SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६७८ ॥ Jain Educationa internatio जानासि, येन सर्वज्ञत्वमत्ययस्तव जायते । भयाद्यभावोऽपि तल्लिङ्गादर्शनाद् माये सिद्ध एवेति स्वयमेव द्रष्टव्यम् । कदाचिदपि लिङ्गादर्शने लिङ्गिनोऽस्तित्वशङ्कायामतिप्रसङ्ग इति ।। १५७९ ।। अथोपसंहरन्नाह--- एवमुवओगलिंगं गोयम ! सव्वप्पमाणसंसिद्धं । संसारी - यर थावर - तसाइभेयं मुणे जीवं ॥ १५८० ॥ एवमुक्तेन प्रकारेण जीवमात्मानं गौतम ! मुण- प्रतिपद्यखेति संबन्धः । कथंभूतम् ? उपयोग एव लिङ्गं यस्य स तथा सर्वैः प्रत्यक्षानुमानाssगमप्रमाणैः संसिद्धं प्रतिष्ठितम्, तथा, संसारी-तर- स्थावर त्रसादिभेदम् । संसारिणश्वेतरे सिद्धाः । आदिशब्दाच सूक्ष्म-वादर-पर्याप्ताऽपर्याप्तादिभेदपरिग्रह इति ।। १५८० ।। अत्र वेदान्तवादी प्राह- ननु बहुभेदत्वमात्मनोऽसिद्धम्, तस्य सर्वत्रैकत्वात्, तदुक्तम्- " एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमित्र मात्राभिर्भिन्नाभिरभिमन्यते ॥ २ ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥ ३ ॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ४ ॥ " तैथा, "पुरुष एवेदं नि सर्व, यद् भूतं यच्च भाव्यम्, उतामृतत्वस्येशानः, यदन्नेनातिरोहति, यदेजति, यद् नैजति, यद् दूरे, यदु अन्तिके, यदन्तरस्य सर्वस्य यत् सर्वस्यास्य बाह्यतः" इत्यादि । इत्येतदेव पूर्वार्धेनाक्षिष्योत्तरार्धेन परिहरन्नाह- जैइ पुण सो एगो च्चिय हवेज वोमं व सव्वपिंडेसु । गोयम ! तदेगलिंगं पिंडेसु तहा न जीवोऽयं ॥ १५८१॥ १ एवमुपयोगलिङ्गं गौतम ! सर्वप्रमाणसंसिद्धम् । संसारी तर स्थावर त्रसभेदं मुण जीवम् || १५८० ॥ २ घ. ज. 'व्यवस्थितः ' । ३ घ.ज. 'पु' । ४ अयमन्त्रार्थ:- पुरुष आत्मा । एवशब्दोऽवधारणे। स च कर्म-प्रधानादिव्यवच्छेदार्थः । इदं सर्वं प्रत्यक्षं वर्तमानं चेतनाऽचेतनम् । निमिति वाक्यालङ्कारे । यद् भूतं यदतीतम्, यश्च भाव्यं यच भविष्यत् तत् स एवेत्यर्थः । उताऽमृतत्वस्येशान इति- उतशब्दोऽप्यर्थे, अपिश्व समुच्चये, अमृतत्वस्याऽमरणभावस्य मोक्षस्य ईशानः प्रभुश्चेत्यर्थः । यदिति यश्च- चशब्दलोपात्, अनेन आहारण अतिरोहति अतिशयेन वृद्धिमुपैति यदेजति यश्चलति भश्वादि, यद् नैजति पर्वतादि, यद् दूरे मेघादि, यदु अन्तिके, उशब्दोऽवधारणे, अन्तिके समीपे यत् तत्पुरुष एवेत्यर्थः । यदन्तर्मध्येऽस्य चेतना-चेतनस्य सर्वस्य यदेव सर्वस्याऽस्य बाह्यतस्तत्सर्वं पुरुष एवेति ॥ ५ यदि पुनः स एक एव भवेद् व्योमेव सर्वपिण्डेषु । गौतम ! तदेकलिङ्गं पिण्डेषु तथा न जीवोऽयम् ॥ १५८ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥६७८॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy