SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥६७२॥ Jain Education internati इह यत्रादानादेयभावस्तत्रावश्यमादाता समस्ति, यथा लोके संदंशक- लोहानां कर्मारोऽयस्कारः, विद्यते चेन्द्रिय-विषयाणामादानादेयभावः, अतस्तेषामप्यस्त्यादाता, स च जीवः, यत्र त्वादाता नास्ति, तत्रादानादेयभावोऽपि न विद्यते, यथाऽऽकाश इति ।। १५६८ ।। तथा, भोत्ता देहाईणं भोजत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अस्थि य अत्थी घरस्सेव ॥ १५६९ ॥ ह देहादीनां भोक्ता समस्ति भोग्यत्वात्, यथा शाल्यादिभक्त वस्त्रादीनां नरः यस्य च भोक्ता नास्ति तद् भोग्यमपि न भवति, यथा खरविषाणम्, भोग्यं च शरीरादिकम्, ततो विद्यमानभोक्तृकमिति । तथा, अर्थी स्वामी । ततश्च देहादीनां विद्यते स्वामी, संघातरूपत्वात्, आदिशब्दाद् मूर्तिमत्वात् ऐन्द्रियकत्वात् चाक्षुषत्वादित्यादयोऽप्यनैकान्तिकत्वपरिहारार्थं संभवद्विहितविशेषणा तवो योजनीयाः, यथा गृहादीनां सूत्रधारादय इति दृष्टान्तः यत्पुनरस्वामिकं तत् संघातादिरूपमपि न भवति, यथा गगनकुसुमम्, संघातादिरूपं च देहादिकम् तस्माद् विद्यमानस्वामिकमिति ।। १५६९ ।। आह- ननु देहस्स त्थि विहाया' इत्यादिना शरीरादीनां कर्तादय एव सिध्यन्ति' न तु प्रस्तुतो जीवः, इत्याशङ्कयोत्तरमाक्षेपपरिहारौ चाह- जो कत्ताइ स जीवो सज्झविरुद्धो ति ते मई होज्जा । मुत्ताइपसंगाओ तं न संसारिणो दोसो ॥१५७०॥ यामनन्तरं देहेन्द्रियादीनां कर्ता, अधिष्ठाता, आदाता, भोक्ता, अर्थी चोक्तः स सर्वोऽपि जीव एव, अन्यस्येश्वरादेर्युक्त्यक्षमत्वेन कर्तृत्वाद्य संभवादिति । अथ साध्यविरुद्धसाधकत्वाद् विरुद्धा एते हेतव इति तब मतिर्भवेत्, तथाहि घटादीनां कर्त्रादिरूपाः कुलालादयो मूर्तिमन्तः, संघातरूपाः, अनित्यादिस्वभावाच दृष्टाः इत्यतो जीवोऽप्येवंविध एव सिध्यति, एतद्विपतिश्च किलास्माकं साधयितुमिष्टः, इत्येवं साध्यविरुद्धसाधकत्वं हेतूनामिति । तदेतदयुक्तत्वाद् न, यतः खलु संसारिणो जीवस्य साधयितुष्टिस्याsदोषोऽयम् । स ह्यष्टकर्मपुद्गलसंघातोपगूढत्वात् सशरीरत्वाच्च कथंचिन्मूर्तत्वादिधर्मयुक्त एवेति भावः ।। १५७० ।। १ भोक्ता देहादीनां भोग्यत्वतो नर इव भक्तस्य । संघातादित्वतोऽस्ति चार्थी गृहस्येव ।। १५६९ ।। २.ग.ज. 'दे' ३ गाथा १५६७ । ४ यः कर्मादि स जीवः साध्यविरुद्ध इति तब मतिर्भवेत् । मूतदिप्रसङ्गात् तद् न संसारिणी दोषः ।। १५७० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥६७२॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy