________________
बृहद्वत्तिः ।
॥६६४॥
इत उर्व "पंथं किर देसित्ता' इत्यादिका सर्वापि निर्गमवक्तव्यता मूत्रसिद्धव । यच्चेह दुरवगम तद् मूलावश्यकविवरणादवगन्तव्यं तावत् , यावत् प्रथमगणधरवक्तव्यतायां भाष्यम् ।।
जीवे तुह संदेहो पच्चक्खं जं न घिप्पइ घडो व्य । अच्चतापच्चक्खं च नात्थ लाए खपुप्फ व ॥१५४९॥
आयुष्मन् इन्द्रभूने ! तवैष संदेहः-किमयमात्माऽस्ति, नास्ति वा, उभयहेतुसद्भावात् । तत्र नास्तित्वहेतवोऽमी-नास्त्यात्मा, प्रत्यक्षेणात्यन्तमगृह्यमाणत्वात् , इह यदत्यन्ताप्रत्यक्षं तल्लोके नास्त्येव, यथा खपुष्पम् , यच्चास्ति तत्प्रत्यक्षेण गृह्यत एव, यथा घट इत्यसौ व्यतिरेकदृष्टान्तः । अणवोऽपि ह्यप्रत्यक्षाः, किन्तु घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि भावप्रत्यक्षमुपगच्छति, अतोऽत्रात्यन्तविशेषणमिति ।। १५४९ ॥
एवं च मन्यसे त्वं, किम् ? इत्याह_ न य सोऽणुमाणगम्मो जम्हा पच्चक्खपुव्वयं तं पि । पुवोवलडसंबंधसरणओ लिंग-लिंगाणं ॥ १५५० ॥
न चासावात्माऽनुमानगम्यः, यस्मात् तदप्यनुमानं प्रत्यक्षपूर्वकं प्रवर्तते । कुतः ? इत्याह- 'पुब्बोवलद्धेत्यादि' लिङ्गयते गम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम् । अथवा लीनं तिरोहितमर्थ गमयतीति लिङ्गं धूम-कृतकत्वादिकम् , तदस्यास्तीति लिङ्गी बढ्य-ऽनित्यत्वादिः, तयोलिङ्ग-लिङ्गिनोर्यः पूर्व महानसादौ प्रत्यक्षादिनोपलब्धः कार्यकारणभावादिकः संवन्धस्तस्य यत् स्मरणं तस्मादिनि । इदमुक्तं भवति- पूर्व महानसादावग्नि-धूमयोलिङ्गि-लिङ्गयोरन्वयव्यतिरेकवन्तमविनाभावमध्यक्षतो गृहीत्वा तत उत्तरकालं कचित् कान्तार-पर्वतनितम्बादौ गगनावलम्बिनीं धूमलेखामवलोक्य प्राग् गृहीतं संबन्धमनुस्मरति, तद्यथा- यत्र यत्र धृमस्तत्र तत्र प्रागई वह्निमद्राक्षम् , यथा महानसादौ, धुमश्चात्र दृश्यते, तस्माद् वहिनापीह भवितव्यम् , इत्येवं लिङ्गग्रहण-संबन्धस्मरणाभ्यां तत्र प्रमाता हुतभुजमवगच्छति । न चैवमात्मना लिङ्गिना सार्धं कस्यापि लिङ्गस्य प्रत्यक्षेण संबन्धः सिद्धोऽस्ति, यतस्तत्संबन्धमनुस्मरतः पुनस्तल्लिङ्गदर्शनाजीचे संप्रत्ययः स्यात् । यदि पुनर्जीव-लिङ्गयोः प्रत्यक्षतः संवन्धसिद्धिः स्यात् तदा जीवस्यापि प्रत्यक्षत्वापत्त्याऽनुमानवैययं स्यात् , तत एव तत्सिद्धेरिति ॥ १५५० ॥ एतदेवाह
१ आवश्यकनियुकी पृ० २२ । २ जीवे तव संदेहः प्रत्यक्षं यद् न गृह्यते घर इव । अत्यन्ताप्रत्यक्षं च नास्ति लोके खपुष्पमिव ।। १५४९॥ ३ प. ज. 'पि प्रत्यक्षभावमु'। न च सोऽनुमानगम्यो यस्मात् प्रत्यक्षपूर्वकं तदपि । पूर्वोपलब्धसंवश्वमरणतो लिङ्ग-लिनिनोः ॥ १५५० ।।
॥६६४॥
Jan Education Internal
For Personal and Private Use Only
ww.janelbrary.org