SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 'विवरीयगाहे वित्ति' इदमुक्तं भवति- यदा विपर्यस्तः कश्चित् स्थाणौ 'पुरुष एवायम्' इत्यादिविपरीतग्रहं करोति तदाप्ययमेव न्यायो विशेषा० वाच्यः- सोऽपि विपरीतग्रहो विपरीते पुरुषादिके वस्तुनि सत्येवोपपद्यते नाविद्यमान इत्यर्थः । एवं भवदभिप्रायेण योऽस्मादृशां शरीर PA आत्मास्तित्वाभिमानः, नायमात्मनः सर्वथा नास्तित्वे युज्यत इति ॥ १५७२ ॥ ॥६७४ इतोऽप्यस्ति जीवः । कुतः ? इत्याह अत्थिअजीवविवक्खो पडिसेहाओघडोऽघडस्सेव । नत्थि घडोत्ति व जीवत्थित्तपरो नत्थिसद्दोऽयं ॥१५७३॥ अत्र प्रयोगः- प्रतिपक्षवानयमजीवः, अत्र व्युत्पत्तिमच्छुद्धपदप्रतिषेधात् , यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् दृष्टः, यथाऽघटो घटप्रतिपक्षवान् , अत्र ह्यघटपयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिषेधः, अतोऽवश्यं घटलक्षणेन प्रतिपक्षण भवितव्यम् । यस्तु न प्रतिपक्षवान् न तत्र शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिषेधः, यथाऽखरविषाणम् , अडित्थ इति । अखरविषाणमित्यत्र खरविषाणलक्षणस्याशुद्धस्य सामासिकपदस्य प्रतिषेध इति, अतोऽत्र खरस्य विषाणं खरविषाणमित्यादिव्युत्पत्तिमचे सत्यपि खरविषाणलक्षणो विपक्षो नास्ति । अडित्थ इत्यत्र तु व्युत्पत्तिरहितस्य डिस्थपदस्य प्रतिषेधः, इति समासरहितत्वेन शुद्धत्वे सत्यपि नावश्यमवस्थितो डिस्थलक्षणः कोऽपि पदार्थो जीववद् विपक्षभूतोऽस्तीति । 'नत्थि घडो त्ति व' इत्यादि पश्चार्धम् । 'नास्त्यात्मा' इति च योऽयमात्मनिषेधध्वनिः स जीवास्तित्वनान्तरीयक एव, यथा 'नास्त्यत्र घटः' इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगः- यस्य निषेधः क्रियमाणो दृश्यते तत्कचिदस्त्येव, यथा घटादिकम् , निषिध्यते च भवता 'नास्ति जीवः' इति वचनाजीवः, तस्मादस्त्येवासौ, यच्च सर्वथा नास्ति तस्य निषेधो न दृश्यत एच, यथा खरविषाणकल्पानां पञ्चभूतातिरिक्तभूतानाम् , निषिध्यते च त्वया जीवः, तस्माद् निषेध एवायं तत्सत्त्वसाधक इति ॥ १५७३ ॥ | अनैकान्तिकोऽयं हेतुः, असतोऽपि खरविषाणादेनिषेधदर्शनात , इत्याशक्याह-- असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्ध । संजोगाइचउक्कं पि सिद्धमत्थंतरे निययं ॥ १५७४ ॥ असतोऽविद्यमानस्य नास्ति न संभवत्येव निषेध इति सिद्धम् । कुतः ? इत्याह-संयोगादिप्रतिषेधात् , आदिशब्दात् समवाय , अस्त्यजीवविपक्षः प्रतिषेधाद् घटोऽघटस्येव । नास्ति घट इतीव जीवास्तित्वपरो नास्तिशब्दोऽयम् ॥ १५७३ ॥ २ असतो नास्ति निषेधः संयोगादिप्रतिषेधतः सिद्धम् । संयोगादिचतुष्कमपि सिद्धमान्तरे नियतम् ॥ १५७४ ॥ ६७४॥ Educa tion For Pesonal and Private Use Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy