SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६६१॥ Jain Education internati उवयारओ खेत्तस्स निग्गमो लोगनिक्खुडाणं च । लद्धं विनिग्गयं ति य जह खेत्तं राउलाउ ति ॥ १५३८ ॥ यथा द्रव्यस्यापि कचित् कल्पनया निर्गम उच्यते, न तु स्वरूपतः एवं क्षेत्रस्यापि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याक्रियत्वेन तदयोगात् । क्षेत्रात् पुनर्निर्गमोऽस्ति, यथाऽऽयुः क्षपादिसमय ऊर्ध्वा घोलोकादिक्षेत्राद् देव नारकद्रव्यादेर्निर्गमः । क्षेत्रेऽपि धान्यादेर्निर्गमो द्रष्टव्यः । न तु क्षेत्रस्य स्वरूपेण निर्गमः । किं सर्वथा नास्ति ? इत्याह- उपचारतः कल्पनामात्रेण क्षेत्रस्यापि निर्गमः समस्त्येव यथा लोकक्षेत्राद् निष्कुटा निर्गता इति तेषां स्वरूपेणावस्थितानां निर्गपक्रियाभावेऽपि निर्गता इव निर्गता इति निर्गमोपचारः । तथा, लब्धं विनिर्गतं क्षेत्रं राजकुलात्, निर्गतं भरतादिक्षेत्रं दुःपमादिकालाद् दुर्भिक्षा ऽशिवादेर्वेत्यादीति । १५३७।। १५३८ ।। कालनिर्गममाह कालो विदव्वधम्मो निक्किरिओ तस्स निग्गमो पभवो । तत्तो च्चिय दव्वाओ पभवइ काले व जं जम्मि॥। १५३९ ॥ उवयारओ व सरओ विणिग्गओ निग्गओ य तत्तोऽहं । अहवा दुक्कालाओ नरो व बालाइकालाओ || १५४० ॥ कालोsपि वर्तरूप द्रव्यधर्म एव । स च स्वरूपेण निष्क्रियः, द्रव्यद्वारेणैव तत्क्रियाप्रवृत्तेः । तस्य च तत एव स्वाश्रयभूताद् द्रव्याद् निर्गमः प्रभव उत्पत्तिः । यथा हरितादिकं यस्मिन् वर्षादिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति । अथवा, उपचा तोsपि कालनिर्गमो यथा- शरत्समयोऽसौ निर्गत आविर्भूतः, ततो वा शरत्कालाद् दुष्कालाद् वा निर्गतो निस्तीर्णोऽहम् वालायवस्थातो वा नरो निर्गत इत्याद्युपचारतः कालनिर्गम इतेि ।। १५३९ ।। १५४० ।। अथ भावनिर्गममाह— भावविव्धम्म तत्तो च्चिय तस्स निग्गमो पभवो । दव्यस्स व भावाओ विणिग्गमो भावओऽवगमो ॥१५४१ ॥ १ उपचारत: क्षेत्रस्य निगमों लोकनिष्कुटानां च लब्धं विनिर्गतमिति यथा क्षेत्र राजकुलादिति ॥ १५३८ ॥ २ कालोsपि धर्मो निष्क्रियस्तस्य निर्गमः प्रभवः । तत एव द्रव्यात् प्रभवति काले वा यद् यस्मिन् ॥ १५३९ ॥ उपचारतो वा शरद् विनिर्गता निर्गतश्च ततोऽहम् । अथवा दुष्कालाद् नर इव बालादिकालात् || १५४० ॥ ३ भावोऽपि द्रव्यधर्मस्तत एव तस्य निर्गमः प्रभवः । द्रव्यस्य वा भावाद् विनिर्गमो भावतोऽपगमः । १५४१ ।। For Personal and Private Use Only वृहद्वृत्तिः । ॥६६१॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy