________________
विशेषा ०
॥६७६ ।।
Jan Education Internation
बयम्, स चेत् सिद्धः, तर्हि तत्सिद्धयन्यथानुपपत्तेरेव तदाश्रयः सेत्स्यति, किं तया चिन्तया १ । न च शरीरमन्तरेण जीवस्याश्रयान्तरसुपपद्यते, तत्रैव तदवस्थानलिङ्गोपलब्धेः । न च वक्तव्यं शरीरमेव जीवः, 'जीवति' 'मृत:" 'मूच्छितः' इत्यादिव्यवस्थानुपपत्तेः, इत्यादेरभिधास्यमानत्वादिति ।। १५७४ ।।
जीवसिद्धावेवोपपश्यन्तरमाह -
जीवो ति सत्थयमिणं सुद्धत्तणओ घडाभिहाणं व । जेण त्थेण सदत्थं सो जीवो, अह मई हो ॥१५७५॥ अत्थो देहो च्चिय से तंनो पज्जायवयणभेआओ । नाणाइगुणो य जओ भणिओ जीवो न देहो ति ॥ १५७६ ॥ जीव इत्येतद्वचनं सार्थकमिति प्रतिज्ञा, व्युत्पत्तिमत्वे सति शुद्धपदत्वात् इह यद् व्युत्पत्तिमत्रे सति शुद्धपदं तदर्थवद् दृष्टम्, यथा घटादिकम्, तथा च जीवपदम्, तस्मात् सार्थकम्, यत्तु सार्थकं न भवति तद् व्युत्पत्तिमत् शुद्धपदं च न भवति, यथा डित्थादिकं खरविषाणादिकं च, न च तथा जीवपदम् तस्मात् सार्थकम् । यद् व्युत्पत्तिमद् न भवति तच्छुद्धपदमपि सद् न सार्थक, यथा डित्थादिपदम् इति हेतोरनैकान्तिकतापरिहारार्थं व्युत्पत्तिमत्वविशेषणं द्रष्टव्यम् । यदपि शुद्धपदं न भवति किन्तु सामासि कम्, तदपि व्युत्पत्तिमत्वे सत्यपि सार्थकं न भवति, यथा खरविषाणादिकम्, इनि शुद्धत्वविशेषणम् ।
अथ मन्यसे - देह एवास्य जीवपदस्यार्थः, न पुनरर्थान्तरम् उक्तं च- "देह एवाऽयमनुप्रयुज्यमानो दृष्टः यथैष जीवः, एनं न हिनस्ति" इति, अतो देह एवास्यार्थो युक्त इति । तदेतद् न । कुतः ? इत्याह- देह-जीवयोः पर्यायवचनभेदात् यत्र हि पर्यायवचनभेदस्तत्रान्यत्वं दृष्टम्, यथा घटा-ऽऽकाशयोः । तत्र घट- कुट-कुम्भ-कलशादयो घटस्य पर्यायाः, नभो-व्योमा अन्तरिक्षा-काशादयस्त्वाकाशपर्यायाः । प्रस्तुते च जीवो जन्तुरसुमान् प्राणी सच्चो भूत इत्यादयो जीवपर्यायाः, शरीरं वपुः कायो देहः कलेवरमित्यादयस्तु शरीरपर्यायाः । पर्यायवचनभेदेऽपि च वस्त्वेकत्वे सर्वैकत्वप्रसङ्गोऽत्र बाधकम् । यत्पुनरिदमुक्तम्- "देह एवायमनुप्रयुज्यमानो दृष्टः " - इत्यादि, तच्छरीरसहचरणा-वस्थानादितः शरीरे जीवोपचारः क्रियते । किश्च इत्थमपि श्रूयत एव 'गतः स
१ जीव इति सार्थकमिदं शुद्धस्तो घटाभिधानमिव । येनार्थेन सदर्थं स जीवः, अथ मतिर्भवेत् ॥ १५७५ ॥ अर्थी देह एव तस्य तद् मो पर्यायवचनभेदात् । ज्ञानादिगुणश्च यतो भणितो जीवो न देद इति ॥ १५७६ ॥ २ क.ग. 'जीवो यथैनं' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६७६॥
www.jainelibrary.org