________________
विशेषा०
SHA
॥६६॥
तदङ्गत्वमेव द्रव्यादीनां दर्शयति
वीरो दवं खेत्तं महसेणवणं पमाणकालो य । भावो य भावपुरिसो समासओ निग्गमंगाई ॥ १५४५ ।।
यतो द्रव्यात् सामायिक निर्गतं तद् द्रव्यमत्र श्रीमन्महावीरो मन्तव्यः । यस्मिंश्च क्षेत्रे तद् निर्गतं तदिह महसेनवनमवगन्तव्यम् । कालस्तु प्रथमपौरुषीलक्षणः प्रमाणकालः । भावस्तु भावपुरुषो वक्ष्यमाणलक्षणः। एतानि समासतः संक्षेपतः सामायिकस्य निर्गमाङ्गानीति ॥ १५४५ ॥
एतदेव दर्शयति--
सामइयं वीराओ महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं ॥१५४६॥
गतार्था । नवरं श्रीमन्महावीरजीवलक्षणाद् भावपुरुषादयं वक्ष्यमाणविस्तरखरूपः सामायिकलक्षणो भावो विनिर्गतः । इह च क्षायोपशामिके भावे वर्तमानत्वात् 'सामायिक भावः' इत्युक्तम् ॥ १५४६ ॥
अथ महावीरलक्षणस्य द्रव्यस्य निर्गमं तावदभिधित्सुराह
इच्चवमाई सव्वं दवाहीणं जओ जिणस्सेव । तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तओ ॥ १५४७ ॥
इत्येवमादिकं क्षेत्र-कालनिर्गमनादिकं सामायिकाध्ययना-ऽऽवश्यकश्रुतस्कन्धा-ऽऽचारादिकं वा सर्वमपि यतो यस्माद् द्रव्यस्य | महावीरलक्षणस्याधीनम् । ततस्तस्यैव महावीरजिनस्य निर्गमनमुक्त्वा ततः सामायिकस्य निर्गमनं वक्ष्य इति ॥ १५४७॥
ननु महावीरजिनस्यापि निर्गमनं कथं वक्तव्यम् ? इत्याह--
"मिच्छत्ताइतमाओ स निग्गओजह य केवलं पत्तो । जह य पसूयं तत्तो सामइयं तं पवक्खामि ॥१५४८॥ तमिति तदेतत् सर्व प्रवक्ष्यामि ॥ इति गाथापश्चदशकार्थः ॥ १५४८ ॥
वीरो द्रव्यं क्षेत्र महासेनवनं प्रमाणकालश्च । भावश्च भावपुरुषः समासतो निर्गमानानि ॥ १५४५ । २ सामायिक वीराद् महासेनवने प्रामाणकाले च । भावपुरुषादि भावो विनिर्गतो वक्ष्यमाणोऽयम् ॥ १५५५ ।।
इस्पेवमादि सर्व ग्याधीनं यतो जिनस्यैव । ततो निर्गमनमुक्त्वा वक्ष्ये सामायिकस्य ततः ॥ १५४७ ।। ४ मिथ्यात्वादितमसः स निर्गतो यथा न केवलं प्राप्तः । यथा च प्रसूतं ततः सामायिकं तत् प्रवक्ष्यामि ।। १५५८।।
ककककटर-ANTARA
For
and Pri
n
www.janeibrary.org