________________
विशेषा.
बृहद्वत्तिः ।
, अत्र स्वात्मग्राहक, निरालम्बनाः सर्वे प्रत्ययाः, सुख दुःखादयः। प्रत्यक्षसिद्धपपि या
॥६६७॥
करमाटाकाहाकासासव
तद् न प्रमाणान्तरेण साध्यम् , तथा स्वशरीर एवात्मसंवेदनसिद्धाः सुख-दुःखादयः। प्रत्यक्षसिद्धमपि सग्राम-नगरं विश्वं शून्यवादिनं प्रति साध्यत एवेति चेत् । नैवम् , 'निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वमप्रत्ययवत् , इत्यादेस्तदुद्भावितबाधकप्रमाणस्यैव तत्र निराकरणात् , अत्र वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाभावादिति ।। १५५४ ॥
इतश्चायं प्रत्यक्षो जीवः । कुतः ? इत्याह__ कय करेमि काहं वाहमहं पच्चया इमाउ य । अप्पा स पञ्चक्खो तिकालकज्जोवएसाओ॥ १५५५ ॥
वेत्यथवा, 'कृतवानहम् , करोम्यहम् , करिष्याम्यहम् '; 'उक्तवानहम् , ब्रवीम्यहम् , वक्ष्याम्यहम्', 'ज्ञातवानहम् , जानेऽहम् , ज्ञास्याम्यहम्' इत्यादिप्रकारेण योऽयं त्रैकालिकः कार्यव्यपदेशः, तद्विषयप्रयुज्यमानतया तत्समुत्थो योऽयमहंप्रत्ययः, एतस्मादपि 'प्रत्यक्ष एवाऽयमात्मा' इति प्रपद्यस्व । अयं ह्यहंप्रत्ययो नानुमानिकः, अलैङ्गिकत्वात् । नाप्यागमादिप्रमाणसंभवः, तदनभिज्ञानानां बाल-गोपालादीनामप्यन्तर्मुखतयाऽऽत्मग्राहकत्वेन स्वसंविदितस्य तस्योत्पादात् , घटादौ चानुत्पादादिति ।। १५५५ ॥
अपि च, कैह पडिवण्णमहं ति य किमत्थि नत्थि त्ति संसओ कह णु ? । सइ संसयम्मि वायं कस्साहपञ्चओ जुत्तो ? ॥१५५६॥
हन्त ! कथमसति जीवे 'अहम्' इति प्रतिपन्नं त्वया, विषयाभावे विषयिणोऽनुत्थानप्रसङ्गात् ? । देह एवास्य प्रत्ययस्य विषय इति चेत् । न, जीवविषमुक्तेऽपि देहे तदुत्पत्तिप्रसङ्गात् । सति च जीवविषयेऽस्मिन्नहंपत्यये 'किमहमस्मि नास्मि' इति भवतः संशयः कथं केन प्रकारेणोपजायते ? अहंपत्ययग्राह्यस्य जीवस्य सद्भावात् 'अस्म्यहम्' इति निश्चय एव युज्यत इति भावः। सन्ति वास्मिनात्मास्तित्वसंशये कस्यायमहंप्रत्ययो युज्यते, निर्मूलत्वेन तदनुत्थानप्रसङ्गात् ? इति ॥ १५५६ ॥
जीवाभावे संशयविज्ञानमपि न युज्यत एवेति दर्शयन्नाहजइ नत्थि संसइ च्चिय किमत्थि नत्थि त्ति संसओ कस्स ? । संसइए व सरूवे गोयम ! किमसंसयं होज्जा ? ॥१५५७॥ - कृतवान् करोमि करिष्यामि वाहमहंप्रत्ययादस्माच्च । आत्मा स प्रत्यक्षस्बैकालिककार्योपदेशात् ॥ १५५५ ॥
२ कथं प्रतिपनामहमिति च किमस्मि नास्मीति संशयः कथं नु । सति संशये चायं कस्याहंप्रत्ययो युक्तः। ॥१५५६॥ ३ क. ग. 'मस्ति नास्ति'। ४ यदि नास्ति संपायी एवं किमस्मि नास्मीति संशयः कस्यो । संशयिते वा स्वरूपे गीतम! किमसंशयं भवेत् ॥ १५५७ ॥
डामारस्वररर
॥६६७॥
door
Jan Education Internatio
For Personal and Private Use Only
www.janeitrary.org