SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६६०॥ Jain Educationa Internationa द्रव्याद् द्रव्यस्य वा निर्गमो द्रव्यनिर्गमः । स च सचित्तादिद्रव्य संबन्धित्वात् सचित्तादिस्त्रिविधः । तस्य च त्रिविधस्य सचित्तास्त्रिविधादेव सचितादेर्द्रव्यात् संभव उत्पादो ज्ञेय इति ।। १५३४ ॥ तथाहि- पैभवो सचित्ताओ भूमेरंकुर-पयंग-बफाई । किमि गब्भ-सोणियाई मीसाओ थीसरीराओ ॥ १५३५ ॥ किमि घुणघुणचुणाई दारुओ जं व निग्गयं जत्तो । दव्यं विगप्पवसओ जहसन्भावो वयारेहिं ॥ १५३६॥ सचित्ताद् भूमिद्रव्यात् सचित्तद्रव्यस्याङ्कुरस्य प्रभवो निर्गमो ज्ञातव्यः, मिश्रस्य तु पतद्रव्यस्य तस्य हि पक्षादिप्रदेशा अचित्ताः शेषं तु सचित्तमिति ः अचित्तस्य तु वाष्पद्रव्यस्य । तदेवं सचित्तात् सचित्तादेस्त्रिविधस्य निर्गम इत्युक्तम् । अथ मिश्रात् स्त्रीशरीरद्रव्यात् सचित्तद्रव्यस्य कृमेर्निर्गमो वेदितव्यः, मिश्रस्य तु गर्भद्रव्यस्य डिम्भरूपस्य तद्गतकेशादीनामचित्तत्वात्, शेषस्य तु सचित्तत्वाद् मिश्रता; अचित्तस्य तु शोणितद्रव्यस्य । मिश्रात् सचित्तादेर्निर्गम इत्यपि भावितम् । अचित्तद्रव्याद् दारुणः काष्ठात् सचित्तस्य कृमिद्रव्यस्य निर्गमः, मिश्रस्य तु घुणस्य, पतङ्गवदस्यापि मिश्रत्वात् अचित्तस्य तु घुणचूर्णस्य, घुणाकृष्टश्लक्ष्णतदवयवनिवहस्येत्यर्थः । अचित्तात् सचित्तादेर्निर्गम इत्यपि गतम् । तथा, 'जं वेत्यादि' यद् वा द्रव्यं यस्माद् द्रव्याद् विकल्पवशतो मानसकल्पनासमारोपाद् यथासद्भावेन सद्भूतप्रकारेण, उपचारेण वा निर्गतं, सोऽपि द्रव्याद् निर्गमो द्रव्यनिर्गम उच्यते । तत्र यथासद्भावेन विकल्पवशाद् यथा दुग्वादिद्रव्याद् घृतादिद्रव्यस्य निर्गमः । अत्र हि भूमेः संमूच्छेजचटकन्यायेन दुग्धाद् घृतादिनिर्गमो न दृश्यत इति 'विकल्पवशतः' इत्युच्यते, दुग्धस्य च घृतादिभावेन परिणामिकारणता समीक्ष्यते, इत्येतावता 'यथासद्भावेन' इत्यभिधीयते । उपचारेण तु रूपकादेर्द्रव्याद् भोजनादेर्निंगम इत्यादि सर्वे यथासंभवमन्यदपि स्वबुद्ध्याऽभ्यू वक्तव्यमिति ।। १५३५ ।। १५३६ ।। क्षेत्रनिर्गममाह खेत्तस्स विनिग्गमणं सरूवओ नत्थि तं जमक्किरियं । खेत्ताओ खेत्तम्मि वि हवेज दव्वाइनिग्गमणं ॥ १५३७ ॥ १ प्रभवः सचित्ताद् भूमेरङ्कुर - पतङ्ग बाष्पादयः कृमि-गर्भ-शोणितादयो मिश्रात् स्त्रीशरीरात् ॥ १५३५ ॥ कृमि घुणघुणचूर्णादयो दारुणो यद्वा निर्गतं यतः । द्रव्यं विकल्पवशतो यथासद्भावोपचाराभ्याम् ॥ १५३६ ॥ २ क्षेत्रस्य विनिर्गमनं स्वरूपतो नास्ति तद् यदक्रियम् । क्षेत्रात् क्षेत्रेऽपि भवेद् द्रव्यादिनिर्गमनम् ।। १५६७ ॥ For Personal and Private Use Only बृहद्वतिः । ||६६०॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy