SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विशेषा ईय सव्वनयमयाइं परित्तविसयाई, समुदियाइं तु । जइणं बज्झ-भंतरनिदेसनिमित्तसंगाहि ॥१५३०॥ इत्येवमुक्तप्रकारेण सर्वाण्यपि नैगमादिनयमतानि परीत्तविषयाण्यन्योन्यनिरपेक्षतयैकैकांशग्राहीणि, अतो मिथ्यारूपत्वात् बृहद्वृत्तिः । तान्यप्रमाणमिति भावः । समुदितानि पुनस्तान्येवान्योन्यसापेक्षतया संपूर्णवस्तुग्राहित्वाजनं मतं भवति । कथंभूतं यज्जैन मतम् ? ॥६५८॥ इत्याह- 'बज्झेत्यादि' बाह्या-ऽभ्यन्तराणि निर्देशस्य वचनस्य शब्दस्य निमित्तानि संग्रहीतुमभ्युपगन्तुं शीलं यस्य तद् बाह्या-5ऽभ्य न्तरनिर्देशनिमित्तसंग्राहि । तत्र बाद्यान्यभिधेयघट-पट-शकटादीनि, आभ्यन्तराणि तु स्वरनामकर्मोदय-तावादि-करण-प्रयत्नादीनि ER निर्देशस्य निमित्तानि द्रष्टव्यानि । समस्ततत्सामग्रीजन्यनिर्देशाभ्युपगमपरत्वेन सम्यग्रूपत्वाज्जैन मतं प्रमाणमितीह भावार्थः । आह- बाह्यो घटादिरर्थः शब्दस्य कथं निमित्तम् , संबन्धाभावात् । तदयुक्तम् , शब्दा-ऽर्थयोर्वाच्य-वाचकसंबन्धस्य विद्यमानत्वात् । यद्यर्थस्य शब्दो वाचकः, तहगृहीतसङ्केतस्यापि म्लेच्छादेरसावर्थ प्रतिपादयेदिति चेन् । नैवम् , कर्मक्षयोपशमस| व्यपेक्षस्यैव तस्य तत्पतिपादकत्वात् , क्षयोपशमस्य च संकेतादिसापेक्षत्वात् । न हि प्रदीपः प्रकाशक इत्येतावन्मात्रेणैवान्यादीनामप्यर्थे । प्रकाशयति । ननु यदि क्षयोपशमापेक्षः शब्दोऽर्थ प्रकाशयति, तर्हि संकेतकरणऽपि तदप्रकाशनप्रसङ्गः, न चैतदस्ति, गृहीतसंकेतानामविगानेनार्थप्रतिपत्तिदर्शनात् , ततः किमन्तर्गडुकल्पक्षयोपशमकल्पनेन ? । तदयुक्तम् , तथाहि- केषांचिज्जडमतीनां शास्त्रव्याख्यानादौ विषमपदवाक्येषु विशिष्टक्षयोपशमाभावात् संकेतोऽपि कर्तुं न शक्यते, अन्ये तु तत्करणेऽपि नार्थ प्रतिपद्यन्ते । यदपि केवांचिदपूर्वम्लेच्छभाषादिश्रवणेऽकृतसंकेतानामपि झगित्येव कथमप्यर्थप्रतिपत्तिदृश्यते, तत्रापि क्षयोपशमस्यैवातिपटुत्वं हेतुः । तस्मात् कर्मक्षयोपशमादिसामग्रीसव्यपेक्षः शब्दो वाचकः, अर्थस्तु वाच्यः, इति शब्दार्थयोर्वाच्यवाचकभावलक्षणः संबन्ध इति । तदेवं व्याख्याता 'दुविहं पि नेगमनओ' इत्यादिगाथा, तयाख्याने च व्याख्यातमुपोद्घातनियुक्तिद्वारगाथाद्वयस्य द्वितीयं द्वारम् ॥१५३०॥ अथ तृतीयं निर्गमद्वारमभिधित्सुस्तत्प्रतिपादकगाथायाः प्रस्तावनामाह-- निविट्ठस्स पसूई सा दव्व-खेत्त-काल-भावहिं । किं तं च जीवदव्वं पसूर्यमेयं जओ जह वा ॥ १५३१ ॥ खेत्ते कम्मि व काले पुरिसविसेसो व भावओ को सो । खेत्ताइतिगं निग्गमभेउ च्चिय छबिहो जं सो॥१५३२॥ इति सर्वनयमतानि परीतविषयाणि, समुदितानि तु । जैन बाह्या-ऽऽभ्यन्तरनिर्देशनिमित्तसंग्राहि ॥ १५३० ॥ २ गाथा १५.५। ३ निर्दिष्टस्य प्रसूतिः सा दप क्षेत्र काल-भावः । किं तच जीवद्रव्यं प्रसूसमेतद् यतो यथा वा ॥१५३१॥ ACA६५८॥ क्षेत्रे कस्मिन् वा काले पुरुषविशेषो वा भावतः कः सः । क्षेत्रादिनिक निगममेद एवं पविधो यत् सः ॥१५३२॥ ४ ज. 'मवंज'। For and P ony
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy