SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ SHREE NETसार विशेषा. बृहदत्तिः । ॥६७३|| अपरमप्यात्मसाधकमनुमानमाहअस्थि च्चिय ते जीवो संसयओ सोम्म ! थाणुपुरिसो व्व । जं संदिई गोयम ! तं तत्थन्नत्थ वत्थि धुवं ॥१५७१॥ हे सौम्य ! गौतम ! अस्त्येव तव जीवः, संशयतः संशयसद्भावात् , यत्र यत्र संशयस्तत् तदस्ति, यथा स्थाणु पुरुषो, संशयश्च तव जीवे, तस्मादस्त्येवायम् , तथाहि- स्थाणु-पुरुषयोरूर्खत्वारोह-परिणाहाद्युभयसाधारणधर्मप्रत्यक्षतायां चलन-शिरकण्डूयन-वयोनिलयन-वल्ल्यारोहणाधुभयगतविशेषधर्माप्रत्यक्षतायां चोभयगतैतद्धर्मानुस्मरणे च सत्येकतरविशेषनिश्चयचिकीर्षोः 'किमिदम् ?' इति विमर्शरूपः संशयः प्रादुरस्ति । एवंभूते च स्थाणु-पुरुषादिगतसंशये तत् स्थाणु-पुरुषादिकं वस्त्वस्त्येव, अवस्तुनि संशयायोगात् । एवमात्मशरीरयोरपि प्रागुपलब्धसामान्य-विशेषधर्मस्य प्रमातुस्तयोः सामान्यधर्मप्रत्यक्षतायां विशेषधर्माप्रत्यक्षत्वेऽपि च तद्विषयानुस्मृतौ सत्यामेकतरविशेषोपलिप्सोः 'किमयमात्मा किं वा शरीरमात्रमिदम् ?' इति विमर्शरूपः संशयो जायते । अयं चात्म-शरीरयोः सत्त्व एवोपपद्यते, नैकतरस्याऽप्यभावे, अतोऽस्ति जीवः । अथैवं ब्रूषे- अरण्यादिषु स्थाणु-पुरुषसंशये तत्र विवक्षितप्रदेशेऽनयोरेकतर एव भवति, न पुनरुभयमपि, तत्कथमुच्यते- विद्यमान एव वस्तुनि संशयो भवति' इति । तदयुक्तम् , अभि| पायापरिज्ञानात्, न हि वयमेवं ब्रूमः- 'तत्रैव प्रदेशे तदुभयमप्यस्ति' इति, किन्तु यद्गतसंदेहस्तद् वस्तु तत्राऽन्यत्र वा प्रदेशे ध्रुवमस्त्येव, अन्यथा षष्ठभूतविषयोऽपि संशयः स्यात् । एतदेवाह- 'जं संदिद्धमित्यादि' तस्मात् संशयाविषयत्वादस्त्येव जीव इति स्थितम् ॥ १५७१॥ अथ पूर्वपक्षमाशङ्कय परिहरनाह ऐवं नाम विसाणं खरस्स पत्तं न त खरे चेव । अन्नत्थ तदत्थि च्चिय एवं विवरीयगाहे वि ॥ १५७२ ॥ हन्त ! यदि यत्र संशयस्तेनावश्यमेव भवितव्यम् , एवं ततः खरविषाणमप्यस्तीति प्राप्तम् , तत्रापि कस्यचित् संशयसद्भावात् । उच्यते- नन्वभिहितमत्र यदुत--तत्रान्यत्र वा विद्यमान एव वस्तुनि संशयो भवति, नाविद्यमाने । खरस्य विषाणं खरविषाणं नास्तीत्यत्र च कोयः? इत्याह- 'न तं खरे चेव त्ति'खर एव तद्विषाणं नास्ति, अन्यत्र गवादावस्त्येवेति न कश्चिद् व्यभिचारः । एवं , अस्त्येव तव जीवः संशयतः सौम्य ! स्थाणु पुरुषाविद । यत् संदिग्धं गौतम ! तत् तत्रान्यन्त्र वास्ति ध्रुवम् ॥ १५ ॥ २ एवं नाम विषाणं खरस्य प्राप्तं न तत् खर एव । अन्यत्र तदस्त्येव एवं विपरीतगृहेऽपि ॥ १५७२ ॥ ॥६७३॥ JainEducatioria.Intematio For Personal and Private Use Only www.jaineltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy