________________
विशेषा० ॥६७९ ॥
Jain Educationa Internation
परः प्राह - यदि पुनर्दर्शितन्यायेन स आत्मा सर्वेष्वपि नारक- तिर्यङ् नरा-मरपिण्डेषु व्योमत्रदेक एव भवेद् न तु संसारीतरादिभेदभिन्नः तर्हि किं नाम दूषणं स्यात् । एवमुक्ते भगवानाह - गौतम ! तद् व्योम सर्वेष्वपि पिण्डेषु मूर्तिविशेषेषु स्थितमेकलिङ्ग |वैसदृश्याभावादेकरूपमेव, इति युक्तं तस्यैकत्वम्, जीवस्त्वयं विचार्यत्वेन प्रस्तुतो न तथा नैकलिङ्गः सर्वत्र दृश्यते, प्रतिपिण्डं तस्य विलक्षणत्वात्, लक्षणभेदे च लक्ष्यभेदात् इति न तस्यैकत्वमिति ।। १५८१ ॥
अत्र प्रयोगमाह -
नाणा जीवा कुंभादर व्व भुवि लक्खणाइभेयाओ । सुह-दुक्ख-बंध मोक्खाभावो य जओ तदेगत्ते ॥१५८२ ॥ नानारूपा व जीवाः परस्परं भेदभाज इत्यर्थः । लक्षणादिभेदादिति हेतुः कुम्भादय इवेति दृष्टान्तः, यच्च न भिन्नं न तस्य लक्षणभेदः, यथा नभस इति । सुख-दुःख-बन्ध - मोक्षाभावश्च यस्मात् तदेकत्वे तस्माद् भिन्ना एव सर्वेऽपि जीवा इति ।। १५८२ ।।
कथं पुनस्तेषां प्रतिपिण्डं लक्षणभेदः १ इत्याह
जेणोवओगलिंगो जीवो भिन्नो य सो पइसरीरं । उवओगो उक्करिसा वगरिसओ तेण तेऽणंता ॥। १५८३ ॥ येन ज्ञान- दर्शनोपयोगलक्षणोऽसौ जीवः, स चोपयोगः प्रतिशरीरमुत्कर्षापकर्षभेदादनन्तभेदः, तेन जीवास्तद्भेदादनन्तभेदा एवेति । तदेवं भावितं 'नाणा जीवा' इत्यादि पूर्वार्धम् ।। १५८३ ।।
I
इदानीं 'सुख- दुक्ख' इत्यायुत्तरार्ध भावयन्नाह—
ऍगते सव्वगयत्तओ न मोक्खादओ नभस्सेव । कत्ता भोत्ता मंता न य संसारी जहागासं ॥। १५८४ ॥ एकत्वे जीवानां सुख-दुःख-बन्ध-मोक्षादयो नोपपद्यन्ते, सर्वगतत्वात्, नभस इव, यत्र तु सुखादयो न तत् सर्वगतं यथा
१ नाना जीवाः कुम्भादय इव भुवि लक्षणादिभेदात् । सुख-दुःख-बन्ध-मोक्षाभावश्च यतस्तदेकत्वे ॥। १५८२ ॥
२ येनोपयोगलिङ्गो जीवो भिन्न स प्रतिशरीरम् । उपयोग उत्कर्षापकर्षतस्तेन तेऽनन्ताः ॥ १५८३ ॥ ३ गाथा १५८२ ।।
४ एकत्वे सर्वगतत्वतो न मोक्षादयो नभस इव । कर्ता भोक्ता मन्ता न च संसारी यथाकाशम् ।। १५८४ |
For Personal and Private Use Only
बृहद्वृत्तिः ।
।।६७९ ।।
www.janelibrary.org