________________
विशेषा०
॥६६५॥
Jan Education Internation
नेय जीवलिंग संबंध दरिसणमभू जओ पुणो सरओ । तल्लिंगदरिसणाओ जीवे संपच्चओ होज्जा ॥ १५५१॥
गतार्था । न च वक्तव्यं सामान्यतोदृष्टादनुमानादादित्यादिगतिवज्जीवः सिध्यति, यथा- गतिमानादित्यः, देशान्तरप्राप्तेः, देवदत्तवदिति, यतो हन्त ! देवदत्ते दृष्टान्तधर्मिणि सामान्येन देशान्तरप्राप्तिं गतिपूर्विका प्रत्यक्षेणैव निश्चित्य, सूर्येऽपि तां तथैव प्रमाता साधयतीति युक्तम् । न चैवमत्र कचिदपि दृष्टान्ते जीवसत्वेनाविनाभूतः कोऽपि हेतुरध्यक्षेणोपलक्ष्यत इति । अतो न सामान्यतोदृष्टादप्यनुमानात् तद्गतिरिति ।। १५५१ ।।
न चागमगम्योsपि जीव इति दर्शयति-
नागमम्मो वि तओ भिज्जइ जं नागमोऽणुमाणाओ । न य कासइ पच्चक्खो जीवो जस्सागमो वयणं ॥ १५५२॥
न चागमगम्योsपि तकोऽसौ जीवः, यद् यस्मादागमोऽपि नानुमानाद् भिद्यते, परमार्थतस्तस्याप्यनुमानत्वात् ; तथाहिशाब्दं प्रमाणमागम उच्यते, शब्दश्च द्विविधः- दृष्टार्थविषयः, अदृष्टार्थविषयश्च । तत्र दृष्टार्थविषया शब्दाद् या प्रतीतिः सा वस्तुतोsनुमानसमुत्थैव, यतः कचित् प्रथमं पृथुवुभोदरो धर्ध्वकुण्ड-लोष्ठायत वृत्तग्रीवादिमति घटपदार्थे घटशब्दं प्रयुज्यमानं दृष्ट्वा तदुत्तरकालं कापि 'घटमानय' इत्यादिशब्दं श्रुत्वा पृथुवुभोदरादिमदर्थ एव घट उच्यते, तथाभूतपदार्थ एव घटशब्दप्रयोगप्रवृत्तेः, यथा पूर्व कुम्भकारापणादौ, घटशब्दश्वायमिदानीमपि श्रूयते, तस्मात् तथाभूतस्यैव पृथुवनोदरादिमतः पदार्थस्य मयाऽऽनयनादिक्रिया कर्तव्या' इत्यनुमानं विधाय प्रमाता घटानयनादिक्रियां करोति, इत्येवं दृष्टार्थविषयं शाब्दं प्रमाणं वस्तुतो नानुमानाद् भिद्यते । न चैवमसावात्मशब्दः शरीराहतेऽन्यत्र प्रयुज्यमानः कचिदुपलब्धः, यत्र खल्वात्मशब्दश्रवणात् 'आत्मा' इति प्रत्ययो भवेदिति । यदपि स्वर्ग-नरकायदृष्टार्थविषयं शाब्दं प्रमाणम्, तदपि तत्वतोऽनुमानं नातिवर्तते, तथाहि - 'प्रमाणं स्वर्ग-नरकाद्यदृष्टार्थविषयं वचनम्, अविसंवादिवचनासप्रणीतत्वात् चन्द्रा-कपरागादिवचनवत्' इत्येवमनुमानादेव तत्र प्रमाणता । न चैवंभूतमाप्तं कमपि पश्यामः यस्यात्मा प्रत्यक्ष इति तद्वचनमागम इति 'प्रतिपद्येमहि' इति शेषः ।। १५५२ ॥
किञ्च,
८४
१ न च जीवलिङ्गसंबन्धदर्शनमभूद् यतः पुनः स्मरतः । तलिङ्गदर्शनाजीचे संप्रत्ययो भवेत् ।। १५५१ ।।
२ नागमगम्योऽपि सको भिद्यते यद् नागमोऽनुमानात् । न च कस्यचित् प्रत्यक्षो जीवो यस्यागमो वचनम् ।। १५५२ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
|६६५॥
www.janeibrary.org