________________
नरव
विशेषा
॥६७७||
EAN
alam
जीवः' 'दद्यतामिदं शरीरम्' इति । किश्च, 'नाणाईत्यादि' यस्माच ज्ञानादिगुणयुतो जन्तुः, जडश्च देहा, तत्कथं देह एव जीवः । प्रागिहैव चोक्तम्-न ज्ञानादिगुणो देहः, मूर्तिमत्त्वात् , घटवत् । तथा, देहेन्द्रियातिरिक्त आत्मा, तदुपरमेऽपि तदुपलब्धार्थानामनुस्मरणात् , वातायनपुरुषवदिति ॥ १५७५ ॥ १५७६ ।।
तदद्याप्यप्रतिबुध्यमान इन्द्रभूतौ भगवानाह
जीवो त्थि वओ सच्चं मव्वयणाओऽवसेसवयणं व । सव्वण्णुवणयओ वा अणुमयसव्वण्णुवयणं व॥१५७७॥
'जीवोऽस्ति' इत्येतद् वचः सत्यम् , मद्वचनत्वात् , भवत्संशयविषयाद्यवशेषवचनवत् , यच्च सत्यं न भवति तद् मदीयवच| नमपि न भवति, यथा कूटसाक्षिवचनम् । अथवा, सत्यं 'जीवोऽस्ति' इति वचनम् , सर्वज्ञवचनत्वात् , भवदनुमतसर्वज्ञवचनवदिति ॥१५७७॥
यदिवा,
भय-राग-दोस-मोहाभावाओ सच्चमणइवाइं च । सव्वं चिय मे वयणं जाणयमझत्थवयणं व ॥१५७८॥
सर्वमपि मद्वचनं सत्यमनतिपाति च बोदव्यम् , भय-राग-द्वेषा-ज्ञानरहितत्वात् , इह यद् भयादिरहितस्य वचनं तत् सत्यं दृष्टम् , यथा मार्गज्ञस्य भयरहितस्य प्रष्टरि राग-द्वेषरहितस्य मार्गोपदेशवचनम् , तथाच मदचः, तस्मात् सत्यमनतिपाति चेति ॥१५७८॥
अत्र गौतममाशङ्कय भगवानुत्तरमाह
कह सव्वण्णु त्ति मई जेणाहं सव्वसंसयच्छेई। पुच्छसु व जं न जाणसि जेण व ते पच्चओहोजा ॥१५७९॥
कथं नाम 'त्वं सर्वज्ञः' इति ते मतिः ? एवं त्वं मन्यसे, तथा, भय-राग-द्वेष-मोहाभावश्चासिद्ध इति मन्यसे । तदयुक्तम् , येनाहं सर्वसंशयच्छेदी, यश्च सर्वसंशयच्छेत्ता स सर्वज्ञ एव । दृष्टान्ताभावेनान्वयासिद्धरनैकान्तिकोऽयं हेतुरिति चेत् । न, सर्वसंशयच्छेत्तृत्वानुपपत्तिरेवेह विपर्यये बाधकं प्रमाणम् , किमिहान्वयान्वेषणेन ? । यदिवा, पृच्छयतां यत् त्रैलोक्यान्तर्गतं वस्तु त्वं न
, जीवोऽस्ति वचः सत्वं महूचनादवशेषवचनमिव । सर्वज्ञवचनतो वाऽनुमतसर्वज्ञवचनमिव ॥ १५७७॥ २ भय-राग-द्वेष-मोहाभावात् सत्यमनतिपाति च । सत्यमेव मे वचनं ज्ञायकमध्यस्थवचनमिव । १५७८ ॥ ३ कथं सर्वज्ञ इति मतिपैनाई सर्वसंशयच्छेदी । पृच्छ वा यद् न जानासि बेन वा ते प्रत्ययो भवेत् ॥ १५७९ ॥
SSIPS
||६७७॥
सामर
For
and Private Use Only
www.janelibrary.org