SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||६७५|| Jain Education Internation सामान्य- विशेषपरिग्रहः । एतदुक्तं भवति इह यत् किञ्चित् कचिद् देवदत्तादिकं निषिध्यते तस्याऽन्यत्र सत एव विवक्षितस्थाने कस्मिंश्चित् संयोग- समवाय-सामान्य विशेषलक्षणं चतुष्टयमेव निषिध्यते, न तु सर्वथैव देवदत्तादेरभावः प्रतिपाद्यते । तत्र 'नास्ति गृहे देवदत्तः' इत्यादिषु गृह-देवदत्तादीनां सतामेव संयोगमात्रं निषिध्यते, न तु तेषां सर्वथैवास्तित्वमपाक्रियते । तथा, 'नास्ति खरविषाम्' इत्यादिषु खर- विषाणादीनां सतामेव समवायमात्रं निराक्रियते । तथा, 'नास्त्यन्यश्चन्द्रमाः' इत्यादिषु विद्यमानस्यैव चन्द्रमसोऽन्यचन्द्रनिषेधाच्चन्द्रसामान्यमात्रं निषिध्यते, न तु सर्वथा चन्द्राभावः प्रतिपाद्यते । तथा, 'न सन्ति घटप्रमाणा मुक्ताः' इत्यादिषु घटप्रमातामात्ररूपो विशेषो मुक्तानां निषिध्यते, न तु मुक्ताऽभावः ख्याप्यत इति । एवं च सति 'नास्त्यात्मा' इत्यत्र विद्यमानस्यैवात्मनो यत्र वचन येन केनचित् सह संयोगमात्रमेव त्वया निषेद्धव्यम्, यथा 'नास्त्यात्मा वपुषि' इत्यादि, न तु सर्वथाऽऽत्मनः सत्वमिति । अत्राह कश्चित् ननु यदि यद् निषिध्यते तदस्ति, तर्हि मत्रिलोकेश्वरताऽप्यस्ति, युष्मदादिभिर्निषिध्यमानत्वात् तथा, चतुर्णां समवायादिप्रतिषेधानां पञ्चमोऽपि प्रतिषेधप्रकारोऽस्ति त्वयैव निषिध्यमानत्वात् । तदयुक्तम्, त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते, यथा घटप्रमाणत्वं मुक्तानाम्, न तु सर्वथैवेश्वरता, स्वशिष्यादीश्वरतायास्तत्रापि विद्यमानत्वात् । तथा, प्रतिषेधस्यापि पञ्चसंख्याविशिष्टत्वमपाक्रियते, न तु सर्वथा प्रतिषेधस्याभावः, चतुःसंख्याविशिष्टस्य तस्य सद्भावात् । ननु सर्वमप्यसंबद्धमिदम्, तथाहि - मत्रिलोकेश्वरत्वं तावदसदेव निषिध्यते, प्रतिषेधस्यापि पञ्चसंख्या विशिष्टत्वमविद्यमानमेव निवार्यते, तथा, संयोग- समवाय-सामान्य विशेषाणामपि गृहदेवदत्त-खरविषाणादिध्वसतामेव प्रतिषेधः इत्यतो ' यन्निषिध्यते तदस्त्येव' इत्येतत् कथं न प्लवते ? इत्याशङ्कयाह- 'संजोगाइचउकं पीत्यादि । इदमुक्तं भवति देवदत्तादीनां संयोगादयो गृहादिष्वेवासन्तो निषिध्यन्ते, अर्थान्तरे तु तेषां ते विद्यन्त एव; तथाहि - गृहेणैव सह देवदत्तस्य संयोगो न विद्यते, अर्थान्तरेण तु क्षेत्र- हट्ट ग्रामादिना सह तस्यासौ समस्त्येव, गृहस्यापि देवदत्तेन सह संयोगो नास्ति, खड्गादिना तु सह तस्यासौ विद्यत एव एवं विषाणस्यापि खर एव समवायो नास्ति, गवादावस्त्येवः सामान्यमपि द्वितीयचन्द्राभावाच्चन्द्र एव नास्ति, अर्थान्तरे तु घट- गवादावस्त्येवः घटप्रमाणत्वमपि मुक्तासु नास्ति, अर्थान्तरे तु कूष्माण्डादावस्त्येव । त्रिलोकेश्वरताऽपि भवत एव नास्ति, तीर्थकरादावस्त्येव, पञ्चसंख्याविशिष्टत्वमपि प्रतिधे नास्ति, अर्थान्तरे त्वनुत्तरविमानादावस्त्येवः इत्यनया विवक्षया ब्रूमः - 'यद् निषिध्यते तत् सामान्येनास्त्येव, न त्वेवं मतिजानीमहे - 'यद् यत्र निषिध्यते तत् तत्रैवास्ति' इति, येन व्यभिचारः स्यात् । वयमपि शरीरे जीवं निषेधयामः, नान्यत्रेति चेत् । साधूक्तम् अस्मत्समीहितस्य सिद्धत्वात्, जीवसिद्धयर्थमेव हि यतामहे For Personal and Private Use Only बृहद्वृत्तिः । ॥६७५।। www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy