र-चीवर-मृत्-सूत्र-दण्डादीनां कुलालः, यच्च निरधिष्ठातृकं तत् करणमपि न भवति, यथाऽऽकाशम् , यश्चेन्द्रियाराणामधिष्ठाता स जीव इति ॥ १५६७॥
तथा,
अथिदिय-विसयाणं आयाणादेयभावओऽवस्सं । कम्मार इवादाया लोए संडास-लोहाणं ॥ १५६८ ॥ १ यच्च न लिङ्गः समं मन्यसे लिङ्गी यतः पुरा गृहीतः । शृङ्गं शशेन वा समं न लिङ्गतस्ततोऽनुमेयः सः ॥ १५६५ ॥ २ क. ग. स. पुरा जओ ग' ।
सोऽनेकान्तो यस्मालिः समं न दृष्टपूर्वोऽपि । प्रहलिङ्गदर्शनाद् अहोऽनुमेयः शरीरे ॥ १५६६॥ ३ गाथा १५५१ । ४ देहस्यास्ति विधाता प्रतिनियताकारतो घटस्येव । अक्षाणां च करणतो दण्डादानां कुलाल इव ॥ १५६७ ॥ ५ अस्तीन्जिय-विषयाणामादानादेयभावतोऽवश्यम् । कार इवादाता लोके संदंशक-लोहानाम् ॥ १५६८ ॥
॥६७१॥
S
Educantem
For Personal and Private Use Only
towww.jaineltrary.org