________________
विशेषा
बृहदत्तिः ।
॥६६२।।
रुवाई पोग्गलाओ कसाय-नाणादओ य जीवाओ । निंति पभवंति ते वा तेहिंतो तविओगम्मि ॥१५४२ ॥ . भावोऽपि कालबद् द्रव्यधर्म एव । तस्य च ततो द्रव्याद् यो निर्गमः प्रभवः स भावनिर्गमः, द्रव्यस्य वा भावाद् निर्गमो भाव- निर्गमः । कः ? इत्याह-- भावतो भावमाश्रित्य यो द्रव्यस्यापगमो विनाशः । इदमुक्तं भवति- यदा द्रव्यं पूर्वपर्यायेण विनश्यति, अपूर्वपर्यायेण तूत्पद्यते, तदा पूर्वपर्यायात् प्राक्तनभावाद् द्रव्यस्य निर्गतत्वाद् भावाद् निर्गमो भावनिर्गम इत्युच्यते । तथा, रूपादयो भावाः पुद्गलद्रव्यात , कषाय-बानादयश्च जीवाद् निर्गच्छन्ति प्रभवन्तीति भावानां निगमो भावनिर्गम उच्यते । 'ते वा तेहितो ति' अथवा ते पुद्गल-जीवादयः पदार्थास्तेभ्यो रूपादिभ्यः कषायादिभ्यश्च भावेभ्यस्तद्वियोगे प्राक्तनभावविनाशे निर्गच्छन्तीति भावेभ्यो निगमो भावनिर्गम इत्युच्यत इति । तदेवं विनेयमतिव्युत्पादनार्थमभिहितः पड्विधो निर्गमः ।। १५४१ ॥ १५४२ ।।
इदानी प्रकृते यावता प्रयोजनं तदुपदर्शयितुम् , प्रशस्तभावनिर्गमस्वरूपं तावद् दर्शयन्नाह
तेत्थ पसत्थं मिच्छत्तण्णाणाविरइभावनिग्गमणं । जीवस्स संभवंति य ज सम्मत्तादओ तत्तो ॥१५४३॥ तत्रानन्तरोक्ते भावनिर्गमे प्रशस्तं शुभं निर्गमनम् । किम् ? इत्याह-मिथ्यात्वा-ज्ञाना-ऽविरतिलक्षणादप्रशस्तभावाद् यनिर्गमनं निःसरणं जीवस्य । किमिति ? इत्याह- यद् यस्मात् संभवन्त्येव ततो मिथ्यात्वाद्यप्रशस्तभावनिर्गमाउजीवस्य मुक्तिपदप्राप्तिहेतवः सम्यक्वादयो गुणा इति ।। १५४३ ॥
भवत्वेवम् , प्रस्तुते केन प्रयोजनम् ? इत्याह
ऐत्थ उ पसत्थभावप्पसूइमेत्तं विसेसओऽहिगयं । अपसत्थावगमो विय सेसा वि तदंगभावाओ ॥१५४४॥ इह च प्रक्रमे सामायिकाध्ययन प्रस्तुतम् । तच्च क्षायोपशमिके भावे वर्तते । अत इह तस्यैव प्रशस्तक्षायोपशमिकभावस्य या प्रसूतिमहावीरात् तन्निर्गमरूपा, तयैव विशेषतोऽधिकृतमधिकारः । तथा, अप्रशस्तमिथ्यात्वादिविषयौदयिकभावस्य योऽपगमो विनाशस्तेनापि चाधिकारः, तदपगमाभावे प्रशस्तभावप्रसूतेरेवायोगादिति । शेषास्तु निर्गमभेदास्तदङ्गभावेन प्रशस्तभावनिर्गमकारणतयाऽऽनन्तर्येण पारम्पर्येण वा कोऽपि कथश्चिद् व्याप्रियत इतीह निर्दिष्टा इति ।। १५४४ ॥
रूपादयः पुतलात कपाय-ज्ञानादया जीवात् । निर्गच्छन्ति प्रभवन्ति ते वा तेभ्यसद्वियोगे ॥ १५४२॥ २ तत्र प्रशस्त मिथ्यात्वा-उज्ञाना-विरतिभावनिर्गमनम् । जीवस्य संभवन्ति च यत सम्पत्यादयस्ततः ॥ १५४३॥ ३ अन्नतु प्रशस्तभावप्रतिमा विशेषतोऽधिकृतम् । अप्रशस्तापगमोऽपिच शेषा अपि सदाभावात् ।। १५५४ ।।
॥६६२॥