________________
विशेषा०
।।६५९॥
Jain Education Internal
तदेवमुद्देशेनोद्दिष्टस्य, निर्देशेन च निर्दिष्टस्य प्रस्तुत सामायिकाध्ययनस्येदानीं प्रसूतिरुत्पत्तिर्वक्तव्या । सा च द्रव्य क्षेत्र कालभावैः करणभूतैर्भणनीया । एतदेव दर्शयति- 'किं तमित्यादि' किं नाम तज्जीवद्रव्यम्, 'जउ ति ' यत इदमेवंभूतं सामायिकाध्ययनं प्रस्तुतम् ? इति तावद् वक्तव्यम् । 'जह व त्ति' यथा वा तेन केनापि श्रीमन्महावीरलक्षणेन जीवद्रव्येण क्षायिकभाववृत्तिनैतत् सामायिकं प्ररूपितं तथा वक्तव्यम् । तथा, 'खेत्ते इत्यादि' कस्मिन् क्षेत्रे, क वा काले भगवता प्रथमतः सामायिकाध्ययनं प्ररूपितम् ? इति वाच्यम् । तथा भावतो भावे प्रष्टव्यतया प्रकृते कोऽसौ पुरुषविशेषो जीवो येनेदं सामायिकमभिहितम् ? इति भणनीयम् । इह च'देव्वा - भिलाव- विंधे वे धम्म-त्थ भोग- भावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ १ ॥'
इति वक्ष्यमाणगाथायां द्रव्यादिभेदैरनेकधा पुरुषसंभवमुपदर्श्य भावे भावनिर्गमे विचार्ये भावपुरुषो जीव इति वक्ष्यते । earsoft 'भावपुरुषविशेषो जीवः' इत्युक्तम् । तदेवमत्र क्षेत्र-काल- पुरुषविशेषलक्षणत्रिकमनन्तरवक्ष्यमाणं निर्गमभेद एवं द्रष्टव्यम्, यस्मात् षड्विधोऽसौ निर्गमः । तस्य च निर्गमभेदपदकस्य मध्ये क्षेत्र कालौ साक्षादेव पठ्येते, भावनिर्गमे च पुरुषविशेषो rai क्ष्यते, इत्येवं क्षेत्रादित्रिकं निर्गमभेदः । अत्राह - ननु द्रव्यमपि निर्गमभेद एव तस्यापि तत्राभिधास्यमानत्वात् तत्कथं क्षेत्रादित्रिकमेव तद्भेदत्वेनोच्यते । सत्यम्, किन्तु पुरुषविशेषग्रहणेनैव तद्ग्रहणं मन्यत इत्यदोषः । इत्यलं प्रसङ्गेन ।। इति सप्तविंशतिगाथार्थः || १५३१ ।। १५३२ ।।
कथं पुनर्निर्गमः षड्विधः ? इत्याह
नामं ठवणा दत्रिए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्स निक्खेवो छव्त्रिहो होइ ॥ १५३३ ॥ नाम-स्थापनानिर्गमौ नामावश्यकायुक्तानुसारेण भावनीयौ । द्रव्याद् द्रव्यस्य वा निर्गमः, क्षेत्रात् क्षेत्रस्य वा, कालात् कालस्य वा, भावाद् भावस्य वा निर्गम इत्यादि वाच्यम् ।। इति नियुक्तिगाथासंक्षेपार्थः ।। १५३३ ।।
विस्तरार्थं तु भाष्यकारः माह
दैवाओ दव्वरस व विणिग्गमो दव्वनिग्गमो सो य। तिविहो सचित्ताई तिविहाओ संभवो नेओ ॥ १५३४ ॥
१ व्या ऽभिलाप चिह्नानि वेदो धर्माऽर्थ भोग-भावाश्च । भावपुरुषस्तु जीवो भावे प्रकृतं तु भावेन ॥ १ ॥
२ नाम स्थापना नव्ये क्षेत्रे काले तथैव भावे च एष तु निर्गमस्य निक्षेपः पद्विधो भवति ॥ १५३३ ॥
३ या द्रव्यस्य वा विनिर्गमो द्रव्यनिर्गमः स च । त्रिविधः सचितादिस्त्रिविधात् संभवो ज्ञेयः ।। १५३४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। ६५९॥
www.jamneibrary.org