________________
विशेषा०
॥६८०॥
Jain Educationa Internation
देवदत्त इति । किश्व न कर्ता, न भोक्ता, न मन्ता, न संसारी जीवः, एकत्वात् सर्वजीवानाम्, यश्चैकं न तस्य कर्तृत्वादयः, यथा नभस इति ।। १५८४ ॥
अपि च,
ऐगत्ते नत्थि सुही बहूवघाउ त्ति देसनिरुउ व्व । बहुतरबद्धत्तणओ न य मुक्का देसमुको व्व ॥१५८५॥ इदमत्र हृदयम् - नारक- तिर्यगादयोऽनन्ता जीवा नानाविधशरीर-मानसोपघातसंपातैर्दुःखिता एवं तदनन्तभागवर्तिनस्तु सुखिनः, एवमनन्ता बद्धाः, तदनन्तभागवर्तिनस्तु मुक्ताः, तेषां च सर्वेषामेकत्वे न कोऽपि सुखी माझोति, बहुतरोपघातान्त्रितत्वात् यथा सर्वा ङ्गरोगग्रस्तोऽङ्गुल्येकदेशेन नीरोगो यज्ञदत्तः, एवं न कोऽपि मुक्तस्तत्सुखभाक् च न कोऽपि घटते, बहुतरवद्धत्वात्, यथा सर्वा - ङ्गकीलितोऽङ्गुल्येकदेशमुक्तः । तस्मादेकत्वे सुखाद्यनुपपत्तेर्नानात्वं जीवानामिति स्थितम् ।। १५८५ ।।
भवतु तर्हि जीवानां नानात्वम्, किन्त्वेकैको जीवः सर्वजगद्व्यापकोsस्तु, इति नैयायिकादिमतमपाकुर्वन्नाह -
जीवो तणुमेतत्थो जह कुंभो तग्गुणोवलंभाओ | अहवाऽणुवलंभाओ भिन्नम्मि घडे पडस्सेव || १५८६ ॥
तनुमात्रस्थो जीव इति प्रतिज्ञा, तत्रैव तद्गुणोपलब्धेः, यथा घटः, 'स्वात्ममात्रे' इति शेषः । ' अहवेत्यादि ' अथवा, यो यत्र प्रमाणैर्नोपलभ्यते तस्य तत्राभाव एव यथा भिन्ने घंटे पटस्य, नोपलभ्यते च शरीराद् बर्हिजीवः तस्मात् तस्य तत्राभाव एवेति ।। १५८६ ।।
उपसंहरन्नाह -
म्हा कत्ता भोत्ता बंधो मोक्खो सुहं च दुक्खं च । संसरणं च बहुत्ता ऽसव्वगयत्ते सुजुत्ताई ॥ १५८७ ॥ तस्माद् बहुत्वा-सर्वगतत्वयोरेव सतोः कर्तृत्वादयो धर्मा जीवस्य युज्यन्ते, नान्यथा, इत्येवंविधं प्रमाणसिद्धं जीवं प्रतिपद्यखेति ।। १५८७ ।।
१ एकत्वे नास्ति सुखी बहूपघात इति देशनिरुज इव । बहुतरवत्वतो न च मुक्तो देशमुक्त इव ।। १५८५ ।। २ क.ग. 'को घ' । ३ जीवस्तनुमात्रस्थो यथा कुम्भस्तद्गुणोपलम्भात् । अथवाऽनुपलम्भाद् भिने घटे पटस्येव ॥। १५८६ ५
४ तस्मात् कर्ता भोक्ता बन्धो मोक्षः सुखं च दुःखं च । संसरणं च बहुत्वा सर्वगतत्वयोः सुयुक्तानि ॥ १५८७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
||६८०||
www.jainelibrary.org