________________
विशेषा ०
॥६६६॥
Jain Education internatio
जं चार्गमा विरुद्धा परोप्परमओ वि संसओ जुत्तो । सव्वप्पमाणविसयाईओ जीवो त्ति तो बुद्धी ॥१५५३ || यतश्च तीर्थिकानां संबन्धिनः सर्वेऽप्यागमाः परस्परविरोधिनः खलु, अतोऽपि संशय एवात्मनो युक्तः, न तु निश्चयः, तथाहि - बृहद्वृत्तिः । केचिदागमा आत्मनो नास्तित्वमेव प्रतिपादयन्ति यदाहुर्नास्तिकाः
“एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः || १ ||" इत्यादि ।
भोsयाह - "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न च प्रेत्यसंज्ञास्ति" । सुगतस्त्वाह" न रूपं भिक्षवः ! पुद्गलः" इत्यादि । आत्मास्तित्ववचनान्यप्यागमेषु श्रूयन्ते तथाच वेद:- "न हि वै सशरीरस्य प्रिया-प्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः" इति तथा, "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि । कापिलागमे तु प्रतिपाद्यते - " अस्ति पुरुपोकर्ता निर्गुणो भोक्ता चिद्रूपः" इत्यादि । तस्मादागमानां परस्परविरुद्धत्वाद् नागमप्रमाणादध्यात्मसत्त्वासिद्धिः । इदं च वैशेषिकमतेन प्रत्यक्षानुमाना- Sगमलक्षणं प्रमाणत्रयमुपन्यस्तम् । एतच्च स्वयं द्रष्टव्यम् - उपमाप्रमाणगम्योऽपि जीवो न भवति । तत्र हि 'यथा गौस्तथा गवयः' इत्यादावेव सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । न चेहान्यः कश्चित् त्रिभुवनेऽप्यात्मसदृशः पदार्थोऽस्ति यद्दर्शनादात्मानमवगच्छामः । काला-ssकाश-दिगादयो जीवतुल्या विद्यन्त इति चेत् । न तेषामपि विवादास्पदीभूतत्वेन तदहिवद्धत्वात् । अर्थापत्तिसाध्योऽपि जीवो न भवति । न हि दृष्टः श्रुतो वा कोऽप्यर्थ आत्मानमन्तरेण नोपपद्यते, यद्धलात् तं साधयामः । तस्मात् सर्वप्रमाणविषयातीतो जीव इति तव बुद्धिः, भावोपलम्भकप्रमाणपञ्चकविषयातीतत्वात्, प्रतिषेधसाधकाभावाख्यपष्ठप्रमाणविषय एव जीव इत्यर्थः । इति पूर्वपक्ष: ।। १५५३ ।।
अथैतत्प्रतिविधानमाह-
गोयम ! पक्खु चिय जीवो जं संसयाइविन्नाणं । पच्चक्खं च न सज्झं जह सुह दुक्खा सदेहम्मि || १५५४ || गौतम ! भवतोऽपि प्रत्यक्ष एवायं जीवः, किमन्येन प्रमाणान्तरोपन्यासेन ? । कोऽयं जीवो मम प्रत्यक्षः ? इति चेत् । उच्यतेयदेतत् तवैव संशयादिविज्ञानं स्वसंवेदनसिद्धं हृदि स्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्षं
१ यचागमा विरुद्वाः परस्परमतोऽपि संशयो युक्तः । सर्वप्रमाणविषयातीतो जीवोऽस्ति ततो बुद्धिः ।। १५५३ ।। २ . ज. 'दख्य' । ३ गौतम ! प्रत्यक्ष एव जीवो यत् संशयादिविज्ञानम् । प्रत्यक्षं च न साध्यं यथा सुख-दुःखे स्वदेहे ॥ १५५४ ॥ ४ध.ज. 'बक्खो थि' ।
For Personal and Private Use Only
॥६६६॥
www.jainveltrrying